तत्त॑ इन्द्रि॒यं प॑र॒मं प॑रा॒चैरधा॑रयन्त क॒वय॑: पु॒रेदम् । क्ष॒मेदम॒न्यद्दि॒व्य१॒॑न्यद॑स्य॒ समी॑ पृच्यते सम॒नेव॑ के॒तुः ॥
तत् । ते॒ । इ॒न्द्रि॒यम् । प॒र॒मम् । प॒रा॒चैः । अधा॑रयन्त । क॒वयः॑ । पु॒रा । इ॒दम् । क्ष॒मा । इ॒दम् । अ॒न्यत् । दि॒वि । अ॒न्यत् । अ॒स्य॒ । सम् । ई॒म् इति॑ । पृ॒च्य॒ते॒ । स॒म॒नाऽइ॑व । के॒तुः ॥
हे इन्द्र ते त्वदीयं परमम् उत्कृष्टं तत् प्रसिद्धम् इदं वर्तमानम् इन्द्रियं बलं पुरा पूर्वस्मिन् काले कवयः क्रान्तदर्शिनः स्तोतारः पराचैः पराचीनं पराङ्मुखम् । यद्वा । पराचैः पराञ्चनैः। परागमनैर्युक्तम् । युद्धाभिमुखमेव अधारयन्त धृतवन्तः । अपि च अस्य इन्द्रस्य अन्यत् एकम् इदम् अग्न्याख्यं ज्योतिः क्षमा क्षमायां भूमौ वर्तते । अन्यत् अप्येकं सूर्याख्यं दिवि द्युलोके । ई तदिदमुभयविधमिन्द्रस्य ज्योतिः सं पृच्यते परस्परं संयुज्यते । रात्रावादित्योऽग्निना संयुक्तो भवति । ‘अग्निं वावादित्यः सायं प्रविशति तस्मादग्निर्दूरान्नक्तं ददृशे' इति श्रुतेः । अहनि त्वग्निः सूर्येण संगच्छते । ‘ उद्यन्तं वावादित्यमग्निरनुसमारोहति तस्माद्धूम एवाग्नेर्दिवा ददृशे' (तै. ब्रा. २. १.२. ९-१० ) इति श्रुतेः । अनयोः परस्परसंगमने दृष्टान्तः । समनेव केतुः । समनशब्दः संग्रामवाची । यथा समने संग्रामे युध्यमानयोः उभयोः केतुर्ध्वजो ध्वजान्तरेण संयुज्यते तद्वत् ॥ इन्द्रियम् । इन्द्रस्य लिङ्गं बलम् । इन्द्रियमिन्द्रलिङ्गम् ' इति घच्प्रत्ययान्तो निपात्यते । पराचैः । अव्ययमेतत् उच्चैर्नीचैरिति यथा । यास्कस्त्वाह-’ पराचैः पराञ्चनैः ' ( निरु. ११. २५) इति । क्षमा । ‘सुपां सुलुक् ' इति सप्तम्या लुक् । ईमो मलोपः सांहितिकश्छान्दसः । समनेव । षम ष्टम अवैक्लव्ये '। ‘ अन्येभ्योऽपि दृश्यते ' ( पा. सू. ३. ३. १३० ) इति युच् । ‘सुपां सुलुक् ' इति सप्तम्या आकारः । ‘ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' इति समासः ॥
“The sages have formerly been possessed of this your supreme power, Indra, as if it were present with them, one light of whom shines upon the earth, the other in heaven, and both are in combination with each other, as banner (mingles with banner) in battle.”
THAT highest Indra-power of thine is distant: that which is here sages possessed aforetime.
This one is on the earth, in heaven the other, and both unite as flag with flag in battle.
This highest Indrian power of yours did the sage poets hold fast earlier, (the one) far away and this one here—
this one here on the earth and the other one of his in heaven. The one (part) is mingled (with the other) equally, like a beacon.
Weit reichet deine Indramacht, die höchste; die Sänger wahrten sie seit alten Zeiten; Theils auf der Erde wirkt sie, theils im Himmel, und beide eint sie, wie des Feuers Banner.
