योनि॑ष्ट इन्द्र नि॒षदे॑ अकारि॒ तमा नि षी॑द स्वा॒नो नार्वा॑ । वि॒मुच्या॒ वयो॑ऽव॒सायाश्वा॑न्दो॒षा वस्तो॒र्वही॑यसः प्रपि॒त्वे ॥
योनिः॑ । ते॒ । इ॒न्द्र॒ । नि॒ऽसदे॑ । अ॒का॒रि॒ । तम् । आ । नि । सी॒द॒ । स्वा॒नः । न । अर्वा॑ । वि॒ऽमुच्य॑ । वयः॑ । अ॒व॒ऽसाय । अश्वा॑न् । दो॒षा । वस्तोः॑ । वही॑यसः । प्र॒ऽपि॒त्वे ॥
हे इन्द्र योनिः वेद्याख्य स्थानं ते तव निषदे निषदनाय उपवेशनाय अकारि कृतमस्माभिः प्रकल्पितमभूत् । तं योनिम् आ नि षीद शीघ्रमागत्य तत्रोपविश । शीघ्रागमने दृष्टान्तः । स्वानो नार्वा । अर्वा इति अश्वनाम । यथाश्वः स्वानो हेषाशब्दं कुर्वन् स्वकीयं स्थानं शीघ्रमागच्छति तद्वत् । किं कृत्वा । वयः अश्वबन्धनार्थान् रश्मीन् विमुच्य रथाद्विश्लिष्य तथा अश्वान् रथे योजितांश्च तुरगान् अवसाय विमुच्य । अत्र निरुक्तम्-' अवसायाश्वानिति स्यतिरुपसृष्टो विमोचने ' (निरु. १. १७ ) इति । कीदृशानश्वान् । प्रपित्वे यागकाले प्राप्ते । ‘ प्रपित्वे प्राप्तेऽभीकेऽभ्यक्ते' ( निरु. ३. २० ) इति यास्कः । दोषा रात्रौ वस्तोः अहनि च वहीयसः आदरातिशयेन वोढॄन् । निषदे । सदेः संपदादिलक्षणो भावे क्विप्। स्वानः । ‘स्यमु स्वन ध्वन शब्दे' । बहुलवचनात् कर्तरि घरञ् । 'कर्षात्वतः° ' इत्यन्तोदात्तत्वम् । वयः । वियन्ति रथेन सह संगच्छन्ते इति विशब्देन रश्मयः उच्यन्ते । वी गत्यादिषु । औणादिकः इप्रत्ययः टिलोपश्च । द्वितीयार्थे प्रथमा । अवसाय ।' षो अन्तकमर्णि '।आदेचः° ' इति आत्वम् ।' समासेऽनञ्पूर्वे॰ ' इति क्त्वो ल्यबादेशः । वहीयसः । ‘ वह प्रापणे ' । तृजन्तात् वोढृशब्दात् ‘तुश्छन्दसि ' इति ईयसुन् । ' तुरिष्ठेमेयःसु ' इति तृलोपे कर्तव्ये ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वात् तदाश्रितस्य ओत्वस्याप्यभावे तृलोप एव क्रियते ॥
“The altar has been raised, Indra, for your seat; hasten to sit upon it as a neighing horse (hastens to his stable); slackening the reins, and letting your coursers free, who, at the season of sacrifice, bear you night and day.”
THE altar hath been made for thee to rest on: come like a panting courser and be seated.
Loosen thy flying Steeds, set free thy Horses who bear thee swiftly nigh at eve and morning.
A womb has been prepared for you to sit down in, Indra. Sit down in it here, like a steed sounding off,
once you have released your vitality [/the birds] and unhitched the horses, who convey you so well to the mealtime, evening and morning.
Hier ist der Schooss zum Sitzen dir bereitet, zur Einkehr löse deine Flügelrosse, Die trefflich fahren früh, am Tag, am Abend, und setz dich, Indra, wie ein Renner schnaufend.
Ein Schoß ist für dich, Indra, zum Niedersitzen bereitet. Auf ihn setz dich nieder, zum Laufe getrieben wie ein Rennpferd, die Kraft ausspannend, die Rosse anhaltend, die vor Essenszeit bei Dunkelwerden und morgens am besten ziehen!
Лоно приготовлено для тебя, о Индра, чтобы опуститься.
