अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् ॥
अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विज॑म् । होता॑रम् । र॒त्न॒ऽधात॑मम् ॥
अग्निनामकं देवम् ईळे स्तौमि। ‘ईड स्तुतौ' इति धातुः। डकारस्य ळकारो बह्वृचाध्येतृसंप्रदायप्राप्तः। तथा च पठ्यते-- अज्मध्यस्थडकारस्य ळकारं बह्वृचा जगुः । अज्मध्यस्थढकारस्य ळ्हकारं वै यथाक्रमम्' इति ॥ मन्त्रस्य होत्रा प्रयोज्यत्वादहं होता स्तौमीति लभ्यते । कीदृशमग्निम्। यज्ञस्य पुरोहितम्। यथा राज्ञः पुरोहितस्तदभीष्टं संपादयति, तथाग्निरपि यज्ञस्यापेक्षितं होमं संपादयति । यद्वा। यज्ञस्य संबन्धिनि पूर्वभागे आहवनीयरूपेणावस्थितम्। पुनः कीदृशम् । देवं दानादिगुणयुक्तम् । पुनः कीदृशम्। होतारम् ऋत्विजम् । देवानां यज्ञेषु होतृनामक ऋत्विगग्निरेव । तथा च श्रूयते- अग्निर्वै देवानां होता' ऐ. ब्रा. ३. १४ ) इति । पुनरपि कीदृशम् । रत्नधातमं यागफलरूपाणां रत्नानामतिशयेन धारयितारं पोषयितारं वा । अत्राग्निशब्दस्य यास्को बहुधा निर्वचनं दर्शयति--‘अथातोऽनुक्रमिष्यामोऽग्निः पृथिवीस्थानस्तं प्रथमं व्याख्यास्यामोऽग्निः कस्मादग्रणीर्भवत्यग्रं यज्ञेषु प्रणीयतेऽङ्गं नयति संनममानोऽक्नोपनो भवतीति स्थौलाष्ठीविर्न क्नोपयति न स्नेहयति त्रिभ्य आख्यातेभ्यो जायत इति शाकपूणिरितादक्ताद्दग्धाद्वा नीतात्स खल्वेतेरकारमादत्ते गकारमनक्तेर्वा दहतेर्वा नीः परस्तस्यैषा भवत्यग्निमीळे' ( निरु. ७, १४ ) इति । अस्यायमर्थः । सामान्येन सर्वदेवतानां लक्षणस्याभिहितत्वादनन्तरं यतः प्रतिपदं विशेषेण वक्तव्यत्वमाकाङ्क्षितम् अतोऽनुक्रमेण वक्ष्यामः । तत्र पृथिवीलोके स्थितोऽग्निः प्रथमं व्याख्यास्यते । कस्मात् प्रवृत्तिनिमित्तादग्निशब्देन देवताभिधीयत इति प्रश्नस्य ' अग्रणीः' इत्यादिकमुत्तरम् । देवसेनामग्रे स्वयं नयतीत्यग्रणीः । एतदेकमग्निशब्दस्य प्रवृत्तिनिमित्तम् । तथा च ब्राह्मणान्तरम्- अग्निर्देवानां सेनानीः' इति । एतदेवाभिप्रेत्य बह्वृचा मन्त्रब्राह्मणे आमनन्ति- अग्निर्मुखं प्रथमो देवतानाम् ' ( ऐ. ब्रा. १. ४ ) इति मन्त्रः । ‘अग्निर्वै देवानामवमः' ( ऐ. ब्रा. १, १ ) इति ब्राह्मणम् । तथा तैत्तिरीयाश्चामनन्ति- अग्निरग्रे प्रथम देवतानाम् ' ( तै. ब्रा. २. ४. ३. ३) इति । ‘अग्निरवमो देवतानाम् ' इति च । वाजसनेयिनस्वेा मामनन्ति- स वा एषोऽग्रे देवतानामजायत तस्मादग्निर्नाम' इति । यज्ञेषु अग्निहोत्रेष्टिपशुसोमरूपेषु अग्रं पूर्वदिग्वर्त्याहवनीयदेशं प्रति गार्हपत्यात् प्रणीयते इति द्वितीयं प्रवृत्तिनिमित्तम् । संनममानः सम्यक् स्वयमेव प्रह्वीभवन् अङ्गं स्वकीयं शरीरं नयति काष्ठदाहे हविष्पाके च प्रेरयतीति तृतीयं प्रवृत्तिनिमित्तम् । स्थूलाष्ठीवनामकस्य महर्षेः पुत्रो निरुक्तकारः कश्चित् “ अक्नोपनः' इति अग्निशब्दं निर्वक्ति । तत्र न क्नोपयतीत्युक्ते न स्नेहयति, किंतु काष्ठादिकं रूक्षयतीत्युक्तं भवति । शाकपूणिनामको निरुक्तकारो धातुत्रयादग्निशब्दनिष्पतिं मन्यते । इतः ‘इण् गतौ ' इति धातुः । अक्तः ‘अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु ' इति धातुः । दग्धः ‘दह भस्मीकरणे ' इति धातुः । नीतः ‘णीम् प्रापणे ' इति धातुः । अग्निशब्दो हि अकारगकारनिशब्दानपेक्षमाणः एतिधातोरुत्पन्नात् अयनशब्दात् अकारमादत्ते । अनक्तिधातुगतस्य ककारस्य गकारादेशं कृत्वा तमादत्ते । यद्वा । दहतिधातुजन्यात् दग्धशब्दात् गकारमादत्ते । नीः इति नयति धातुः । स च ह्रस्वो भूत्वा परो भवति । ततो धातुत्रयं मिलित्वा अग्निशब्दो भवति । यज्ञभूमिं गत्वा स्वकीयमङ्गं नयति काष्ठदाहे हविष्पाके च प्रेरयतीति समुदायार्थः । तस्य अग्निशब्दार्थस्य देवताविशेषस्य प्राधान्येन स्तुतिप्रदर्शनायैषा • अग्निमीळे इति ऋक् भवतीति । तामेतां ऋचं यास्क एवं व्याख्यातवान्---- अग्निमीळेऽग्निं याचामीळिरध्येषणाकर्मा पूजाकर्मा वा पुरोहितो व्याख्यातो यज्ञस्य देवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा यो देवः सा देवता होतारं ह्वातारं जुहोतेर्होतेत्यौर्णवाभो रत्नधातमं रमणीयानां धनानां दातृतमम् । (निरु. ७. १५) इति । अस्यायमर्थः--ईडतिधातोः स्तुत्यर्थत्वं प्रसिद्धम् । धातूनामनेकार्थत्वमिति न्यायमाश्रित्य याञ्चाध्येषणापूजाः अप्यत्रोचितत्वात् तदर्थतया व्याख्याताः । पुरोहितशब्दो द्वितीयेऽध्याये ‘यद्देवापिः शंतनवे पुरोहितः इत्येतां ऋचमुदाहृत्य ‘पुर एनं दधति' (निरु. २. १२) इति व्याख्यातः । तैत्तिरीयाश्च पौरोहित्ये स्पर्धमानस्य पश्वनुष्ठानं विधाय तत्फलत्वेन ‘पुर एनं दधते' (ते. सं. २. १. २. ९ ) इत्यामनन्ति । देवशब्दो दानदीपनद्योतनानामन्यतममर्थमाचष्टे । यज्ञस्य दाता दीपयिता द्योतयितायमग्निरित्युक्तं भवति । दीपनद्योतनयोरेकार्थत्वेऽप्यस्ति धातुभेदः । यद्यप्यग्निः पृथिवीस्थानस्तथापि देवान् प्रति हविर्वहनात द्युस्थानो भवति । देवशब्ददेवताशब्दयोः पर्यायत्वान्मन्त्रप्रतिपाद्या काचिदग्निव्यतिरिक्ता देवता नान्वेषणीया । होतृशब्दस्य ह्वयतिधातोरुत्पन्नत्वेन देवानामाह्वातारमिति । और्णवाभनामकस्तु मुनिः जुहोतिधातोरुत्पन्नो होतृशब्द इति मन्यते । अग्नेश्च होतृत्वं होमाधिकरणत्वेन द्रष्टव्यम् । रत्नशब्दो द्वितीयाध्याये ‘मघम्' इत्यादिष्वष्टाविंशतौ धननामसु (नि.२. १०.७) पठितः । रमणीयत्वात् रत्नत्वम् । दधातिधातुरत्र दानार्थवाचीति । तदिदं निरुक्तकारस्य यास्कस्य मन्त्रव्याख्यानम् ॥ अथ व्याकरणप्रक्रियोच्यते । अगिधातोर्गत्यर्थात् ' अङ्गेर्नलोपश्च' ( उ. सू. ४. ४९० ) इति औणादिकसूत्रेण निप्रत्ययः । इदित्वान्नुमागमेन प्राप्तस्य नकारस्य ( पा. सू. ७. १. ५८ ) लोपश्च भवति । अङ्गति स्वर्गे गच्छति हविर्नेतुमित्यग्निः । तत्र ' धातोः ' ( पा. सू. ६. १. १६२) इति अकार उदात्तः । ' आद्युदात्तश्च ' ( पा. सू. ३. १. ३) इति प्रत्ययगत इकारोऽप्युदात्तः । ‘अनुदात्तं पदमेकवर्जम् ' (पा. सू. ६. १, १५८) इति द्वयोरन्यतरमुदात्तमवशेष्येतरस्यानुदात्तत्वं प्राप्तम् । तत्र धातुस्वरे प्रथमतोऽवस्थिते सति पश्चादुपदिश्यमानः प्रत्ययस्वरोऽवशिष्यते । 'सति शिष्टस्वरो बलीयान्' (पा. सू. ६. १. १५८.९) इति हि न्यायः । ततोऽन्तोदात्तमग्निप्रातिपदिकम् । ‘अनुदात्तौ सुप्पितौ ' ( पा. सू. ३. १. ४ ) इति अम् इत्येतत् द्वितीयैकवचनमनुदात्तम् । तस्य ‘अमि पूर्वः ' (पा. सू. ६. १. १०७ ) इति यत् पूर्वरूपं तदुदात्तम् “ एकादेश उदात्तेनोदात्तः ' (पा. सू. ८. २. ५ ) इति सूत्रितत्वात् । अग्निशब्दो धातुजन्मेति मते सेयं प्रक्रिया सर्वापि द्रष्टव्या । मतद्वयं यास्केन प्रदर्शितं--- ‘नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च न सर्वाणीति गार्ग्यो वैयाकरणानां चैके' (निरु. १. १२ ) इति । गार्ग्यस्य मतेऽग्निशब्दस्याखण्डप्रातिपदिकत्वात् ' फिषोऽन्त उदात्तः ' ( फि. सू. १ ) इत्यन्तोदात्तत्वम् । पूर्वोक्तेष्वग्रणीरित्यादिनिर्वचनेषु प्रकृतिप्रत्ययाद्यशेषप्रक्रिया यथोचितं कल्पनीया । एतदेवाभिप्रेत्य यास्क आह--' अथ निर्वचनं तद्येषु पदेषु स्वरसंस्कारौ समर्थौ प्रादेशिकेन गुणेनान्वितौ स्यातां तथा तानि निर्ब्रूयादथानन्वितेऽर्थेऽप्रादेशिके विकारेऽर्थनित्यः परीक्षेत केनचिद्वृत्तिसामान्येनाविद्यमाने सामान्येऽप्यक्षरवर्णसामान्यान्निर्ब्रूयान्नत्वेव न निर्ब्रूयात् ' (निरु. २. १) इति । अस्यायमर्थः-तत्तत्र निर्वचनीयपदसमूहमध्ये येष्वग्न्यादिपदेषु पूर्वोक्तरीत्या स्वरसंस्कारौ समर्थौ व्याकरणसिद्धौ स्याताम् । स्वर उदात्तादिः । संस्कारो निप्रत्ययादिः । किंच तौ स्वरसंस्कारी प्रादेशिकेन गुणेनान्वितौ स्याताम् । शब्दस्यैकदेशः पूर्वोक्तोऽगिधातुः प्रदेशः । तत्र भवो गुणो गतिरूपोऽर्थः । तेनान्वितौ। तान्यग्न्यादिपदानि तथा व्याकरणानुसारेण निर्ब्रूयात् । तच्च निर्वचनमस्माभिः प्रदर्शितम् । अथ पूर्वोक्त वैलक्ष्ण्येन कश्चित् स्वेन