स यो वृषा॒ वृष्ण्ये॑भि॒: समो॑का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् । स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
सः । यः । वृषा॑ । वृष्ण्ये॑भिः॑ । सम्ऽओ॑काः । म॒हः । दि॒वः । पृ॒थि॒व्याः । च॒ । स॒म्ऽराट् । स॒ती॒नऽस॑त्वा । हव्यः॑ । भरे॑षु । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
यः इन्द्रः वृषा कामानां वर्षिता वृष्ण्येभिः वृष्णि भवैर्वीर्यैः समोकाः सम्यक् समवेतः संगतः महः महतः दिवः द्युलोकस्य पृथिव्याः प्रथिताया भूमेः च सम्राट् ईश्वरः सतीनसत्वा । सतीनम् इति उदकनाम । उदकस्य सत्वा सादयिता गमयिता भरेषु संग्रामेषु हव्यः सर्वैः स्तोतृभिराह्वातव्यः एवंभूतः मरुत्वान् मरुद्भिर्युक्तः सः इन्द्रः नः अस्माकम् ऊती ऊतये रक्षणाय भवतु ॥ वृष्ण्येभिः । वृषञ्शब्दात् ‘ भवे छन्दसि ' इति यत् । ‘ अल्लोपोऽनः' इति अकारलोपः । ‘ ये चाभावकर्मणोः' इति प्रकृतिभावस्तु व्यत्ययेन न भवति । महः । ‘ मह पूजायाम् । क्विप् । यद्वा । महच्छब्दे अच्छब्दलोपः ।' सावेकाचः' इति विभक्तेरुदात्तत्वम् । सम्राट्।' मो राजि समः क्वौ ' ( पा. सू. ८. ३. २५) इति राजतौ क्विबन्ते उत्तरपदे समो मकारस्य मकारादेशः । मकारस्य च मकारवचनमनुस्वारबाधनार्थम् । सतीनसत्वा । ‘ षद्लृ विशरणगत्यवसादनेषु । मेघेषु निषीदतीति सतीनं वृष्ट्युदकम् । औणादिकः ईनप्रत्ययस्तकारान्तादेशश्च । यद्वा । सती माध्यमिका वाक् । सा इना ईश्वरा यस्य तत्सतीनम् । व्यत्ययेन पुंवद्भावाभावः । तत्सत्वा । सदेः अन्तर्भावितण्यर्थात् ‘प्र ईरसद्योस्तुट् च ' ( उ. सू. ४. ५५६ ) इति औणादिको वनिप् तुडागमश्च । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । मरुत्वान् । ‘झयः' इति मतुपो वत्वम् । ऊती । ऊतियूति° ' इत्यादिना क्तिनः उदात्तत्वम् । ‘सुपां सुलुक्' इति चतुर्थ्याः पूर्वसवर्णदीर्घः ॥
“May he who is the showerer of desires, who is co-dweller with (all) energies the supreme ruler over the vast heaven and earth, the sender of water, and to be invoked in battles; may Indra, associated with the Maruts, be our protection.”
MAY he who hath his home with strength, the Mighty, the King supreme of earth and spacious heaven,
Lord of true power, to he invoked in battles,--may Indra, girt by Maruts, be our succour.
He who, as bull at home with his bullish powers, is sovereign king of great heaven and of earth,
the one having trusty warriors is to be invoked in raids. – Accompanied by the Maruts, let Indra be here for us with help.
Er, der ein Stier ist, reich an Stiereskräften des grossen Himmels und der Erde Allherr, Der wahrhaft tapfre, anzuflehn in Schlachten, er mög' uns helfen, Indra mit den Maruts.
Der Bulle, der mit Bullenkräften gepaart der Allkönig über den großen Himmel und die Erde ist, dem die Soldaten treu sind, der in den Schlachten zu rufende.
Тот, кто бык, обладающий бычьими силами,
Самодержец великого неба и земли,
У кого настоящие воины, кого призывают в боях –
Сопровождаемый Марутами да будет нам Индра в помощь!
यस्याना॑प्त॒: सूर्य॑स्येव॒ यामो॒ भरे॑भरे वृत्र॒हा शुष्मो॒ अस्ति॑ । वृष॑न्तम॒: सखि॑भि॒: स्वेभि॒रेवै॑र्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
यस्य॑ । अना॑प्तः । सूर्य॑स्यऽइव । यामः॑ । भरे॑ऽभरे । वृ॒त्र॒ऽहा । शुष्मः॑ । अस्ति॑ । वृष॑न्ऽतमः । सखि॑ऽभिः । स्वेभिः॑ । एवैः॑ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
यस्य इन्द्रस्य यामः गतिः अनाप्तः परैरप्राप्ता सूर्यस्येव । यथा सूर्यस्य गतिरन्यैर्न प्राप्तुं शक्यते तद्वत्। 'स्वेभिः आत्मीयैः एवैः गमनशीलैः सखिभिः मित्रभूतैर्मरुद्भिः सह वृषन्तमः अतिशयेन कामानां वर्षिता भरेभरे सर्वेषु संग्रामेषु वृत्रहा शत्रूणां हन्ता शुष्मः सर्वेषामसुराणां शोषकः एवंभूतो यः इन्द्रः अस्ति विद्यते सः मरुत्वान् इन्द्रः नः अस्माकं रक्षणाय भवतु ॥ यामः । ‘ या प्रापणे '। अर्तिस्तुसु° ' इत्यादिना भावे मन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । शुष्मः । शुष शोषणे'। ‘ अविसिविसिशुषिभ्यः कित्' ( उ. सू. १. १४१ ) इति मन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । अस्ति । यद्वृत्तयोगादनिघातः । वृषन्तमः । वृषञ्शब्दादुत्तरस्य तमपो ‘नाद्धस्य' (पा. सू. ८. २. १७) इति नुट् । एवैः । ‘ इण् गतौ ।' इण्शीङ्भ्यां वन्' ॥
“May he whose course, like that of the sun, is not to be overtaken, who in every battle is the slayer of his foes, the witherer (of opponents), who, with his swift-moving friends (the winds), is the most bountiful (of givers); may Indra, associated with the Maruts be our protection.”
Whose way is unattainable like Surya's: he in each fight is the strong Vrtra-slayer,
Mightiest with his Friends in his own courses. May Indra, girt by Maruts, be our succour.
Whose course, like the sun’s, cannot be reached, (who has) obstacle-smashing bluster in every raid,
the most bullish one (should come) with his comrades along his own ways. – Accompanied by the Maruts, let Indra be here for us with help.
Dess Bahn unnahbar wie die Bahn der Sonne, und dessen Kraft feindtilgend stets im Kampf ist, Der männlichste mit seinen Freunden eilend, er mög' uns helfen, Indra mit den Maruts.
Dessen Fahrt unerreicht ist wie die der Sonne, der in jedem Kampfe die vritratötende Wut hat, der größte Bulle soll mit seinen Freunden aus eigenem Antrieb - der Indra soll uns in Begleitung der Marut zu Hilfe kommen.
Чей путь недоступен, как у солнца,
(Чей) пыл в каждом бою убийствен для врагов,
(Кто) самый мужественный, вместе со своими друзьями, по своей воле,
Сопровождаемый Марутами да будет нам Индра в помощь!
