गाय॑न्ति त्वा गाय॒त्रिणोऽर्च॑न्त्य॒र्कम॒र्किण॑: । ब्र॒ह्माण॑स्त्वा शतक्रत॒ उद्वं॒शमि॑व येमिरे ॥
गाय॑न्ति । त्वा॒ । गा॒य॒त्रिणः॑ । अर्च॑न्ति । अ॒र्कम् । अ॒र्किणः॑ । ब्र॒ह्माणः॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । उत् । वं॒शम्ऽइ॑व । ये॒मि॒रे॒ ॥
हे शतक्रतो बहुकर्मन् बहुप्रज्ञ वा इन्द्र त्वां गायत्रिणः उद्गातारः गायन्ति स्तुवन्ति । अर्किणः अर्चनहेतुमन्त्रयुक्ता होतारः अर्कम् अर्चनीयमिन्द्रम् अर्चन्ति शस्त्रगतैर्मन्त्रैः प्रशंसन्ति । ब्रह्माणः ब्रह्मप्रभृतय इतरे ब्राह्मणाः त्वाम् उत् येमिरे उन्नतिं प्रापयन्ति ।
तत्र दृष्टान्तः। वंशमिव ।
यथा वंशाग्रे नृत्यन्तः शिल्पिनः प्रौढं वंशमुन्नतं कुर्वन्ति ।
यथा वा सन्मार्गवर्तिनः स्वकीयं कुलमुन्नतं कुर्वन्ति तद्वत् ।
एतामृचं यास्क एवं व्याचष्ट-
> ’गायन्ति त्वा गायत्रिणः प्रार्चन्ति तेऽर्कमर्किणो ब्राह्मणास्त्वा शतक्रत उद्येमिरे वंशमिव । वंशो वनशयो भवति वननाच् छ्रूयत इति वा '
(निरु. ५. ५) इति ।
अर्कशब्दं च बहुधा व्याचष्टे-
> अर्को देवो भवति यदेनमर्चन्त्यर्को मन्त्रो भवति यदेनेनार्चन्त्यर्कमन्नं भवत्यर्चति भूतान्यर्को वृक्षो भवति स वृतः कटुकिम्ना (निरु. ५. ४ )
इति ॥
गायन्ति । शप्तिङौ पित्त्वात् लसार्वधातुकत्वाच्च अनुदात्तौ । धातुरुदात्तः ।
गायत्रिणः । गायत्रं साम येषाम् उद्गातॄणाम् अस्ति ते । ‘अत इनिठनौ'। प्रत्ययस्वरेण इकार उदात्तः ।
अर्चन्ति । ‘अर्च पूजायाम्' । भौवादिकः । शप्तिङौ अनुदात्तौ । धातुस्वर एव । पादादित्वात् न निघातः ।
अर्कम् । अर्चन्त्येभिरिति अर्का मन्त्राः । तैरर्चनीयतया तदात्मक इन्द्रोऽपि लक्षणया अर्कः । ‘पुसि संज्ञायां घः प्रायेण ' ( पा. सू. ३. ३. ११८ ) इति करणे घः । 'चजोः कु घिण्ण्यतोः' ( पा. सू. ७. ३. ५२ ) इति चकारस्य कुत्वं ककारः । प्रत्ययस्वरेणान्तोदात्तः ।
अर्का मन्त्रा एषां सन्तीत्यर्किणो होतारः ।
एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ ' ( पा. म. ५. २. ११५. १ ) इति कृदन्तात् इनिठनौ यद्यपि प्रतिषिद्धौ तथाप्यत्र व्यत्ययात् इनिः ।
प्रत्ययस्वरेण इकार उदात्तः ।
ब्रह्माणः । प्रातिपदिकस्वरेणान्तोदात्तः ।
शतक्रतो । निघातः । संहितायाम् अवादेशे ‘लोपः शाकल्यस्य' (पा. सू. ८. ३. १९) इति वकारलोपः । वंशशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । ‘इवेन विभवत्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' इति स एव शिष्यते ।
येमिरे । यम उपरमे। 'तिङ्ङतिङः' इति निघातः ॥
गायन्तीति। हे शतक्रतो गायत्रिणो गायत्रसामयुक्ता उद्गातारस्त्वां गायन्ति। अर्किणो बृह्वृचास्त्वामर्चन्ति स्तुवन्ति। ब्रह्माणस्तदुपलक्षिता अध्वर्यवोऽपि त्वामुद्येमिर उत्थापयन्ति वर्धयन्तीत्यर्थः। किमिव, वंशमिव। यथा कुलाचारादिभिः स्वकीयं वंशमुन्नतं कुर्वन्ति तद्वत्।
“The chanters (of the Soma) hymn you, Śatakratu; the reciters of the Ṛk praise you, who are worthy of praise; the Bra-hmaṇas raise you aloft, like a bamboo pole.”
यत्सानो॒: सानु॒मारु॑ह॒द्भूर्यस्प॑ष्ट॒ कर्त्व॑म् । तदिन्द्रो॒ अर्थं॑ चेतति यू॒थेन॑ वृ॒ष्णिरे॑जति ॥
यत् । सानोः॑ । सानु॑म् । आ । अरु॑हत् । भूरि॑ । अस्प॑ष्ट । कर्त्व॑म् । तत् । इन्द्रः॑ । अर्थ॑म् । चे॒त॒ति॒ । यू॒थेन॑ । वृ॒ष्णिः । ए॒ज॒ति॒ ॥
यत् यदा सानोः सानुम् आरुहत् यजमानः सोमवल्लीसमिदाद्याहरणाय एकस्मात् पर्वतभागात् अपरं पर्वतभागम् आरूढवान् तथा भूरि प्रभूतं कर्त्वं कर्म सोमयागरूपम् अस्पष्ट स्पृष्टवान् । उपक्रान्तवानित्यर्थः। तत् तदानीम् इन्द्रः अर्थं यजमानस्य प्रयोजनं चेतति जानाति । ज्ञात्वा च वृष्णिः कामानां वर्षिता सन् यूथेन मरुद्रणेन सह एजति कम्पते। स्वस्थानात् यज्ञभूमिमागन्तुमुद्युङ्क्ते इत्यर्थः॥ सानोः। ‘षणु दाने' । सनोति ददाति निवसतामवकाशमिति सानुः । ‘दॄसनिजनिचरिचटिरहिभ्यो ञुण्' (उ. सू. १.३)। णित्त्वात् उपधाया वृद्धिः; ञित्त्वादाद्युदात्तत्वं च । अरुहत्। रुहेर्लङि तिपि शपि ‘संज्ञापूर्वको विधिरनित्यः' (परिभा. ९३.१) इति लघूपधगुणो न भवति । ‘लुङ्लङ्लृङ्क्ष्वडुदात्तः'। सति शिष्टत्वात् स एव शिष्यते। निपातैर्यद्यदिहन्त०' (पा. सू. ८. १. ३०) इति निषेधात् निघातो न भवति । भूरि । 'अदिशदिभूशुभिभ्यः क्रिन' ( उ. सू. ४. ५०५)। कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तः । अस्पष्ट। ‘स्पश बाधनस्पर्शनयोः । ‘स्वरितञितः°' (पा. सू. १. ३. ७२ ) इत्यात्मनेपदम् । लङः प्रथमपुरुषैकवचनं त । ‘बहुलं छन्दसि' इति शपो लुक् । व्रश्चादिषत्वष्टुत्वे (पा. सू. ८. २. ३६; ८. ४. ४१ )। ‘लुङ्लङ्लुङ्क्ष्वडुदात्तः' इति अडागम उदात्तः। स एव शिष्यते । अनुषङ्गेण यच्छब्दयोगात् निधाताभावः । कर्त्वम्। ‘डुकृञ् करणे'। अन्येभ्योऽपि दृश्यन्ते'
पा. सू. ३. २. ७५ ) इति विच् । गुणो रपरत्वम् । विचः सर्वापहारी लोपः । करो भावः कर्त्वम् । अर्थम् । अर्तेः ‘उषिकुषिगार्तिभ्यस्थन् ' (उ. सू. २. १६१)। नित्त्वादाद्युदात्तः । यूथेन।' तिथपृष्ठगूथयूथप्रोथाः' ( उ. सू. २. १६९) इति थक्प्रत्ययान्तो निपातितः । वृष्णिः। ‘निः' इत्यनुवृत्तौ ‘सृवृषिभ्यां कित्' (उ. सू. ४. ४८९) इति निप्रत्ययान्तः । कित्वा. द्गुणाभावः। प्रत्ययस्वरेणान्तोदात्तः । एजति । ‘एजृ कम्पने'। ' तिङ्ङतिङः' इति निघातः ॥
“Indra, the showever (of blessings), knows the object (of his worshipper), who has performed many acts of worship (with the Soma gathered) on the ridges of the mountain, and (therefore) comes with the troop (of Maruts).”
