इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे । तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिन्द्रं॑ दे॒वास॒: शव॑सामद॒न्ननु॑ ॥
इ॒माम् । ते॒ । धिय॑म् । प्र । भ॒रे॒ । म॒हः । म॒हीम् । अ॒स्य । स्तो॒त्रे । धि॒षणा॑ । यत् । ते॒ । आ॒न॒जे । तम् । उ॒त्ऽस॒वे । च॒ । प्र॒ऽस॒वे । च॒ । स॒स॒हिम् । इन्द्र॑म् । दे॒वासः॑ । शव॑सा । अ॒म॒द॒न् । अनु॑ ॥
हे इन्द्र महः महतः ते तव इमाम् इदानीं क्रियमाणां महीं महतीम् अत्यन्तोत्कृष्टां धियं स्तुतिं प्र भरे प्रकर्षेण संपादयामि । ते तव धिषणा त्वदीया बुद्धिः अस्य मम स्तोतुः स्तोत्रे स्तुतौ यत् यस्मात् आनजे अक्ता संश्लिष्टासीत् । तस्मात् तव प्रियां स्तुतिं करोमीत्यर्थः । उत्तरोऽर्धर्चः परोक्षकृतः । ससहिं शत्रूणामभिभवितारं पूर्वोक्तं तम् इन्द्रं देवासः कर्मसु दीव्यन्तः ऋत्विजः शवसा स्तुतिभिः कीर्तितेन बलेन अनु अमदन अनुक्रमेण हर्षं प्रापयन् । किमर्थम् । उत्सवे च उत्सवार्थमभिवृद्ध्यर्थं प्रसवे च धनानां वृष्ट्युदकानां वा उत्पत्त्यर्थं च ॥ आनजे। ‘ अञ्जू व्यक्तिम्रक्षणगतिषु' । अस्मात् कर्मणि लिट् । द्विर्वचनहलादिशेषौ। अत आदेः' इति अभ्यासस्य आत्वम् । ‘ तस्मान्नुड्द्विहलः ' ( पा. सू. ७. ४. ७१ ) इति नुट् । व्यत्ययेन उपधानकारलोपः। उत्सवे । प्रसवे । 'षू प्रेरणे'। ‘ ऋदोरप्' इति भावे अप् । ‘ निमित्तात्कर्मसंयोगे' ( पा. सू. २. ३. ३६. ६) इति सप्तमी। थाथादिना उत्तरपदान्तोदात्तत्वम् । ससहिम् । षह अभिभवे ।' आदृगमहन ' इत्यत्र ‘ उत्सर्गश्छन्दसि ' इति वचनात् किप्रत्ययः । लिङ्वद्भावात् द्विर्वचनम् । अन्येषामपि दृश्यते ' इति संहितायामभ्यासस्य दीर्घत्वम् । अमदन् । ‘मदी हर्षे '। हेतुमति णिच् । मदी हर्षग्लेपनयोः' इति घटादिषु पाठात् ‘मितां ह्रस्वः' इति ह्रस्वत्वम् । छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ' णेरनिटि ' इति णिलोपः ॥
“I address to you, who are mighty, this excellent hymn, because your understanding has been gratified by my praise; the gods have successively delighted that victorious Indra with the power (of praise), for the sake of prosperity and wealth.”
To thee the Mighty One I bring this mighty hymn, for thy desire hath been gratified by my laud.
In Indra, yea in him victorious through his strength, the Gods have joyed at feast and when the Soma flowed.
I present this great visionary thought to you, the praiser of this great one, when the Holy Place [=the earth] has been anointed for you.
The one victorious in his upsurging and his outsurging, Indra with his vast power did the gods cheer on.
Dir trag' ich dieses grosse Lied des grossen vor, wenn dir der Becher festlich winkt bei meinem Lob; Dem Indra jauchzten voller Kraft die Götter zu, der siegreich Thaten unternimmt und weiter führt.
Diese Dichtung trage ich dir vor, auf den Hohen die hohe, da in dem Loblied dieses Sängers deine Tatkraft herausgestrichen wird. Dem Indra, der bei Kampffest und Wettrennen der Sieger ist, jubelten die Götter mächtig zu.
Это поэтическое творение я приношу тебе, великое - (тому, кто) велик,
Так как в восхвалении этого (певца) оттенен твой разум.
Этому Индре, победителю на празднике (битвы) и в состязании
Боги мощно возликовали вслед.
