प्र म॒न्दिने॑ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह॑न्नृ॒जिश्व॑ना । अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
प्र । म॒न्दिने॑ । पि॒तु॒ऽमत् । अ॒र्च॒त॒ । वचः॑ । यः । कृ॒ष्णऽग॑र्भाः । निः॒ऽअह॑न् । ऋ॒जिश्व॑ना । अ॒व॒स्यवः॑ । वृष॑णम् । वज्र॑ऽदक्षिणम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥
हे ऋत्विजः मन्दिने स्तुतिमते स्तोतव्यायेन्द्राय पितुमत् हविर्लक्षणेनान्नेनोपेतं वचः स्तुतिलक्षणं वचनं प्र अर्चत प्रकर्षेणोच्चारयत । यः इन्द्रः ऋजिश्वना एतत्संज्ञकेन राज्ञा सख्या सहितः सन् कृष्णगर्भाः । कृष्णो नाम कश्चिदसुरः । तेन निषिक्तगर्भास्तदीयाः भार्याः निरहन् अवधीत् । कृष्णमसुरं हत्वा पुत्राणाम् अपि अनुत्पत्त्यर्थं गर्भिणीस्तस्य भार्याः अप्यवधीदित्यर्थः । अवस्यवः रक्षणेच्छवो वयं वृषणं कामानां वर्षितारं वज्रदक्षिणं वज्रयुक्तेन दक्षिणहस्तेनोपेतं तं मरुत्वन्तम् इन्द्रं सख्याय सख्युः कर्मणे हवामहे आह्वयामहे ॥ मन्दिने । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' । औणादिकः इनिप्रत्ययः । तदुक्तं यास्केन-’ मन्दी मन्दतेः स्तुतिकर्मणः ' (निरु. ४. २४ ) इति । पितुमत् ।
‘ ह्रस्वनुड्भ्यां मतुप् ' इति मतुप उदात्तत्वम् । कृष्णगर्भाः कृष्णेन निषिक्ताः गर्भाः यासु तास्तथोक्ताः। ‘ परादिश्छन्दसि बहुलम् ' इति पूर्वपदान्तोदात्तत्वम् । अवस्यवः । अवेरौणादिको भावेऽसुन्। अवः इच्छति अवस्यति । सुप आत्मनः क्यच् ' । ‘क्याच्छन्दसि ' इति उप्रत्ययः । वृषणम् । वा षपूर्वस्य निगमे ' इति विकल्पनादुपधादीर्घाभावः । सख्याय । सख्युः कर्म सख्यम् ।' सख्युर्यः' इति यप्रत्ययः । हवामहे । ह्वेञो लटि ‘ बहुलं छन्दसि ' इति संप्रसारणम् ॥
“Offer adoration with oblations to him who is delighted (with praise), who, with Ṛjiśvan, destroyed the pregnant wives of Kṛṣṇa; desirous of protection, we invoke, to become our friend, him, who is the showerer (of benefits), who holds the thunderbolt in his right hand, attended by the Maruts.”
SING, with oblation, praise to him who maketh glad, who with Rjisvan drove the dusky brood away.
Fain for help, him the strong whose right hand wields the bolt, him girt by Maruts we invoke to be our Friend.
Address a nourishing speech to the exultant one, who, along with R̥jiśvan, aborted the (strongholds) with their black embryos.
Seeking help from the bull with the mace in his right hand, the one
accompanied by the Maruts do we call for partnership.
Auf, singt dem muntern ein mit Trank gepaartes Lied, der mit Ridschiçvan Wasser schlug aus dunklem Schooss, Zum Bündniss rufen hülfsbegierig wir den Stier, der mit den Maruts kommt, den Blitz in rechter Hand.
Stimmet für den Rauschliebenden eine trankbegleitete Rede an, der im Bund mit Rijisvan den mit den Schwarzen Schwangeren die Leibesfrucht abtrieb. Schutzsuchend rufen wir den Bullen mit der Keule in der Rechten - den Marutbegleiteten rufen wir zur Freundschaft.
Заводите подкрепляемую питьем речь для того, кто любит опьянение,
Который вместе с Риджишваном разбил брюхатые черно(кожими крепости)!
Желая помощи, мужественного (бога) с ваджрой в правой руке –
Сопровождаемого Марутами мы зовем для дружбы!