विवक्षितोऽर्थो नान्वितः तस्मिन् शब्देऽनुगतो न भवेत् । तस्यैव व्याख्यानम् ‘अप्रादेशिके विकारे ' इति । अग्रनयनादिरूपः क्रियाविशेषो विकारः । स च प्रदेशेनाग्निशब्दैकदेशेनात्र नाभिधीयते इत्यप्रादेशिकः । एवं सति यः पुमानर्थनित्यः स्वविवक्षितेऽर्थे नियतो निर्बन्धवान् । ब्राह्मणनुसारेण वा देवतान्तरविशेषणत्वेन योजयितुं वा स निर्बन्धः । तदानीं स पुमान् केनचित् वृत्तिसामान्येन स्वविवक्षितमर्थं परीक्षेत, तस्मिन् शब्दे योजयेत् । वृत्तिः क्रिया । तद्रूपेण सामान्यं सादृश्यम् । अस्माभिश्च अग्रनयनादिरूपं क्रियात्वसामान्यमुपजीव्य अग्रणीत्वाद्यर्थो योजितः । तदिदं यास्काभिमतं निर्वचनम् । स्थौलाष्ठीवि: अक्षरसाम्यान्निर्वक्ति। अक्नोपनशब्दस्यादौ निषेधार्थम् अकाररूपमक्षरं विद्यते । अग्निशब्दस्याप्यादौ अकारोऽस्ति । तदिदमक्षरसाम्यम् । शाकपूणिस्तु वर्णसाम्यान्निर्ब्रूते-दग्धशब्दाग्निशब्दयोर्गकारवर्णेन साम्यम् । सर्वथापि निर्वचनं न त्याज्यमिति । ईळे इत्येतत्पदं कृत्न्-मप्यनुदात्तम् । ( पा. सू .८, १. २८) इति अतिङन्तादग्निशब्दात् परस्य ईळे इत्यस्य तिङन्तस्य निघातविधानात् । पदद्वयसंहिताकाले तु ईकारस्य धातुगतस्य ‘उदात्तादनुदात्तस्य स्वरितः' (पा. सू. ८, ४, ६६ ) इति स्वरितत्वम् । तस्मात् ऊर्ध्वभाविन एकरस्य तिङ्प्रत्ययरूपस्य ‘स्वरितात्संहितायामनुदात्तानाम्' (पा.सू.१. २.३९) इति ऐकश्रुत्यं प्रचयनामकं भवति । पुरःशब्दोऽन्तोदात्तः । अयं पुरो भुवः' (तै. सं.४.३.२. १) इत्यत्र तथैवाम्नातत्वात् । पूर्वाधरावराणामसि पुरधवश्चैषाम् ' (पा. सू. ५, ३. ३९) इति पूर्वशब्दात् अस्प्रत्ययः पुरादेशश्च । ततोऽत्र प्रत्ययस्वरः (पा. सू. ३. १. ३ ) । धाञो निष्ठायां दधातेर्हिः' (पा. सू. ७. ४. ४२) इत्यादेशे सति प्रत्ययस्वरेणान्तोदात्तो हितशब्दः । तत्र समासान्तोदात्तत्वे (पा. सू. ६. १. २२३ ) प्राप्ते तदपवादत्वेन ‘तत्पुरुषे तुल्यार्थ' ( पा. सू. ६, २. २ ) इत्यादिना अव्ययपूर्वप्रदप्रकृतिस्वरत्वम् । यद्वा । ‘पुरोऽव्ययम् ' ( पा. सू. १. ४. ६७ ) इति गतिसंज्ञायां गतिरनन्तर: ' ( पा. सू. ६. २. ४९ ) इति पूर्वपदप्रकृतिस्वरत्वम् । तत ओकार उदात्तः। अवशिष्टानामनुदात्तस्वरितप्रचयाः पूर्ववत् द्रष्टव्याः । आद्याक्षरस्य संहितायां प्रचयप्राप्तौ ( पा. सू. १. २. ३९) उदात्तस्वरितपरस्य सन्नतरः' (पा. सू. १. २. ४०) इत्यतिनीचोऽनुदात्तः । ‘यजयाच°' (पा. सू. ३. ३. ९०) इत्यादिना यजतेः नङ्प्रत्यये सति अन्तोदात्तो यज्ञशब्दः । विभक्तेः सुप्स्वरेणानुदात्तत्वे सति (पा. सू. ३. १. ४) पश्चात् स्वरितत्वम् । देवशब्दः पचाद्यजन्तः ( पा. सू. ३. १. १३४ ) । स च फिट्स्वरेण (फि. सू. १ ) प्रत्ययस्वरेण (पा. सू. ३. १. ३) चित्स्वरेण (पा. सू. ६. १. १६३) वा अन्तोदात्तः । ऋत्विक्शब्दः ‘ऋतौ यजति' इति विग्रहे सति ‘ऋत्विग्दधृक्' (पा. सू. ३. २, ५९ ) इति निपातितः । ‘गतिकारकोपपदात्कृत् ' ( पा. सू. ६. २. १३९ ) इति कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । विभक्तिस्वरः पूर्ववत् । होतृशब्दस्तृन्प्रत्ययान्तः (पा. सू. ३. २. १३५)। नित्स्वरेणादाद्युदात्तः ( पा. सू. ६. १. १९७ )। स्वरितप्रचयौ पूर्ववत् । रत्नशब्दो ‘ नब्विषयस्यानिसन्तस्य ' ( फि. सू. २६) इत्याद्युदात्तः । तथा चाम्नायते-- रत्नं धाता' इति । रत्नानि दधातीति विग्रहः । समासत्वादन्तोदात्तो रत्नधाशब्दः । यद्वा कृदुत्तरपदप्रकृतिस्वरः । तमप्प्रत्ययस्य ( पा. सू. ५. ३. ५५ ) पित्स्वरेणानुदात्ते सति (पा. सू. ३. १. ४ ) स्वरितप्रचयौ । संहितायामाद्याक्षरस्य प्रचयो द्वितीयाक्षरस्य सन्नतरत्वम्। 'वेदावतार अद्याया ऋचोऽर्थश्च प्रपञ्चितः । विज्ञातं वेदगाम्भीर्यमथ संक्षिप्य वर्ण्यते ॥
“I glorify Agni, the high priest of the sacrifice, the divine, the ministrant, who presents the oblation (to the gods), and is the possessor of great wealth.”