दि॒वो न यस्य॒ रेत॑सो॒ दुघा॑ना॒: पन्था॑सो॒ यन्ति॒ शव॒साप॑रीताः । त॒रद्द्वे॑षाः सास॒हिः पौंस्ये॑भिर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
दि॒वः । न । यस्य॑ । रेत॑सः॑ । दुघा॑नाः । पन्था॑सः । यन्ति॑ । शव॑सा । अप॑रिऽइताः । त॒रत्ऽद्वे॑षाः । स॒स॒हिः । पौंस्ये॑भिः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
यस्य इन्द्रस्य पन्थासः रश्मयः रेतसः वृष्ट्युदकानि दुघानाः दुहन्तः प्रवर्षन्तः यन्ति निर्गच्छन्ति द्युलोकादितस्ततः प्रसरन्ति । तत्र दृष्टान्तः । दिवो न । यथा द्योतमानस्य सूर्यस्य किरणा वृष्टिं कुर्वन्तः नभःस्थलान्निर्गच्छन्ति तद्वत् । कीदृशा रश्मयः । शवसा बलेन सहिताः अपरीताः परैरनभिगताः दुष्प्रापा इत्यर्थः । सोऽयम् इन्द्रः तरद्द्वेषाः द्वेषांसि शत्रूंस्तरन् जितशत्रुक इत्यर्थः । पौंस्येभिः बलै: ससहिः शत्रूणामभिभविता एवंभूतः मरुत्वान् इन्द्रः नः अस्माकं रक्षणाय भवतु ॥ रेतसः । रेत इति उदकनाम। रीयते गच्छतीति रेतः । ‘ री गतिरेषणयोः । ‘ स्रुरीभ्यां तुट् च ' ( उ. सू. ४. ६४१ ) इति असुन् तुडागमश्च । शसो व्यत्ययेन ङसादेशः । दुघानाः । ‘दुह प्रपूरणे'। कर्तरि लटः शानच् । अदादित्वात् शपो लुक् । व्यत्ययेन घत्वम् । वृषादेराकृतिगणत्वात् आद्युदात्तत्वम् । पन्थासः । पतन्तीति पन्थानो रश्मयः । ‘ पतेस्थ च ' ( उ. सू ४. ४५२ ) इति इनिप्रत्ययस्थकारान्तादेशश्च । जसि‘ पथिमथ्यृभुक्षामात् ' इति व्यत्ययेन आत्वम् । ‘ आजसेरसुक्' । यद्वा । पन्थान इत्यत्र वर्णव्यापत्त्या नकारस्य सकारः । ‘ पथिमथोः सर्वनामस्थाने ' इति आद्युदात्तत्वम् । ससहिः । ‘ षह अभिभवे । ‘ उत्सर्गश्छन्दसि ' इति वचनात् ‘ आदृगमहन ' इति किप्रत्ययः । लिङ्वद्भावात् द्विर्वचनम् ॥
“May he, whose rays, powerful and unattainable issue forth like those of the sun, milking (the clouds); he who is victorious over his adversaries, triumphant by his manly energies; may Indra, associated with the Maruts, be our protection.”
Whose paths go forth in their great might resistless, forth milking, as it were, heaven's genial moisture.
With manly strength triumphant, foe-subduer,--may Indra, girt by Maruts, be our succour.
Whose paths, like those of heaven, go milking out (the milk of) their semen, unencompassible in their vastness,
he, overcoming hatred, is victorious through his male powers.
– Accompanied by the Maruts, let Indra be here for us with help.
Dess Pfade gehn durch Stärke unbezwinglich, des Himmels Samen gleichsam niedergiessend, Er, feindbesiegend, stark an Manneskräften, er mög' uns helfen, Indra mit den Maruts.
Dessen Wege durch keine Macht überholt, gehen wie die gemolkenen Ströme des Himmelssamens, der Feindüberwinder, durch seine Manneskräfte siegreich - der Indra soll uns in Begleitung der Marut zu Hilfe kommen.
Чьи пути, которых не захватить силой, идут,
Словно выдоенные (потоки) семени неба,
Кто превозмогает врагов, победоносный благодаря силам мужества, –
Сопровождаемый Марутами да будет нам Индра в помощь!
सो अङ्गि॑रोभि॒रङ्गि॑रस्तमो भू॒द्वृषा॒ वृष॑भि॒: सखि॑भि॒: सखा॒ सन् । ऋ॒ग्मिभि॑ॠ॒ग्मी गा॒तुभि॒र्ज्येष्ठो॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
सः । अङ्गि॑रःऽभिः । अङ्गि॑रःऽतमः । भू॒त् । वृषा॑ । वृष॑ऽभिः । सखि॑ऽभिः । सखा॑ । सन् । ऋ॒ग्मिऽभिः॑ । ऋ॒ग्मी । गा॒तुऽभिः॑ । ज्येष्ठः॑ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
सः इन्द्रः अङ्गिरोभिः । अङ्गन्ति गच्छन्तीति अङ्गिरसो गन्तारः । तेभ्योऽपि अङ्गिरस्तमः भूत् अतिशयेन गन्ता भवति । वृषभिः वृषा वर्षितृभ्योऽप्यतिशयेन वर्षिता सखिभिः समान ख्यानेभ्यो मित्रभूतेभ्योऽपि सखा अतिशयेन हितकारी एवंभूतः सन् ऋग्मिभिः अर्चनीयेभ्योऽपि ऋग्मी अर्चनीयो भवति । गातुभिः गातव्येभ्यः स्तोतव्येभ्योऽपि ज्येष्ठः अतिशयेन स्तोतव्यः एवंगुणविशिष्टः मरुत्वान् इन्द्रः रक्षणाय भवतु ॥ अङ्गिरोभिः । ‘अगि रगि लगि गत्यर्थाः' । अङ्गिरा अप्सराः ( उ. सू. ४. ६७५-६७६ ) इति औणादिकः असुन्प्रत्ययो निपात्यते । इदमादिषु सर्वत्र पञ्चम्यर्थे तृतीया । ऋग्मिभिः । ऋच स्तुतौ ' । संपदादिलक्षणो भावे क्विप् । मत्वर्थीयो मिनिः । पदत्वात् कुत्वं जश्त्वं च । गातुभिः ।' गा स्तुतौ ।' कमिमनिजनि' इत्यादिना कर्मणि तुप्रत्ययः ॥
“He is the swiftest among the swift, most bountiful amongst the bountiful, a friend with friends, venerable among those who claim veneration, and pre-eminent among those deserving of praise; may Indra, associated with the Maruts, be our protection.”
Among Angirases he was the chiefest, a Friend with friends, mighty amid the mighty.
Praiser mid praisers, honoured most of singers. May Indra, girt by Maruts, be our succour.
He has become the best Aṅgiras with the Aṅgirases, a bull with the bulls, while being a comrade with his comrades,
a versifier with versifiers, preeminent along the routes. – Accompanied by the Maruts, let Indra be here for us with help.
Der beste Angiras mit Angirasen, ein Stier mit Stieren, Freund ist er mit Freunden, Mit Jauchzern jauchzend und der Sänger bester, er mög' uns helfen, Indra mit den Maruts.
Er ist mit den Angiras´ der beste der Angiras, mit den Bullen der beste Bulle, mit den Freunden ein Freund, mit den Lobsängern ein Lobsänger, unter den Wegen der beste - der Indra soll uns in Begleitung der Marut zu Hilfe kommen.
С Ангирасами он бывает лучшим Ангирасом,
Быком с быками, с друзьями другом бывая,
С гимнотворцами гимнотворцем, с певцами – лучшим, -
Сопровождаемый Марутами да будет нам Индра в помощь!
स सू॒नुभि॒र्न रु॒द्रेभि॒ॠभ्वा॑ नृ॒षाह्ये॑ सास॒ह्वाँ अ॒मित्रा॑न् । सनी॑ळेभिः श्रव॒स्या॑नि॒ तूर्व॑न्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
सः । सू॒नुऽभिः॑ । न । रु॒द्रेभिः॑ । ऋभ्वा॑ । नृ॒ऽसह्ये॑ । स॒स॒ह्वान् । अ॒मित्रा॑न् । सऽनी॑ळेभिः । श्र॒व॒स्या॑नि । तूर्व॑न् । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
सूनुभिर्न पुत्रैरिव रुद्रेभिः रुद्रपुत्रैर्मरुद्भिर्युक्तः ऋभ्वा महान् एवंभूतः सः इन्द्रः नृषाह्ये नृभिः पुरुषैः सोढव्ये संग्रामे अमित्रान् शत्रून् ससह्रान् अभिभूतवान् । अपि च सनीळेभिः समाननिलयैर्मरुद्भिः सह श्रवस्यानि । श्रव इत्यन्ननाम । तद्धेतुभूतान्युदकानि तूर्वन् मेघात् प्रच्यावयन मरुत्वान् इन्द्रः अस्माकं रक्षणाय भवतु ॥ नृषाह्ये । ‘ षह मर्षणे ' । ‘ शकिसहोश्च । (पा. सू. ३. १. ९९ ) इति कर्मणि यत् । अन्येषामपि दृश्यते' इति संहितायां धात्वकारस्य दीर्घत्वम् ।' यतोऽनावः' इत्याद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । ससह्वान् ।' षह अभिभवे । लिटः क्वसुः । अभ्यासदीर्घत्वं छान्दसम् । अमित्रान् । मित्राणि एषु न सन्तीति अमित्राः । ‘ नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । सनीळेभिः । समानं नीळं येषां ते सनीळाः । समानस्य च्छन्दसि' इति सभावः ॥ ॥ ८ ॥
“Mighty with the Rudras, as if with his sons, victorious in battle over his enemies, and sending down with his co-dwellers (the waters which are productive of) food; Indra, associated with the Maruts, be our protection.”