Jenes dein höchstes indrisches Wesen ist weit weg, dieses hielten die Seher vor Zeiten fest. Auf Erden ist dies eine, im Himmel das andere von ihm; Es wird wie ein Feldzeichen zu einem Ganzen zusammengefügt.
Та твоя высшая суть Индры очень далеко,
Некогда ее удерживали (в своей власти) поэты.
На земле здесь одно, на небе другое от нее.
(Все это) сливается вместе, как свет.
स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ वज्रे॑ण ह॒त्वा निर॒पः स॑सर्ज । अह॒न्नहि॒मभि॑नद्रौहि॒णं व्यह॒न्व्यं॑सं म॒घवा॒ शची॑भिः ॥
सः । धा॒र॒य॒त् । पृ॒थि॒वीम् । प॒प्रथ॑त् । च॒ । वज्रे॑ण । ह॒त्वा । निः । अ॒पः । स॒स॒र्ज॒ । अह॑न् । अहि॑म् । अभि॑नत् । रौ॒हि॒णम् । वि । अह॑न् । विऽअं॑सम् । म॒घऽवा॑ । शची॑भिः ॥
सः इन्द्रः पृथिवीम् असुरैः पीडितां भूमि धारयत् धृतवान् । पीडाराहित्येन स्थिताम् अकरोदित्यर्थः । तदनन्तरं पप्रथच्च तां भूमिं विस्तीर्णामकरोत् । अपि च वज्रेण आयुधेन हन्तव्यान् वृत्रादीन् हत्वा अपः वृष्ट्युदकानि निः ससर्ज मेघान्निर्गमयामास । एतदेव स्पष्टीक्रियते । अहिम् । अन्तरिक्षे वर्तमानं मेघम् अहन् वज्रेण वर्षणार्थमताडयत् । रौहिणम् । रौहिणो नाम कश्चिदसुरः । तं च वि अभिनत् व्यदारयत् । अपि च मघवा धनवानिन्द्रः शचीभिः आत्मीयैर्युद्धकर्मभिः व्यंसं विगतभुजं वृत्रासुरम् अहन् अवधीत् ॥ पप्रथत् । पृथुं करोति प्रथयति । ‘ तत्करोति । इति णिच् । णाविष्ठवत्प्रातिपदिकस्य कार्यम् ' ( पा. सू. ६. ४. १५५. १ ) इति वचनात् ‘र ऋतो हलादेर्लघोः ' ( पा. सू. ६. ४. १६१ ) इति ऋकारस्य रत्वम् । ‘ टेः ' इति टिलोपः । तस्य स्थानिवद्भावात् वृद्ध्यभावः । प्रथयतेर्लुङि चङि णिलोपः। द्विर्वचने ‘चङ्यन्यतरस्याम्' ( पा. सू. ६. १. २१८) इति चङः पूर्वस्योदात्तत्वम् । न णिलोपस्य स्थानिवत्त्वं, ‘न पदान्त ' इत्यादिना स्वरविधिं प्रति तन्निषेधात् । पूर्वपदस्य असमानवाक्यस्थत्वात् निघाताभावः ॥
“He upholds, and has spread out, the earth; having struck (the clouds), he has extricated the waters; he has slain Ahi, he has pierced Rauhiṇa, he has destroyed, by his prowess, the mutilated (Vṛtra).”
He spread the wide earth out and firmly fixed it, smote with his thunderbolt and loosed the waters.
Maghavan with his puissance struck down Ahi, rent Rauhina to death and slaughtered Vyamsa.
He held the earth fast and spread it out; having smashed with his mace, he sent forth the waters:
He smashed the serpent; he split apart Rauhiṇa; he smashed the cobra— the bounteous one with his powers.
Er festigte und breitete die Erde, den Blitz entsendend liess er frei die Fluten, Den Drachen schlug er, Rauhina zerhieb er; zerschlug mit Kraft, der starke, den Viansa.
Er befestigte die Erde und breitete sie aus. Nachdem er mit der Keule den Vritra erschlagen hatte, ließ er die Gewässer laufen. Er erschlug den Drachen, zerspaltete den Rauhina, erschlug den Vyamsa mit aller Kraft, der Gabenreiche.
Он укрепил землю и расширил (ее).