अ॒स्य श्रवो॑ न॒द्य॑: स॒प्त बि॑भ्रति॒ द्यावा॒क्षामा॑ पृथि॒वी द॑र्श॒तं वपु॑: । अ॒स्मे सू॑र्याचन्द्र॒मसा॑भि॒चक्षे॑ श्र॒द्धे कमि॑न्द्र चरतो वितर्तु॒रम् ॥
अ॒स्य । श्रवः॑ । न॒द्यः॑ । स॒प्त । बि॒भ्र॒ति॒ । द्यावा॒क्षामा॑ । पृ॒थि॒वी । द॒र्श॒तम् । वपुः॑ । अ॒स्मे इति॑ । सू॒र्या॒च॒न्द्र॒मसा॑ । अ॒भि॒ऽचक्षे॑ । श्र॒द्धे । कम् । इ॒न्द्र॒ । च॒र॒तः॒ । वि॒ऽत॒र्तु॒रम् ॥
अस्य इन्द्रस्य श्रवः यशः कीर्तिं सप्त इमं मे गङ्गे' इत्यस्यामृचि प्राधान्येन प्रतिपादिता गङ्गाद्याः सप्तसंख्याकाः नद्यः बिभ्रति धारयन्ति । वृत्रहननेन इन्द्रस्य यत् वृष्टेः प्रदातृत्वं तत्प्रभूतजलोपेता नद्यः प्रकटयन्तीत्यर्थः । अपि च द्यावाक्षामा द्यावापृथिव्यौ । पृथिवी इति अन्तरिक्षनाम । अन्तरिक्षं चास्य सूर्यात्मना वर्तमानस्येन्द्रस्य दर्शतं सर्वैः प्राणिभिर्दर्शनीयं वपुः । रूपनामैतत् । प्रकाशात्मकं रूपं धारयन्ति । किंच हे इन्द्र अस्मे अस्माकम् अभिचक्षे द्रष्टव्यानां पदार्थानामाभिमुख्येन प्रकाशनार्थं श्रद्धे कं श्रद्धार्थम् । चक्षुषा दृष्टे हि वस्तुनि इदं सत्यमिति श्रद्धोत्पद्यते । कमित्येतत् पादपूरणम् । तदुभयार्थं सूर्याचन्द्रमसौ वितर्तुरं परस्परव्यतिहारेण तरणं पुनः पुनर्गमनं यथा भवति तथा चरतः । वर्तेते । त्वमेव तद्रूपः सन् वर्तसे इत्यर्थः ॥ अस्य । “ उडिदम्' इति विभक्तेरुदात्तत्वम् । द्यावाक्षामा । द्यौश्च क्षामा च । ' दिवो द्यावा' इति द्यावादेशः । ‘सुपां सुलुक् ' इति विभक्तेः डादेशः । देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् । दर्शतम् । भृमृदृशि° ' इत्यादिना अतच् । सूर्याचन्द्रमसा । सूर्यश्च चन्द्रमाश्च । “ देवताद्वन्द्वे च ' इति पूर्वपदस्य आनङादेशः । ‘सुपां सुलुक् ' इति विभक्तेः आकारः । चन्द्रमःशब्दो दासीभारादित्वात् पूर्वपदप्रकृतिस्वरेण मध्योदात्तः । अतो ‘देवताद्वन्द्वे च' इति प्राप्तस्य उभयपदप्रकृतिस्वरस्य ‘नोत्तरपदेऽनुदात्तादावपृथिवी ' इति प्रतिषेधः । अभिचक्षे । चक्षेः प्रकाशनार्थात् संपदादिलक्षणो भावे क्विप् । तादर्थ्ये चतुर्थी । श्रद्धे । दृशिग्रहणात् दधातेर्भावे विच् । चतुर्थ्येकवचने ‘ आतो धातोः' इति आकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । वितर्तुरम् । तरतेर्यङ्लुगन्तात् औणादिकः कुरच्” । बहुलं छन्दसि ' इति उत्वम् ॥
हे इन्द्र त्वं अस्मे अस्मदर्थं सूर्याचन्द्रमसा एतौ सूयार्चन्द्रमसाव् अभिचक्षे ऽभितः कथयसि ।
श्रद्धे श्रद्धार्थं कं सुखार्थं च विचर्तुरं विशेषेण त्वरा यथा भवति तथा चरतः एताव् उभौ संचरतः ।
अस्य तवेन्द्रस्य श्रवः श्रवणीयं दर्शतं दर्शनीयं च वपुः शरीरं सप्त नद्यः गङ्गायमुनाद्याः सप्तसंख्याकास्सरितः द्यावा क्षामा पृथिवी क्षामशब्दोऽन्तरिक्षमभिधत्ते, त्रयो लोकाश्च बिभ्रति धरयन्ति । अयमर्थः - यदेतद्वृष्टिनिमित्तं जलं तदेतदिन्द्रेणोत्पादितत्वादिन्द्रस्य शरीरं, तच्च सर्वेषां प्राणिनां प्रियत्वाच्छ्रवणीयं दर्शनीयं च । तदिदं जलरूपं शरीरं सप्तनद्युपलक्षिताः सर्वा नद्यः समुद्रास्त्रयो लोकाश्च धारयन्ति । न हि जलमन्तरेण लोकत्रयव्यवहारः सिध्यतीति ॥
“The seven rivers display his glory; heaven, and earth, and sky display his visible form; the sun and moon, Indra,perform their revolution, that we may see, and have faith in what we see.”
The Seven Rivers bear his glory far and wide, and heaven and sky and earth display his comely form.
The Sun and Moon in change alternate run their course, that we, O Indra, may behold and may have faith.
His fame do the seven rivers bear; Heaven and Earth, the Broad One, (bear) his wondrous form, lovely to see.
For us to look upon (it), to put our trust in (him), the Sun and Moon roam, traversing in regular alternation, o Indra.
Die sieben Ströme wahren schutzreich seinen Ruhm, die weiten Erd' und Himmel seine schöne Pracht; In stetem Wechsel wandern Sonne hin und Mond, dass wir sie schauen, und, o Indra, dir vertraun.
Seinen Ruhm tragen die sieben Flüsse; Himmel und Erde, das weite Land tragen seine schöne Erscheinung. Sonne und Mond wandeln abwechselnd, uns zum Sehen und an dich zu Glauben, Indra.
Его славу несут семь рек –
Небо-и-Земля, земной простор (несут) его прекрасный облик.