Strong with the Rudras as with his own children, in manly battle conquering his foemen '
With his close comrades doing deeds of glory,--may Indra, girt by Maruts, be our succour.
He, the skillful one, along with the Rudras [=Maruts] as if with his own sons having conquered his foes at the time for men-conquering, along with the nest-mates [=Maruts] bringing to triumph (deeds) worthy of fame. – Accompanied by the Maruts, let Indra be here for us with help.
Der kräftig mit den Rudra's wie mit Söhnen im Männerkampfe jeden Feind bewältigt, Mit den Verwandten Ruhmesthaten durchführt, er mög' uns helfen, Indra mit den Maruts.
Mit den Rudra´s wie mit seinen Söhnen ist der Meister in der Männerschlacht der Besieger der Feinde, der mit den verbrüderten Marut alle Ruhmestaten überbietet - der Indra soll uns in Begleitung der Marut zu Hilfe kommen.
Он с Рудрами, как с сыновьями, мастер,
В борьбе за власть над мужами покоряющий врагов,
С родными (Марутами) превосходящий (все) славные деяния -
Сопровождаемый Марутами да будет нам Индра в помощь!
स म॑न्यु॒मीः स॒मद॑नस्य क॒र्तास्माके॑भि॒र्नृभि॒: सूर्यं॑ सनत् । अ॒स्मिन्नह॒न्त्सत्प॑तिः पुरुहू॒तो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
सः । म॒न्यु॒ऽमीः । स॒ऽमद॑नस्य । क॒र्ता । अ॒स्माके॑भिः । नृऽभिः॑ । सूर्य॑म् । स॒न॒त् । अ॒स्मिन् । अह॑न् । सत्ऽप॑तिः । पु॒रु॒ऽहू॒तः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
शत्रुभिरपहृतासु गोषु तैः सह युद्धार्थं विनिर्गताः ऋज्राश्वादयोऽनेन सूक्तेनेन्द्रमस्तुवन् । सः इन्द्रः मन्युमीः मन्योः कोपस्य निर्माता । यद्वा । अभिमन्यमानस्य शत्रोर्हिंसकः । अपि च समदनस्य संग्रामस्य कर्ता सत्पतिः सतां पालयिता पुरुहूतः बहुभिर्यजमानैराहूतः एवंगुणविशिष्टः सः अस्मिन् अहन् अस्मिन् दिवसे अस्माकेभिः आस्माकैः अस्मदीयैः नृभिः पुरुचैः सूर्यं सूर्यप्रकाशं सनत् संभक्तं करोतु । शत्रुपुरुषैस्तु दृष्टिनिरोधकमन्धकारं संयोजयतु । स च मरुत्वान् इन्द्रः अस्माकं रक्षणाय भवतु ॥ मन्युमीः । मन्युं मिनातीति मन्युमीः । “ मीञ् हिंसायाम् । क्विप् । समदनस्य । सह माद्यन्त्यस्मिन्निति समदनः संग्रामः । ‘ मदी हर्षे ' । अधिकरणे ल्युट् ।' सहस्य सः संज्ञायाम् ( पा. सू. ६. ३. ७८ ) इति सभावः । अस्माकेभिः । ‘ तस्मिन्नणि च युष्माकास्माकौ ' इति अणि अस्मच्छब्दस्य अस्माकादेशः । संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः। ‘ बहुलं छन्दसि ' इति भिस ऐसभावः । स्वरस्तु ' प्रास्माकासश्च सूरयः ' ( ऋ. सं. १. ९७. ३ ) इत्यत्रोक्तः । सनत् । ‘ वन षण संभक्तौ '। लेटि अडागमः । अहन् ।' सुपां सुलुक् ' इति सप्तम्या लुक् । सत्पतिः । ‘ पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरत्वम् । ।
“May he, the represser of (hostile) wrath, the author of war, the protector of the good, the invoked of many, share with our people on this day the (light of the) sun; may Indra, associated with the Maruts, be our protection.”
Humbler of pride, exciter of the conflict, the Lord of heroes, God invoked of many,
May he this day gain with our men the sunlight. May Indra, girt by Maruts, be our succour.
He, confounding the battle-fury (of the foe), the creator of the battle-elation (of the allies), has won the sun along with our men on this very day, the lord of the settlements invoked by many.
– Accompanied by the Maruts, let Indra be here for us with help.
Der Kampflust weckt und hemmt die Wuth der Feinde, durch unsre Männer mög' er Glanz erlangen, An diesem Tag ein vielgerufner Heerfürst, er mög' uns helfen, Indra mit den Maruts.
Der Vereitler der bößen Absicht, der Erreger des Streits möge mit unseren Mannen das Sonnenlicht gewinnen, an diesem Tag vielgerufen als der mächtige Herr - der Indra soll uns in Begleitung der Marut zu Hilfe kommen.
Уменьшающий ярость (врага), творец сражения,
Пусть завоюет солнце с нашими мужами,
Господин сущего, многопризываемый в этот день!
Сопровождаемый Марутами да будет нам Индра в помощь!
तमू॒तयो॑ रणय॒ञ्छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तय॑: कृण्वत॒ त्राम् । स विश्व॑स्य क॒रुण॑स्येश॒ एको॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
तम् । ऊ॒तयः॑ । र॒ण॒य॒त् । शूर॑ऽसातौ । तम् । क्षेम॑स्य । क्षि॒तयः॑ । कृ॒ण्व॒त॒ । त्राम् । सः । विश्व॑स्य । क॒रुण॑स्य । ई॒शे॒ । एकः॑ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
तम् इन्द्रं शूरसातौ शूरैर्वीरपुरुषैः संभजनीये संग्रामे ऊतयः गन्तारो मरुतः रणयन् रमयन्ति । यद्वा । प्रहर भगवो जहि वीरयस्व' इत्येवंरूपं शब्दमिन्द्रमुद्दिश्य कुर्वन्ति । अपि च क्षितयः मनुष्याः तम् इन्द्रं क्षेमस्य रक्षणीयस्य सर्वस्य धनस्य त्रां त्रातारं रक्षितारं कृण्वत कुर्वन्ति । देवतान्तरादस्य कोऽतिशयः इति चेत् उच्यते । सः इन्द्रः विश्वस्य सर्वस्य करुणस्य अभिमतफलनिष्पादनरूपस्य कर्मणः एकः असहाय एव ईशे ईष्टे । अन्यत् पूर्ववत् ॥ ऊतयः । अवतेर्गत्यर्थात् ‘ कृत्यल्युटो बहुलम् ' इति कर्तरि क्तिन् । तितुत्र' इति इट्प्रतिषेधः । ‘ ज्वरत्वर' ' इत्यादिना वकारस्योपधायाश्च ऊठ् ।' ऊतियूति० ' इत्यादिना क्तिन उदात्तत्वम् । यद्वा । कर्तरि क्तिच् । रणयन् । रमतेर्हेतुमण्णिजन्तात् वर्तमाने छान्दसो लङ् । अन्त्यविकारश्छान्दसः । यद्वा । रण शब्दार्थः ॥ अस्मात् णिजन्तात् पूर्ववत् लङ् । त्राम् ।' त्रैङ् पालने' । त्रायते इति त्राः । ‘ क्विप् च ' इति चशब्देन दृशिग्रहणानुकर्षणान्निरुपपदादपि क्विप् । करुणस्य ।' डुकृञ् करणे '।' कृवृतॄदारिभ्य उनन् । (उ. सू. ३. ३३३ ) इति भावे उनन् । व्यत्ययेन प्रत्ययाद्युदात्तत्वम् । ईशे । 'ईश ऐश्वर्ये । ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः ॥
“Hi, his allies, the Maruts, animate in battle; him, men regard as the preserver of their property; he alone presides over every act of worship; may Indra, associated with the Maruts, be our protection.”
His help hath made him cheerer in the battle, the folk have made him guardian of their comfort.
Sole Lord is he of every holy service. May Indra, girt by Maruts, be our succour.
Him do his help(er)s [=Maruts] cause to take pleasure in the contest of champions; him do the settled peoples make the protector of their peace.
He alone is lord of every undertaking. – Accompanied by the Maruts, let Indra be here for us with help.
Er freue sich, zu helfen in der Feldschlacht, zum Friedensschützer mache jedes Volk ihn, Er ist's allein, der jedes Werkes Herr ist, er mög' uns helfen, Indra mit den Maruts.
Ihn machen seine Hilfstruppen kampffroh im Streite, ihn machen die Völker zum Hort des Friedens. Er allein gebeut über jeden Erfolg - der Indra soll uns in Begleitung der Marut zu Hilfe kommen.