Убив ваджрой (Вритру), он выпустил течь воды.
Он убил змея, расщепил Раухину,
Он убил Вьянсу, щедрый, (своими) силами.
स जा॒तूभ॑र्मा श्र॒द्दधा॑न॒ ओज॒: पुरो॑ विभि॒न्दन्न॑चर॒द्वि दासी॑: । वि॒द्वान्व॑ज्रि॒न्दस्य॑वे हे॒तिम॒स्यार्यं॒ सहो॑ वर्धया द्यु॒म्नमि॑न्द्र ॥
सः । जा॒तूऽभ॑र्मा । श्र॒त्ऽदधा॑नः । ओजः॑ । पुरः॒ । वि॒ऽभि॒न्दन् । अ॒च॒र॒त् । वि । दासीः॑ । वि॒द्वान् । व॒ज्रि॒न् । दस्य॑वे । हे॒तिम् । अ॒स्य॒ । आर्यम् । सहः॑ । व॒र्ध॒य॒ । द्यु॒म्नम् । इ॒न्द्र॒ ॥
जातूभर्मा । जातू इत्यशनिमाचक्षते । भर्म आयुधम् । अशनिरूपमायुधं यस्य स तथोक्तः । यद्वा जातानां प्रजानां भर्ता । ओजः ओजसा बलेन निष्पाद्यं कार्यं श्रद्दधानः आदरातिशयेन कामयमानः' एवंभूतः सः इन्द्रः दासीः दस्युसंबन्धीनि पुरः पुराणि विभिन्दन् विनाशयन् वि अचरत् विविधमगच्छत् । हे वज्रिन् वज्रवन् इन्द्र विद्वान् स्तुतीः विजानंस्त्वम् अस्य स्तोतुः दस्यवे उपक्षयकारिणे शत्रवे हेतिम् आयुधं विसृजेति शेषः । अपि च हे इन्द्र आर्यं सहः । आर्या विद्वांसः स्तोतारः । तदीयं बलं वर्धय अतिवृद्धं कुरु । तथा द्युम्नं तदीयं यशश्च प्रवर्धय ॥ जातूभर्मा । ‘ जनी प्रादुर्भावे । ‘ अन्येष्वपि दृश्यते ' इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात् केवलादपि डप्रत्ययः । जान् तूर्वतीति जातूः । ‘तुर्वी हिंसार्थः । क्विपि ‘राल्लोपः' इति वलोपः । भ्रियते इति भर्म । अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । जातूः भर्म यस्य । छान्दसो रेफलोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पक्षान्तरे तु जनेर्निष्ठा । ‘ जनसनखनाम्' इति आत्वम् । जातं सर्वं भर्म भर्तव्यं येन । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वर्णव्यापत्त्या अकारस्य ऊकारः ॥
“Armed with the thunderbolt, and confident in his strength, he has gone on destroying the cities of the Dasyus. Thunderer, acknowledging (the praises of your worshipper) cast, for his sake, your shaft agains the Dasyu, and augment the strength and glory of the Ārya.”
Armed with his bolt and trusting in his prowess he wandered shattering the forts of Dasas.
Cast thy dart, knowing, Thunderer, at the Dasyu; increase the Arya's might and glory, Indra.
He who by nature provides support, being trusted for his power, roved widely, splitting apart the Dāsa strongholds.
As knowing one, o possessor of the mace, cast your missile at the Dasyu; strengthen Ārya might and brilliance, o Indra.
Geborner Kämpfer, seiner Kraft vertrauend, durchschritt zerstörend er der Bösen Burgen; O Blitzer, schleudre auf den Feind die Lanze, des Arjers Macht vermehre kundig, Indra.
Von Natur einen Halt besitzend, indem er an seine Stärke glaubt, zog er umher, die dasischen Burgen brechend. Schleuder kundig, du Keulenträger, dein Geschoß nach dem Dasyu; mehre, o Indra, die arische Macht und Herrlichkeit!
Он, по своей природе поддержка (для людей), с силой, в которую верят,
Бродил кругом, раскалывая крепости дасов.
Умело метни, громовержец, в дасью дротик!
Умножь арийскую силу, блеск, о Индра!