यो व्यं॑सं जाहृषा॒णेन॑ म॒न्युना॒ यः शम्ब॑रं॒ यो अह॒न्पिप्रु॑मव्र॒तम् । इन्द्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
यः । विऽअं॑सम् । ज॒हृ॒षा॒णेन॑ । म॒न्युना॑ । यः । शम्ब॑रम् । यः । अह॑न् । पिप्रु॑म् । अ॒व्र॒तम् । इन्द्रः॑ । यः । शुष्ण॑म् । अ॒शुष॑म् । नि । अवृ॑णक् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥
यः इन्द्रः जहृषाणेन प्रवृद्धेन मन्युना क्रोधेन व्यंसं विगतभुजं वृत्रम् अहन् अवधीत् । अपि च यः इन्द्रः शम्बरम् एतत्संज्ञमसुरं चावधीत् । तथा अव्रतं व्रतस्य यागादेः कर्मणो विरोधिनं पिप्रुम् एतत्संज्ञमसुरं च यः इन्द्रोऽवधीत् । किंच यः इन्द्रः अशुषं शोषकरहितं शुष्णं सर्वस्य जगतः शोषकमेतत्संज्ञमसुरं नि अवृणक् न्यवर्जयत् । समूलं हतवानित्यर्थः । तं मरुत्वन्तम् इन्द्रं सख्याय आह्वयामहे ॥ व्यंसम्। विगतः अंसो यस्मात् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यणः ‘ उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितत्वम् । जहृषाणेन । 'हृष तुष्टौ । अत्र वृद्ध्यर्थः । ‘छन्दसि लिट्, ‘ लिटः कानज्वा' इति तस्य कानजादेशः । अन्येषामपि दृश्यते ' इति संहितायामभ्यासस्य दीर्घत्वम् । चित्त्वादन्तोदात्तत्वम् । अशुषम् । शुष शोषणे' । इगुपधलक्षणः कः । शुषाः शोषका न सन्त्यस्येति अशुषः । परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । अवृणक् । ‘ वृजी वर्जने '। रौधादिकः ॥
“We invoke to be our friend, Indra, who is attended by the Maruts; he who, with increasing wrath, slew the mutilated Vṛtra and Śambara, and the unrighteous Pipru, and who extirpated the unabsorbable Śuṣṇa”
Indra, who with triumphant wrath smote Vyamsa down, and Sambara, and Pipru the unrighteous one;
Who extirpated Susna the insatiate,--him girt by Maruts we invoke to be our Friend.
Who with his bristling battle-fury smote the one with its shoulders apart [=Vr̥tra =cobra], who smote Śambara, who smote Pipru who followed no commandment,
Indra, who wrenched down insatiable Śuṣṇa—the one accompanied by the Maruts do we call upon for partnership.
Den Indra, der Viansa schlug in trunknem Muth, den ungerechten Pipru und den Çambara, Zu Boden warf den Çuschna, den gefrässigen, ihn und die Maruts rufen wir zum Bündniss her.
Der mit kampfbegierigem Ingrimm den Vyamsa, der den Sambara, der den unbotmäßigen Pipru erschlug. Indra, der den gefräßigen Susna niederrang - den Marutbegleiteten rufen wir zur Freundschaft.
Кто, возбужденный гневом, – Вьянсу,
Кто – Шамбару, кто убил Пипру, не знающего обетов,
Индра, который низверг прожорливого Шушну, – (его),
Сопровождаемого Марутами мы зовем для дружбы!
यस्य॒ द्यावा॑पृथि॒वी पौंस्यं॑ म॒हद्यस्य॑ व्र॒ते वरु॑णो॒ यस्य॒ सूर्य॑: । यस्येन्द्र॑स्य॒ सिन्ध॑व॒: सश्च॑ति व्र॒तं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
यस्य॑ । द्यावा॑पृथि॒वी इति॑ । पौंस्य॑म् । म॒हत् । यस्य॑ । व्र॒ते । वरु॑णः । यस्य॑ । सूर्यः॑ । यस्य॑ । इन्द्र॑स्य । सिन्ध॑वः । सश्च॑ति । व्र॒तम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥
यस्य इन्द्रस्य महत् विपुलं पौंस्यं बलं द्यावापृथिवी द्यावापृथिव्यावनुवर्तेते । यस्य चेन्द्रस्य व्रते नियमरूपे कर्मणि वरुणः वर्तते । वरुणोऽपीन्द्रस्य नियमनं नातिक्रामतीत्यर्थः । अपि च सूर्यः अपि यस्य इन्द्रस्य व्रते वर्तते । तथा यस्य इन्द्रस्य व्रतं कर्म सिन्धवः नद्यः सश्चति । वचनव्यत्ययः । गच्छन्ति । सश्चतिर्गतिकर्मा । इन्द्रेणानुशिष्टाः प्रवहन्तीत्यर्थः । तं मरुत्वन्तम् इन्द्रं सख्याय आह्वयामहे ॥ द्यावापृथिवी । द्यौश्च पृथिवी च द्यावापृथिव्यौ । ‘ दिवो द्यावा ' इति द्यावादेशः । स चाद्युदात्तो निपातितः । पृथिवीशब्दो ङीष्प्रत्ययान्तः अन्तोदात्तः । ‘ देवताद्वन्द्वे च' इत्युभयपदप्रकृतिस्वरत्वम् । “ वा छन्दसि ' इति पूर्वसवर्णदीर्घः ॥
“We invoke to become our friend, Indra, who is attended by the Maruts; whose great power (pervades) heaven and earth, in whose service Varuṇa and Sūrya are steadfast, and whose commadn the rivers obey.”