As up he clomb from ridge to ridge and looked upon the toilsome task,
Indra observes this wish of his, and the Rain hastens with his troop.
When he has mounted from peak to peak and has seen much to be done, then Indra perceives his purpose, and the ram stirs with his flock.
Als er von Berg zu Berge stieg, hat viele Arbeit er geschaut, Und Indra nimmt des Werkes wahr, mit seiner Heerde eilt der Bock.
Als er von Höhe zu Höhe gestiegen war und vieles, was noch zu tun, ersah, da merkt Indra die Absicht. Als der Leithammel setzt er sich mit der Herde in Bewegung.
Когда он карабкался с вершины на вершину
(И) видел, как много надо сделать,
Тогда Индра замечает (его) цель.
Как баран (вожак) он приходит в движение вместе со стадом.
यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा । अथा॑ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर ॥
यु॒क्ष्व । हि । के॒शिना॑ । हरी॒ इति॑ । वृष॑णा । क॒क्ष्य॒ऽप्रा । अथ॑ । नः॒ । इ॒न्द्र॒ । सो॒म॒ऽपाः॒ । गि॒राम् । उप॑ऽश्रुतिम् । च॒र॒ ॥
हे सोमपाः सोमपानयुक्त इन्द्र हरी त्वदीयावश्वौ युक्ष्वा हि सर्वथा संयोजय । अथ अनन्तरं नः अस्मदीयानां गिरां स्तुतीनाम् उपश्रुतिं समीपे श्रवणमुद्दिश्य चर तत्प्रदेशं गच्छ । कीदृशौ हरी । केशिनी स्कन्धप्रदेशे लम्बमानकेशयुक्तौ वृषणा सेचनसमर्थौ युवानौ ।"कक्ष्यप्रा । अश्वस्योदरबन्धनरज्जुः कक्ष्या तस्याः पूरकौ पुष्टाङ्गावित्यर्थः ॥ युक्ष्व । श्नमो लोपश्छान्दसः । सति शिष्टत्वेन प्रत्ययस्वरः शिष्यते ।' द्व्यचोऽतस्तिङः ' ( पा. सू. ६. ३. १३५) इति संहितायां दीर्घत्वम्। केशिना । प्रशस्ताः केशा अनयोः सन्तीति मत्वर्थीय इनिः । प्रत्ययस्वरः । ‘सुपां सुलुक्' (पा. सू. ७. १. ३९ ) इत्यादिना द्विवचनस्य आकारादेशः । वृषणा। ‘पृषु वृषु मृषु सेचने '।' कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः' ( उ. सू. १. १५४ ) इति कनिन् । ' नित्यादिर्नित्यम्' इत्याद्युदात्तः । ‘वा षपूर्वस्य निगमे ' ( पा. सू. ६. ४. ९) इति उपधायाः पक्षे दीर्घाभावः । पूर्ववदाकारः । कक्ष्यप्रा । कक्षयोर्भवं कक्ष्यं सूत्रम् । तत् प्रातः पूरयतः पुष्टत्वादिति कक्ष्यप्रौ। ‘प्रा पूरणे'। ‘आतोऽनुपसर्गे कः ( पा. सू. ३, २. ३ ) इति कप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम् । आकारः पूर्ववत् । अथ। ' निपातस्य ' ( पा. सू. ६. ३. १३६ ) इति संहितायां दीर्घः । नः । ‘अनुदात्तं सर्वमपादादौ ' ( पा. सू. ८. १. १८) इत्यनुवृत्तौ ‘बहुवचनस्य वरनसौ ' (पा. सू. ८. १. २१) इति नसादेशोऽनुदात्तः । इन्द्र सोमपाः । उभौ ' आमन्त्रितस्य च ' ( पा. सू. ८. १. १९) इति सर्वानुदात्तौ । गिराम् । 'सावेकाचस्तृतीयादिर्विभक्तिः ' ( पा. सू. ६. १. १६८ ) इति विभक्तिरुदात्ता। उपशब्दो निपातत्वादाद्युदात्तः । श्रुतिशब्देन प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘ तादौ च निति कृत्यतौ ' ( पा. सू. ६. २. ५०) इति तुवर्जिततादिपरत्वात् गतेः प्रकृतिस्वरः । चर । निघातः ॥
“Indra, drinker of the Soma, having put to your long-maned, vigorous, and well-conditioned steeds, come nigh to hear our praises.”
Harness thy pair of strong bay steeds, long-maned, whose bodies fill the girths,
And, Indra, Soma-drinker, come to listen to our songs of praise.
Hitch up your long-maned fallow bays, the two bullish ones filling their girthbands;
then proceed to the hearing of our songs, o soma-drinking Indra.
So schirre dir die mähnigen, die fetten, starken Füchse an, Dann, Indra, Somatrinker, komm und höre unsrer Lieder Klang.
Schirr also deine mähnigen Falben, die Hengste, die die Gurte füllen, an und komm, du Somatrinker Indra, um unsere Lobreden zu anzuhören!
Запрягай же пару пышногривых буланых,
Жеребцов с тугой подпругой,
И приезжай к нам, о Индра, пьющий сому,
Чтобы услышать нашу хвалебную песнь.
एहि॒ स्तोमाँ॑ अ॒भि स्व॑रा॒भि गृ॑णी॒ह्या रु॑व । ब्रह्म॑ च नो वसो॒ सचेन्द्र॑ य॒ज्ञं च॑ वर्धय ॥
आ । इ॒हि॒ । स्तोमा॑न् । अ॒भि । स्व॒र॒ । अ॒भि । गृ॒णी॒हि॒ । आ । रु॒व॒ । ब्रह्म॑ । च॒ । नः॒ । व॒सो॒ इति॑ । सचा॑ । इन्द्र॑ । य॒ज्ञम् । च॒ । व॒र्ध॒य॒ ॥
हे वसो निवासकारणभूत इन्द्र एहि अस्मिन् कर्मण्यागच्छ । आगत्य च स्तोमान् उद्गातृप्रयुक्तानि स्तोत्राणि अभि स्वर अभिलक्ष्य प्रशंसारूपं शब्दं कुरु। तथा आध्वर्यवमभिलक्ष्य गृणीहि शब्दं कुरु । तथा होतृप्रयुक्तानि शस्त्राण्यालक्ष्य रुव शब्दं कुरु । परितोषेण सर्वानृत्विजः प्रशंसेत्यर्थः । तत ऊर्ध्वं नः अस्माकं ब्रह्म च अन्नं च यज्ञ च अनुष्ठीयमानं कर्म च सचा सह वर्धय । साङ्गत्वसंपादनेन यज्ञ वर्धयित्वा तत्फलमन्नं च प्रवृद्धं कुरु ।' अन्धः' इत्यादिष्वष्टाविंशत्यन्ननामसु ' ब्रह्म वर्चः ' (नि. २. ७. २५) इति पठितम् ॥ इहि । ‘इण् गतौ । सेर्हिः । हेरपित्त्वेन ङित्त्वात् गुणाभावः । निघातः । आङा सह गुणः ‘एकादेश उदात्तेनोदात्तः' इत्युदात्तः । स्तोमान् ।' अर्तिस्तुसु° ' ( उ. सू. १. १३७ ) इत्यादिना मन् । नित्त्वादाद्युदात्तः । उत्तरपदेन संहितायां नकारस्य दीर्घदटि समानपादे' ( पा. सू. ८. ३. ९) इति रुत्वम् । ‘आतोऽटि नित्यम् ' (पा. सू. ८. ३. ३ ) इति आकारस्यानुनासिकः । ‘भोभगोअघोअपूर्वस्य योऽशि' (पा. सू. ८. ३. १७ ) इति यत्वम् । तस्य लोपः शाकल्यस्य ' ( पा. सू. ८. ३. १९ ) इति लोपः। तस्यासिद्धत्वात् स्वरसंधिर्न भवति । अभि । एवमादीनामन्तः ' ( फि. सू. ८२ ) इत्यन्तोदात्तः । स्वर ।' स्वृ शब्दोपतापयोः '। निघातः । अभि । गतम् । गृणीहि । ‘गॄ शब्दे । ‘सेर्ह्यपिच्च' (पा. सू. ३. ४. ८७ ) इति हिः । ‘क्र्यादिभ्यः श्ना'। ‘ई हल्यघोः' (पा. सू. ६. ४. ११३ ) इति ईत्वम् ।' प्वादीनां ह्रस्वः' ( पा. सू. ७. ३. ८०) इति ऋकारस्य ऋकारः । ‘ऋवर्णाच्चेति वक्तव्यम् ' ( का. ८. ४. १. १) इति णत्वम् । ‘तिङ्ङतिङः' इति निघातः । रुव । ‘रु शब्दे । सेर्ह्यपिच्च । शपि प्राप्ते व्यत्ययेन शः। तस्य ङित्त्वेन गुणाभावात् उवङादेशः । ‘अतो हेः ' ( पा. सू. ६. ४. १०५) इति हेर्लुक् ।' तिङ्ङतिङः' इति निघातः । ब्रह्म । तृहि बृहि वृद्धौ'। ‘मनिन् ' इत्यनुवृत्तौ ‘बृहेरम् नलोपश्च'? ( उ. सू. ४.