Опустись на него, как ржущий жеребец,
Испуская жизненную силу, останавливая коней,
Которые лучше возят вечером (и) утром – перед едой.
ओ त्ये नर॒ इन्द्र॑मू॒तये॑ गु॒र्नू चि॒त्तान्त्स॒द्यो अध्व॑नो जगम्यात् । दे॒वासो॑ म॒न्युं दास॑स्य श्चम्न॒न्ते न॒ आ व॑क्षन्त्सुवि॒ताय॒ वर्ण॑म् ॥
ओ इति॑ । त्ये । नरः॑ । इन्द्र॑म् । ऊ॒तये॑ । गुः॒ । नु । चि॒त् । तान् । स॒द्यः । अध्व॑नः । ज॒ग॒म्या॒त् । दे॒वासः॑ । म॒न्युम् । दास॑स्य । श्च॒म्न॒न् । ते । नः॒ । आ । व॒क्ष॒न् । सु॒ऽवि॒ताय । वर्ण॑म् ॥
त्ये ते नरः यज्ञस्य नेतारो यजमानाः ऊतये रक्षणाय इन्द्रम् ओ । आ उ इत्येतन्निपातद्वयसमुदायः आकारार्थः । आ गुः आगच्छन्ति । स चेन्द्र आगतान् तान् नू चित् क्षिप्रं सद्यः तदानीमेव अध्वनः अनुष्ठानमार्गान् जगम्यात् गमयतु प्रापयतु । देवासः सर्वे देवाः दासस्य उपक्षपयितुः असुरस्य मन्युं क्रोधं श्चम्नन् भक्षयन्तु हिंसन्त्वित्यर्थः । अपि च ते देवाः नः अस्माकं सुविताय सुष्ठु प्राप्तव्याय यज्ञाय वर्णम् अनिष्टनिवारकमिन्द्रम् आ वक्षन् आवहन्तु आनयन्तु ॥ जगम्यात् । गमेः अन्तर्भावितण्यर्थात् लिङि बहुलं छन्दसि ' इति शपः श्लुः । श्चम्नन् । चमु अदने '। लेटि व्यत्ययेन श्ना । शकारोपजनश्छान्दसः । यद्वा । श्चम्नातिः प्रकृत्यन्तरं हिंसार्थं द्रष्टव्यम् । वक्षन् । 'वह प्रापणे ' । लेटि सिब्बहुलं लेटि' इति सिप् । ढत्वकत्वषत्वानि । सुविताय । सुपूर्वादेतेः कर्मणि निष्ठा । तन्वादित्वात् उवङ् । ‘सूपमानात् क्तः' इत्युत्तरपदान्तोदात्तत्वम् । वर्णम् । ‘वृञ् वरणे' । अस्मादन्तर्भावितण्यर्थात् ‘ कॄजॄवृसिद्रुपन्यनिस्वपिभ्यो निच्च ' ( उ. सू. ३. २९० ) इति नप्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
“These person ns have come to Indra (to solicit) his protection; may he quickly direct them on the way; may the gods repress the wrathof the destroyer, and bring to our solemnity the obviator of evil.”
These men have come to Indra for assistance: shall he not quickly come upon these pathways?
May the Gods quell the fury of the Dasa, and may they lead our folk to happy fortune.
These men here have come to Indra for help. Even now, immediately, he should go to them along the roads.
The gods will extinguish the battle-fury of the Dāsa. They will convey our “color” to welfare.
Zu Indra eilten labend diese Männer, er komme nun sogleich auf diesen Wegen; Des Dämons Wuth beschwichtigen die Götter, zum Glücke mögen unsern Stamm sie führen.
Jene Männer kamen zu Indra zum Beistand, er soll doch ja sogleich diese Wege kommen. Die Götter sollen den Grimm des Dasa unschädlich machen, sie sollen unsere Rasse der Wohlfahrt zuführen.
Вон те люди пришли за помощью к Индре –
Пусть сейчас же он отправится (своими) путями!
Пусть уймут боги гаев дасы!
Пусть приведут они нашу расу к счастливому исходу!