He whose great work of manly might is heaven and earth, and Varuna and Surya keep his holy law;
Indra, whose law the rivers follow as they flow,--him girt by Maruts we invoke to be our Friend.
Whose great masculine nature Heaven and Earth (strengthen); in whose commandment is Varuṇa, in whose is Sūrya,
Indra, whose commandment the rivers follow—the one accompanied by the Maruts do we call upon for partnership.
Des grosser Stärke Erd' und Himmel folgsam sind, in dessen Macht Varuna steht und Suria, Den Indra, dessen Macht der Ströme Flut gehorcht, ihn und die Maruts rufen wir zum Bündniss her.
Des großer Manneskraft Himmel und Erde sich fügen, in des Gebot Varuna, in des Gebot die Sonne stehen, Indra, des Gebot die Ströme folgen, - den Marutbegleiteten rufen wir zur Freundschaft.
От чьей великой мужской силы (зависят) небо и земля,
В чьем обете – Варуна, в чьем – Сурья,
Индра, чьему обету следуют реки, – (его,)
Сопровождаемого Марутами мы зовем для дружбы!
यो अश्वा॑नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ॑रि॒तः कर्म॑णिकर्मणि स्थि॒रः । वी॒ळोश्चि॒दिन्द्रो॒ यो असु॑न्वतो व॒धो म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
यः । अश्वा॑नाम् । यः । गवा॑म् । गोऽप॑तिः । व॒शी । यः । आ॒रि॒तः । कर्म॑णिऽकर्मणि । स्थि॒रः । वी॒ळोः । चि॒त् । इन्द्रः॑ । यः । असु॑न्वतः । व॒धः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥
यः इन्द्रः अश्वानां पतिरधिपतिः । तथा यः इन्द्रः गोपतिः । न केवलमेकस्या गोः किंतु सर्वासामित्याह गवाम् इति । सर्वासां गवाम् अधिपतिर्भवति । वशी अपराधीनः । स्वतन्त्र इत्यर्थः । अपि च यः इन्द्रः कर्मणिकर्मणि सर्वेषु कर्मसु स्थिरः नैश्चल्येनावतिष्ठमानः आरितः स्तुतिभिः प्रत्यृतः प्राप्तो भवति । ‘आरितः प्रत्यृतः स्तोमान्' (निरु. ५. १५) इति निरुक्तम् । यः च इन्द्रः असुन्वतः सुन्वतां यागानुष्ठातॄणां विरोधिनः वीळोश्चित् दृढस्यापि शत्रोः वधः हन्ता तं मरुत्वन्तम् इन्द्रं सख्याय आह्वयामहे ॥ गवाम् । न गोश्वन्साववर्ण° ' इति विभक्त्युदात्तत्वस्य प्रतिषेधः । गोपतिः ।' पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरत्वम् । आरितः । ‘ऋ ‘ गतौ । अस्मात् ण्यन्तात् निष्ठा । आगमानुशासनस्यानित्यत्वात् पुगभावः । यद्वा । ‘ सूचिसूत्रिमूञ्यट्यर्त्यशूर्णोतीनाम् ' (पा. म. ३. १. २२. ३) इति विहितस्य यङः ‘यङोऽचि च' इत्यत्र चशब्देन बहुलग्रहणानुकर्षणादनैमित्तिके लुकि प्रत्ययलक्षणेन ‘ सन्यङोः ' इति ऋ इत्येतस्य द्विर्वचने उरदत्वहलादिशेषयोः सतोः ‘ रुग्रिकौ च लुकि ' इति रुक् । ततो निष्ठायां छान्दस इडागमः। ऋकारस्य यणादेशः । ‘रो रि' इति अभ्यासरेफलोपः । ‘ ढ्रलोपे पूर्वस्य दीर्घाऽणः' इति दीर्घत्वम् । वधः । ‘ कृत्यल्युटो बहुलम्' इति बहुलवचनात् ' हनश्च वधः' इति कर्तरि अप् वधादेशश्च । स. चादन्तः । अतो लोपे उदात्तनिवृत्तिस्वरेण प्रत्ययस्य उदात्तत्वम्॥
“Who is th elord over all horses and cattle, who is independent, who, propitiated by praise, is constant in every act, and who is the slayer of the obstinate abstainer from libations; we invoke to become our friend, Indra, attended by the Maruts.”