५८५) इति मनिन् । तत्संनियोगेन नलोपः अमागमश्च । ‘मिदचोऽन्त्यात्परः ' ( पा. सू. १. १. ४७ ) इति ऋकारात्परः । यणादेशः । मनिनो नित्त्वादाद्युदात्तत्वम् । वसो । आमन्त्रितनिघातः । यज्ञम् ।' यजयाच°! ( पा. सू. ३. ३. ९० ) इत्यादिना नङ् । प्रत्ययस्वरः । वर्धय । निघातः । अत्र चकारद्वयश्रवणात् इयमेव तिङ्विभक्तिः पूर्ववाक्येष्वनुषज्यते । अतोऽनुषक्तैव प्रथमा न श्रुता इति अश्रुतायाः ‘चवायोगे प्रथमा ' ( पा. सू. ८. १. ५९ ) इति निघातनिषेधो न भवति ॥
“Come, Vasu, (to this our rite); reply to our hymns, answer (to our praises), respond to (our prayers); be propitious, Indra, to our sacrifice, and (bestow upon us abundant) food.”
Come hither, answer thou the song, sing in approval, cry aloud.
Good Indra, make our prayer succeed, and prosper this our sacrifice.
Come to our praise songs. Cry out to them, applaud them, and bellow to them.
Together with us, good Indra, make our formulation and our sacrifice strong.
Komm her, stimm ein in unser Lied, nimm's an, und jauchze Beifall zu, Und lass das Opfer und Gebet gedeihn, o guter Indra, uns.
Komm zu den Lobliedern, stimm mit ein, stimme zu, schreie mit und verstärke, du gütiger Indra, im Verein mit uns das Segenswort und Opfergebet!
Приди на восхваления, подхвати песню,
Прославь, прореви,
И вместе с нами, о Васу,
Укрепи, о Индра, молитву и жертву!
उ॒क्थमिन्द्रा॑य॒ शंस्यं॒ वर्ध॑नं पुरुनि॒ष्षिधे॑ । श॒क्रो यथा॑ सु॒तेषु॑ णो रा॒रण॑त्स॒ख्येषु॑ च ॥
उ॒क्थम् । इन्द्रा॑य । शंस्य॑म् । वर्ध॑नम् । पु॒रु॒निः॒ऽसिधे॑ । श॒क्रः । यथा॑ । सु॒तेषु॑ । नः॒ । र॒रण॑त् । स॒ख्येषु॑ । च॒ ॥
इन्द्राय इन्द्रार्थं वर्धनं वृद्धिसाधनम् उक्थं शस्त्रं शंस्यम् अस्माभिः शंसनीयम्। कीदृशायेन्द्राय। पुरुनिष्षिधे बहूनां शत्रूणां निषेधकारिणे । शक्रः इन्द्रः नः अस्मदीयेषु सुतेषु पुत्रेषु सख्येषु च सखित्वेष्वपि यथा येन प्रकारेण रारणत् अतिशयेन शब्दं कुर्यात् तथा शंस्यमिति पूर्वत्रान्वयः । अस्मदीयेन शस्त्रेण परितुष्ट इन्द्रोऽस्माकं पुत्रान् अस्मत्सख्यानि च बहुधा प्रशंसत्वित्यर्थः ॥ उक्थम् । वचेस्थक्प्रत्यय उक्तः ( उ. सू. २. १६४) । प्रत्ययस्वरः । शंस्यम् । ‘शंसु स्तुतौ' । ण्यन्तात् ‘अचो यत्' । ‘णेरनिटि ' (पा. सू. ६. ४. ५१ ) इति णिलोपः। तित्स्वरिते प्राप्ते ' यतोऽनावः' इत्याद्युदात्तत्वम् । वधनम् । ‘करणाधिकरणयोश्च ' (पा. सू. ३. ३. ११७ ) इति करणे ल्युट् । ‘लिति' इति प्रत्ययपूर्वस्य उदात्तत्वम् । पुरुनिष्षिधे बहूनां शत्रूणां निषेधकाय । 'षिध गत्याम् । ‘धात्वादेः षः सः'। अत्र निरित्युपसर्गस्य निशब्द समानार्थस्य प्राक्प्रयोगः। ‘क्विप् च ' इति क्विप् । क्विपः सर्वापहारी लोपः । ‘कुगतिप्रादयः' ( पा. सू. २. २. १८) इति समासः । निसः सकारेण इणो व्यवधानं छान्दसत्वादनादृत्य उपसर्गात्सुनोति° ' ( पा. सू. ८. ३.६५) इत्यादिना धातुसकारस्य षत्वम् । निसः सकारस्य ‘ष्टुना ष्टुः ' ( पा. सू. ८. ४. ४१ ) इति षत्वम् । पुरुशब्देन कर्मणि षष्ठ्यन्तेन समासः । षिधो धातुस्वरेणोदात्तत्वम् । निष्धिधे इति प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम्। कृद्ब्रहणे गतिकारकपूर्वस्यापि ग्रहणात् पुनः कारकसमासेऽपि स एव स्वरः । शक्नोतीति शक्रः । ‘स्फायितञ्चिवञ्चिशकि° ' ( उ. सु. २. १७० ) इत्यादिना रक् । प्रत्ययस्वरः । यथा । ‘प्रकारवचने थाल् ' ( पा. सू. ५. ३. २३ ) । लित्स्वरेण प्रत्ययात् पूर्वोऽकार उदात्तः । सुप्तेषु । क्तः प्रत्ययस्वरेणोदात्तः । नसो नकारस्य ‘नश्च धातुस्थोरुषुभ्यः' (पा. सू. ८. ४. २७ ) इति संहितायां णत्वम् । रारणत् ।' रण शब्दार्थः । ‘धातोरेकाचः ' ( पा. सू. ३. १. २२) इति यङ् । ‘यङोऽचि च' (पा. सू. २. ४. ७४ ) इति लुक् । प्रत्ययलक्षणेन द्विर्भावः (पा. सू. ६. १. ९) । हलादिशेषः । दीर्घोऽकितः ' (पा. सू. ७.४.८३) इति दीर्घः । प्रत्ययलक्षणेन ‘सनाद्यन्ता धातवः' ( पा. सू. ३. १. ३२ ) इति धातुसंज्ञायां • लिङर्थे लेट् ' ( पा. सू. ३. ४. ७ ) इति हेतुहेतुमद्भावलक्षणे लिङर्थे ( पा. सू. ३. ३. १५६ ) लेट् । अत्र हि इन्द्रकर्तृकं रारणनम् उक्थशंसनस्य कर्तव्यत्वे हेतुः । लेटस्तिप् । इतश्च लोपः परस्मैपदेषु ' ( पा. सू. ३. ४. ९७ ) इति इकारलोपः । ‘लेटोऽङाटौ' (. सू. ३. ४. ९४ ) इति अडागमः । कर्तरि शप् । तस्य चर्करीतं परस्मैपदम् अदादिवच्च द्रष्टव्यम् इति अदादिवद्भावात् ‘अदिप्रभृतिभ्यः शपः' इति प्राप्तो लुक् ‘बहुलं छन्दसि' इति निषिध्यते । शपोऽनुदात्तत्वात् धातोः अन्तोदात्त एव शिष्यते । शपा लसार्वधातुकस्य व्यवधानात् तत्र परतो विधीयमानम् ‘अभ्यस्तानामादिः' ( पा. सू. ६. १. १८९) इत्याद्युदात्तत्वं न भवति । न च ' तिङ्ङतिङः' इति निघातः । अत्र यथाशब्दयोगेन ‘यावद्यथाभ्याम् ' (पा. सू. ८. १. ३६) इति निषेधात् । ‘चवायोगे प्रथमा' इति वात्र निघातो न भविष्यति । अत्र ह्युत्तरवाक्ये सख्येषु च इति चानुकृष्टविभक्त्यपेक्षया इयं प्रथमा तिङ्विभक्तिः। सख्येषु । सख्युः कर्माणि सख्यानि तेषु । ‘कर्मणि च' (पा. सू. ५. १. १२४ ) इत्यनुवृत्तौ ‘सख्युर्थः ' ( पा. सू. ५. १. १२६ ) इति सखिशब्दात् यप्रत्ययः । तत्र भसंज्ञायां ‘ यस्येति च ' (पा. सू. ६. ४. १४८) इति इकारलोपः । प्रत्ययस्वरः ॥
“The hymn, the cause of increase, is to be repeated to Indra, the repeller of many foes, that Śakra may speak (with kindness) to our sons and to our friends.”