तदू॒चुषे॒ मानु॑षे॒मा यु॒गानि॑ की॒र्तेन्यं॑ म॒घवा॒ नाम॒ बिभ्र॑त् । उ॒प॒प्र॒यन्द॑स्यु॒हत्या॑य व॒ज्री यद्ध॑ सू॒नुः श्रव॑से॒ नाम॑ द॒धे ॥
तत् । ऊ॒चुषे॑ । मानु॑षा । इ॒मा । यु॒गानि॑ । की॒र्तेन्य॑म् । म॒घऽवा । नाम॑ । बिभ्र॑त् । उ॒प॒ऽप्र॒यन् । द॒स्यु॒ऽहत्या॑य । व॒ज्री । यत् । ह॒ । सू॒नुः । श्रव॑से । नाम॑ । द॒धे ॥
नाम शत्रूणां नामकं तत् इन्द्रस्य बलम् ऊचुषे उक्तवते स्तुवते यजमानाय कीर्तेन्यं कीर्तनीयं स्तुत्यम् । नामकं तद्बलं बिभ्रत् धारयन् मघवा धनवानिन्द्रः मानुषा मनुष्याणां संबन्धीनि इमा इमानि दृश्यमानानि युगानि अहोरात्रसंघनिष्पाद्यानि कृतत्रेतादीनि सूर्यात्मना निष्पादयतीति शेषः । किं पुनस्तन्नाम । दस्युहत्याय दस्यूनां वृत्रादीनां हननाय उपप्रयन् गृहसमीपान्निर्गच्छन् वज्री वज्रवान् सूनुः शत्रूणां प्रेरयितेन्द्रः यद्ध यत् खलु नाम शत्रूणां नामकं श्रवसे जयलक्षणाय यशसे दधे धृतवान् ॥ ऊचुषे । ब्रूञ् व्यक्तायां वाचि'। ‘ ब्रुवो वचिः '। लिटः क्वसुः । ‘ वचिस्वपि । इत्यादिना संप्रसारणम् । चतुर्थ्येकवचने भसंज्ञायां वसोः संप्रसारणम्' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् । क्वसुप्रत्ययाद्युदात्तत्वम् । कीर्तेन्यम् । ‘ कॄत संशब्दने ' ।' कृत्यार्थे तवैकेन्” ' इति केन्यप्रत्ययः । मघवा । मघशब्दात् ‘छन्दसीवनिपौ' इति मत्वर्थीयो वनिप्। बिभ्रत् । ‘ डुभृञ् धारणपोषणयोः । शतरि जुहोत्यादित्वात् शपः श्लुः । ‘ भृञामित्' इति अभ्यासस्य इत्वम् । नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ।
“Maghavan, possessing a name that is to be glorified, offers to him who celebrates it, these (revolving) ages of man; the thunderer, the scatterer (of his foes), sallying forth to destroy the Dasyus, has obtained a name (renowned for victorious) prowess.”
For him who thus hath taught these human races, Maghavan, bearing a fame-worthy title,
Thunderer, drawing nigh to slay the Dasyus, hath given himself the name of Son for glory.
This is for him who is accustomed to it. Bearing the name “bounteous,” a name to be celebrated through these human generations, the mace-bearer was advancing to smash the Dasyus when he took for himself the name “son (of strength)” for fame.
Der Blitzer, schreitend zum Dämonenkampfe, der starke, schaffend preisenswerthen Namen Dem ruhmbegier'gen im Geschlecht der Menschen, den Namen, den nun auch der Sohn berühmt macht.
Ihm, der das gewohnt ist, gaben diese menschlichen Geschlechter jenen Namen, der den rühmlichen Namen Gabenreich trägt und den Namen Ruhmessohn, den er mit der Keule zur Dasyu-Tötung ausziehend sich erworben hat.
(Индре,) которому это нравится, эти поколения людей (дали имя).
Нося достойное хвалы имя Щедрый,
Выходя на убийство дасью, громовержец
Приобрел имя Сын Славы.