He who is Lord and Master of the steeds and kine, honoured--the firm and sure--at every holy act;
Stayer even of the strong who pours no offering out,--him girt by Maruts we invoke to be our Friend.
Who of horses, who of cows is the herdsman exerting his will; who is acknowledged as steadfast in every action, Indra, who is the weapon of death for the non-presser, even one
standing firm—the one accompanied by the Maruts do we call upon for partnership.
Den mächt'gen Indra, der der Ross' und Rinder Herr, ihn, der geehrt, der fest in jedem Werke ist, Der auch den Starken, der nicht Soma braut, erschlägt, ihn und die Maruts rufen wir zum Bündniss her.
Der der gebietende Herr der Rosse, der als der Standhafte bei jedem Unternehmen anerkannt ist, Indra, der der Tod auch des Trutzigen, der kein Soma opfert - den Marutbegleiteten rufen wir zur Freundschaft.
Кто властный господин коней, кто (господин) коров,
Кто стоек в любом действии, когда его приведут в возбуждение,
Кто смертельный удар для невыжимающего (сому), даже если тот тверд, – (его,)
Сопровождаемого Марутами мы зовем для дружбы.
यो विश्व॑स्य॒ जग॑तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे॑ प्रथ॒मो गा अवि॑न्दत् । इन्द्रो॒ यो दस्यूँ॒रध॑राँ अ॒वाति॑रन्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
यः । विश्व॑स्य । जग॑तः । प्रा॒ण॒तः । पतिः॑ । यः । ब्र॒ह्मणे॑ । प्रथ॒मः । गाः । अवि॑न्दत् । इन्द्रः॑ । यः । दस्यू॑न् । अध॑रान् । अ॒व॒ऽअति॑रत् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥
यः इन्द्रः विश्वस्य जगतः गच्छतः प्राणतः प्रश्वसतः प्राणिजातस्य पतिः स्वामी यः च ब्रह्मणे ब्राह्मणजातिभ्योऽङ्गिरोभ्यः प्रथमः अन्येभ्यो देवेभ्यः पूर्वभावी सन् पणिभिरपहृताः गा: अविन्दत् अलभत । अन्येभ्यो देवेभ्यः पूर्वमेव तैरसुरैर्युद्ध्वा गाः स्वयमलभतेत्यर्थः । अपि च यः इन्द्रः दस्यून् उपक्षपयितॄनसुरान् अधरान निकृष्टान् कृत्वा अवातिरत् अवधीत् । अवतरतिर्वधकर्मा । तं मरुत्वन्तम् इन्द्रं सख्याय आह्वयामहे ॥ जगतः । ‘ गम्लृ सप्लृ गतौ' । वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च' ( उ. सू. २. २४१ ) इति अतिप्रत्ययान्तो निपातितो जगच्छब्द आद्युदात्त: । प्राणतः । ‘ श्वस प्राणने, अन च ' । अस्मात् लटः शतृ । अदादित्वात् शपो लुक् । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम् ॥
“Who is the lord of all moving and breathing creatures, who first recovered the (stolen) kine for the Brāhmaṇa, and who slew the humbled Dasyus; we invoke to become our friend, Indra, attended by the Maruts.”
He who is Lord of all the world that moves and breathes, who for the Brahman first before all found the Cows;
Indra who cast the Dasyus down beneath his feet,--him girt by Maruts we invoke to be our Friend.
Who is the lord of everything moving and breathing, who first found the cows for the maker of sacred formulations,
Indra, who brought the Dasyus down low—the one accompanied by the Maruts do we call upon for partnership.
Den Herrn von allem, was da geht und Odem hat, ihn, der zuerst dem Beter Kühe hat verschafft, Den Indra, der die Feinde tief zu Boden schlug, ihn und die Maruts rufen wir zum Bündniss her.
Der der Herr all dessen, was lebt, was atmet, der zuerst für den der heiligen Rede kundigen die Kühe fand, Indra, der die Dasyu´s unterwarf - den Marutbegleiteten rufen wir zur Freundschaft.
Кто господин всего, что движется (и) дышит,
Кто первым нашел коров для брахмана,
Индра, который сверг вниз дасью, – (его,)
Сопровождаемого Марутами мы зовем для дружбы.