To Indra must a laud be said, to strengthen him who freely gives,
That Sakra may take pleasure in our friendship and drink-offerings.
A strengthening recitation is to be proclaimed to Indra who provides many fulfillments,
so that the able one will take pleasure in our soma-pressings and in our companionship.
Ein Loblied stimmt dem Indra an, dem gabenreichen, zum Genuss, Damit der Held an unserm Trank und unsrer Freundschaft sich erfreu'.
Ein Lied soll dem Indra vorgetragen werden als Stärkung für ihn, dem man vielen Dank schuldet, auf daß der Mächtige an unserem Preßtrank und in unserer Gesellschaft sich vergnüge.
Надо исполнить хвалебную песнь для Индры
Как подкрепление для многомилостивого,
Чтобы могучий наслаждался
Выжатым (сомой) и нашим обществом.
तमित्स॑खि॒त्व ई॑महे॒ तं रा॒ये तं सु॒वीर्ये॑ । स श॒क्र उ॒त न॑: शक॒दिन्द्रो॒ वसु॒ दय॑मानः ॥
तम् । इत् । स॒खि॒ऽत्वे । ई॒म॒हे॒ । तम् । रा॒ये । तम् । सु॒ऽवीर्ये॑ । सः । श॒क्रः । उ॒त । नः॒ । श॒क॒त् । इन्द्रः॑ । वसु॑ । दय॑मानः ॥
सखित्वे निमित्तभूते सति तमित् तमेवेन्द्रम् ईमहे प्राप्नुमः । तथा राये धनार्थं तम् ईमहे । तथा सुवीर्ये शोभनसामर्थ्यनिमित्तं तम् ईमहे । उत अपि च शक्रः शक्तिमान् सः इन्द्रः नः अस्मभ्यं वसु धनं दयमानः प्रयच्छन् शकत् अस्मदीयरक्षणे शक्तोऽभूत् । सप्तदश याञ्चाकर्मसु ‘ईमहे यामि’ (नि.३.१९.१) इति पठितम् । तदनुसारेण इन्द्रं याचामहे इति व्याख्येयम् ॥ सख्युर्भावः सखित्वम् । तस्य भावस्त्वतलौ' (पा. सू. ५. १. ११९) इति त्वः । प्रत्ययस्वरेणोदात्तः । ईमहे । ‘ईङ् गतौ' । ङित्वात् आत्मनेपदम् (पा. सू. १. ३. १२)। दिवादिभ्यः श्यन् । ‘बहुलं छन्दसि' इति श्यनो लुक् । ‘तिङ्ङतिङः' इति निघातः । राये । ' ऊडिदम्' इति विभक्तेरुदात्तत्वम् । सुवीर्ये । शोभनं वीर्यं यस्यासौ सुवीर्यः । भवितृवाचिनानेन भावो लक्ष्यते। सुवीर्यत्वे इत्यर्थः । ‘बहुव्रीहौ' (पा. सू. ६. २. १०६) इत्यनुवृत्तौ ‘वीरवीर्यौ च'(पा. सू. ६. २. १२०) इत्युत्तरपदाद्युदात्तत्वम् । शक्नोतीति शक्रः । ‘स्फायितञ्चिवञ्चिशकि' (उ. सू. २. १७० ) इत्यादिना रक् । प्रत्ययस्वरः । शकत्। ‘शक्लृ शक्तौ। धातुसंबन्धाधिकारे ‘छन्दसि लुङ्लङ्लिटः' (पा. सू. ३.४.६) इति लुङ्। यतः शक्नोति अतस्तमीमहे इति धातुसंबन्धः । लुङस्तिप्। ‘पुषादिद्युताद्यलृदितः परस्मैपदेषु' ( पा. सू. ३. १. ५५ ) इति च्लेरङादेशः । ‘बहुलं छन्दसि°' (पा. सू. ६. ४. ७५) इत्यडागमाभावः । तिङ्ङतिङः' इति निघातः । वसु । ‘नित्' इत्यनुवृतौ (उ.सू. १.९) वसेः उप्रत्ययः (उ. सू. १. १०) । नित्त्वादाद्युदात्तत्वम् । दयमानः । ‘दय दानगतिरक्षणहिंसादानेषु'। अनुदात्तेत्त्वात् आत्मनेपदम् । लटः शानजादेशः (पा.सू.३.२.१२४)। शपः पित्त्वादनुदात्तस्वम् । शानचः ‘चितः' इत्यन्तोदात्तत्वं बाधित्वा अदुपदेशात् शप उत्तरत्वेन परत्वात् लसार्वधातुकत्वानुदात्तत्वम्। धातुस्वर एव शिष्यते ॥ ॥१९॥
“We have recourse to Indra for his friendship, for wealth, for perfect might; for he, the powerful Indra, conferring wealth, is able (to protect us).”
Him, him we seek for friendship, him for riches and heroic might.
For Indra, he is Sakra, he shall aid us while he gives us wealth.
Just him do we beg for companionship, him for wealth, him for an abundance of good heroes.
He is the able one, and he will be able for us—Indra who distributes the goods.
Ihn wünschen wir zum Freunde uns, zum Reichthum und zur Heldenkraft; Voll Macht ist Indra und vermag uns auszutheilen schönes Gut.
Ihn nur bitten wir zur Freundschaft, ihn um Reichtum, ihn um die Meisterschaft - er ist der Mächtige und er soll sich für uns anstrengen, Indra, der das Gut verteilt;
Только к нему мы обращаемся за дружбой,
К нему – за 6огатством, к нему – за героической силой -
И он, могучий, должен постараться для нас,
Индра, наделяющий добром.