Солнце и луна движутся поочередно,
Чтобы мы могли видеть (их), чтобы мы верили (в тебя).
तं स्मा॒ रथं॑ मघव॒न्प्राव॑ सा॒तये॒ जैत्रं॒ यं ते॑ अनु॒मदा॑म संग॒मे । आ॒जा न॑ इन्द्र॒ मन॑सा पुरुष्टुत त्वा॒यद्भ्यो॑ मघव॒ञ्छर्म॑ यच्छ नः ॥
तम् । स्म॒ । रथ॑म् । म॒घ॒ऽव॒न् । प्र । अव॑ । सा॒तये॑ । जैत्र॑म् । यम् । ते॒ । अ॒नु॒ऽमदा॑म । स॒म्ऽग॒मे । आ॒जा । नः॒ । इ॒न्द्र॒ । मन॑सा । पु॒रु॒ऽस्तु॒त॒ । त्वा॒यत्ऽभ्यः॑ । म॒घ॒ऽव॒न् । शर्म॑ । य॒च्छ॒ । नः॒ ॥
हे मघवन् धनवन् इन्द्र सातये अस्माकं धनलाभाय तं स्म तमेव रथं प्राव प्रेरय वर्तय। नः अस्माकं मनसा बुद्ध्या पुरुष्टुत बहुशः स्तुतेन्द्र ते तव स्वभूतं जैत्रं जयशीलं यं रथं संगमे शत्रुभिः सह संगमने आजा युद्धे सति अनुमदाम वयमनुक्रमेण स्तुमः । अपि च हे मघवन् त्वायद्भ्यः त्वां कामयमानेभ्यः नः अस्मभ्यं शर्म सुखं यच्छ देहि ॥ अव । ‘ अव रक्षणगतिकान्ति° ' इत्युक्तत्वादवतिरन्न गत्यर्थः । संगमे । “ ग्रहवृदृनिश्चिगमश्च ' इति कर्मणि अप् । थाथादिना उत्तरपदान्तोदात्तत्वम् । आजा । सुपां सुलुक्° ' इति सप्तम्या डादेशः । त्वायद्भ्यः । सुप आत्मनः क्यच् '। ' प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वादेशः । व्यत्ययेन दकारस्य आत्वम् । क्यजन्तात् लटः शतृ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे सति क्यचा सहैकादेशे ‘ एकादेश उदात्तेन ' इति तस्य उदात्तत्वम् ॥
“Maghavan, despatch your chariot to bring us wealth; that victorious car which, Indra, who are much praised by us in time of war, we rejoice to behold in battle; do you, Maghavan, grant happiness to those who are devoted to you. ”
Maghavan, grant us that same car to bring us spoil, thy conquering car in which we joy in shock of fight.
Thou, Indra, whom our hearts praise highly in the war, grant shelter, Maghavan, to us who love thee well.
Help this chariot forward to win, o bounteous one, which we will cheer on as victorious for you in the clash,
and help us in the contest with your mind, much-praised Indra. Extend shelter to us who seek you, bounteous one.
O starker, treibe deinen Wagen zum Erbeuten vor, dass wir im Kampf begrüssen ihn, der Sieg verleiht; Uns, die dich lieben, reiche huldreich in der Schlacht, o starker Indra, vielgerühmter, deinen Schutz,
Verhilf diesem Wagen, du Gabenreicher, zum Gewinn, dem wir als deinem Siegeswagen in der Schlacht zujubeln wollen! Hilf uns im Streit, du von Herzen vielgepriesener Indra; gewähre uns, die dir ergeben sind, deinen Schutz, du Gabenreicher!
Вон той колеснице, о щедрый, помоги, чтобы она выиграла!
(Той,) которой мы возликуем вслед как предназначенной тобой для победы.
На ристалище, о Индра, от (всей) души восхваляемый нами,
Нам, преданным тебе, о щедрый, даруй защиту!
व॒यं ज॑येम॒ त्वया॑ यु॒जा वृत॑म॒स्माक॒मंश॒मुद॑वा॒ भरे॑भरे । अ॒स्मभ्य॑मिन्द्र॒ वरि॑वः सु॒गं कृ॑धि॒ प्र शत्रू॑णां मघव॒न्वृष्ण्या॑ रुज ॥
व॒यम् । ज॒ये॒म॒ । त्वया॑ । यु॒जा । वृत॑म् । अ॒स्माक॑म् । अंश॑म् । उत् । अ॒व॒ । भरे॑ऽभरे । अ॒स्मभ्य॑म् । इ॒न्द्र॒ । वरि॑वः । सु॒ऽगम् । कृ॒धि॒ । प्र । शत्रू॑णाम् । म॒घ॒ऽव॒न् । वृष्ण्या॑ । रु॒ज॒ ॥
हे इन्द्र युजा अस्माभिर्युक्तेन सहायभूतेन त्वया वृतं आवृण्वन्तं शत्रुं वयं स्तोतारः जयेम अभिभवेम । अपि च भरेभरे संग्रामेसंग्रामे अस्माकम् अंशम् अस्मदीयं भागम् उदव शत्रुकृतपीडापरिहारेणोत्कृष्टं रक्ष । तथा हे इन्द्र वरिवः धनम् अस्मभ्यं सुगं सुगमं सुप्रापं कृधि कुरु । तथा हे मघवन् शत्रूणाम् अस्मदुपद्रवकारिणां वृष्ण्या वृष्ण्यानि वीर्याणि प्र रुज प्रभङ्न्धि बाधस्वेत्यर्थः ॥ वृतम् ।' वृञ् वरणे'।' क्विप् च ' इति क्विप् । तुगागमः । सुगम् । सुदुरोरधिकरणे ' इति गमेः डप्रत्ययः । कृधि । ' श्रुशृणुपॄकृवृभ्यः' इति हेर्धिः । रुज । ' रुजो भङ्गे' । तौदादिकः ॥
“May we, having you for our ally, overcome our adversaries in every encounter; defend our portion; render riches easily attained by us; enfeeble Maghavan, the vigour of our enemies.”