तद॑स्ये॒दं प॑श्यता॒ भूरि॑ पु॒ष्टं श्रदिन्द्र॑स्य धत्तन वी॒र्या॑य । स गा अ॑विन्द॒त्सो अ॑विन्द॒दश्वा॒न्त्स ओष॑धी॒: सो अ॒पः स वना॑नि ॥
तत् । अ॒स्य॒ । इ॒दम् । प॒श्य॒त॒ । भूरि॑ । पु॒ष्टम् । श्रत् । इन्द्र॑स्य । ध॒त्त॒न॒ । वी॒र्या॑य । सः । गाः । अ॒वि॒न्द॒त् । सः । अ॒वि॒न्द॒त् । अश्वा॑न् । सः । ओष॑धीः । सः । अ॒पः । सः । वना॑नि ॥
हे ऋत्विग्यजमानलक्षणा जनाः अस्य इन्द्रस्य तत् इदं वीर्यं पुष्टं प्रवृद्धम् । अत एव भूरि विस्तीर्णं पश्यत आलोकयत । तस्मै च वीर्याय श्रत धत्तन बहुमानं कुरुत । किं पुनस्तद्वीर्यमिति चेत् उच्यते । सः इन्द्रः पणिभिरपहृता: गाः येन वीर्येण अविन्दत् अलभत । तथा तैरपहृतान् अश्वान् सः इन्द्रो येन अविन्दत् । अपि च सः इन्द्रः ओषधीः ओषध्युपलक्षितां सर्वां भूमिं येन वीर्येणालभत । तथा वृत्रेण निरुद्धाः अपः वृष्ट्युदकानि सः इन्द्रो येनालभत । तथा वनानि वननीयानि संभजनीयानि धनानि सः इन्द्रो येन वीर्येण प्राप्नोत् ॥ धत्तन ।तप्तनप्तनथनाश्च ' इति तस्य तनादेशः । अविन्दत् । विद्लृ लाभे'। ‘शे मुचादीनाम् ' इति नुम् ॥ ॥ १६ ॥
“Behold this, the vast and extensive (might of Indra); have confidence in his prowess; he has recovered the cattle, he has recovered the horses, the plural nts, the waters, the woods.”
See this abundant wealth that he possesses, and put your trust in Indra's hero vigour.
He found the cattle, and he found the horses, he found the plants, the forests and the waters.
Look here at this abundant success of his; put your trust in the heroism of Indra.
He found the cows; he found the horses; he the plants, he the waters, he the trees.
Beschauet diese seine grosse Blüte, vertrauet auf des Indra Heldenstärke, Er fand die Kühe und er fand die Rosse, die Kräuter er, die Wasser und die Wälder.
Sehet diesen seinen reichen Ertrag und glaubt an Indra´s Heldenkraft: Er gewann die Rinder, gewann die Rosse, er die Gewächse, er die Gewässer, er die Bäume.
Взгляните же на этот полный его расцвет!
Поверьте в героическую силу Индры!
Он нашел коров, он нашел коней,
Он – растения, он – воды, он – деревья.
भूरि॑कर्मणे वृष॒भाय॒ वृष्णे॑ स॒त्यशु॑ष्माय सुनवाम॒ सोम॑म् । य आ॒दृत्या॑ परिप॒न्थीव॒ शूरोऽय॑ज्वनो वि॒भज॒न्नेति॒ वेद॑: ॥
भूरि॑ऽकर्मणे । वृ॒ष॒भाय॑ । वृश्णे॑ । स॒त्यऽशु॑ष्माय । सु॒न॒वा॒म॒ । सोम॑म् । यः । आ॒ऽदृत्य॑ । प॒रि॒ऽप॒न्थीऽइ॑व । शूरः॑ । अय॑ज्वनः । वि॒ऽभज॑न् । एति॑ । वेदः॑ ॥
भूरिकर्मणे बहुविधेन शत्रुवधादिरूपेण कर्मणा युक्ताय वृषभाय वृषभवत् सर्वेषु देवेषु श्रेष्ठाय वृष्णे सेचनसमर्थाय सत्यशुष्माय अवितथबलायेन्द्राय तदर्थं सोमं सुनवाम होमार्थं रसरूपं करवाम । शूरः शौर्योपेतः यः इन्द्रः आदृत्य धनविषयमादरं कृत्वा अयज्वनः अयजमानस्य वेदः धनं विभजन् तस्मात् अयजमानाद्विभक्तं कुर्वन्नपहरन् एति । यजमानेभ्यस्तद्धनं दातुं गच्छति । तत्र दृष्टान्तः। परिपन्थीव । यथा मार्गनिरोधकश्चोरो गच्छतां पुण्यपुरुषाणां धनं बलात्कारेणापहृत्य गच्छति तद्वत् ॥ आदृत्य । ‘दृङ् आदरे '। ‘समासेऽनञ्पूर्वे क्त्वो ल्यप् ' (पा. सू. ७. १. ३७ )। तस्य स्थानिवद्भावेन कृत्त्वे सति ‘ह्रस्वस्य पिति कृति ' इति तुक् । परिपन्थीव । 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ' ( पा. सू. ५, २. ८९ ) इति इनिप्रत्ययान्तो निपात्यते ॥
“We offer the Soma libation to him who is the performer of many exploits, the best (of the gods), the showerer (of benefits), the possessor of true strength, the hero who, holding respect for wealth, takes it from him who performs no sacrifice, like a foot-pad (from a traveller), and proceeds (to give it) to the sacrificer.”