Помощники вызывают в нем радость битвы за героев,
Люди делают его защитником мира,
Он один управляет каждым действием,
Сопровождаемый Марутами да будет нам Индра в помощь!
तम॑प्सन्त॒ शव॑स उत्स॒वेषु॒ नरो॒ नर॒मव॑से॒ तं धना॑य । सो अ॒न्धे चि॒त्तम॑सि॒ ज्योति॑र्विदन्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
तम् । अ॒प्स॒न्त॒ । शव॑सः । उ॒त्ऽस॒वेषु॑ । नरः॑ । नर॑म् । अव॑से । तम् । धना॑य । सः । अ॒न्धे । चि॒त् । तम॑सि । ज्योतिः॑ । वि॒द॒त् । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
नरः नेतारः स्तोतारः शवसः बलस्य संबन्धिषु उत्सवेषु संग्रामेषु नरं जयस्य नेतारं तम् इन्द्रम् अप्सन्त आप्नुवन्ति । किमर्थम् । अवसे अन्नार्थं रक्षणार्थं वा । तथा धनाय धनार्थं च तम् इन्द्रं प्राप्नुवन्ति । यस्मात् सः इन्द्रः तमसि दृष्टिप्रतिबन्धके अन्धे चित् आध्यानरहिते चित्तव्यामोहकरेऽपि संग्रामे ज्योतिः विजयलक्षणं प्रकाशं विदत् लम्भयति । तस्मात् तमेव प्राप्नुवन्तीत्यर्थः । अन्यत् समानम् ॥ अप्सन्त । आप्लृ व्याप्तौ । लङि व्यत्ययेन आत्मनेपदम् । व्यत्ययेन क्सप्रत्ययः । व्यत्ययेन धातोर्ह्रस्वत्वम् । विदत् । विद्लृ लाभे'। 'छन्दसि लुङ्लङ्लिटः' इति वर्तमाने छान्दसो लुङ् । लुदित्त्वात् च्लेः अङादेशः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः ॥
“To him, a leader (to victory), his worshippers apply in contests of strength for protection and for wealth, as he grants them the light (of conquest) in the bewildering darkness (of battle); may Indra, associated with the Maruts, be our protection.”
To him the Hero, on high days of prowess, heroes for help and booty shall betake them.
He hath found light even in the blinding darkness. May Indra, girt by Maruts, be our succour.
Him they inspired [?] in the upsurgings of his vast power—the men inspired [?] the man to help, inspired [?] him to the stakes.
He found the light even in blind darkness. – Accompanied by the Maruts, let Indra be here for us with help.
Die Männer werben um den Mann zur Stärkung, zum Schutz, zur Beute in den Kriegesmühen, Im blinden Dunkel auch kann Licht er schaffen, er mög' uns helfen, Indra mit den Maruts.
Ihn, den Herrn,...... die Herren an den Festtagen der Kraft um Beistand, ihn um Beute. Er finde selbst in stockdunkler Finsternis das Licht - der Indra soll uns in Begleitung der Marut zu Hilfe kommen.
Его стремятся залучить на праздниках силы,
Мужи – мужа для помощи, его – для добычи!
Он даже в непроглядной тьме нашел солнце.
Сопровождаемый Марутами да будет нам Индра в помощь!
स स॒व्येन॑ यमति॒ व्राध॑तश्चि॒त्स द॑क्षि॒णे संगृ॑भीता कृ॒तानि॑ । स की॒रिणा॑ चि॒त्सनि॑ता॒ धना॑नि म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
सः । स॒व्येन॑ । य॒म॒ति॒ । व्राध॑तः । चि॒त् । सः । द॒क्षि॒णे । सम्ऽगृ॑भीता । कृ॒तानि॑ । सः । की॒रिणा॑ । चि॒त् । सनि॑ता । धना॑नि । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
सः इन्द्रः सव्येन वामहस्तेन एकहस्तेन व्राधतश्चित् हिंसतः महतः शत्रूनपि यमति नियमयति । तथा सः इन्द्रः दक्षिणे दक्षिणपार्श्वस्थेन हस्तेनैकेन यजमानैः कृतानि हवींषि संगृभीता संगृह्णाति । अपि च सः इन्द्रः कीरिणा चित् कीर्तयित्रा स्तोत्रा च स्तुतः सन् धनानि सनिता प्रदानशीलो भवति । हविष्प्रदातॄणामिव स्तोतॄणामपि धनं प्रयच्छतीत्यर्थः । शिष्टं स्पष्टम् ॥ यमति । ‘ यम उपरमे ' । णिचि अमन्तत्वात् मित्त्वे ‘ मितां ह्रस्वः' इति ह्रस्वत्वम् । छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ' णेरनिटि ' इति णिलोपः । व्राधतः । ‘वृधु वृद्धौ । अस्मात् अतिप्रत्ययः औणादिकः आमागमश्च । वृषादित्वादाद्युदात्तत्वम् । संगृभीता । ‘ ग्रह उपादाने ' । लिङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ लिङः सलोपः । इति सलोपः । ग्रहिज्यादिना संप्रसारणम् । ‘ हृग्रहोर्भः ' इति भत्वम् । द्व्यचोऽतस्तिङः' इति दीर्घः । सनिता । ‘ षणु दाने ' । ताच्छीलिकः तृन् । धनानि । न लोकाव्यय ' इति षष्ठीप्रतिषेधः ॥
“With his left hand he restrains the malignant, with his right he receives the (sacrificial) offerings; he is the giver of riches, (when propitiated) by one who celebrates his praise; may Indra, associated with the Maruts, be our protection.”
He with his left hand checketh even the mighty, and with his right hand gathereth up the booty.
Even with the humble he acquireth riches. May Indra, girt by Maruts, be our succour.
He with his left (hand) will hold fast even the overweening (foes), in his right will hold (all) winning throws massed together.
He, even in association with a weakling, is the winner of the stakes. – Accompanied by the Maruts, let Indra be here for us with help.
Auch die gewalt'gen lenkt er mit der Linken, in seine Rechte nimmt er alle Thaten, Auch durch den Sänger macht er grosse Beute, er mög' uns helfen, Indra mit den Maruts.
Mit der Linken bändigt er selbst die Großen, in der Rechten hält er die Siegestrümpfe fest. Selbst mit dem Armen gewinnt er die Siegerpreise - der Indra soll uns in Begleitung der Marut zu Hilfe kommen.
Он левой (рукою) обуздывает даже сопротивляющегося.
Он в правой (руке) собирает счастливые броски.
Даже со слабым (сторонником) он добывает награды.
Сопровождаемый Марутами да будет нам Индра в помощь!
स ग्रामे॑भि॒: सनि॑ता॒ स रथे॑भिर्वि॒दे विश्वा॑भिः कृ॒ष्टिभि॒र्न्व१॒॑द्य । स पौंस्ये॑भिरभि॒भूरश॑स्तीर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
सः । ग्रामे॑भिः । सनि॑ता । सः । रथे॑भिः । वि॒दे । विश्वा॑भिः । कृ॒ष्टिऽभिः॑ । नु । अ॒द्य । सः । पौंस्ये॑भिः । अ॒भि॒ऽभूः । अश॑स्तीः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
सः इन्द्रः ग्रामेभिः मरुत्संघैः सह सनिता फलानां प्रदाता भवति । सः च अद्य अस्मिन्नहनि नु क्षिप्रं विश्वाभिः कृष्टिभिः सर्वैर्मनुष्यैः रथेभिः इन्द्रसंबन्धिभिः रथैः करणभूतैः विदे विज्ञायते । अपि च सः इन्द्रः पौंस्येभिः स्वकीयैर्बलैः अशस्तीः अशंसनीयान् शत्रून् अभिभूः अभिभवन् वर्तते । मरुत्वान् सः इन्द्रः नः अस्माकं रक्षणाय भवतु ॥ ग्रामेभिः । ‘ बहुलं छन्दसि ' इति भिस ऐसभावः । ‘ग्रामादीनां च ' (फि. सू. ३८ ) इत्याद्युदात्तत्वम् । विदे। ‘ विद ज्ञाने'। कर्मणि लट् ।' बहुलं छन्दसि' इति विकरणस्य लुक् । ' लोपस्त आत्मनेपदेषु' इति तलोपः ॥ ॥ ९ ॥
“He, along with his attendants, is a benefactor; he is quickly recognized by all men today, through his chariots; by his manly energies he is victor over unruly (adversaries); may Indra, associated with the Maruts, be our protection.”
With hosts on foot and cars he winneth treasures: well is he known this day by all the people.