Encourage thou our side in every fight: may we, with thee for our ally, conquer the foeman's host.
Indra, bestow on us joy and felicity break down, O Maghavan, the vigour of our foes.
Might we conquer their defense with you as yokemate. For us uphold our stake in every raid;
for us, Indra, create wide space and easy passage. Break the bullish
powers of our rivals, bounteous one.
Mit dir im Bunde lass besiegen uns den Feind, in jedem Kampfe unterstütze unsern Stamm, Verschaffe uns, o Indra, freie, weite Bahn, zerbrich der Feinde Heldenkraft, o mächtiger!
Wir möchten mit dir im Bunde das feindliche Heer besiegen. Laß unseren Einsatz in jedem Kampf gewinne! Mach uns, Indra, frei Bahn, gute Fahrt! Zerbrich der Feinde Kräfte, du Gabenreicher!
Мы хотели б победить (вражеское) войско с тобою как с союзником!
Помоги нам захватить нашу долю в каждой битве!
Создай нам, о Индра, широкое пространство, легкий путь!
Сломи силы мужества врагов, о щедрый!
नाना॒ हि त्वा॒ हव॑माना॒ जना॑ इ॒मे धना॑नां धर्त॒रव॑सा विप॒न्यव॑: । अ॒स्माकं॑ स्मा॒ रथ॒मा ति॑ष्ठ सा॒तये॒ जैत्रं॒ ही॑न्द्र॒ निभृ॑तं॒ मन॒स्तव॑ ॥
नाना॑ । हि । त्वा॒ । हव॑मानाः । जनाः॑ । इ॒मे । धना॑नाम् । ध॒र्तः॒ । अव॑सा । वि॒प॒न्यवः॑ । अ॒स्माक॑म् । स्म॒ । रथ॑म् । आ । ति॒ष्ठ॒ । सा॒तये॑ । जैत्र॑म् । हि । इ॒न्द्र॒ । निऽभृ॑तम् । मनः॑ । तव॑ ॥
हे धनानां धर्तः गोहिरण्यादिरूपाणां द्रव्याणां धारयितः इन्द्र विपन्यवः । स्तोतृनामैतत् । स्तोतारः इमे जनाः अवसा रक्षणेन हेतुना त्वा हवमानाः त्वामाह्वयन्तः नाना हि विभिन्नाः खलु । तेषां मध्ये अस्माकं स्म अस्माकमेव सातये धनदानाय रथम् आ तिष्ठ आरोह । हे इन्द्र निभृतम् अव्याकुलं तव मनः चित्तं जैत्रं हि जयशीलं खलु । शत्रून् जित्वास्मभ्यं धनं दातुं समर्थमित्यर्थः ॥ सातये ।' षणु दाने '। क्तिनि ‘जनसनखनां सब्झलोः ' इति आत्वम् ॥ ॥ १४ ॥
“Many are the men who call upon you for your protection; mount your car to bring wealth to us, for your mind, Indra, is composed, and resolved of victory.”
For here in divers ways these men invoking thee, holder of treasures, sing hymns to win thine aid.
Ascend the car that thou mayest bring spoil to us, for, Indra, thy fixt winneth the victory.
As these peoples here, each for itself, in admiration are calling for you along with your help, o securer of prizes—
mount our chariot, to win—because your mind, Indra, when it’s settled, is victorious.
Denn vielfach rufen diese Männer, Indra, dich, O Herr der Schätze, preisend voll Verlangen an; Um zu erbeuten, steig auf unsern Wagen nun; denn siegreich, fest aufs Ziel gerichtet ist dein Sinn.
Denn von verschiedenen Seiten pflegen dich, du Bewahrer der Siegerpreise, um Hilfe diese Leute lautpreisend anzurufen. Besteig unseren Wagen zum Gewinn, denn dein fester Sinn ist siegesgewohnt, o Indra!
Ведь со всех сторон зовут тебя эти люди,
О держатель наград, восхищающиеся помощью (твоей).
На нашу колесницу взойди, чтоб она выиграла –
Ведь твоя сосредоточенная мысль приносит победу.