To him the truly strong, whose deeds are many, to him the strong Bull let us pour the Soma.
The Hero, watching like a thief in ambush, goes parting the possessions of the godless.
For the bullish bull of abundant action, for him whose bluster is real, we will press the soma,
for him, the champion who, tearing them out like a highwayman, goes about distributing the possessions of the non-sacrificer.
Dem Stier, der vieles wirkt, dem starken Manne, dem wahrhaft kräft'gen lasst uns Soma brauen, Der Held, auflauernd wie ein Wegelag'rer eilt hin, des Bösen Güter zu vertheilen.
Dem tatenreichen, männlichen Bullen, von echtem Kampfesmut wollen wir Soma auspressen, dem Helden, der mit Bedacht wie ein Straßenräuber des opferlosen Besitz aufzuteilen pflegt.
Для совершившего многие деяния мужественного быка,
Чей порыв истинен, мы хотим выжать сому,
Для героя, который, подстерегая (добычу), как разбойник,
Идет, раздавая имущество не приносящего жертв.
तदि॑न्द्र॒ प्रेव॑ वी॒र्यं॑ चकर्थ॒ यत्स॒सन्तं॒ वज्रे॒णाबो॑ध॒योऽहि॑म् । अनु॑ त्वा॒ पत्नी॑र्हृषि॒तं वय॑श्च॒ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ॥
तत् । इ॒न्द्र॒ । प्र । अव॑ । वी॒र्य॑म् । च॒क॒र्थ॒ । यत् । स॒सन्त॒म् । वज्रे॑ण । अबो॑धयः । अहि॑म् । अनु॑ । त्वा॒ । पत्नीः॑ । हृ॒षि॒तम् । वयः॑ । च॒ । विश्वे॑ । दे॒वासः॑ । अ॒म॒द॒न् । अनु॑ । त्वा॒ ॥
हे इन्द्र तत् वीर्यं वीरकर्म प्रेव चकर्थ प्रख्यातमिवाकार्षीः । किं पुनस्तद्वीर्यम् । ससन्तं स्वपन्तं मदोन्मत्तम् अहिं वृत्रं वज्रेण कुलिशेन यत् येन वीर्येण त्वम् 'अबोधयः । प्रबुद्धः सन् मया सह युद्धं करोत्विति हृषितं तादृशस्य वृत्रस्य हननेन प्राप्तहर्षं त्वाम् अनु पश्चात् पत्नीः देवपत्न्यः अमदन् हर्षं प्राप्ताः । अपि च वयश्च गमनशीला मरुतोऽपि तथा विश्वे देवासः अन्ये च सर्वे देवाः त्वाम् अनु पश्चात् अमदन अमाद्यन् ॥ ससन्तम् । षस स्वप्ने '। अदादित्वात् शपो लुक् । पत्नीः ।' वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । अमदन् । मदी हर्षे '। व्यत्ययेन शप् ॥
“You did perform, Indra, a glorious deed, when you did awaken the sleeping Ahi with your thunderbolt; then the wives (of the gods), the Maruts, and all the gods, imitated your exultation.”