यः शूरे॑भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभि॑: । इन्द्रं॒ यं विश्वा॒ भुव॑ना॒भि सं॑द॒धुर्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
यः । शूरे॑भिः । हव्यः॑ । यः । च॒ । भी॒रुऽभिः॑ । यः । धाव॑त्ऽभिः । हू॒यते॑ । यः । च॒ । जि॒ग्युभिः॑ । इन्द्र॑म् । यम् । विश्वा॑ । भुव॑ना । अ॒भि । स॒म्ऽद॒धुः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥
यः इन्द्रः शूरेभिः शौर्योपेतैः पुरुषैः हव्यः योद्धुमाह्वातव्यः । यश्च भीरुभिः भयशीलैः कातरैः पुरुषैः सहायार्थमाह्वातव्यः । अपि च यः इन्द्रः धावद्भिः पराजयेन पलायमानैः हूयते रक्षार्थमाहूयते । यश्च जिग्युभिः प्राप्तजयैराहूयते । यं च इन्द्रं विश्वा भुवना सर्वाणि भूतजातानि स्वेषु स्वेषु कार्येषु अभि संदधुः आभिमुख्येन स्थापयन्ति । तं मरुत्वन्तम् इन्द्रं सख्याय आह्वयामहे ॥ शूरेभिः । ‘ बहुलं छन्दसि ' इति भिस ऐसभावः । हव्यः । ह्वयतेः ‘ अचो यत्' इति यत् । “ ह्वः' इत्यनुवृत्तौ ‘ बहुलं छन्दसि' इति संप्रसारणम् । गुणे ‘ धातोस्तन्निमित्तस्यैव' इति अवादेशः । भीरुभिः । ‘ भियः क्रुक्लुकनौ ' ( पा. सू. ३. २. १७४) इति क्रुप्रत्ययः । धावद्भिः । ‘ सृ गतौ । सर्तेः वेगितायां शपि: पाध्रा०' इत्यादिना धावादेशः। शपः पित्त्वात् अनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । जिग्युभिः ।' जि जये। लिटः क्वसुः । द्विर्वचने ‘ सन्लिटोर्जेः' इति अभ्यासादुत्तरस्य जकारस्य कुत्वम् । भिसि अयस्मयादित्वेन भत्वात् ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । छान्दसोऽन्त्यलोपः ॥ ॥ १२ ॥
“Who is to be invoked by the brave and by the timid, by the vanquished and by victors, and whom all eings plural ce before them (in their ites); we invoke to become our friend, Indra, attended by the Maruts.”
Whom cowards must invoke and valiant men of war, invoked by those who conquer and by those who flee;
Indra, to whom all beings turn their constant thought,--him girt by Maruts we invoke to be our Friend.
Who is to be called upon by champions and who by the fearful, who is called upon by those on the run and who by the victors,
Indra, whom all beings altogether set their sights on—the one
accompanied by the Maruts do we call upon for partnership.
Der anzuflehn von Helden und von Feigen ist, von Fliehenden und Siegern angerufen wird, Den Indra, welchem alle Wesen fest vertraun, ihn und die Maruts rufen wir zum Bündniss her.
Der von den Tapferen und der von den Zagen anzurufen ist, der von den Fliehenden angerufen wird und von den Siegern, Indra, auf den alle Geschöpfe ihr Augenmerk gerichtet haben - den Marutbegleiteten rufen wir zur Freundschaft.
Кого должны призывать герои и (те,) что трусы,
Кого зовут бегущие и (те,) что победили,
Индру, на ком сосредоточены все существа, – (его,)
Сопровождаемого Марутами мы зовем для дружбы.
रु॒द्राणा॑मेति प्र॒दिशा॑ विचक्ष॒णो रु॒द्रेभि॒र्योषा॑ तनुते पृ॒थु ज्रय॑: । इन्द्रं॑ मनी॒षा अ॒भ्य॑र्चति श्रु॒तं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
रु॒द्रा॒णा॑म् । ए॒ति॒ । प्र॒ऽदिशा॑ । वि॒ऽच॒क्ष॒णः । रु॒द्रेभिः॑ । योषा॑ । त॒नु॒ते॒ । पृ॒थु । ज्रयः॑ । इन्द्र॑म् । म॒नी॒षा । अ॒भि । अ॒र्च॒ति॒ । श्रु॒तम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥
विचक्षणः सूर्यात्मना प्रकाशमान इन्द्रः रुद्राणां रुद्रपुत्राणाम् अध्यात्मं प्राणरूपेण वर्तमानानां मरुताम् । यद्वा । रोदयितॄणां प्राणानाम् । प्राणा हि शरीरात् निर्गताः सन्तो बन्धुजनान् रोदयन्ति । प्रदिशा प्रदेशनेन मनुष्येभ्यः प्रदानेन सह एति अन्तरिक्षे गच्छति। तथा चाम्नायते- योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति ' ( तै. आ. १. १४. १ ) इति । अपि च रुद्रेभिः अधिभूतं वर्तमानैः रुद्रपुत्रैर्मरुद्भिः योषा माध्यमिका वाक् पृथु विस्तीर्णं ज्रयः वेगं तनुते विस्तारयति । प्रसंगादत्र मरुतां स्तुतिः । तैर्मरुद्भिः सह वर्तमानं श्रुतं प्रख्यातं सूर्यात्मानम् इन्द्रं मनीषा स्तुतिलक्षणा वाक् अभ्यर्चति आभिमुख्येन स्तौति । तं मरुत्वन्तम् इन्द्रं सख्याय आह्वयामहे ॥ प्रदिशा । ‘ दिश अतिसर्जने' । संपदादिलक्षणो भावे क्विप्। ज्रयः । ‘ जि ज्रि अभिभवे । ज्रीयतेऽभिभूयतेऽजेनेति ज्रयो वेगः । करणे असुन् । मनीषा । ईषाअक्षादित्वात् प्रकृतिभावः ॥
“The radiant Indra proceeds (along the firmament) with the manifestation of the Rudras; through the Rudras, speech spreads with more expansive celerity, and praise glorifies the renowned Indra; him, attended by the Maruts, we invoke to become our friend.”