सु॒वि॒वृतं॑ सुनि॒रज॒मिन्द्र॒ त्वादा॑त॒मिद्यश॑: । गवा॒मप॑ व्र॒जं वृ॑धि कृणु॒ष्व राधो॑ अद्रिवः ॥
सु॒ऽवि॒वृत॑म् । सु॒निः॒ऽअज॑म् । इन्द्र॑ । त्वाऽदा॑तम् । इत् । यशः॑ । गवा॑म् । अप॑ । व्र॒जम् । वृ॒धि॒ । कृ॒णु॒ष्व । राधः॑ । अ॒द्रि॒ऽवः॒ ॥
हे इन्द्र यशः अन्नं कर्मफलभूतं सुविवृतं सुष्ठु सर्वत्र प्रसृतं सुनिरजं सुखेन निःशेषं प्राप्तुं शक्यं त्वादातमित् त्वया शोधितं च संपन्नमिति शेषः । इतः परं क्षीरादिरसलाभार्थं गवां व्रजं निवासस्थानम् अप वृधि अपवृतमुद्घाटितद्वारं कुरु । हे अद्रिवः पर्वतोपलक्षितवज्रयुक्तेन्द्र राधः । धनं कृणुष्व संपादय ॥ सुविवृतम् । वृञ् वरणे'। कर्मणि क्तप्रत्ययः । विशब्देन प्रादिसमासः । विवृतमित्यत्र कृदुत्तरपदप्रकृतिस्वरं बाधित्वा कर्मवाचिनि क्तान्ते परतः ‘गतिरनन्तरः' (पा. सू. ६. २. ४९ ) इति पूर्वपदप्रकृतिस्वरे प्राप्ते ‘परादिश्छन्दसि बहुलम् ' ( पा. सू. ६. २. १९९ ) इति ऋकार उदात्तः । पुनः सुशब्देन समासे कृदुत्तरपदप्रकृतिस्वरेण स एव ऋकार उदात्तः। ननु वृतमित्येव कृदन्तं न तु विवृतमिति, ‘प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् ' ( परिभा. २३ ) इति वचनात् । सुविवृतमित्यत्र च समासे वृतमित्येतावन्मानं नोत्तरपदं किंतु विवृतमिति । तत् कथं कृदुत्तरपदप्रकृतिस्वरत्वमिति चेत् उच्यते-प्रत्ययग्रहणपरिभाषापवादेन ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् ' (परिभा. २८) इत्यनेन विवृतमित्यस्यापि कृदन्तव्यपदेशोपपत्तेः । ननु विवृतमित्यस्य यथा कृदन्तव्यपदेशः एवं क्तान्तव्यपदेशोऽप्यस्ति तयैव परिभाषया । तथा च कर्मणि क्तान्त उत्तरपदे परतः ' गतिरनन्तरः' इति सुशब्दस्य प्रकृतिस्वरः प्राप्नोति । न चात्रापि ‘परादिश्छन्दसि बहुलम्' इत्येवं नास्ति विस्तारः । तथा हि सति सुविवृतमित्यत्र विवृतमित्येवोत्तरपदमिति तदादिः इकार एव उदात्तः स्यात् । विवृतमिति समासे यद्यपि ऋकारः पदादिर्भवति तथापि सुविवृतमिति समासस्य सति शिष्टत्वेन बलीयस्त्वात् तत्रत्ये एव उत्तरपदादौ इकारे एव उदात्तस्वरेण भवितव्यमिति । उच्यते ' गतिरनन्तरः' इत्यत्र क्तानुवृत्तेः क्तग्रहणे कृद्ग्रहणपरिभाषा नाश्रीयते । तदाश्रयणे व्यवहितगतावपि प्रकृतिस्वरे सति अनन्तरग्रहणमनर्थकं स्यात् । अनेनैव चाभिप्रायेण अनन्तरग्रहणस्य प्रयोजनम् ' अभ्युद्धृतम्' इत्यत्र व्यवहितस्य अभिशब्दस्य मा भूदिति प्रत्युदाहृतम् । तस्मात् सुविवृतमिति ऋकार एव उदात्त इति स्थितम् । सुनिरजम् । अनायासेन निरवशेषं प्राप्यम् । ‘अज गतिक्षेपणयोः' । सुनिसोरुपसर्गयोः प्राक्प्रयोगः । ‘ईषद्दुःसुषु कृछ्राकृछ्रार्थेषु खल् (पा. सू. ३. ३. १२६ )। न चात्र सुशब्दस्य निसा व्यवधानं शङ्कनीयम् । सुशब्दस्य ह्युपपदमात्रं खलो निमित्तं नानन्तर्यम् । अत एव सुपरिहरं दुष्परिहरमित्यादयः प्रयोगा इति । पूर्ववत् गतिसमासे ‘लिति' इति प्रत्ययात् पूर्वमुदात्तमिति धात्वकार उदात्तः । निसा समासे कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । पुनः सुशब्देन समासे ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' (परिभा. २८) इति परिभाषया कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । त्वादातम् । त्वया शोधनेन विशदीकृतम् । दैप् शोधने '।' आदेच उपदेशेऽशिति' (पा. सू. ६. १. ४५) इति आत्वम् । सत्यपि हि पकारे ‘नानुबन्धकृतमनेजन्तवम् ' ( परिभा. ७) इति एजन्त एवायम् । निष्ठा ' (पा. सू. ३.२.१०२) इति कर्मणि क्तः । ‘दाधा ध्वदाप्' (पा. सू. १. १. २०) इत्यत्र अदाप् इति प्रतिषेधेन घुसंज्ञाया अभावात् ' दो दद्धोः' (पा. सू. ७. ४. ४६ ) इति ददादेशो न भवति । ननु ‘दाप् लवने' इति प्रतिपदोक्तस्यैव दीपः तत्र ‘अदाप्' इति निषेधः, न पुनर्लाक्षणिकस्य दैपः । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं न तु लाक्षणिकस्य (परिभा. १०५) इति नियमात् इति चेत् , न । ‘गामादाग्रहणेष्वविशेषः ' ( परिभा. १०६ ) इति प्रतिप्रसवात् । युमच्छब्दात् तृतीयैकवचनस्य ‘सुपां सुलुक्' ' ( पा. सू. ७. १. ३९ ) इति डादेशः । त्वमावेकवचने ' (पा. सू. ७. २. ९७) इति मपर्यन्तस्य त्वादेशः । अतो गुणे' (पा. सू. ६. १. ९७) इति पररूपत्वम् । भसंज्ञायां ‘ टेः' (पा. सू. ६. ४. १४३ ) इति अदशब्दस्य लोपः । उदात्तनिवृत्तिस्वरेण आकार उदात्तः । कर्तृकरणे कृता बहुलम् ' ( पा. सू. २. १. ३२) इति तृतीयासमासः । तत्पुरुषे कृति बहुलम् ' (पा. सू. ६. ३. १४ ) इति तृतीयाया अपि अलुक् । कृदुत्तरपदप्रकृतिस्वरे प्राप्ते ‘तृतीया कर्मणि ' (पा. सू. ६. २. ४८) इति पूर्वपदप्रकृतिस्वरत्वम् । यशः । अशू व्याप्तौ ।' अशेर्युट् च ' (उ. सू. ४. ६. ३० ) इति असुन् । तत्संनियोगेन धातोर्युडागमः । नित्त्वादाद्युदात्तत्वम् । गवाम् । प्रातिपदिकस्वरः। ‘सावेकाचः' इति विभक्तेरुदात्तत्वं प्राप्तं ‘न गोश्वन्साववर्ण' (पा. सू. ६. १. १८२) इति निषिध्यते । वृधि । वृञ् वरणे' । ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि' ( पा. सू. ६. ४. १०२ ) इति हेर्धिरादेशः । ‘बहुलं छन्दसि ' इति श्नोरपि लुक् । निघातः । कृणुष्व । ‘कृवि हिंसाकरणयोश्च । इदितो नुम् । व्यत्ययेनात्मनेपदम् । लोटस्थास् ( पा. सू. ३. ४. ७८ )। ‘थासः से' ( पा. सू. ३. ४. ८०)।' सवाभ्यां वामौ ' ( पा. सू. ३. ४. ९१ )। कर्तरि शपि ( पा. सू. ३. १. ६८ ) प्राप्ते ‘धिन्विकृण्व्योर च ' (पा. सू. ३. १. ८०) इति उप्रत्ययः । तत्संनियोगेन वकारस्य च अकारः । तस्य ‘अतो लोपः ' ( पा. सू. ६. ४. ४८ ) इति लोपः । ‘अचः परस्मिन्पूर्वविधौ' (पा. सू. १. १. ५७ ) इति अकारलोपस्य स्थानिवद्भावात् लघूपधगुणो न भवति । अत्र ‘ सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति सति शिष्टमपि विकरणस्वरं बाधित्वा तिङ एव प्रत्ययाद्युदात्तत्वम् ।
राधः । असुनन्तो नित्त्वादाद्युदात्तः । अद्रिवः । अद्रिर्वज्रम् । तदस्यास्तीति मतुप् । ‘छन्दसीरः' (पा. सू. ८. २. १५) इति वत्वम्। संबुद्धौ ‘ उगिदचां° ' ( पा. सू. ७. १. ७०) इति नुम् । हल्ङयादिसंयोगान्तलोपौ (पा. सू. ६. १.६८; ८. २. २३)। ‘मतुवसो रु संबुद्धौ छन्दसि' ( पा. सू. ८. ३. १ ) इति रुत्वम् । विसर्जनीयः। आमन्त्रितस्य च निघातः ॥
“Indra, by you is food (rendered) everywhere abundant, easy of attainment, and assuredly perfect; wielder of the thunderbolt, set open the cow-pastures, and provide (ample) wealth.”