अव॒ त्मना॑ भरते॒ केत॑वेदा॒ अव॒ त्मना॑ भरते॒ फेन॑मु॒दन् । क्षी॒रेण॑ स्नात॒: कुय॑वस्य॒ योषे॑ ह॒ते ते स्या॑तां प्रव॒णे शिफा॑याः ॥
अव॑ । त्मना॑ । भ॒र॒ते॒ । केत॑ऽवेदाः । अव॑ । त्मना॑ । भ॒र॒ते॒ । फेन॑म् । उ॒दन् । क्षी॒रेण॑ । स्ना॒तः॒ । कुय॑वस्य । योषे॒ इति॑ । ह॒ते इति॑ । ते इति॑ । स्या॒ता॒म् । प्र॒व॒णे । शिफा॑याः ॥
केतवेदाः केतं ज्ञातं वेदः परेषां धनं येन स तादृशः कुयवनामासुरः त्मना आत्मना स्वयमेव अव भरते ज्ञातं परेषां धनमपहरति । अपि च सोऽसुरः उदन् उदकेऽन्तर्वर्तमानः सन् 'फेनं फेनयुक्तमुदकमात्मना स्वयमेव अव भरते अपहरति । क्षीरेण क्षरणशीलेन तेनापहृतेनोदकेन कुयवस्य असुरस्य योषे भार्ये स्नातः स्नानं कुर्वाते । तादृश्यौ स्त्रियौ शिफायाः । शिफा नाम नदी । तस्याः प्रवणे निम्ने प्रवेष्टुमशक्येऽगाधप्रदेशे हते नष्टे स्यातां भवेताम् । हे इन्द्र त्वं परेषां धनमपहृत्य अन्यैर्दुरवगाहे उदकस्य मध्ये वर्तमानं कुयवं सकुटुम्बमवधीरित्यर्थः ॥ त्मना । ‘ मन्त्रेष्वाङ्यादेरात्मनः । इत्याकारलोपः । भरते। 'हृञ् हरणे'। हृग्रहोर्भः ० ' इति भत्वम् । केतवेदाः । ‘ कित ज्ञाने'। कर्मणि घञ् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । उदन् । ‘पद्दन्' इत्यादिनोदकशब्दस्य उदन्नादेशः । ‘ सुपां सुलुक्' इति सप्तम्या लुक् ॥
“(The Asura), knowing the wealth of others, carries it off of himself; present in the water, he carries off, of himself, the foam; the two wives of Kuyava bathe with the water; may they be drowned in the depths of the Śiphā river.”
He who hath only wish as his possession casts on himself, casts foam amid the waters.
Both wives of Kuyava in milk have bathed them: may they be drowned within the depth of Sipha.
She who knows his [=Kuyava’s?] will carries away by herself; (the other) by herself carries away the foam in her water.
The two maidens of Kuyava bathe in milk: may they both be smashed in the torrent of the Śiphā (River).
Von selbst vergeht, wer lüstern ist nach Gütern, von selbst vergeht der Schaum auf Wasserwogen, Kujava's Weiber baden sich im Milchtrank, zerschmettert sein sie in der Çipha Stromfall.
Sie führt selbst den Schaum mit sich, die Absicht erratend, sie führt selbst den Schaum auf ihrem Wasser mit sich: In Milch baden des Kuyava beide Weiber; die sollen in der Strömung der Sipha getötet werden.
(Река Шипха), сама сбрасывает, зная замысел (богов),
Сама сбрасывает пену в воду.
Две юные жены Куявы купаются в молоке.
Да будут они убиты в течении Шипхи!