Refulgent in the Rudras' region he proceeds, and with the Rudras through the wide space speeds the Dame.
The hymn of praise extols Indra the far-renowned: him girt by Maruts we invoke to be our Friend.
At the Rudras’ [=Maruts’] direction he goes, wide-gazing; along with the Rudras the maiden [=Rodasī] stretches her broad
expanse.
Indra the famed does the inspired thought address—the one
accompanied by the Maruts do we call upon for partnership.
Weitblickend schreitet nach der Rudra's Weisung er, wenn mit den Rudra's weit sich dehnt das Morgenroth, Den hehren Indra preiset laut der Lobgesang, ihn und die Maruts rufen wir zum Bündniss her.
Der Weitschauende geht nach der Weisung der Rudrasöhne, die junge Frau dehnt mit den Rudrasöhnen ihren breiten Lauf aus. Den berühmten Indra preist die Dichtung - den Marutbegleiteten rufen wir zur Freundschaft.
Он идет по указу Рудр, далеко смотрящий.
Юная женщина широко простирает (свой) бег вместе с Рудрами.
Индру, знаменитого, воспевает поэтическая мысль, - (его,)
Сопровождаемого Марутами мы зовем для дружбы.
यद्वा॑ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा॑व॒मे वृ॒जने॑ मा॒दया॑से । अत॒ आ या॑ह्यध्व॒रं नो॒ अच्छा॑ त्वा॒या ह॒विश्च॑कृमा सत्यराधः ॥
यत् । वा॒ । म॒रु॒त्वः॒ । प॒र॒मे । स॒धऽस्थे॑ । यत् । वा॒ । अ॒व॒मे । वृ॒जने॑ । मा॒दया॑से । अतः॑ । आ । या॒हि॒ । अ॒ध्व॒रम् । नः॒ । अच्छ॑ । त्वा॒ऽया । ह॒विः । च॒कृ॒म॒ । स॒त्य॒ऽरा॒धः॒ ॥
हे मरुत्वः मरुद्भिर्युक्तेन्द्र परमे उत्कृष्टे सधस्थे सहस्थाने गृहे यद्वा यदि वा मादयासे । तृप्तो वर्तसे । यद्वा यदि वा अवमे अर्वाचीने वृजने । वृज्यते रिक्तीक्रियतेऽस्मिन् धनमिति वृजनं गृहम् । तस्मिन् मादयासे । अतः अस्मादुभयविधात् स्थानात् नः अस्माकं अध्वरं यज्ञम् अच्छ आभिमुख्येन आ याहि आगच्छ । हे सत्यराधः सत्यधन" त्वाया त्वत्कामनया वयं हविश्चकृम कृतवन्तः ॥ मरुत्वः । ‘ मतुवसो रुः० ' इति संबुद्धौ नकारस्य रुत्वम् । सधस्थे । ‘ सुपि स्थः' इति कप्रत्ययः । ‘ सध मादस्थयोश्छन्दलि' इति सहस्य सधादेशः । मादयासे । ‘ मद तृप्तियोगे'। चुरादिरात्मनेपदी । लेटि आडागमः । त्वाया । त्वामात्मन इच्छति । ‘ सुप आत्मनः क्यच् ' । ‘ प्रत्ययोत्तरपदयोश्च ' इति मपर्यन्तस्य त्वादेशः । व्यत्ययेन दकारस्य आत्वम् । 'अ प्रत्ययात्' इति अकारप्रत्ययः । सुपां सुलुक्' इति तृतीयाया लुक् ॥
“Attended by the winds, giver of true wealth, whether you may be plural ased (to dwell) in a stately mansion or in a lowly dwelling, come to our sacrifice; desirous of your presence, we offer you oblations.”
O girt by Maruts, whether thou delight thee in loftiest gathering-place or lowly dwelling,
Come thence unto our rite, true boon-best-ower: through love of thee have we prepared oblations.