With manly might he conquereth those who hate him. May Indra, girt by Maruts, be our succour.
As a winner with his hordes, a winner with his chariots, he is known by all the communities now today.
He with his male powers prevails over taunts. – Accompanied by the Maruts, let Indra be here for us with help.
Durch Heere und durch Wagen macht er Beute, er macht sich heute kund bei allen Völkern; Durch Manneskraft bewältigt er die Bösen, er mög' uns helfen, Indra mit den Maruts.
Er gewinnt mit dem Heerbann, er mit dem Streitwagen; er wird auch heute noch von allen Völkern gekannt. Er bringt mit seinen Manneskräften die Lästerzungen zum Schweigen - der Indra soll uns in Begleitung der Marut zu Hilfe kommen.
Он добывает с отрядами воинов, он – с колесницами.
Он и сегодня известен всем народам.
Силами мужества он подавляет проклятия.
Сопровождаемый Марутами да будет нам Индра в помощь!
स जा॒मिभि॒र्यत्स॒मजा॑ति मी॒ळ्हेऽजा॑मिभिर्वा पुरुहू॒त एवै॑: । अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
सः । जा॒मिऽभिः॑ । यत् । स॒म्ऽअजा॑ति । मी॒ळ्हे । अजा॑मिऽभिः । वा॒ । पु॒रु॒ऽहू॒तः । एवैः॑ । अ॒पाम् । तो॒कस्य॑ । तन॑यस्य । जे॒षे । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
पुरुहूतः बहुभिर्यजमानैराहूतः सः इन्द्रः मीळ्हे संग्रामे । मीळ्हम् इति धननाम् । तद्धेतुत्वात् संग्रामोऽपि मीळ्हशब्देनोच्यते । जामिभिः बन्धुभिः अजामिभिर्वा बान्धवरहितैर्वा एवैः युद्धार्थं मरुद्भिः सह यत् यदा समजाति संगच्छते । तेषाम् उभयविधानाम् अपाम् इन्द्रं प्राप्नुवतां पुरुषाणां तोकस्य पुत्रस्य तनयस्य तत्पुत्रस्य च जेषे जयप्राप्तये सः इन्द्रः भवति । किमु वक्तव्यम् अस्माकं स्तोतृतमानां जयो भवतीति । अन्यत् समानम् । समजाति । अज गतिक्षेपणयोः । लेटि आडागमः । जेषे । ' जि जये । औणादिकः सप्रत्ययः । चतुर्थ्यर्थे सप्तमी । यद्वा । ' जेषृ णेषृ प्रेषृ गतौ । क्विप् च ' इति क्विप् । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् ॥
“Invoked by many, he goes to battle with his kinsmen, or with (followers) not of his kindred; he secures the (triumph) of those who trust him, and of their sons and grandsons; may Indra, associated with the Maruts, be our protection.”
When in his ways with kinsmen or with strangers he speedeth to the fight, invoked of many,
For gain of waters, and of sons and grandsons, may Indra, girt by Maruts, be our succour.
Since with his kindred or with his non-kin he will drive together (the warriors? the spoils?) when the prize of battle (is at stake), he is invoked by many in (many) ways
for the conquering of the waters, of life and lineage. – Accompanied by the Maruts, let Indra be here for us with help.
Wenn mit verwandten, wenn mit unverwandten der vielgerufne Männer treibt zum Kampfe, Zum Kampf für Wasser, Kinder und für Enkel, so mög' uns helfen, Indra mit den Maruts.
Wenn er mit Eifer vielgerufen mit Stammesgenossen oder Fremden im Kampfe die Beute zusammentreiben soll, wenn es sich um die Gewinnung von Wasser, von leiblichem Samen handelt - der Indra soll uns in Begleitung der Marut zu Hilfe kommen.
Когда он, многопризываемый, в борьбе с родными
Или неродными сгоняет (добычу) по своей воле,
При завоевании вод, продолжения рода, –
Сопровождаемый Марутами да будет нам Индра в помощь!
स व॑ज्र॒भृद्द॑स्यु॒हा भी॒म उ॒ग्रः स॒हस्र॑चेताः श॒तनी॑थ॒ ऋभ्वा॑ । च॒म्री॒षो न शव॑सा॒ पाञ्च॑जन्यो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
सः । व॒ज्र॒ऽभृत् । द॒स्यु॒ऽहा । भी॒मः । उ॒ग्रः । स॒हस्र॑ऽचेताः । श॒तऽनी॑थः । ऋभ्वा॑ । च॒म्री॒षः । न । शव॑सा । पाञ्च॑ऽजन्यः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
सः इन्द्रः वज्रभृत् अन्यैर्धर्तुमशक्यस्य वज्रस्य भर्ता दस्युहा दस्यूनामुपक्षपयितॄणामसुराणां हन्ता भीमः सर्वेषां भयहेतुः उग्रः उद्गूर्णतेजाः सहस्रचेताः बहुविधज्ञानः सर्वज्ञ इत्यर्थः । शतनीथः बहुस्तुतिर्बहुविधप्रापणो वा ऋभ्वा उरु भासमानो महान् वा चम्रीषो न चम्वां चमसे
रसात्मनावस्थितः सोम इव शवसा बलेन पाञ्चजन्यः । गन्धर्वा अप्सरसो देवा असुरा रक्षांसि पञ्चजनाः । निषादपञ्चमाश्चत्वारो वर्णा वा । तेषु रक्षकत्वेन भवः । एवंभूतः सः मरुत्वान् इन्द्रः नः अस्माकं रक्षणाय भवतु । । दस्युहा । ' बहुलं छन्दसि ' इति हन्तेः क्विप् । भीमः । ' ञिभी भये ' । ' भीमादयोऽपादाने ' ( पा. सू. ३. ४. ७४) इति अपादाने ' भियः षुग्वा ' ( उ. सू – १.१४५) इति मक् । शतनीथः । ' णीञ् प्रापणे ' । ' हनिकुषिनीरमिकाशिभ्यः क्थन् ' ( उ सू. २. १५९) इति क्थन्प्रत्ययः । चम्रीषः । ' इष गतौ ' । चम्वामिष्यति गच्छतीति चम्रीषः । इगुपधलक्षणः कप्रत्ययः । वर्णव्यापत्त्या रेफो दीर्घश्च । यद्वा चमेरौणादिक ईषन्प्रत्ययः । पूर्ववत् रेफः । पाञ्चजन्यः । भवार्थे बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम् ' ( का. ४. ३.५८. १) इति ञ्यप्रत्ययः । ञित्त्वात् आद्युदात्तत्वम् ॥
“He is the wielder of the thunderbolt, the slayer of robbers, fearful and fierce, knowing many things, much eulogized and mighty, and like the Soma, inspiring the five classes of beings with vigour; may Indra, associated with the Maruts, be our protection.”
Awful and fierce, fiend-slayer, thunder-wielder, with boundless knowledge, hymned by hundreds, mighty,
In strength like Soma, guard of the Five Peoples, may Indra, girt by Maruts, be our succour.
He is the mace-bearer, the Dasyu-smasher, fearsome, mighty, of a thousand insights and a hundred counsels, skillful—
like a beaker [?] in his vastness, belonging to the five peoples.
– Accompanied by the Maruts, let Indra be here for us with help.
Der Feinde schlägt, blitztragend, furchtbar, mächtig, mit tausend Plänen, hundert Listen wirkend, An Kraft wie Soma, Herr der fünf Geschlechter, er mög' uns helfen, Indra mit den Maruts.
Der Keulenträger, der Dasyutöter, der furchtbare, gewaltige Meister, der tausend Pläne und hundert Schliche hat, wie Camrisa an Kraft, bei den fünf Völkern beliebt - der Indra soll uns in Begleitung der Marut zu Hilfe kommen.
Этот носитель дубины, убийца дасью, страшный, ужасный,
Мастер с тысячью замыслов, сотней уловок,
Силой, словно сок сомы (?), почитаемый среди пяти народов,-
Сопровождаемый Марутами да будет нам Индра в помощь!