I Laud Agni, the chosen Priest, God, minister of sacrifice,
The hotar, lavishest of wealth.
I magnify Agni, the Purohita, the divine ministrant of the sacrifice, the Hotri priest, the greatest bestower of treasures.
Agni I praise, the household priest, God, minister of sacrifice, Invoker, best bestowing wealth.
Agni do I invoke—the one placed to the fore, god and priest of the sacrifice,
the Hotar, most richly conferring treasure.
Den Priester Agni preise ich, der nach der Ordnung Opfer bringt, Den Gott, den schatzverleihendsten,
Agni berufe ich als Bevollmächtigten, als Gott-Priester des Opfers, als Hotr, der am meisten Lohn einbringt.
Агни призываю я – во главе поставленного
Бога жертвы (и) жреца,
Хотара обильнейшесокровищного.
अ॒ग्निः पूर्वे॑भि॒ॠषि॑भि॒रीड्यो॒ नूत॑नैरु॒त । स दे॒वाँ एह व॑क्षति ॥
अ॒ग्निः । पूर्वे॑भिः । ऋषि॑ऽभिः । ईड्यः॑ । नूत॑नैः । उ॒त । सः । दे॒वान् । आ । इ॒ह । व॒क्ष॒ति॒ ॥
अयम् अग्निः पूर्वेभिः पुरातनैर्भृग्वङ्गिरःप्रभृतिभिः ऋषिभिः ईड्यः स्तुत्यः, नूतनै: उत इदानींतनैरस्माभिरपि स्तुत्यः। सः अग्निः स्तुतः सन् इह यज्ञे देवान् हविर्भुजः आ वक्षति । वह प्रापणे इति धातुः । आवहतु इत्यर्थः॥ पूर्वेभिरित्यत्र ‘बहुलं छन्दसि ' ( पा. सू. ७. १. १०) इति भिस ऐसादेशाभावः । पूर्व पर्व अर्व पूरणे' इति धातुः । पूर्वतिधातोः अन्प्रत्यय औणादिकः । इन्प्रत्ययान्त ऋषिशब्दः ' ऋष्यन्धक°' ( पा. सू. ४. १. ११४) इति निपातनात् लघूपधगुणाभावः ( पा. सू. ७० ३. ८६ )। कित्प्रत्ययो वात्र ज्ञेयः (उ. सू. ४. ५५९) । तौ शब्दौ नित्स्वरेणाद्युदात्तौ । ईड्यशब्दस्य ण्यत्प्रत्ययान्तत्वात् ( पा. सू. ३. १. १२४ ) तित्स्वरितम्' (पा. सू. ६. १. १८५) इति स्वरिते शेषानुदात्तत्वे च प्राप्ते तदपवादत्वेन ‘ईडवन्द° ' (पा. सू. ६. १. २१४ ) इत्यादिनाद्युदात्तत्वम् । ‘नवस्य नू त्नप्तनखाश्च ' ( पा. सू ५. ४. ३०. ६) इति वार्तिकेन नवशब्दस्य नू इत्यादेशः तनन्प्रत्ययश्च महावार्तिके विहितः । ततो नित्स्वरेणाद्युदात्तः । अवशिष्टस्वरा अग्न्यादिषु नूतनान्तेषु पूर्ववदुन्नेयाः । उतशब्दो यद्यपि विकल्पार्थे प्रसिद्धस्तथापि निपातत्वेनानेकार्थत्वादौचित्येनात्र समुच्चयार्थों द्रष्टव्यः ।' उच्चावचेष्वर्थेषु निपतन्ति' इति निपातत्वम् । तर्हि ‘ निपाता आद्युदात्ताः ' ( फि. सू. ८०) इत्युकारस्योदात्तः प्राप्त इति चेत्, न । प्रातःशब्दवदन्तोदात्तत्वात् । यथा प्रातःशब्दोऽन्तोदात्तत्वेनैव स्वरादिषु ( पा. सू. १. १. ३७ ) पठितः, एवमुतशब्दस्यापि पाठो द्रष्टव्यः, स्वरादेराकृतिगणत्वात् । यद्वा ‘एवादीनामन्तः ' (फि. सू. ८२ ) इत्यन्तोदात्तः । स इत्यत्र फिट्स्वरः । देवशब्दः पूर्ववत् । देवान् इत्यस्य नकारस्य संहितायां दीर्घादटि' ( पा. सू. ८. ३.९ ) इति रुत्वम् । अत्रानुनासिकः ' (पा. सू. ८. ३. २) इत्यनुवृत्तौ ‘आतोऽटि नित्यम्' ( पा. सू. ८. ३. ३) इत्याकारः सानुनासिकः। ‘भोभगो' ( पा. सू. ८. ३. १७ ) इति रोर्यकारः । स च ‘लोपः शाकल्यस्य ' ( पा. सू. ८. ३. १९ ) इति लुप्यते । तस्यासिद्धत्वात् ( पा. स. ८. २. १ ) न पुनः संधिकार्यम् । आङो निपातत्वादाद्युदात्तत्वम् । इदमो हप्रत्यये सति निष्पन्नत्वात् ( पा, सू. ५. ३. ११ ) इहशब्दे प्रत्ययस्वरः । वहति धातोर्लोडर्थे छान्दसो लृट् । तस्य स्यप्रत्ययगतस्य यकारस्य लोपोऽपि छान्दसः । यद्वा । लेटि ‘सिब्बहुलम् ' ( पा. सू. ३. १. ३४ ) इति सिप्प्रत्ययः । ‘लेटोऽडाटौ ' ( पा. सू. ३. ४.९४ ) इयडागमश्च । ततो वक्षतीति संपद्यते । तस्यै तिङन्तत्वान्निघातः । संहितास्वराः पूर्ववत् ॥
“May that Agni who is to be celebrated by both ancient and modern sages conduct the gods hither.”