Whether you, accompanied by the Maruts, will reach exhilaration in the furthest seat or in the nearest (ritual) circle,
from there journey here to our ceremony: with desire for you we have made an oblation, o you whose generosity is real.
Wenn mit den Maruts du im höchsten Sitze, wenn du in tiefster Stätte dich berauschest, Von dort komm her zu unserm Opferfeste; wir brauten Trank, Gutschenker, dir zu Liebe.
Ob du, Marutbegleiter, am entferntesten Ort bist, ob du bei dem nächsten Opferbund dich ergötzest, komm von dort zu unserem Gottesdienst! Um deinetwillen haben wir das Opfer bereitet, du wahrhaft Freigebiger.
Если ты, о сопровождаемый Марутами, в самом отдаленном месте,
Или если ты опьяняешься в ближайшей общине,
Приезжай оттуда на наш обряд!
Из любви к тебе мы приготовили жертвенное возлияние, о истинно дарящий!
त्वा॒येन्द्र॒ सोमं॑ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः । अधा॑ नियुत्व॒: सग॑णो म॒रुद्भि॑र॒स्मिन्य॒ज्ञे ब॒र्हिषि॑ मादयस्व ॥
त्वा॒ऽया । इ॒न्द्र॒ । सोम॑म् । सु॒सु॒म॒ । सु॒ऽद॒क्ष॒ । त्वा॒ऽया । ह॒विः । च॒कृ॒म॒ । ब्र॒ह्म॒ऽवा॒हः॒ । अध॑ । नि॒ऽयु॒त्वः॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ ॥
हे सुदक्ष शोभनबल इन्द्र त्वाया त्वत्कामनया सोमं सुषुम अभिषुतवन्तो वयम् । हे ब्रह्मवाहः ब्रह्मणा मन्त्ररूपेण स्तोत्रेणोह्यमान प्राप्यमाणेन्द्र त्वाया त्वत्कामनया आहवनीये पुरोडाशलक्षणं हविश्चकृम कृतवन्तः। हे नियुत्वः । नियुतोऽश्वाः । तद्वन्निन्द्र अधा अनन्तरं मरुद्भिः सप्तगणरूपैरेतत्संज्ञैर्देवैः सगणः गणसहितः सन् 'अस्मिन् वर्तमाने यज्ञे बर्हिषि आस्तीर्णे दर्भे उपविश्य मादयस्व तृप्तो भव ॥ सुषुम ।' षुञ् अभिषवे'। लिटि क्रादिनियमप्राप्तस्य इटः “ अनित्यमागमशासनम्' इति वचनादभावः ॥
“Desirous of you, Indra, who are possessed of excellent strenghth, we pour forth to you libations desirous of you, who are obtained by prayer, we offer you oblations; therefore, do you, who are possessed of horses, sit down with plural asure upon the sacred grass, attended by the Maruts, at this sacrifice.”
We, fain for thee, strong Indra, have pressed Soma, and, O thou sought with prayer, have made oblations.
Now at this sacrifice, with all thy Maruts, on sacred grass, O team-borne God, rejoice thee.
With desire for you we have pressed soma, o very skillful Indra; with desire for you we have made an oblation, o you whose vehicle is the sacred formulation.
So, you with your teams, flocking with the Maruts—reach exhilaration at this sacrifice here, on this ritual grass.
Wir brauten Soma, Indra, dir zu Liebe, und Trank, erflehter, starker, dir zu Liebe; Berausch dich nun, umgeben von den Maruts, mit deinen Rossen auf der Streu beim Opfer.
Um deinetwillen, Indra, haben wir Soma ausgepresst, du Wohlverständiger, um deinetwillen das Opfer bereitet, für den die feierliche Rede eine Anziehungskraft hat. Darum, du Niyutfahrer, berausche dich mit dem Gefolge der Marut bei diesem Opfer auf dem Barhis!
Из любви к тебе, о Индра, мы выжали сому, о прекрасный силой действия!
Из любви к тебе мы приготовили жертвенное возлияние, о влекомый молитвой!
Поэтому, о ездящий с упряжками, с толпой Марутов,
Опьяняйся этой жертвой на жертвенной соломе!