तस्य॒ वज्र॑: क्रन्दति॒ स्मत्स्व॒र्षा दि॒वो न त्वे॒षो र॒वथ॒: शिमी॑वान् । तं स॑चन्ते स॒नय॒स्तं धना॑नि म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
तस्य॑ । वज्रः॑ । क्र॒न्द॒ति॒ । स्मत् । स्वः॒ऽसाः । दि॒वः । न । त्वे॒षः । र॒वथः॑ । शिमी॑ऽवान् । तम् । स॒च॒न्ते॒ । स॒नयः॑ । तम् । धना॑नि । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
तस्य इन्द्रस्य वज्रः कुलिशः स्मत् भृशं क्रन्दति शत्रूनाक्रन्दयति रोदयतीत्यर्थः । य इन्द्रः स्वर्षाः शोभनस्योदकस्य दाता दिवो न दिवः संवन्धी सूर्य इव त्वेषः दीप्तः रवथः शब्दस्य गर्जनलक्षणस्य कर्ता शिमीवान् । शिमी इति कर्मनाम । लोकानुग्राहकेण कर्मणा युक्तः तम् इन्द्रं सनयः धनस्य दानानि सचन्ते सेवन्ते । तथा तं धनानि च सेवन्ते । सः मरुस्वान् इन्द्रः नः अस्माकं रक्षणाय भवतु ॥ क्रन्दति । कदि क्रदि क्लदि आह्वाने रोदने च । ‘छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ‘णेरनिटि ' इति णिलोपः । स्वर्षाः । सुपूर्वात् अर्तेः विच् । सुष्ठु अर्ति' गच्छतीति स्वरुदकम् । तत्सनोतीति स्वर्षाः।' षणु दाने '। ‘ जनसनखनक्रमगमो विट् । ‘ विड्वनोरनुनासिकस्यात् ' इति आत्वम् । सनोतेरनः ' ( पा. सू. ८, ३. १०८ ) इति षत्वम् । त्वेषः । ‘ त्विष दीप्तौ । पचाद्यच् । रवथः । ‘ रु शब्दे'।' शीङ्शपिगमिवञ्चिजीविप्राणिभ्योऽथः । ( उ. सू. ३. ३९३ ) इति अथप्रत्ययः । गुणावादेशौ । सनयः । सनोतेर्भावे औणादिक इप्रत्ययः ॥
“His thunderbolt draws cries (from his enemies), he is the sender of good waters, brilliant as (the luminary) of heaven, the thunderer, the promoter of beneficent acts, upon him do donations and riches attend; may Indra, associated with the Maruts, be our protection.”
Winning the light, hitherward roars his thunder like the terrific mighty voice of Heaven.
Rich gifts and treasures evermore attend him. May Indra, girt by Maruts, be our succour.
His mace roars alongside, sun-winning, like the reverberating, vehement bellowing of heaven.
Him do gains follow, him prizes. – Accompanied by the Maruts, let Indra be here for us with help.
Es rauscht mit ihm sein Blitz, der Glück verschaffet, gleichwie des Himmels wilder kräft'ger Donner; Ihm gehn zur Seite Gaben, reiche Beute; er mög' uns helfen, Indra mit den Maruts.
Seine Keule brüllt mit, das Himmelslicht gewinnend, wie des Himmels Donner ist sein Geschrei, heftig, wütig. Ihm fallen die Gewinne, ihm die Beute zu - der Indra soll uns in Begleitung der Marut zu Hilfe kommen.
Его ваджра грохочет вместе (с ним), завоевывая небо,
Неистовый, мощный рев (его), как у неба.
За ним следуют награды, за ним – добыча.
Сопровождаемый Марутами да будет нам Индра в помощь!
यस्याज॑स्रं॒ शव॑सा॒ मान॑मु॒क्थं प॑रिभु॒जद्रोद॑सी वि॒श्वत॑: सीम् । स पा॑रिष॒त्क्रतु॑भिर्मन्दसा॒नो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
यस्य॑ । अज॑स्रम् । शव॑सा । मान॑म् । उ॒क्थम् । प॒रि॒ऽभु॒जत् । रोद॑सी॒ इति॑ । वि॒श्वतः॑ । सी॒म् । सः । पा॒रि॒ष॒त् । क्रतु॑ऽभिः । म॒न्द॒सा॒नः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
यस्य इन्द्रस्य उक्थं प्रशस्यं शवसा मानं बलेन सर्वस्य परिच्छेदकं सर्वेषां बलस्योपमानभूतं वा रोदसी द्यावापृथिव्यौ विश्वतः सीं सर्वतः अजस्रम् अनवरतं परिभुजत् परितः सर्वतो भुनक्ति पालयति सः इन्द्रः क्रतुभिः अस्माभिः कृतैर्यागैः मन्दसानः मोदमानः सन् 'पारिषत् अस्मान् दुरितात् पारयतु । उक्थम् । ‘वच परिभाषणे '। ‘ पातॄतुदिवचि°' इत्यादिना कर्मणि थक् । ‘ वचिस्वपि° ' इत्यादिना संप्रसारणम् । परिभुजत् ।' भुज पालनाभ्यवहारयोः '। लेटि अडागमः । व्यत्ययेन शः । पारिषत् ।' पार तीर कर्मसमाप्तौ । लेटि अडागमः। ‘ सिब्बहुलं लेटि' इति सिप् । तस्य आर्धधातुकत्वात् इट् । व्यत्ययेन णिलोपः। मन्दसानः । मदि स्तुतिमोदसदस्वप्नकान्तिगतिषु । ‘ ऋञ्जिवृधिमन्दिसहिभ्यः कित्' ( उ. सू. २. २४४ ) इति असानच्प्रत्ययः ॥
“May he, of whom the excellent measure (of all things), through strength, eternally and everywhere cherishes heaven and earth, propitiated by our acts, convey us beyond (evil); may Indra, associated with the Maruts, be our protection.”
Whose home eternal through his strength surrounds him on every side, his laud, the earth and heaven,
May he, delighted with our service, save us. May Indra, girt by Maruts, be our succour.
Whose inexhaustible measure in its vastness, (like our) hymn, will coil around both worlds on all sides,
he will deliver (us) with his strategies while he is rejoicing.
– Accompanied by the Maruts, let Indra be here for us with help.
Er, dessen Wort und Mass an Kraft nicht abnimmt, umfassend rings den Himmel und die Erde, Er fülle sie mit Kräften voll Begeistrung, er mög' uns helfen, Indra mit den Maruts.
Dessen an Macht unerschöpfliche Größe zu einem Preislied wird, das die beiden Welten allenthalben umfaßt, er möge es zu gutem Ende führen, sich an den klugen Gedanken erfreuend - der Indra soll uns in Begleitung der Marut zu Hilfe kommen.
(Тот,) чья неисчерпаемая по силе мера- (подлинный) гимн –
Охватывает два мира со всех сторон,
Пусть спасет нас силами духа, опьяненный (сомой)!
Сопровождаемый Марутами, да будет нам Индра в помощь!
न यस्य॑ दे॒वा दे॒वता॒ न मर्ता॒ आप॑श्च॒न शव॑सो॒ अन्त॑मा॒पुः । स प्र॒रिक्वा॒ त्वक्ष॑सा॒ क्ष्मो दि॒वश्च॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
न । यस्य॑ । दे॒वाः । दे॒वता॑ । न । मर्ता॑ । आपः॑ । च॒न । शव॑सः । अन्त॑म् । आ॒पुः । सः । प्र॒ऽरिक्वा॑ । त्वक्ष॑सा । क्ष्मः । दि॒वः । च॒ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
देवता देवस्य दानादिगुणयुक्तस्य यस्य इन्द्रस्य शवसः बलस्य अन्तम् अवसानं देवाः वस्वाद्या देवगणाः न आपुः न आनशिरे तथा मर्ताः मनुष्याः आपश्चन आपोऽपि न प्रापुः । सः तादृश इन्द्रः त्वक्षसा शत्रूणां तनूकर्त्रा आत्मीयेन बलेन क्ष्मः पृथिव्याः दिवश्च स्वर्गस्य च प्ररिक्वा प्रकर्षेण रेचको भवति । लोकद्वयादप्यस्य बलमतिरिच्यते इत्यर्थः । मरुद्भिर्युक्तः सः इन्द्रः नः अस्माकम् उती ऊतये रक्षणाय भवतु ॥ देवता । देव एव देवता । ' देवात्तल्' इति स्वार्थे तल् । ‘सुपां सुलुक्' इति षष्ठ्याँ लुक् । मर्ताः । ‘मृङ् प्राणत्यागे'।' असिहसि ' इत्यादिना तन्प्रत्ययः । नितित्वादाद्युदात्तत्वम् । प्ररिक्वा । ‘ रिचिर् विरेचने '। ‘ अन्येभ्योऽपि दृश्यन्ते' इति क्वनिप् । अन्त्यविकारश्छान्दसः । त्वक्षसा। ‘ तक्षू त्वक्षू तनूकरणे '। असुन् । नित्त्वादाद्युदात्तत्वम् । क्ष्मः । क्षमा इति पृथिवीनाम । अतो धातोः' इत्यत्र ‘आतः' इति योगविभागात् इष्टसिद्धिः इत्यभिधानात् ङसि भसंज्ञायामाकारलोपः । यद्वा । 'क्ष्मायी विधूनने' । अस्मात् ' क्विप् च' इति क्विप् । वेरपृक्तलोपात् पूर्वं वलि लोपः। अन्यत् समानम्। उदात्तनिवृत्तिस्वरेण विभक्तेः उदात्तत्वम् ॥ ॥ १० ॥
“Nor gods, nor men, nor waters, have reached the limit of the strength of that beneficent (divinity) for he surpasses both earth and heaven by his foe-consuming (might); may Indra, associated with the Maruts, be our protection.”