गो॒जिता॑ बा॒हू अमि॑तक्रतुः सि॒मः कर्म॑न्कर्मञ्छ॒तमू॑तिः खजंक॒रः । अ॒क॒ल्प इन्द्र॑: प्रति॒मान॒मोज॒साथा॒ जना॒ वि ह्व॑यन्ते सिषा॒सव॑: ॥
गो॒ऽजिता॑ । बा॒हू इति॑ । अमि॑तऽक्रतुः । सि॒मः । कर्म॑न्ऽकर्मन् । श॒तऽमू॑र्तिः । ख॒ज॒म्ऽक॒रः । अ॒क॒ल्पः । इन्द्रः॑ । प्र॒ति॒ऽमान॑म् । ओज॑सा । अथ॑ । जनाः॑ । वि । ह्व॒य॒न्ते॒ । सि॒सा॒सवः॑ ॥
हे इन्द्र तव बाहू हस्तौ गोजिता जयेन गवां लम्भयितारौ । त्वं च अमितक्रतुः अपरिच्छिन्नज्ञानः सिमः श्रेष्ठः । तथा च शाट्यायनकं- सिम इति वै श्रेष्ठमाचक्षते ' इति । यद्वा । सिमः शत्रूणां बन्धकः । कर्मन्कर्मन् स्तोतॄणां कर्मणिकर्मण्युपस्थिते शतमूतिः बहुविधरक्षणोपेतः खजंकरः । खजति मथ्नाति पुरुषानिति खजः संग्रामः । तस्य कर्ता । अकल्पः कल्पेनान्येन रहितः । स्वतन्त्र इत्यर्थः । ओजसा सर्वेषां प्राणिनां यदोजो बलमस्ति तेन सर्वेण प्रतिमानं प्रतिनिधित्वेन मीयमानः । यस्मादेवंगुणविशिष्टः इन्द्रः अथ अतः कारणात् सिषासवः धनं लब्धुकामाः जनाः वि ह्वयन्ते विविधमाह्वयन्ति ॥ गोजिता । गा जयतः इति गोजितौ। ‘सुपां सुलुक् ' इति विभक्तेः आकारः । सिमः । ‘ षिञ् बन्धने । अस्मादौणादिको मक् । खजंकरः । ‘ खज मन्थे । पचाद्यच् । ‘क्षेमप्रियमद्रेऽण् च ' ( पा. सू. ३. २. ४४ ) इति चशब्दस्यानुक्तसमुच्चयार्थत्वात् खजशब्दोपपदादपि करोतेः खच् ।' अरुर्द्विषदजन्तस्य° ' इति मुम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अकल्पः । ‘ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । सिषासवः । वन षण संभक्तौ । सनि ‘सनीवन्तर्ध° ' इति विकल्पनात् इडभावः । ‘ जनसनखनां सञ्झलोः' इति आत्वम् । द्विर्वचनादि । ‘सनाशंसभिक्ष उः' (पा. सू. ३. २. १६८ ) इति उप्रत्ययः । सति शिष्टत्वात् तस्यैव स्वरः शिष्यते ॥
“Your arms are the winners of cattle, your wisdom is unbounded, you are most excellent, the granter of a hundred aids in every rite; the author of war, Indra is uncontrolled; the type of strength; wherefore men, who are desirous of wealth, invoke him in various ways.”
His arms win kine, his power is boundless in each act best, with a hundred helps waker of battle's din
Is Indra: none may rival him in mighty strength. Hence, eager for the spoil the people call on him.
Cow-conquering are his two arms—he himself is of unmatched resolve, providing a hundred forms of help in every action, creating tumult.
In the disorder (of battle) Indra is a match (for all) in his strength. So the peoples vie in invoking him when they wish to win.
Mit Armen siegreich, ganz voll unermessner Macht, voll Kampfbegier, mit hundert Hülfen stets zur Hand, Ist Indra unvergleichlich an gewalt'ger Kraft, drum rufen ihn die beutegier'gen hier und dort.
Deine Arme erbeuten Rinder, er selbst ist von unermeßlicher Umsicht, bei jeder Unternehmung hundertfache Hilfe bringend, streitbar. Durch seine Stärke macht Indra ein Gegengewicht unmöglich. Darum rufen ihn die gewinnbegierigen Leute um die Wette an.
(Его) руки завоевывают коров, сам он отличается безграничной силой духа,
Принося сотню поддержек в каждом деле, вызывая круговерть (битвы).
По силе Индра не может иметь противовеса,
И люди зовут его, состязаясь (друг с другом), те, кто хотят добыть.
उत्ते॑ श॒तान्म॑घव॒न्नुच्च॒ भूय॑स॒ उत्स॒हस्रा॑द्रिरिचे कृ॒ष्टिषु॒ श्रव॑: । अ॒मा॒त्रं त्वा॑ धि॒षणा॑ तित्विषे म॒ह्यधा॑ वृ॒त्राणि॑ जिघ्नसे पुरंदर ॥
उत् । ते॒ । श॒तात् । म॒घ॒ऽव॒न् । उत् । च॒ भूय॑सः । उत् । स॒हस्रा॑त् । रि॒रि॒चे॒ । कृ॒ष्टिषु॑ । श्रवः॑ । अ॒मा॒त्रम् । त्वा॒ । धि॒षणा॑ । ति॒त्वि॒षे॒ । म॒ही । अध॑ । वृ॒त्राणि॑ । जि॒घ्न॒से॒ । पु॒र॒म्ऽद॒र॒ ॥
हे मघवन् धनवन्निन्द्र कृष्टिषु स्तोतृषु मनुष्येषु त्वया दीयमानं श्रवः यदन्नमस्ति तत् शतात् शतसंख्याकाद्धनात् उत् रिरिचे उद्रिक्तमधिकं भवति । अपि च भूयसः शतसंख्याकादपि बहुतराद्धनात् उत् रिरिचे अधिकं भवति । किं बहुना! सहस्रात् सहस्रसंख्याकादपि उत् रिरिचे । त्वया दत्तं तदन्नमक्षयमित्यर्थः । अपि च अमात्रं मात्रयेयत्तया रहितं परिगणितुमशक्यैः सर्वैर्गुणैरधिकं त्वां मही महती धिषणा अस्मदीया स्तुतिलक्षणा वाक् तित्विषे दीपयति । त्वत्संबन्धिनो गुणान् प्रकाशयति । हे पुरंदर शत्रूणां पुरा दायितरिन्द्र अध स्तुत्यनन्तरं वृत्राणि आवरकान् शत्रून् जिघ्नसे हंसि विनाशयसि ॥ रिरिचे। ‘रिचिर् विरेचने '। कर्मणि लिट् । तित्विषे । ‘ त्विष दीप्तौ । जिघ्नसे । हन्तेर्लेटि व्यत्ययेन आत्मनेपदम् । ‘लेटोऽडाटौ ' इति अडागमः । ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ गमहन° ' इत्यादिना उपधालोपः । स्थानिवद्भावात् द्विर्वचनादि । ‘ बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । पुरंदर । ‘ पू:सर्वयोर्दारिसहोः ' (पा. सू. ३. २ ४१ ) इति खच् ।' खचि ह्रस्वः ' ( पा. सू. ६. ४, ९४ ) इति ह्रस्वत्वम् । वाचंयमपुरंदरौ च' (पा. सू. ६. ३. ६९ ) इति निपातनात् अम् ॥
“The food, Maghavan, (which is to be given by you) to men, may be more than sufficient for a hundred, oor for more, even, than a thousand; great praise has glorified you, who are without limit, whereupon you destroy your enemies.”