Easy to turn and drive away, Indra, is spoil bestowed by thee.
Unclose the stable of the kine, and give us wealth O Thunder-armed
Easily opening (the pen), easily driving out (the cows)—(that) glory is acquired [/given] only by you, Indra.
Open the pen of the cows; show your generosity, o possessor of
the stone.
Leicht zu eröffnen, zu empfahn ist Schatz, den, Indra, du verleihst, So öffne uns der Rinder Stall und schenk uns Gut, o Schleuderer.
Ihn, der den Pferch gern aufschließt, die Rinder gern herauslässt. Von dir, Indra, wird die Auszeichnung verliehen. Schließe den Pferch der Kühe auf, übe Freigebigkeit, Herr des Preßsteins!
(Загон с коровами,) легко открываемый, легко опустошаемый, -
О Индра, (это) отличие, даваемое только тобой!
Открой загон с коровами!
Соверши благодеяние, о хозяин давильных камней!
न॒हि त्वा॒ रोद॑सी उ॒भे ऋ॑घा॒यमा॑ण॒मिन्व॑तः । जेष॒: स्व॑र्वतीर॒पः सं गा अ॒स्मभ्यं॑ धूनुहि ॥
न॒हि । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । ऋ॒घा॒यमा॑णम् । इन्व॑तः । जेषः॑ । स्वः॑ऽवतीः । अ॒पः । सम् । गाः । अ॒स्मभ्य॑म् । धू॒नु॒हि॒ ॥
हे इन्द्र ऋघायमाणं शत्रुवधं कुर्वाणं त्वां रोदसी उभे द्यावापृथिव्यावपि त्वदीयं महिमानं नहि इन्वतः व्याप्तुं न समर्थे इत्यर्थः। तादृशस्त्वं स्वर्वतीः स्वर्लोकयुक्ता अपः वृष्टिरूपाः जेषः जयेः प्रेरय इत्यर्थः । अपां स्वर्गसंबन्धश्चान्यत्र ‘दिवो वृष्टिं च्यावयति' (तै. सं. ३. ३. ४. १ ) इति श्रुतम्। किं च वृष्टिप्रदानात् अन्नसंपत्तेरूर्ध्वम् अस्मभ्यं क्षीरादिरसप्रदाः गाः सं धूनुहि सम्यक् प्रेरय ॥ नहि। नञो हिशब्देन 'सह सुपा ' ( पा. सू. २. १. ४ ) इति समासः । समासत्वादन्तोदात्तत्वम् । त्वा। ‘अनुदात्तं सर्वम्' इत्यनुवृत्तौ ' त्वामौ द्वितीयायाः' (पा. सू. ८. १. २३) इति त्वादेशः । रोदसी । रुदेः असुन्। नित्वादाद्युदात्तः । उगितश्च' (पा. सू. ४.१. ६) इति ङीप् । उभे । प्रातिपदिकस्वरेणान्तोदात्तः। श्या सहकादेश उदात्तः । ऋघायमाणम् । नॄन् हन्तीति ऋघा । अन्येभ्योऽपि दृश्यन्ते' (पा. सू. ३. २. ७५ ) इति विच् । दृशिग्रहणस्य विध्यन्तरोपसंग्रहणार्थत्वात् नकारलोपो हकारस्य च घकारः । अनृघा ऋघा भवतीत्यभूततद्भावे ‘लोहितादिडाज्भ्यः क्यष्' (पा. सू. ३. १. १३) इति क्यष्प्रत्ययो भवति । स ह्याकृतिगणः । ‘°लोपश्च हलः' ( पा. ३. १. १२) इत्यनुवृत्तेर्नकारलोपश्च। ‘वा क्यषः' (पा. सू. १. ३. ९० ) इत्यात्मनेपदम् । लटः शानच्। शपोऽदुपदेशात् परात् शानचो लसार्वधातुकानुदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम्। क्यषः प्रत्ययस्वरः । एकादेशस्योदात्तत्वम् । इन्वतः । ‘इवि व्याप्तौ । ‘इदितो नुम् धातोः' इति नुम् । शपः पित्त्वादनुदात्तत्वम् । लडादेशस्य तसश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते। ' हि च । (पा. सू. ८. १. ३४ ) इति निषेधात् ‘तिङ्ङतिङः' इति निघातो न भवति । जेषः । जेः प्रार्थनायां लिङर्थे लेट्। तस्य मध्यमपुरुषैकवचनं सिप्। ‘इतश्चलोपः परस्मैपदेषु' (पा. सू. ३. ४. ९७ ) इति इकारलोपः । कर्तरि शपि प्राप्ते तदपवादः ‘सिब्बहुलं लेटि' (पा. सू. ३. १. ३४) इति सिप् । अडोंगमस्य अनुदात्तत्वात् धातुस्वर एव शिष्यते । स्वरासामस्तीति स्वर्वत्यः। ‘न्यङ्स्वरौ स्वरितौ ' ( फि. सू. ७४ ) इति स्वर्शब्दः स्वरितः । मतुब्ङीपौ पित्त्वादनुदात्तौ । संहितायां ‘स्वरितोत्संहितायामनुदात्तानाम् ' (पा. सू. १. २. ३९ ) इत्येकश्रुतिः । स्वरित एव शिष्यते । अपः । ‘उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । धूनुहि। ‘धूञ् कम्पने'। लोट् । ‘सेर्ह्यपिच्च'। ‘स्वादिभ्यः श्नुः । उतश्च प्रत्ययादसंयोगपूर्वात्' (पा. सू. ६. ४. १०६) इति प्राप्तस्य लुकः छान्दसत्वादभावः ॥
“Heaven and earth are unable to sustain you when destroying your enemies; you may command the waters of heaven; send us lberally kine.”
The heaven and earth contain thee not, together, in thy wrathful mood.
Win us the waters of the sky, and send us kine abundantly.
Since both world-halves together cannot budge you when you show your mettle,
you will conquer the waters along with the sun. Shake loose the cows for us.
Denn wenn du zürnst, bewältigen dich, Indra, Erd' und Himmel nicht; Erringe uns des Himmels Flut, und giess des Regens Milch herab.
Denn nicht bringen dich beide Welten zum weichen, wenn du drohst. Erobere die Gewässer samt der Sonne; schütte über uns die Kühe aus!
Ведь даже оба мира с тобой,
Разбушевавшимся, не сладят.
Завоюй небесные воды!
(Ветром) сдуй нам коров!