The limit of whose power not Gods by Godhead, nor mortal men have reached, nor yet the Waters.
Both Earth and Heaven in vigour he surpasseth. May Indra, girt by Maruts, he our succour.
The limit of whose vast power no gods in their divinity, nor mortals, nor even the waters have reached—
he projects with his energy beyond earth and heaven. – Accompanied by the Maruts, let Indra be here for us with help.
Nicht Sterbliche, nicht Götter unter Göttern, das Meer nicht reicht an seiner Allmacht Ende, Er überragt an Stärke Erd' und Himmel, er mög' uns helfen, Indra mit den Maruts.
Von dessen Macht weder die Götter mit ihrer Göttlichkeit, noch die Sterblichen, nicht einmal die Gewässer das Ende erreicht haben, er ragt an Kraft über Erde und Himmel hinaus - der Indra soll uns in Begleitung der Marut zu Hilfe kommen.
Тот, предела чьей силы не достигли
Ни боги со (своей) божественностью, ни смертные, ни даже воды,
Кто благодаря деятельной силе выдается над землей и небом,-
Сопровождаемый Марутами, да будет нам Индра в помощь!
रो॒हिच्छ्या॒वा सु॒मदं॑शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व॑स्य । वृष॑ण्वन्तं॒ बिभ्र॑ती धू॒र्षु रथं॑ म॒न्द्रा चि॑केत॒ नाहु॑षीषु वि॒क्षु ॥
रो॒हित् । श्या॒वा । सु॒मत्ऽअं॑शुः । ल॒ला॒मीः । द्यु॒क्षा । रा॒ये । ऋ॒ज्रऽअश्व॑स्य । वृष॑ण्ऽवन्तम् । बिभ्र॑ती । धूः॒ऽसु । रथ॑म् । म॒न्द्रा । चि॒के॒त॒ । नाहु॑षीषु । वि॒क्षु ॥
रोहित् रोहितवर्णाः श्यावा श्यामवर्णा । उभयोः पार्श्वयोरुभयविधवर्णयुक्तेत्यर्थः । सुमदंशुः सुमत् स्वतः प्रांशुः । उक्तं च यास्केन- सुमत् स्वयमित्यर्थः ' ( निरु. ६. २२) इति । अतिदीर्घावयवा ललामीः पुण्ड्रवती अश्वभूषणयुक्ता वा द्युक्षा दिवि द्युलोके कृतनिवासा ऋज्राश्वस्य एतत्संज्ञस्य राजर्षेः राये धनार्थं वृषण्वन्तं वृष्णा सेक्ता इन्द्रेण युक्तं रथं धूर्षु युगसंबन्धिषु वहनप्रदेशेषु बिभ्रती वहन्ती मन्द्रा सर्वेषाम् आह्लादकरी अश्वपङ्क्तिः नाहुषीषु । नहुषा मनुष्याः। तत्संबन्धिनीषु विक्षु सेनालक्षणासु प्रजासु चिकेत ज्ञायते । ईदृश्याश्वपङ्क्त्या युक्त इन्द्रः संग्रामेष्वनुग्राहकतया प्रादुर्भवतीत्यर्थः । ललामीः । ललामशब्दात् ‘छन्दसीवनिपौ° ' ( पा. सू. ५. २. १०९. २) इति मत्वर्थीय ईकारः । अङयन्तत्वात् सुलोपाभावः । द्युक्षा । ‘क्षि निवासगत्योः' । औणादिको डप्रत्ययः । ततः टाप् । ऋज्राश्वस्य ।' ऋज गतिस्थानार्जनोपार्जनेषु ।' ऋजेन्द्र ' इत्यादिना रक्प्रत्ययान्तो निपातितः । ऋज्रा गतिमन्तोऽश्व यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वृषण्वन्तम् ।' अनो नुट् ' (पा. सू. ८. २. १६ ) इति मतुपो नुट् । चिकेत । ‘कित ज्ञाने'। 'छन्दसि लुङ्लङ्लिटः' इति वर्तमाने कर्मणि लिट् । व्यत्ययेन तिप् ॥
“The red and black coursers, long-limbed, well-caparisoned, and celestial, an dharnessed, well-plural ased, to the yoke of the chariot in which the showerer of benefits is conveyed, for the enrichment of Ṛjrāśva, an dis recognized amongst human hosts.”
The red and tawny mare, blaze-marked, high standing, celestial who, to bring Rjrasva riches,
Drew at the pole the chariot yoked with stallions, joyous, among the hosts of men was noted.
A chestnut, dusky mare, marked with “stalks” [?] and a blaze,
heaven-bright, a portion of the wealth of R̥jrāśva,
drawing a chariot with bulls at the chariot-poles, gladdening, has
distinguished herself among the clans of Nahuṣa.
Die rothe, dunkelbraune Stute, mit hellem Fleck auf der Stirne, mit Geschirr versehen, die glänzende aus dem Schatze [falls nicht râjna statt rāyá zu lesen ist] des Ridschrāçva, welche den hengstbespannten Wagen an den Deichseln zieht, hat sich als glückbringend gezeigt bei den benachbarten Stämmen.
Die rotbraune Stute, schöngezeichnet, mit einer Blesse, glänzend, zum Besitz des Rijrasva geschenkt, die im Joch den mit Stieren bespannten Wagen trägt, die entzückende hat unter den nahusischen Stämmen Aufsehen gemacht.
Рыжая (и) темная (кобыла), с вожжами, с белым пятном на лбу,
Сверкающая, (предназначенная) для богатства Риджрашвы,
Ведущая в упряжи колесницу, принадлежащую мужественному (Индре),
Восхитительная, появилась среди племен Нахуши.
ए॒तत्त्यत्त॑ इन्द्र॒ वृष्ण॑ उ॒क्थं वा॑र्षागि॒रा अ॒भि गृ॑णन्ति॒ राध॑: । ऋ॒ज्राश्व॒: प्रष्टि॑भिरम्ब॒रीष॑: स॒हदे॑वो॒ भय॑मानः सु॒राधा॑: ॥
ए॒तत् । त्यत् । ते॒ । इ॒न्द्र॒ । वृष्णे॑ । उ॒क्थम् । वा॒र्षा॒गि॒राः । अ॒भि । गृ॒ण॒न्ति॒ । राधः॑ । ऋ॒ज्रऽअश्वः॑ । प्रष्टि॑ऽभिः । अ॒म्ब॒रीषः॑ । स॒हऽदे॑वः । भय॑मानः । सु॒ऽराधाः॑ ॥
हे इन्द्र वृष्णे कामानां वर्षितुः ते तव त्यत् तत् एतत् उक्थं स्तोत्रं राधः संराधकं त्वत्प्रीतिहेतु वार्षागिराः वृषागिरो राज्ञः पुत्रा ऋज्राश्वादयः अभि गृणन्ति आभिमुख्येन वदन्ति। वार्षागिरा इत्येतत् विवृणोति। ऋज्राश्वः एतत्संज्ञो राजर्षिः प्रष्टिभिः पार्श्वस्थैः अन्यैर्ऋषिभिः सहेन्द्रमस्तौत् । के ते पार्श्वस्थाः । अम्बरीषादयश्चत्वारो राजर्षयः॥ वार्षागिराः । तस्यापत्यम्' (पा. सू. ४. १, ९२) इति अण्प्रत्ययः । गृणन्ति । ‘गॄ शब्दे । “ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । राधः । ‘ राध साध संसिद्धौ ‘। राध्नोति समृद्धो भवस्यनेनेति राधः । करणेऽसुन् । ऋज्राश्वः । ऋज्राः गतिमन्तोऽश्वा यस्य स तथोक्तः । अम्बरीषः । ‘ अबि शब्दे '। औणादिक ईषन्प्रत्ययः ( उ. सू. ४, ४६९)। सहदेवः । देवैः सह वर्तते इति सहदेवः । ‘वोपसर्जनस्य' इति विकल्पनात् सभावाभावः । भयमानः । ‘ ञिभी भये ' । अस्मात् अन्तर्भावितण्यर्थात् व्यत्ययेन शानच् । ‘ बहुलं छन्दसि ' इति शपः श्लोरभावः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते । सुराधाः । राधः इति धननाम । शोभनं राधो यस्य । ‘सोर्मनसी अलोमोषसी' इत्युत्तरपदाद्युदात्तत्वम् ॥
“Indra, showerer (of benefits), the Vārṣāgirās, Ṛjrāśva and his companions, Ambariṣa, Sahadeva, Bhayamāna, and Surādhās, address to you this propitiatory praise].”