Thy glory, Maghavan, exceeds a hundred yea, more than a hundred, than a thousand mid the folk,
The great bowl hath inspirited thee boundlessly: so mayst thou slay the Vrtras breaker-down of forts!
Your fame reaches higher than a hundred, bounteous one, and even more—higher than a thousand among the separate peoples.
The great (Earth), the Holy Place has sparked you who are matchless. So you keep smashing obstacles, you stronghold-splitter.
O mächt'ger, über Hunderte und über mehr und über tausend Völker ragt dein Ruhm hervor, Dich unermessnen hat der Becher stark erregt, O Burgzerstörer, dann erschlägst die Feinde du.
Dein Ruhm, du Gabenreicher, wiegt mehr als Hundert und darüber, mehr als Tausend unter den Völkern. Dich, den Unermeßlichen, hat der Große Tatendrang entflammt. Dann erschlägst du die Feinde, du Burgenbrecher.
Пре(восходит) сотню, о щедрый, и пре(восходит) больше,
Превосходит тысячу твоя слава среди людей.
Тебя, безмерного, возбудило великое вдохновение:
Тут ты и убиваешь врагов, о проламыватель крепости!
त्रि॒वि॒ष्टि॒धातु॑ प्रति॒मान॒मोज॑सस्ति॒स्रो भूमी॑र्नृपते॒ त्रीणि॑ रोच॒ना । अती॒दं विश्वं॒ भुव॑नं ववक्षिथाश॒त्रुरि॑न्द्र ज॒नुषा॑ स॒नाद॑सि ॥
त्रि॒वि॒ष्टि॒ऽधातु॑ । प्र॒ति॒ऽमानम् । ओज॑सः । ति॒स्रः । भूमीः॑ । नृ॒ऽप॒ते॒ । त्रीणि॑ । रो॒च॒ना । अति॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । व॒व॒क्षि॒थ॒ । अ॒श॒त्रुः । इ॒न्द्र॒ । ज॒नुषा॑ । स॒नात् । अ॒सि॒ ॥
हे नृपते नृणां पालयितरिन्द्र त्वम् ओजसः सर्वेषां प्राणिनां बलस्य प्रतिमानं प्रतिनिधिरसि । कीदृशं प्रतिमानम् । त्रिविष्टिधातु । धातुशब्दो रज्जुभागवचनः । यथा “ त्रिधातु पञ्चधातु वा शुल्वं करोति' इति । यथा त्रिविष्टिस्त्रिगुणिता रज्जुः द्रढीयसी एवमिन्द्रोऽपि दृढतर इत्यर्थः । किंच त्वं तिस्रो भूमीः त्रीन् लोकान् त्रीणि रोचना त्रीणि तेजांसि दिवि आदित्याख्यम् अन्तरिक्षे वैद्युतरूपमग्निं पृथिव्याम् आहवनीयादिरूपेण वर्तमानं पार्थिवमग्निम् एवं त्रीन् लोकान् त्रीणि तेजांसि च अति ववक्षिथ अतिशयेन वोढुमिच्छसि । अपि च इदं विश्वं सर्वं भुवनं भूतजातं चातिवोढुमिच्छसि । सर्वस्य जगतः पालनेन त्वमेव सर्वेषां निर्वाहकः भवसीत्यर्थः। यस्मात् हे इन्द्र त्वं सनात् चिरकालादारभ्य जनुषा जन्मना जन्मप्रभृति अशत्रुः सपत्नरहितः असि ॥ त्रिविष्टिधातु । त्रिधा त्रिप्रकारेण विष्ट्या प्रवेशनेन विधीयते क्रियते इति त्रिविष्टिधातुः त्रिगुणिता रज्जुः । विशेर्भावे क्तिन् । धाञः ‘सितनिगमिमसि° ' ( उ. सू. १. ६९ ) इत्यादिना कर्मणि तुन्प्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अत्र दृढरज्जुवाचकः शब्दस्तद्गतं दार्ढ्यं लक्षयित्वा तद्वति प्रतिमाने वर्तते । यथा माणवकेऽग्निशब्दः । तिस्रः । शसि • त्रिचतुरोः स्त्रियाम् ' इति तिस्रादेशः अन्तोदात्तः । अचि र ऋतः' इति रेफादेशे ‘उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् । ववक्षिथ । वह प्रापणे ' इत्यस्मात् इच्छासनि ढत्वकत्वषत्वानि । ‘ सन्यतः ' इति इत्वाभावश्छान्दसः । छान्दसे लिटि: अमन्त्रे°' इति निषेधात् आम्प्रत्ययाभावः । जनुषा । ‘ जनेरुसिः ॥
“Strong as a twice-twisted rope, you are the type of strength; protector of men, that are more than able to sustain the three spheres, the three luminaries, and all this world of beings, Indra, who have from birth ever been without a rival.”