आश्रु॑त्कर्ण श्रु॒धी हवं॒ नू चि॑द्दधिष्व मे॒ गिर॑: । इन्द्र॒ स्तोम॑मि॒मं मम॑ कृ॒ष्वा यु॒जश्चि॒दन्त॑रम् ॥
आश्रु॑त्ऽकर्ण । श्रु॒धि । हव॑म् । नू । चि॒त् । द॒धि॒ष्व॒ । मे॒ । गिरः॑ । इन्द्र॑ । स्तोम॑म् । इ॒मम् । मम॑ । कृ॒ष्व । यु॒जः । चि॒त् । अन्त॑रम् ॥
हे आश्रुत्कर्ण सर्वतः श्रोतारौ कर्णौ यस्य तादृक् इन्द्र हवम् अस्मदीयमाह्वानं नु क्षिप्रं श्रुधि शृणु । मे मम होतुः गिरः चित् स्तुतीरपि दधिष्व चित्ते धारय । किंच मम मदीयं इमं स्तोमं स्तोत्ररूपं वाक्समूहं युजश्चित् स्वकीयसख्युरपि अन्तरं कृष्व आसन्नं कुरु । यथा वचनं तस्य प्रियं मन्यसे तद्वदस्मदीयस्तुतिष्वपि प्रीतिं कुरु इत्यर्थः ॥ आश्रुत्कर्ण । आ समन्तात् शृणुत इति आश्रुत्। क्विप् । ह्रस्वस्य तुक् (पा. सू. ६. १. ७१ )। तादृशौ कर्णौ यस्य ।' आमन्त्रितस्य च ' ( पा. सू. ६. १. १९८) इत्याद्युदात्तत्वम् । श्रुधी । ' श्रु श्रवणे' । लोटो हिः । श्रुवः शृ च ' ( पा. सू. ३. १. ७४ ) इति विहितश्नोः ‘बहुलं छन्दसि ' (पा. सू. २. ४. ७३) इति लुक् । तत्संनियोगशिष्टत्वात् शृभावोऽपि निवर्तते । श्रुशृणुपॄकृवृभ्यश्छन्दसि ' (पा. सू. ६. ४. १०२) इति हेर्धिरादेशः । सति शिष्टत्वात् प्रत्ययस्वरः । आमन्त्रितं पूर्वमविद्यमानवत् ' ( पा. सू. ८. १. ७२ ) इत्यविद्यमानत्त्वेन पदादपरत्वात् ‘तिङ्ङतिङः ' इति निघातो न भवति । संहितायाम् ‘अन्येषामपि दृश्यते' (पा. सू. ६. ३. १३७ ) इति दीर्घः । हवम् । 'ह्वेञ् स्पर्धायां शब्दे च ' । 'बहुलं छन्छसि । ( पा. सू. ६. १. ३४ ) इति अमनैमित्तिके संप्रसारणे कृते पश्चात् उकारान्तरत्वेन ‘ऋदोरप्' (पा. सू. ३. ३. ५७) इति अप्प्रत्ययः । अपः पित्त्वात् धातुस्वरः । नु । संहितायाम् ‘ऋचि तुनुषमक्षुतङ्कुत्रोरुष्याणाम्' (पा. सू. ६. ३. १३३) इति दीर्घः। चित्। चादिः अनुदात्तः । दधिष्व। दधातेर्लोट्।‘थासः से'। ‘सवाभ्यां वामौ' (पा. सू. ३. ४.९१)। शपः श्लुः । अभ्यासस्य ह्रस्वत्वादि । ‘छन्दस्युभयथा' (पा. सू. ३. ४. ११७ ) इति आर्धधातुकस्यापि स्वीकारात् इडागमः। आकारलोपः। निघातः । तवममौ ङसि' (पा. सू. ७. २. ९६ ) इत्यनेन मपर्यन्तस्य ममादेशः । प्रातिपदिकस्वरेणान्तोदात्तत्वे प्राप्ते ‘युष्मदस्मदोर्ङसि’ (पा. सू. ६. १. २११) इत्याद्युदात्तत्वम् । कृष्व । ‘डुकृञ् करणे'। लोट् ।' थासः से'।' सवाभ्यां वामौ '। शपो ‘बहुलं छन्दसि ' इति लुक् । सति शिष्टत्वात् प्रत्ययस्वरः । पादादित्वात् न निघातः । युजः। ‘सावेकाचः०' (पा. सू. ६. १. १६८) इति विभक्तेरुदात्त्वम्। अन्तरम् । वृषादित्वादाद्युदात्तः ॥
“Oh! your whose ears hear all things, listen quickly to my invocation; hold in your heart my praises; keep near to you this my hymn, as it were (the words of) a friend.”
Hear, thou whose ear is quick, my call; take to thee readily my songs
O Indra, let this laud of mine come nearer even than thy friend.
You of listening ear, listen to our call: now accept my songs.
Indra, make this praise song of mine closer even than your yokemate.
Gehör uns schenkend, hör den Ruf, nimm jetzt auch meine Lieder an; O Indra, lass dir dies mein Lob noch lieber sein als einen Freund.
Scharfhöriger! Erhöre den Ruf, nimm doch ja meine Lobreden an. Dies Preislied von mir schließ noch mehr ins Herz als selbst einen Genossen, Indra!
О чуткий, услышь призыв!
Восприми же мои воспевания!
О Индра, это мое восхваление
Сделай ближе себе, чем товарища!
वि॒द्मा हि त्वा॒ वृष॑न्तमं॒ वाजे॑षु हवन॒श्रुत॑म् । वृष॑न्तमस्य हूमह ऊ॒तिं स॑हस्र॒सात॑माम् ॥
वि॒द्म । हि । त्वा॒ । वृष॑न्ऽतमम् । वाजे॑षु । ह॒व॒न॒ऽश्रुत॑म् । वृष॑न्ऽतमस्य । हू॒म॒हे॒ । ऊ॒तिम् । स॒ह॒स्र॒ऽसात॑माम् ॥
हे इन्द्र त्वां विद्म जानीमः। कीदृशं त्वाम् । वृषन्तमं कामानामतिशयेन वर्षितारं वाजेषु संग्रामेषु 'हवनश्रुतम् अस्मदीयस्याह्वानस्य श्रोतारम् । वृषन्तमस्य अतिशयेन कामादीनां वर्षितुस्तव ऊतिं रक्षामस्मद्विषयामुद्दिश्य हूमहे त्वामाह्वयामः। कीदृशीमूतिम्। सहस्रसातमाम् अतिशयेन धनसहस्राणां दात्रीम्॥ विद्म। ‘विदो लटो वा' (पा. सू. ३. ४.८३) इति मसो मादेशः । प्रत्ययस्वरेणान्तोदात्तः। ‘द्व्यचोऽतस्तिङः' (पा. सू. ६.३.१३५) इति संहितायां दीर्घः। वृषन्तमम्। ‘पृषु वृषु सृषु सेचने'। 'कनिन्युवृषितक्षिराजधन्विद्युप्रतिदिवः' (उ. सू. १. १५४) इति कनिन्। नित्त्वादाद्युदात्तः । तमपः पित्त्वात् स एव शिष्यते। ‘अयस्मयादीनि छन्दसि' (पा. सू. १. ४. २०) इति भत्वेन पदत्वाभावात् नलोपाभावः (पा. सू. ८. २.७)। वाजेषु । वाजशब्दो वृषादिः आद्युदात्तः । हवनश्रुतम्। ‘ह्वः' इत्यनुवृत्तौ ‘बहुलं छन्दसि' (पा. सू. ६. १. ३४) इति ल्युटि संप्रसारणम् । हवनं शृणोतीति क्विप्। तुगागमः । वृषन्तमस्य । उक्तम् । हूमहे। ‘ बहुलं छन्दसि ' इति संप्रसारणम्। ‘शपः' इत्यनुवृत्तौ ‘बहुलं छन्दसि' (पा. सू. २. ४. ७३) इति शपो लुक्। ऊतिम् । ऊतियूति' (पा. सू. ३. ३. ९७ ) इत्यादिना अन्तोदात्तो निपातितः । सहस्रसातमाम् । सहस्रं सनोतीति सहस्रसाः । ‘षणु दाने'। ‘जनसनखनक्रमगमो विट्’ (पा. सू. ३.२. ६७ )। ‘विड्वनोरनुनासिकस्यात् (पा. सू. ६. ४. ४१ ) इति आकारादेशः। कृदुत्तरपदप्रकृतिस्वरत्वं तमपः पित्वादेव शिष्यते ॥
“We know you, liberal rainer (of blessings), the hearer of our call in battles; we invoke the thousand-fold profitable protection of you, the showerer (of bounties).”
We know thee mightiest of all, in battles hearer of our cry.
Of thee most mighty we invoke the aid that giveth thousandfold.
Since we know you as the best of bulls, who listen to calls when prizes (are at stake),
we call for the help of the best of bulls, the help that best wins a thousand.
Dich kennen wir als mächtigsten Erhörer in der Schlachten Drang, Wir flehn dich mächtigster um Huld, die tausendfaches Gut verleiht.
Wir kennen dich ja als den Stiergewaltigsten, der in den Preiskämpfen den Ruf erhört.Wir rufen des Stiergewaltigen Beistand an, der Tausend gewinnt.
Ведь мы знаем тебя как самого ярого быка,
Слышащего призыв на состязаниях.
Мы призываем приносящую тысячи
Поддержку самого ярого быка.