Worthy is Agni to be praised by living as by ancient seers.
He shall bring. hitherward the Gods.
Agni, worthy to be magnified by the ancient Rishis and by the present ones — may he conduct the gods hither.
Agni is worthy to be praised, By present as by seers of old: May he to us conduct the gods.
Agni, to be invoked by ancient sages and by the present ones—
he will carry the gods here to this place.
Der von der alten Sängerschar, von neuen auch zu preisen ist, Die Götter fahr uns Agni her.
Agni war von den früheren Rishis und ist von den jüngsten zu berufen; er möge die Götter hierher fahren.
Агни достоин призываний риши –
Как прежних, так и нынешних:
Да привезет он сюда богов!
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे । य॒शसं॑ वी॒रव॑त्तमम् ॥
अ॒ग्निना॑ । र॒यिम् । अ॒श्न॒व॒त् । पोष॑म् । ए॒व । दि॒वेऽदि॑वे । य॒शस॑म् । वी॒रव॑त्ऽतमम् ॥
योऽयं होत्रा स्तुत्योऽग्निस्तेन अग्निना निमित्तभूतेन यजमानः रयिं धनम् अश्नवत् प्राप्नोति । कीदृशं रयिम्।“दिवेदिवे पोषम् एवं प्रतिदिनं पुष्यमाणतया वर्धमानमेव, न तु कदाचिदपि क्षीयमाणम् । यशसं दानादिना यशोयुक्तं वीरवत्तमम् अतिशयेन पुत्रभृत्यादिवीरपुरुषोपेतम् । सति हि धने पुरुषाः संपद्यन्ते । रयिशब्दो ‘मघम्' इत्यादिधननामसु (नि. २.१०.८) पठितः । तत्र फिट्स्वरः। अश्नोतेर्धातोर्लेटि व्यत्ययेन तिप् । ' इतश्च लोपः' (पा. सू. ३. ४. ९७ ) इति इकारलोपः। 'लेटोऽडाटौ' (पा. सू. ३. ४. ९४ ) इत्यडागमः । ततः ‘अश्नवत्' इति भवति । तस्य निघातः। घञन्तत्वात् ( पा. सू. ६. १. १९७ ) पोषशब्द आद्युदात्तः । एवशब्दस्य निपातत्वेऽपि ‘एवादीनामन्तः ' (फि. सू. ८२ ) इत्यन्तोदात्तत्वम् । वकारान्तात् दिव्शब्दात् परस्याः सप्तम्याः ‘सुपां सुलुक्° ' ( पा. सू. ७. १. ३९ ) इत्यादिना शेभावे सति सावेकाचः' ( पा. सू. ६. १. १६८ ) इत्यादिना ‘ऊडिदंपदात् ' ( पा, सू. ६. १. १७१ ) इत्यादिना वा तस्योदात्तत्वम्। नित्यवीप्सयोः' ( पा. सू. ८. १. ४) इति द्विर्भावे सति उत्तरभागस्य ' अनुदात्तं च ' ( पा. सू. ८, १. ३ ) इत्यनुदात्तत्वम् । यशोऽस्यास्तीति विग्रहे सति ‘ अर्शआदिभ्योऽच् ' ( पा. सू. ५. २. १२७) इति अच्प्रत्ययः । चित्स्वरं व्यत्ययेन बाधित्वा मध्योदात्तत्वम् । फिट्स्वरेणान्तोदात्तात् वीरशब्दात् उत्तरयोर्मतुप्तमपोः पित्त्वादनुदात्तत्वम् । ह्रस्वनुड्भ्याम् ' ( पा. सू. ६. १. १७६ ) इति तु न साववर्णान्तत्वात् । ‘न गोश्वन्° ' ( पा. सू. ६. १. १८२ ) इति प्रतिषेधः ॥
“Through Agni the worshipper obtains that affluence which increases day by day, which is the source of fame and multiplier of mankind.”
Through Agni man obtaineth wealth, yea, plenty waxing day by day,
Most rich in heroes, glorious.
May one obtain through Agni wealth and welfare day by day, which may bring glory and high bliss of valiant offspring.
Through Agni may we riches gain, And day by day prosperity Replete with fame and manly sons.