Of thy great might there is a three counterpart, the three earths, Lord men and the three realms of light.
Above this whole world, Indra, thou hast waxen great: without a foe art thou, nature, from of old.
The (only) match for your strength has threefold divisions: it is the three earths, o lord of men, and the three luminous realms.
You have grown beyond this whole world. You are without rival, Indra, by birth and from of old.
Dreifach getheilet ist das Abbild deiner Macht, drei Erden und drei Himmelsräume, Männerfürst, Du bist gewachsen über diese ganze Welt und ohne Gegner bist du Indra von Geburt.
Das dreifache Gegengewicht deiner Kraft, die drei Erden, o Fürst, die drei Lichträume, diese ganze Welt hast du an Wachstum überholt. Seit alters, schon mit deiner Geburt, bist du ohne ebenbürtigen Gegner.
Троякий противовес (твоей) силы:
Три земли, о господин людей, три светлых пространства -
Ты перерос всю эту вселенную.
Издревле, о Индра, по рождению у тебя нет (равного) врага.
त्वां दे॒वेषु॑ प्रथ॒मं ह॑वामहे॒ त्वं ब॑भूथ॒ पृत॑नासु सास॒हिः । सेमं न॑: का॒रुमु॑पम॒न्युमु॒द्भिद॒मिन्द्र॑: कृणोतु प्रस॒वे रथं॑ पु॒रः ॥
त्वाम् । दे॒वेषु॑ । प्र॒थ॒मम् । ह॒वा॒म॒हे॒ । त्वम् । ब॒भू॒थ॒ । पृत॑नासु । स॒स॒हिः । सः । इ॒मम् । नः॒ । का॒रुम् । उ॒प॒ऽम॒न्युम् । उ॒त्ऽभिद॑म् । इन्द्रः॑ । कृ॒णो॒तु॒ । प्र॒ऽस॒वे । रथ॑म् । पु॒रः ॥
हे इन्द्र देवेषु प्रथमं श्रेष्ठं त्वां हवामहे यागार्थमाह्वयामहे । तथा त्वं पृतनासु संग्रामेषु ससहिः बभूथ शत्रूणामभिभवितासि । उत्तरार्धः परोक्षकृतः । सः इन्द्रः नः अस्माकं कारुं स्तुतीनां कर्तारम् उपमन्युम् उपमन्तारं सर्वज्ञम् उद्भिदं शत्रूणामुद्भेत्तारम् इमम् एवंगुणविशिष्टं पुत्रं कृणोतु करोतु । अपि च प्रसवे युद्धोत्पत्तावस्मदीयं रथं पुरः अन्येभ्यो रथेभ्यः पुरतो वर्तमानं करोतु । यद्वा । कारुमित्यादीनि रथविशेषणानि । कारुं युद्धस्य कर्तारम् उपमन्युम् उपगतेन प्राप्तेन मन्युना क्रोधेन युक्तम् उद्भिदं मार्गेऽवस्थितानां वृक्षादीनामुद्भेत्तारमतिशयेन भङ्क्तारम् ॥ बभूथ । ‘बभूथा ततन्थ जगृभ्म ववर्थेति निगमे' इति निपातनात् इडभावः । स इमम् । सोऽचि लोपे चेत्पादपूरणम्' इति सुलोपः । प्रसवे । षूङ् प्राणिप्रसवे ' । ऋदोरप् । थाथादिना उत्तरपदान्तोदात्तत्वम् ॥
“We invoke you, Indra, the first among the gods; you have been the victor in battles; may Indra put foremost in the battle this our chariot, which is efficient, impetuous, and the uprooter (of all impediments).”
We invocate thee first among the Deities: thou hast become a mighty Conquer in fight.
May Indra fill with spirit this our singer's heart, and make our car impetuous, foremost in attack.
It is you we call upon first among the gods; you have become the one victorious in battles.
Let him make this bard of ours fervid and effusive; let Indra put our chariot in front at the surging out.
Dich unter allen Göttern rufen wir zuerst, in allen Schlachten bist du Sieger immerdar, Es mache Indra unsern Wagen in der Schlacht zum ersten, und den Dichter eifrig, liederreich.
Dich rufen wir zuerst unter den Göttern an, du warst der Sieger in den Kämpfen. Er soll diesen unseren Dichter Upamanyu zum Gewinner machen; Indra soll uns in dem Wettrennen unseren Wagen an die Spitze bringen.
Тебя мы зовем первым среди богов.
Ты (всегда) был победителем в битвах.
Пусть этого нашего певца Упаманью
Индра (сделает) победителем, (а) колесницу пустит вперед в состязании!