आ तू न॑ इन्द्र कौशिक मन्दसा॒नः सु॒तं पि॑ब । नव्य॒मायु॒: प्र सू ति॑र कृ॒धी स॑हस्र॒सामृषि॑म् ॥
आ । तु । नः॒ । इ॒न्द्र॒ । कौ॒शि॒क॒ । म॒न्द॒सा॒नः । सु॒तम् । पि॒ब॒ । नव्य॑म् । आयुः॑ । प्र । सु । ति॒र॒ । कृ॒धि । स॒ह॒स्र॒ऽसाम् । ऋषि॑म् ॥
हे इन्द्र तु क्षिप्रं नः अस्मान् प्रति आ गच्छतिशेषः । हे कौशिक कुशिकस्य पुत्र इन्द्र मन्दसानः हृष्टो भूत्वा सुतम् अभिषुतं सोमं पिब । यद्यपि विश्वामित्रः कुशिकस्य पुत्रस्तथापि तद्रूपेणेन्द्रस्यैवोत्पन्नत्वात् कुशिकपुत्रत्वमविरुद्धम् । अयं वृत्तान्तोऽनुक्रमणिकायामुक्तः-‘कुशिकस्त्वैषीरथिरिन्द्रतुल्यं पुत्रमिच्छन् ब्रह्मचर्यं चचार। तस्येन्द्र एव गाथी पुत्रो जज्ञे ' ( अनु. ऋ. सं. ३. १) इति । हे इन्द्र नव्यं सर्वैर्देवैः स्तुत्यं कर्मानुष्ठानपरम् आयुः जीवितं प्र सू तिर प्रकर्षेण सुष्ठु वर्धय । ततो मां सहस्रसां सहस्रसंख्याकलाभोपेतम् ऋषिम् अतीन्द्रियद्रष्टारं कृधि कुरु ॥ तु । संहितायाम् ‘ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्' (पा. सू. ६. ३. १३३ ) इति दीर्घः। नः। संहितायाम् ‘उदात्तादनुदात्तस्य स्वरितः'। इन्द्र । आमन्त्रितनिघातः । कौशिक । निघातः । मन्दसानः हृष्यन् । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । ' असानच्' (उ. सू. २. २४३) इत्यनुवृत्तौ ‘ऋञ्जिवृधिमन्दिसहिभ्यः कित्' ( उ. सू. २. २४४ ) इति असानच् प्रत्ययः । चित्त्वादन्तोदात्तः । सुतम् । प्रत्ययस्वरः । नव्यम्। ‘णु स्तुतौ ।' अचो यत्' (पा. सू. ३. १. ९७ )। गुणः । ‘वान्तो यि प्रत्यये' (पा.सू. ६. १. ७९) इति अवादेशः । यतोऽनावः' इत्याद्युदातत्वम् । आयुः। ‘उसि, नित्' इत्यनुवृत्तौ ‘एतेर्णिच्च' (उ. सू. २. २७५) इति उसिप्रत्ययः । णित्त्वात् वृद्ध्यायादेशौ। नित्त्वादाद्युदात्तत्वम् । सु।' निपातस्य च ' इति संहितायां दीर्घत्वम् । तिर। तरतेर्व्यत्ययेन शः । ‘ऋत इद्धातोः' (पा. सू. ७. १. १००) इति इत्वम् । अतो हेः' (पा. सू. ६. ४. १०५) इति हेर्लुक्। कृधि ।' डुकृञ् करणे'। ‘बहुलं छन्दसि' इति शपो लुक् । “ श्रुशृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिरादेशः । सहस्रताम् । उक्तम् । ऋषिम् । 'ऋषी गतौ'। ‘इन्' इत्यनुवृत्तौ ‘इगुपधात्किञ्च' ( उ. सू.४. ५५९)। कित्त्वद्गुणाभावः । नित्त्वादाद्युदात्तत्वम् ॥
“Come quickly, Indra, sone of Kuśika, delighted drink the libation; prolong the life that merits commendation; make me, who am a Ṛṣi abundantly endowed (with possessions).”
O Indra, Son of Kusika, drink our libation with delight.
Prolong our life anew, and cause the seer to win a thousand gifts.
O Indra, (god) of Kuśika, finding exhilaration, drink our pressed soma.
Lengthen our lifetime anew; make the seer the winner of a thousand.
Du, hold dem Stamm des Kuçika, trink, Indra, lustig unsern Trank; Mach lang die künft'ge Lebenszeit, beschenk den Dichter tausendfach.
Trink doch, Indra, Gott des Kúsika, unseren Soma, dich berauschend! Verlängere fein aufs neue unser Leben, laß den Rishi Tausend gewinnen!
Пей же, Индра, любезный роду Кушика,
Радуясь нашему выжатому (соме)!
Продли (нам) побольше новый срок жизни!
Сделай риши завоевывающим тысячи!
परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वत॑: । वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ॥
परि॑ । त्वा॒ । गि॒र्व॒णः॒ । गिरः॑ । इ॒माः । भ॒व॒न्तु॒ । वि॒श्वतः॑ । वृ॒द्धऽआ॑युम् । अनु॑ । वृद्ध॑यः । जुष्टाः॑ । भ॒व॒न्तु॒ । जुष्ट॑यः ॥
हे गिर्वणः अस्मदीयस्तुतिभागिन्द्र विश्वतः सर्वेषु कर्मसु प्रयुज्यमानाः इमाः गिरः अस्मदीयाः स्तुतयः त्वा त्वां परि भवन्तु सर्वतः प्राप्नुवन्तु । कीदृश्यो गिरः । वृद्धायुमनु प्रवृद्धेनायुष्येणोपेतं त्वामनुसृत्व वृद्धयः वर्धमानाः । किं च एता गिरः जुष्टाः त्वया सेविताः सत्यः जुष्टयः अस्माकं प्रीतिहेतवः भवन्तु ॥ गिर्वणः । गीर्भिर्वन्यत इति गिर्वणः । वन षण संभक्तौ । ‘सर्वधातुभ्योऽसुन्' । गिरः। उपधाया दीर्घाभावश्छन्दसः । आमन्त्रितनिघातः । विश्वतः । ‘लिति' (पा. सू. ६. १. १९३) इति प्रत्ययात्पूर्वस्योदात्तत्वम् । वृद्धायुम् । वृधु वृद्धौ' । क्तप्रत्ययः । ‘उदितो वा ' ( पा. सु. ७. २. ५६ ) इति इटः क्त्वाप्रत्यये विकल्पितत्वात् ' यस्य विभाषा' (पा. सू. ७. २. १५) इति निष्ठायाम् इडभावः । प्रत्ययस्वरः।' इण् गतौ । ‘छन्दसीणः ' ( उ. सू. १. २) इति उण् । णित्वात् वृद्धिः आयादेशश्च। वृद्धमायुर्यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वृद्धयः । वृधेः क्तिनि ‘ तितुत्रतथसिसुसरकसेषु च ' (पा. सू. ७. २. ९) इति इडभावः । नित्त्वादाद्युदात्तत्वम् । जुष्टाः । श्वीदितो निष्ठायाम् ' ( पा. सू. ७. २. १४) इति इडभावः। ‘जुष्टार्पिते इत्यनुवृत्तौ ‘ नित्यं मन्त्रे' ( पा. सू. ६. १. २१०) इत्याद्युदात्तत्वम् । जुष्टयः । ‘जुषी प्रीतिसेवनयोः '। क्तिन् । 'तितुत्र' इति इडभावः । नित्त्वादाद्युदात्तः ॥ ॥ २० ॥
“May these our praises be on all occasions around you, deserver of praise; may they augment the power of you, who are long-lived, and being agreeable to you, may they yield delight (to us).”
Lover of song, may these our songs on every side encompass thee:
Strengthening thee of lengthened life, may they be dear delights to thee.
Let these songs surround you on every side, o you who long for songs. Let strengths accompany the one whose lifetime has been strengthened; let enjoyments be enjoyed (by him).
Es mögen diese Lieder dich umfangen rings, o Liederfreund, Liebreiche Liebe streb' ihm zu, Erfrischung dem frischkräftigen.
Diese Lobreden sollen dich ganz umfangen, du Lobbegehrender. Als Stärkungen sollen sie dem Lebensstarken recht sein, als Gefälligkeiten ihm wohlgefällig sein.
Да охватят тебя со всех сторон
Эти воспевания, о жаждущий воспевания!
Да будут они (ему), крепкому жизненной силой, как подкрепления!
Да порадуют радостями!