The Varsagiras unto thee, O Indra, the Mighty One, sing forth this laud to please thee,
Rjrasva with his fellows, Ambarisa, Suradhas, Sahadeva, Bhayamana.
This very hymn is for you, Indra the bull. The Vārṣāgiras greet your largesse—
R̥jrāśva with his sidekicks, Ambarīṣa, Sahadeva, Bhayamāna, Surādhas.
Dieses Lied singen dir dem Stiere, o Indra, die Söhne des Vrischāgir als Huldigung; Ridschrāçva mit seinen Genossen und Ambarīscha, Sahadeva, Bhajamāna, Surādhas.
Dies Preislied ist für dich, den Bullen, Indra. Die Söhne des Vrisagir erkennen die Schenkung mit Dank an: Rijrasva mit seinen Beimännern, Ambarisa, Sahadeva, Bhayamana, Suradhas.
Вот этот гимн, о Индра, для тебя, быка.
Сыновья Вришагира воспевают дар:
Риджрашва с помощниками, Амбариша,
Сахадева, Бхаямана, Сурадхас.
दस्यू॒ञ्छिम्यूँ॑श्च पुरुहू॒त एवै॑र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब॑र्हीत् । सन॒त्क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभि॒: सन॒त्सूर्यं॒ सन॑द॒पः सु॒वज्र॑: ॥
दस्यू॑न् । शिम्यू॑न् । च॒ । पु॒रु॒ऽहू॒तः । एवैः॑ । ह॒त्वा । पृ॒थि॒व्याम् । शर्वा॑ । नि । ब॒र्ही॒त् । सन॑त् । क्षेत्र॑म् । सखि॑ऽभिः । श्वि॒त्न्येभिः॑ । सन॑त् । सूर्य॑म् । सन॑त् । अ॒पः । सु॒ऽवज्रः॑ ॥
पुरुहूतः बहुभिर्यजमानैराहूत इन्द्रः एवैः गमनशीलैर्मरुद्भिर्युक्तः सन् पृथिव्यां भूमौ वर्तमानान् दस्यून् उपक्षपयितॄन् शत्रून् शिम्यूंश्च शमयितॄन् वधकारिणो राक्षसादींश्च हत्वा प्रहृत्य तदनन्तरं शर्वा हिंसकेन वज्रेण नि बर्हीत् अवधीत्। निबर्हयतिर्वधकर्मा। एवं शत्रून्निरस्य श्वित्न्येभिः श्वेतवर्णैरलंकारेण दीप्ताङ्गैः सखिभिः मित्रभूतैर्मरुद्भिः सह क्षेत्रं शत्रूणां स्वभूतां भूमिं सनत् समभाक्षीत् । तथा वृत्रेण तिरोहितं सूर्यं तस्य वृत्रस्य हननेन सनत् समभजत प्राप्तवानित्यर्थः । तथा सुवज्रः शोभनवज्रयुक्त इन्द्रो वृत्रेण निरुद्धाः अपः वृष्ट्युदकानि सनत् समभजत ॥ दस्यून् । 'दसु उपक्षये '। ‘ यजिमनिशुन्धिदसिजनिभ्यो युः । वृषादित्वात् आद्युदात्तत्वम् । शिम्यून् । शमु उपशमे । शमयति सर्वं तिरस्करोतीति राक्षसादिः शिम्युः । औणादिको युन्प्रत्ययः । वर्णव्यापत्त्या अकारस्य इत्वम् । शर्वा । शॄ हिंसायाम् ' । अन्येभ्योऽपि दृश्यन्ते' इति वनिप् । ‘सुपां सुलुक् इति तृतीयाया डादेशः । सनत् । ‘वन षण संभक्तौ । लङि ‘बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । श्वित्न्येभिः। ‘ श्विता वर्णे ' । औणादिको नक्प्रत्ययः । श्वित्नं शुक्लवर्णमर्हन्तीति श्वित्न्याः ‘ छन्दसि च ' इति यः । सुवज्रः । ‘ आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् ॥
“Indra, who is invoked by many, attended by the moving (Maruts), having attacked the Dasyus and the Śimyus, slew them with his thunderbolt; the thunderer then divided the fields with his white-complexioned friends, and rescued the sun and set free the water.”
He, much invoked, hath slain Dasyus and Simyus, after his wont, and laid them low with arrows.
The mighty Thunderer with his fair-complexioned friends won the land, the sunlight, and the waters.
Invoked by many in (many) ways, having smashed the Dasyus and the Śimyus to the earth, he has laid them low with his missile.
He has won a dwelling place along with his bright comrades [=Maruts]; he has won the sun; he has won the waters—he with the good mace.
Die Feinde und Verderber hat der vielgerufene, nach seiner Weise schlagend zur Erde niedergeschmettert mit seinem Geschoss; er gewann mit seinen glänzenden Genossen das Land, gewann die Sonne, gewann die Gewässer, der mit schönem Blitze versehene.
Er schlage die Dasyu´s und Simyu´s, der mit Eifer vielgerufene, und strecke sie mit dem Geschoß zu Boden. Mit den weißen Freunden gewinne er Land, gewinne er die Sonne, das Wasser, mit der schönen Keule bewaffnet.
(Племена) дасью и Шимью (Индра,) призываемый по своей воле,
Убил, вогнав их в землю оружием.
Он завоевал страну вместе со (своими) светлыми друзьями.
Он завоевал солнце, он завоевал воды, (бог) с прекрасной дубиной.
वि॒श्वाहेन्द्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज॑म् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
वि॒श्वाहा॑ । इन्द्रः॑ । अ॒धि॒ऽव॒क्ता । नः॒ । अ॒स्तु॒ । अप॑रिऽह्वृताः । स॒नु॒या॒म॒ । वाज॑म् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
विश्वाहा सर्वकालं नः अस्माकम् इन्द्रः अधिवक्ता अस्तु । अधिवचनं पक्षपातेन वचनम् । यथोक्तं_’ ब्राह्मणायाधिब्रूयात् ' (तै. सं. २.५.११.९) इति । सर्वदास्माकमिन्द्रः पक्षपातवचनयुक्तो भवतु । वयं च अपरिह्वृताः अकुटिलगतयः सन्तः वाजं हविर्लक्षणमन्नं सनुयाम संभजामहे । यदनेन सूक्तेनास्माभिः प्रार्थितं तत् मित्रादयः ममहन्तां पूजितं कुर्वन्तु ॥ विश्वाहा । विश्वान्यहानि विश्वाहानि । अत्यन्तसंयोगे द्वितीया । ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । उपधादीर्घत्वं नलोपः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । अपरिह्वृताः । ह्वृ कौटिल्ये'। निष्ठायाम् ' अपरिह्वृताश्च' ( पा. सू. ७. २. ३२ ) इति निपातनात् ह्रुभावाभावः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । सनुयाम । ' षणु दाने' । लिङि तनादित्वात् उप्रत्ययः। ‘वन षण संभक्तौ ' इत्यस्मात् वा व्यत्ययेन उप्रत्ययः ॥ ॥११॥
“May Indra be daily our vindicator, and may we, with undiverted course, enjoy (abundant) food; and may Mitra, Varuṇa, Aditi--ocean, earth and heaven, preserve it to us].”
May Indra evermore be our protector, and unimperilled may we win the booty.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
Let Indra always speak up for us. Not led astray, may we win the prize. – This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
Zu aller Zeit sei Indra unser Fürsprecher, und ungefährdet mögen wir Beute erlangen; das möge uns Mitra und Varuna gewähren, Aditi, das Meer, der Himmel und die Erde.
Alle Tage soll uns Indra ein Fürsprecher sein. Unentwegt wollen wir den Siegerpreis gewinnen. Das sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
Да будет Индра все дни защищать нас словом!
Да завоюем мы награду, не сворачивая с пути!
Пусть нам щедро это даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!