त्वं जि॑गेथ॒ न धना॑ रुरोधि॒थार्भे॑ष्वा॒जा म॑घवन्म॒हत्सु॑ च । त्वामु॒ग्रमव॑से॒ सं शि॑शीम॒स्यथा॑ न इन्द्र॒ हव॑नेषु चोदय ॥
त्वम् । जि॒गे॒थ॒ । न । धना॑ । रु॒रो॒धि॒थ॒ । अर्भे॑षु । आ॒जा । म॒घ॒ऽव॒न् । म॒हत्ऽसु॑ । च॒ । त्वाम् । उ॒ग्रम् । अव॑से । सम् । शि॒शी॒म॒सि॒ । अथ॑ । नः॒ । इ॒न्द्र॒ । हव॑नेषु । चो॒द॒य॒ ॥
हे इन्द्र त्वं जिगेथ शत्रून् जयसि । तथा धना शत्रुभ्योऽपहृतानि धनानि न रुरोधिथ नावरुणत्सि । स्तोतृभ्यः प्रयच्छसीत्यर्थः । हे मघवन् धनवन्निन्द्र अर्भेषु अल्पेषु आजा आजिषु संग्रामेषु महत्सु च प्रौढेषु संग्रामेषु च अवसे अस्माकं रक्षणार्थम् उग्रम् उद्गूर्णम् . अधिकबलं त्वां सं शिशीमसि स्तोत्रैस्तीक्ष्णीकुर्मः। अथ अनन्तरं हे इन्द्र त्वं हवनेषु युद्धार्थमाह्वानेषु सत्सु आगत्य नः अस्मान् चोदय संग्रामेषु प्रेरय । जयं प्रापयेत्यर्थः ॥ जिगेथ । ‘ जि जये । लिटि थलि क्रादिनियमात् प्राप्तस्य इटः ' अचस्तास्वत्थल्यनिटो नित्यम् ' (पा. सू. ७. २, ६१ ) इति प्रतिषेधः । ‘ सन्लिटोर्जेः' इति अभ्यासादुत्तरस्य जकारस्य कुत्वम् । रुरोधिथ । क्रादिनियमात् इट् । आजा । ‘ सुपां सुलुक् ' इति सप्तमीबहुवचनस्य डादेशः । शिशीमसि । ‘ शो तनूकरणे'। ‘ बहुलं छन्दसि ' इति विकरणस्य श्लुः । ‘ आदेचः° ' इति आत्वम् । द्विर्वचने ‘ बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । ‘ई हल्यघोः' इति ईकारान्तादेशः । इदन्तो मसिः ॥
“You conquer, and withhold not the booty; in trifling or in serious conflicts, we sharpen you, fierce Maghavan, for our defence; do you, therefore, inspirit us in our defiances.”
Thou hast prevailed, and hast not kept the booty back, in trifling battles in those of great account.
We make thee keen, the Mighty One, succour us: inspire us, Maghavan, when we defy the foe.
You have conquered; you have not withheld prizes in the petty contests and in the great ones, bounteous one.
You, the strong, we hone for help. So, Indra, spur us on in the
challenges.
Stets siegst du starker, hältst die Beute nie zurück, wenn Kampf entbrennt um grosses und um kleines Gut; Wir regen dich, den mächtigen, zur Hülfe an, nun reg' auch du uns, Indra, in den Kämpfen an.
Du hast von jeher gesiegt und die gewonnenen Schätze nicht zurückbehalten - in kleinen und in großen Kämpfen, du Gabenreicher. Dich, dem Gewaltigen, machen wir scharf zum Beistand; nun eifere du uns bei den Anrufungen an, o Indra!
Ты (всегда) завоевывал (и) не удерживал богатства:
На ристалище среди малых, о щедрый, и среди больших.
Тебя, грозного, мы подготавливаем для помощи:
Так поощри нас. Индра, в (наших) призывах!
वि॒श्वाहेन्द्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज॑म् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
वि॒श्वाहा॑ । इन्द्रः॒ । अ॒धि॒ऽव॒क्ता । नः॒ । अ॒स्तु॒ । अप॑रिऽह्वृताः । स॒नु॒या॒म॒ । वाज॑म् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
व्याख्यातेयं रोहिच्छ्यावेति वर्गे । इन्द्रः सर्वेष्टहःस्वस्माकं पक्षपातेन वक्ता भवतु । वयं चाकुटलगतयः सन्त इन्द्रेण दत्तमन्नं लभामहे । यदस्माभिः प्रार्थितमस्मदीयं तन्मित्रादयः पूजितं कुर्वन्तु ॥ ११ ॥
“May Indra daily be our vindicator, and may we, with undiverted course, enjoy abundant food; and may Mitra, Varuṇa, Aditi--ocean, earth, and heaven, preserve it to us.”
May Indra evermore be our Protector, and unimperilled may we win the booty.
This prayer of ours may Varuna grant and Mitra, and Aditi and Sindhu, Earth and Heaven.
Let Indra always speak up for us. Not led astray, may we win the prize. – This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
Zu aller Zeit sei Indra unser Fürsprecher, und ungefährdet mögen wir Beute erlangen; das möge uns Mitra und Varuna gewähren, Aditi, das Meer, der Himmel und die Erde.
Alle Tage soll uns Indra ein Fürsprecher sein. Unentwegt wollen wir den Siegerpreis gewinnen. Das sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
Да будет Индра все дни защищать нас словом!
Да завоюем мы награду, не сворачивая с пути!
Пусть нам щедро это даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!