Well didst thou do that hero deed, O Indra, in waking with thy bolt the slumbering Ahi.
in thee, delighted, Dames divine rejoiced them, the flying Maruts and all Gods were joyful.
This heroic deed you carried out, Indra—that you “awakened” the sleeping serpent with your mace, as it were.
The wives [=waters?] and the birds [=Maruts?] applauded you who were roused to excitement; all the gods applauded you,
Zuerst vollzogst du, Indra, diese Kraftthat, den Drachen, als er schlief, mit Blitz zu wecken; Dir munterm jauchzten zu die Götterfrauen, im Flug die Maruts und die Götter alle,
Dieses Heldenstück hast du, Indra, gleichsam vorangestellt, daß du den schlafenden Drachen mit der Keule wecktest. Dir, dem Kampflustigen, und deiner Kraft jubelten die Gattinnen zu, dir jubelten alle Götter zu;
И такое героическое деяние ты тоже совершил, Индра,
Что разбудил дубиной спящего змея.
Вслед тебе, возбужденному, и (твоей) жизненной силе
Ликовали жены, вслед тебе – все боги,
शुष्णं॒ पिप्रुं॒ कुय॑वं वृ॒त्रमि॑न्द्र य॒दाव॑धी॒र्वि पुर॒: शम्ब॑रस्य । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
शुष्ण॑म् । पिप्रु॑म् । कुय॑वम् । वृ॒त्रम् । इ॒न्द्र॒ । य॒दा । अव॑धीः । वि । पुरः॑ । शम्ब॑रस्य । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
हे इन्द्र त्वं शुष्णादींश्चतुरोऽसुरान् यदा अवधीः हतवानसि तदानीं शम्बरस्य असुरस्य पुरः नगराणि वि दारितवानसि । असुराणां मुख्येषु हतेष्वन्यान्यन्यप्यसुरपुराणि विदीर्णानि आसन्नित्यर्थः । यदनेन सूक्तेन प्रार्थितमस्मदीयं तत् मित्रादयः ममहन्तां पूजितं कुर्वन्तु । शुष्णम् । शुष शोषणे'। अन्तर्भावितण्यर्थात् ' तृषिशुषिरसिभ्यः किच्च ' ( उ. सू. ३. २९२ ) इति नप्रत्ययः । ‘ नित् । इत्यनुवृत्तेराद्युदात्तत्वम् । पिप्रुम् । ‘पॄ” पालनपूरणयोः, पृ इत्येके '। औणादिक कुप्रत्ययः । ‘ छन्दस्युभयथा ' इति तस्य सार्वधातुकत्वे सति शप् । जुहोत्यादित्वात् श्लुः । ‘ अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् । कुयवम् । यवो यवनं मिश्रणम् । कुत्सितं यवनमस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शम्बरस्य । शमयतीति शम्ब आयुधम् । ‘शमेर्बन्' ( उ. सू. ४. ५३४) । ततो मत्वर्थीयो रप्रत्ययः ॥ ॥ १७ ॥
“Inasmuch, Indra, as you have slain Śuṣṇa, Pipru, Kuyava and Vṛtra, and destroyed the cities of Śambara, therefore may Mitra, Varuṇa, Aditi--ocean, earth, and heaven, grant us that (which we desire).”
As thou hast smitten Susna, Pipru, Vrtra and Kuyava, and Sambara's forts O Indra.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
When, o Indra, you smashed Śuṣṇa who brings bad harvest, Pipru, and Vr̥tra and smashed apart the strongholds of Śambara.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
Als Çuschna, Pipru, Kujava und Vritra, die Burgen Çambara's du fälltest, Indra. Das mög' uns Mitra, Varuna gewähren und Aditi, das Meer und Erd' und Himmel.
Als du den Susna, Pipru, Kuyava, Vritra erschlagen und die Burgen des Sambara zerstört hattest, o Indra, - Das mögen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
Когда, о Индра, ты убил Шушну, Пипру,
Куяву, Вритру, когда ты раз(рушил) крепости Шамбары.
Пусть нам щедро это даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!