मा॒दय॑स्व॒ हरि॑भि॒र्ये त॑ इन्द्र॒ वि ष्य॑स्व॒ शिप्रे॒ वि सृ॑जस्व॒ धेने॑ । आ त्वा॑ सुशिप्र॒ हर॑यो वहन्तू॒शन्ह॒व्यानि॒ प्रति॑ नो जुषस्व ॥
मा॒द्य॑स्व । हरि॑ऽभिः । ये । ते॒ । इ॒न्द्र॒ । वि । स्य॒स्व॒ । शिप्रे॑ । वि । सृ॒ज॒स्व॒ । धेने॒ इति॑ । आ । त्वा॒ । सु॒ऽशि॒प्र॒ । हर॑यः । व॒ह॒न्तु॒ । उ॒शन् । ह॒व्यानि॑ । प्रति॑ । नः॒ । जु॒ष॒स्व॒ ॥
हे इन्द्र हरिभिः अश्वैः सह मादयस्व तृप्तो भव । ये ते तव स्वभूतास्तदर्थं शिप्रे हनू संहते वि ष्यस्व सोमपानार्थं विवृते कुरु । तथा धेने पानसाधनभूते जिह्वोपजिह्विके वि सृजस्व सोमपानार्थं विश्लिष्टे कुरु । हे सुशिप्र । शिप्रे हनू नासिके वा '। शोभनशिप्रेन्द्र त्वा त्वां हरयः अश्वाः आ वहन्तु अस्मदीयं यज्ञं प्रापयन्तु । त्वं च उशन् अस्मान् कामयमानः नः अस्माकं हव्यानि हवींषि प्रति जुषस्व प्रत्येकं सेवस्व मा उदासिष्ठाः ॥ वि ष्यस्व । षो अन्तकर्मणि '। व्यत्ययेन आत्मनेपदम् । दिवादित्वात् श्यन् । ‘ओतः श्यनि ' ( पा. सू. ७. ३. ७१ ) इति ओकारलोपः ।' उपसर्गात्सुनोति° ' इति षत्वम् ॥
“Rejoice, Indra, with the steeds who are of your nature; open your jaws, set wide your throat (to drink Soma); let your horses bring you, who have a handsome chin, (hither), and, benignant towards us, be plural ased by our oblations.”
Rejoice thee with thine own Bay Steeds, O Indra, unclose thy jaws and let thy lips be open.
Thou with the fair cheek, let thy Bay Steeds bring thee: gracious to us, he pleased with our oblation.
Reach exhilaration along with the fallow bays that are yours, Indra. Unfasten your two lips; unloose the two nourishing streams.
Let your fallow bays convey you here, lovely-lipped one. Eagerly take pleasure in our oblations.
Berausche dich, mit deinen Füchsen, Indra, die Backen löse, thue auf die Lippen, Dich Trinker mögen her die Füchse fahren, geniesse freundlich unsre Opfertränke.
Berausche dich mit den Falben, die dein sind, Indra! Schließe das Gebiß auf, öffne die Lippen! Dich, du Schönzahniger, sollen die Falben herfahren. Nimm gern unsere Opfergaben an!
Опьяняйся с булаными конями, которые твои, о Индра!
Раскрой губы! Разомкни челюсти!
Да привезут тебя буланые кони, о прекрасногубый!
Вкушай с удовольствием наши возлияния!
म॒रुत्स्तो॑त्रस्य वृ॒जन॑स्य गो॒पा व॒यमिन्द्रे॑ण सनुयाम॒ वाज॑म् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
म॒रुत्ऽस्तो॑त्रस्य । वृ॒जन॑स्य । गो॒पाः । व॒यम् । इन्द्रे॑ण । स॒नु॒या॒म॒ । वाज॑म् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
मरुत्स्तोत्रस्य । मरुद्भिः सह स्तोत्रं यस्य स मरुत्स्तोत्रः। तस्य वृजनस्य शत्रूणां क्षेप्तुरिन्द्रस्य संबन्धिनः गोपाः गोपायनीयाः रक्षणीयाः वयं तेन इन्द्रेण वाजम् अन्नं सनुयाम लभेमहि । यदेतदस्माभिः प्रार्थितं नः अस्मदीयं तत् मित्रादयो द्यावापृथिव्यौ च ममहन्तां पूजितं कुर्वन्तु ॥ वृजनस्य । ‘वृजी वर्जने'। ‘कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः' इति क्युप्रत्ययः ॥ ॥ १३ ॥
“Protected by that destroyer (of foes), who is united in praise with the Maruts, we may receive sustenance from Indra; and may Mitra, Varuṇa, Aditi -- ocean, earth and heaven, preserve it to us.”
Guards of the camp whose praisers are the Maruts, may we through Indra, get ourselves the booty.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
As herdsmen of the (ritual) circle that offers praise to the Maruts, may we win the prize with Indra.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
Als Hauses Hüter, das die Maruts preiset, durch Indra mögen Beute wir erlangen; Das mög' uns Mitra, Varuna gewähren, und Aditi, das Meer und Erd' und Himmel.
Wir, die Hirten des Opferbundes, deren Preis den Marut gilt, wir wollen durch Indra den Siegespreis gewinnen. Das mögen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
Хранители общины, слагающей хвалу Марутам,
Мы хотим с Индрой добыть награду!
Пусть нам щедро это даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!