By Agni one will obtain wealth and prosperity every day,
glorious and richest in heroes.
Durch Agni werd' uns Tag für Tag Gedeihn und schönes Gut zu Theil, Das reich mit Helden sei versehn.
Durch Agni möge er Reichtum und Zuwachs Tag für Tag erlangen, ansehnlichen, der die meisten Söhne zählt.
Агни, посредством (него) пусть достигает он богатства
И процветания – изо дня в день –
Сияющего, мужеобильнейшего!
अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वत॑: परि॒भूरसि॑ । स इद्दे॒वेषु॑ गच्छति ॥
अग्ने॑ । यम् । य॒ज्ञम् । अ॒ध्व॒रम् । वि॒श्वतः॑ । प॒रि॒ऽभूः । असि॑ । सः । इत् । दे॒वेषु॑ । ग॒च्छ॒ति॒ ॥
हे अग्ने त्वं यं यज्ञं विश्वतः सर्वासुदिक्षु परिभूः परितः प्राप्तवान् असि सः इत् स एव यज्ञो देवेषु तृप्तिं प्रणेतुं स्वर्गे गच्छति । प्राच्यादिचतुर्दिगन्तेषु आहवनीयमार्जालीयगार्हपत्याग्नीध्रीयस्थानेषु अग्निरस्ति । परिशब्देन होत्रीयादिधिष्ण्यव्याप्तिर्विवक्षिता । कीदृशं यज्ञम् । अध्वरं हिंसारहितम् । न ह्यग्निना सर्वतः पालितं यज्ञं राक्षसादयो हिंसितुं प्रभवन्ति ॥ अग्निशब्दस्य पाष्ठिकम् ( पा. सू. ६, १. १९८) आमन्त्रिताद्युदात्तत्वम् । न विद्यते ध्वरोऽस्येति बहुव्रीहौ ‘नञ्सुभ्याम् ' ( पा. सू. ६. २. १७२ ) इत्यन्तोदात्तत्वम् । विश्वतः इत्यत्र तसिलः प्रत्ययस्वरत्वं बाधित्वा पूर्ववर्णस्य ‘लिति' ( पा. सू. ६. १. १९३ ) इत्युदात्तत्वम् । परिभूरित्यत्र अव्ययपूर्वपदप्रकृतिस्वरत्वे प्राप्ते ( पा. सू. ६. २. २) तदपवादत्वेन कृदुत्तरपदप्रकृतिस्वरत्वम् ( पा. सू. ६. २. १३९) । असि इति तिङन्तस्य ‘ यद्वृतान्नित्यम्' ( पा. सू. ८. १. ६६ ) इति निघाताभावः ॥
“Agni, the unobstructed sacrifice of which you are on every side the protector, assuredly reaches the gods.”
Agni, the perfect sacrifice which thou encompassest about
Verily goeth to the Gods.
Agni, whatever sacrifice and worship 1 thou encompassest on every side, that indeed goes to the gods.
The worship and the sacrifice, Guarded by thee on every side, Go straight, O Agni, to the gods.
O Agni, the sacrifice and rite that you surround on every side—
it alone goes among the gods.
Welch Opfer, Agni, welches Fest von allen Seiten du umfängst, Nur das geht zu den Göttern hin.
Agni! Nur die Anbetung und das Opfer, das du ganz zusammenhältst, gelangt zu den Göttern.
О Агни, жертва (и) обряд,
Которые ты охватываешь со всех сторон,
Именно они идут к богам.
अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः । दे॒वो दे॒वेभि॒रा ग॑मत् ॥
अ॒ग्निः । होता॑ । क॒विऽक्र॑तुः । स॒त्यः । चि॒त्रश्र॑वःऽतमः । दे॒वः । दे॒वेभिः॑ । आ । ग॒म॒त् ॥
अयम् अग्निः देवः अन्यैर्देवैर्हविर्भोजिभिः सह आ गमत् अस्मिन् यज्ञे समागच्छतु । कीदृशोऽग्निः। होता होमनिष्पादकः कविक्रतुः। कविशब्दोऽत्र क्रान्तवचनो न तु मेधाविनाम । क्रतुः प्रज्ञानस्य कर्मणो वा नाम । ततः क्रान्तप्रज्ञः क्रान्तकर्मा वा । सत्यः अनृतरहितः फलमवश्यं प्रयच्छतीत्यर्थः । चित्रश्रवस्तमः । श्रूयते इति श्रवः कीर्तिः । अतिशयेन विविधकीर्तियुक्तः॥ कविक्रतुः चित्रश्रवस्तमः इत्यत्रोभयत्र बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरत्वम् ( पा. सू. ६. २. १ )। सत्सु साधुः सत्यः ‘सत्यादशपथे' (पा, सू. ५, ४. ६६ ) इत्यत्रान्तोदात्तो हरदत्तेन निपातितः ।
लोडन्तस्य गच्छतु इति शब्दस्य छत्वाभावः। उकारलोपश्छान्दसः। ततो रूपं गमत् इति भवति । स्पष्टमन्यत् ॥ ॥ १ ॥
“May Agni, the presenter of oblations, the attainer of knowledge, he who is true, renowned, and divine, come hither with the gods.”
May Agni, sapient-minded Priest, truthful, most gloriously great,
The God, come hither with the Gods.
May Agni the thoughtful Hotri, he who is true and most splendidly renowned, may the god come hither with the gods.
May Agni, the invoker, wise And true, of most resplendent fame, The god, come hither with the gods.
Agni, the Hotar with a poet’s purpose, the real one possessing the brightest fame,
will come as a god with the gods.
Der weise, weitberühmteste, wahrhafte Priester Agni komm, Der Gott nun mit den Göttern her.
Agni, der wahre Hotri mit Sehersinn und am meisten ruhmglänzend, der Gott soll mit den Göttern herkommen.
Агни-хотар с прозорливостью поэта,
Истинный, с ярчайшей славой, –
Бог с богами да приидет!
यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ । तवेत्तत्स॒त्यम॑ङ्गिरः ॥
यत् । अ॒ङ्ग । दा॒शुषे॑ । त्वम् । अग्ने॑ । भ॒द्रम् । क॒रि॒ष्यसि॑ । तव॑ । इत् । तत् । स॒त्यम् । अ॒ङ्गि॒रः॒ ॥
अङ्ग इत्यभिमुखीकरणार्थो निपातः । अङ्ग अग्ने हे अग्ने त्वं दाशुषे हविर्दत्तवते यजमानाय तत्प्रीत्यर्थं यत् भद्रं वित्तगृहप्रजापशुरूपं कल्याणं करिष्यसि तत् भद्रं तव इत् तवैव । सुखहेतुरिति शेषः। हे अङ्गिरः अग्ने एतच्च सत्यं न त्वत्र विसंवादोऽस्ति । यजमानस्य विज्ञादिसंपत्तौ सत्यामुत्तरक्रत्वनुष्ठानेनाग्नेरेव सुखं भवति । भद्रशब्दार्थं शाट्यायनिनः समामन्ति---- यद्वै पुरुषस्य वित्तं तद्भद्रं गृहा भद्रं प्रजा भद्रं पशवो भद्रम्' इति॥ अङ्गशब्दस्य निपातत्वेऽपि अभ्यादित्वात् (फि. सू. ८१) अन्तोदात्तत्वम्। ‘दाश्वान्साह्वान् ' (पा. सू. ६. १. १२) इति सूत्रेण • दाश दाने ' इति धातोः क्वसुप्रत्ययो निपातितः । तत्र प्रत्ययस्वरः ( पा. सू. ३. १. ३)। आमन्त्रितस्य अग्निशब्दस्य पदात्परत्वेन आष्टमिकानुदात्तत्वं (पा. सू. ८. १. १९ ) न शङ्कनीयम्, अपादादौ' ( पा. सू. ८. १. १८) इति पर्युदस्तत्वात् । ततः पाष्टिकम् ( पा. सू. ६. १. १९८ ) आद्युदात्तत्वमेव । भद्रशब्दस्य नब्विषयत्वेन फि. सू. २६) आद्युदात्तत्वप्रसक्तावपि भदि कल्याणे' इति धातोरुपरि रक्प्रत्ययेन निपातनादन्तोदात्तत्वम् । अस्मिन् वाक्ये यच्छब्दप्रयोगात् निपातैर्यद्यदिहन्त ' (पा. सू. ८. १. ३० ) इति निघाते प्रतिषिद्धे स्यप्रत्ययस्वरेण सति शिष्टेन करिष्यसिशब्द उपान्त्योदात्तः । तवेत्यत्र ‘युष्मदस्मदोर्ङसि ( पा. सू. ६. १. २ १ १ ) इत्याद्युदात्तत्वम् । “ अङ्गिरा अङ्गाराः ' ( निरु० ३. १७ ) इति यास्कः । ऐतरेयिणोऽपि प्रजापतिदुहितृध्यानोपाख्याने समामनन्ति- येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् ' ( ऐ. ब्रा. ३. ३४ ) इति । तस्मात् अङ्गिरोनामकमुनिकारणत्वात् अङ्गाररूपस्याग्नेरङ्गिरस्त्वम् । अत्र पदात्परत्वेनाष्टमिकानुदात्तत्वम् ।
“Whatever good you may, Agni, bestow upon the giver (of the oblation), that verily, Aṅgiras shall revert to you.”
Whatever blessing, Agni, thou wilt grant unto thy worshipper,
That, Angiras, is indeed thy truth.
Whatever good thou wilt do to thy worshipper, O Agni, that (work) verily is thine, O Angiras.
Whatever good thou wilt bestow, O Agni, on the pious man, That gift comes true, O Angiras.
When truly you will do good for the pious man, o Agni,
just that of yours is real, o Aṅgiras.
Dass du dem Mann, der dich verehrt, o Agni, Heil verschaffen wirst, Ist deine Art, o Angiras.
Wenn du wirklich dem Spender Gutes tun willst, Agni, so wird bei dir das wahr, oh Angiras.
Когда ты в самом деле возжелаешь,
О Агни, сделать добро почитающему (тебя),
То у тебя это истинно, о Ангирас.
उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् । नमो॒ भर॑न्त॒ एम॑सि ॥
उप॑ । त्वा॒ । अ॒ग्ने॒ । दि॒वेऽदि॑वे । दोषा॑ऽवस्तः । धि॒या । व॒यम् । नमः॑ । भर॑न्तः । आ । इ॒म॒सि॒ ॥
हे अग्ने वयम् अनुष्ठातारः दिवेदिवे प्रतिदिनं दोषावस्तः रात्रावहनि च धिया बुद्ध्या नमः भरन्तः नमस्कारं संपादयन्तः उप समीपे त्वा एमसि त्वामागच्छामः । उपशब्दस्य निपातस्वरः (फि. सू. ८०)। त्वामौ द्वितीयायाः' ( पा. सू. ८. १. २३) इति युष्मच्छब्दस्यानुदात्तस्त्वादेशः । दोषाशब्दो रात्रिवाची । वस्तर् इति अहर्वाची । द्वन्द्वसमासे कार्तकौजपादित्वात् ( पा. सू. ६. २. ३७ ) आद्युदात्तः । ‘सावेकाचः० ' ( पा. सू. ६. १. १६८ ) इति धियो विभक्तिरुदात्ता । नम इति निपातः । भरन्त इत्यत्र शपः (पा. सू. ३. १. ६८ ) पित्वा वत् शतुर्लसार्वधातुकत्वाच्च अनुदात्तत्वे सति ( पा. सु. ६. १. १८६ ) धातुस्वरः शिष्यते । इमसि इत्यत्र ‘इदन्तो मसिः' (पा. सू. ७. १. ४६ ) इत्यादेशो निघातश्च ।
“We approach you, Agni, with reverential homage in our thoughts, daily, both morning and evening.”
To thee, dispeller of the night, O Agni, day by day with prayer
Bringing thee reverence, we come
Thee, O Agni, we approach day by day, O (god) who shinest in the darkness 1; with our prayer, bringing adoration to thee
To thee, O Agni, day by day, O thou illuminer of gloom, With thought we, bearing homage, come:
To thee, O Agni, day by day,
That shinest in the darkness, with our devotion,
We come bearing honour.
We approach you, o Agni, illuminator in the evening, every day with our insight,
bringing homage—
Dir, Agni, nahn wir Tag für Tag, o Nachterheller, mit Gebet Und bringen dir Verehrung dar.
Dir, Agni, nahen wir Tag für Tag, du Dunkel-Erheller, mit Andacht, Huldigung darbringend.
К тебе, о Агни, изо дня в день,
О озаряющий тьму, мы приходим
С молитвой, неся поклонение –
राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मानं॒ स्वे दमे॑ ॥
राज॑न्तम् । अ॒ध्व॒राणा॑म् । गो॒पाम् । ऋ॒तस्य॑ । दीदि॑विम् । वर्ध॑मानम् । स्वे । दमे॑ ॥
पूर्वमन्त्रे त्वामुपैम इत्यग्निमुद्दिश्योक्तम् । कीदृशं त्वाम् । राजन्तं दीप्यमानम् अध्वराणां राक्षसकृतहिंसारहितानां यज्ञानां गोपां रक्षकम् ऋतस्य सत्यस्यावश्यंभाविनः कर्मफलस्य दीदिविं पौनःपुन्येन भृशं वा द्योतकम् । आहुत्याधारमग्निं दृष्ट्वा शास्त्रप्रसिद्धं कर्मफलं स्मर्यते । स्वे दमे स्वकीयगृहे यज्ञशालायां हविर्भिः वर्धमानम् ॥ राजन्तं वर्धमानमित्यत्रोभयत्र पूर्ववत् धातुस्वरः शिष्यते। दीदिविशब्दस्य ‘अभ्यस्तानामादिः' (पा. सू. ६. १. १८९) इत्याद्युदात्तत्वम् । दमशब्दो वृषादित्वात् ( पा. सू. ६. १. २०३ ) आद्युदात्तः ॥
“You, the radiant, the protector of sacrifice, the constant illuminator of truth, increasing in your own dwelling.”
Ruler of sacrifices, guard of Law eternal, radiant One,
Increasing in thine own abode.
Who art the king of all worship, the guardian of Rita, the shining one, increasing in thy own house.
To thee the lord of sacrifice, The radiant guardian of the Law, That growest in thine own abode.
(You), ruling over the rites, the shining herdsman of the truth,
growing strong in your own home.
Dir, der die Opfer du beherrschst, der glänzend du das Werk beschirmst, Und in dem eignen Haus gedeihst.
Dem Walter der Opferhandlungen, dem Hüter des rechten Brauches, dem leuchtenden, der im eigenen Haus heranwächst.
К царящему при обрядах,
К пастырю закона, сверкающему,
К возрастающему в доме своем.
स न॑: पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये॑ ॥
सः । नः॒ । पि॒ताऽइ॑व । सू॒नवे॑ । अग्ने॑ । सु॒ऽउ॒पा॒य॒नः । भ॒व॒ । सच॑स्व । नः॒ । स्व॒स्तये॑ ॥
हे अग्ने सः त्वं नः अस्मदर्थं सूपायनः शोभनप्राप्तियुक्तः भव । तथा नः अस्माकं स्वस्तये विनाशराहित्यार्थं सचस्व समवेतो भव । तन्नोभयत्र दृष्टान्तः । यथा सूनवे पुत्रार्थं पिता सुप्रापः प्रायेण समवेत्तो भवति तद्वत् ॥ अस्मच्छब्दादेशस्य न इत्येतस्य अनुदात्तं सर्वम् ' ( पा. सू. ८. १. १८ ) इत्यनुदात्तत्वम् । ‘चादयोऽनुदात्ताः' (फि. सू. ८४ ) इति इवशब्देऽनुदात्तः । ‘इवेन नित्यसमासः पूर्वपदकृतिस्वरत्वं च वक्तव्यम्' (पा. सू. २. १. ४. २ ) इति समस्तः पितेवेति शब्दो मध्योदात्तः। शोभनमुपायनं यस्येति बहुव्रीहौ ‘नञ्सुभ्याम् ' ( पा. सू. ६. २. १७२) इत्यन्तोदात्तत्वम् । सचस्वेत्यत्र पदात्परत्वं नास्तीति न निघातः। लसार्वधातुकानुदात्तत्वे सति धातुस्वरावशेषः ॥ ॥ २ ॥
“Agni, be to us easy of access, as is a father to his son; be ever present with us for our good.”
Be to us easy of approach, even as a father to his son:
Agni, be with us for our weal.
Thus, O Agni, be easy of access to us, as a father is to his son. Stay with us for our happiness.
So, like a father to his son, Be easy of approach to us; Agni, for weal abide with us.
Like a father for a son, be of easy approach for us, o Agni.
Accompany us for our well-being.
Gewähre, Agni, uns Gehör, sowie der Vater seinem Sohn, Geleite uns zum Wohlergehn.
Sei du Agni uns zugänglich wie ein Vater dem Sohne! Sei mit uns zum Heile!
Как отец – сыну,
О Агни, будь доступен нам!
Сопровождай нас ради блага!