यु॒योप॒ नाभि॒रुप॑रस्या॒योः प्र पूर्वा॑भिस्तिरते॒ राष्टि॒ शूर॑: । अ॒ञ्ज॒सी कु॑लि॒शी वी॒रप॑त्नी॒ पयो॑ हिन्वा॒ना उ॒दभि॑र्भरन्ते ॥
यु॒योप॑ । नाभिः॑ । उप॑रस्य । आ॒योः । प्र । पूर्वा॑भिः । ति॒र॒ते॒ । राष्टि॑ । शूरः॑ । अ॒ञ्ज॒सी । कु॒लि॒शी । वी॒रऽप॑त्नी । पयः॑ । हि॒न्वा॒नाः । उ॒दऽभिः॑ । भ॒र॒न्ते॒ ॥
उपरस्य उदकमध्ये उप्तस्य अवस्थितस्य आयोः परेषामुपद्रवार्थमितस्ततो गच्छतः कुयवस्यासुरस्य नाभिः संनद्धम् आवसनस्थानं युयोप गूढमासीत् । यथान्यैर्न दृश्यते सोऽसुरस्तथाकरोदित्यर्थः । अपि च पूर्वाभिः पूरयित्रीभिरात्मनापहृताभिरद्भिः प्र तिरते सोऽसुरः प्रवर्धते । स च शूरः शौर्योपेतः राष्टि राजते च । आत्मीयेन शौर्येण लोके प्रख्यातो भवतीत्यर्थः। तमिममसुरम् अञ्जसी आञ्जस्योपेता कुलिशी कुलं शातयन्ती वीरपत्नी वीरस्य पालयित्री एतत्संज्ञिकास्तिस्रो नद्यः पयः पयसा तत्संबन्धिना सारभूतेनोदकेन हिन्वानाः प्रीणयन्त्यः उदभिः आत्मीयैरुदकैः भरन्ते धारयन्ति ॥ युयोप । ‘युप विमोहने ' । नाभिः । नहो भश्च ' ( उ. सू. ४. ५६५ ) इति इञ्प्रत्ययः । राष्टि। ‘राजृ दीप्तौ । ‘ बहुलं छन्दसि ' इति शपो लुक् । व्रश्चादिना षत्वे ष्टुत्वम् । पयः । ‘ सुपां सुलुक्° ' इति तृतीयाया लुक् । हिन्वानाः । हिविः प्रीणनार्थः । इदित्त्वात् नुम् । अस्मात्ताच्छीलिकश्चानश् । आगमानुशासनस्यानित्यत्वात् मुगभावः । चानशो लसार्वधातुकत्वाभावात् तत्स्वराभावे चित्स्वर एव शिष्यते ॥
“The abiding-plural ce of the vagrant (Kuyava) was concealed (in the midst) of the water; the hero increases with the waters formerly (carried off), and is renowned (throughout the world); the Añjasī, kuliśī and Vīrapatni rivers, plural asing him with their substance, sustain him with their waters.”
This hath his kinship checked who lives beside us: with ancient streams forth speeds and rules the Hero,
Añjasi, Kulisi, and Virapatni, delighting him, bear milk upon their waters.
The navel [=lineage, origin] of the Āyu to come has been effaced. He lengthens his life through the (dawns) in front. The champion reigns. The Añjasī, the Kuliśī, (the Sarasvatī) whose husband is the virile one— they, impelling the milk, carry it with their waters.
Im Dunkel liegt der spätern Stämme Nabel, der Held dringt vor und glänzet mit den frühern, und Andschasi, Kuliçi, Virapatni, sie rollen hin in Wogen, Milch ergiessend.
Unterdrückt war der Nabel des nachgeborenen Ayu; an den früheren Tagen nahm zu und herrschte das Tapfere. Anjasi, Kulisi, Virapatni führen eilig die Milch mit ihren Wasserfluten.
Стерлось родство последующего Аю.
В прежние (времена) распространялся (и) правил герой.
Анджаси, Кулиши, Вирапатни,
Вдохновляясь, несут молоко вместе с водами.
प्रति॒ यत्स्या नीथाद॑र्शि॒ दस्यो॒रोको॒ नाच्छा॒ सद॑नं जान॒ती गा॑त् । अध॑ स्मा नो मघवञ्चर्कृ॒तादिन्मा नो॑ म॒घेव॑ निष्ष॒पी परा॑ दाः ॥
प्रति॑ । यत् । स्या । नीथा॑ । अद॑र्शि । दस्योः॑ । ओकः॑ । न । अच्छ॑ । सद॑नम् । जा॒न॒ती । गा॒त् । अध॑ । स्म॒ । नः॒ । म॒घ॒ऽवन् । च॒र्कृ॒तात् । इत् । मा । नः॒ । म॒घाऽइ॑व । नि॒ष्ष॒पी । परा॑ । दाः॒ ॥
यत् यदा नीथा नयनहेतुभूता स्या सा पदवी प्रति अदर्शि अस्माभिर्दृष्टाभूत् सा च पदवी दस्योः उपक्षपयितुः कुयवस्यासुरस्य सदनं गृहम् अच्छ आभिमुख्येन गात् गता प्राप्ता । तत्र दृष्टान्तः । जानती स्वकीयं वत्सम् अभिजानती गौः ओको न निवासस्थानं स्वकीयं गोष्ठं यथा ऋजु प्राप्नोति । तद्वन्मार्गोऽप्यसुरगृहं प्राप्त इत्यर्थः । अध स्म अथानन्तरमेव हे मघवन् धनवन्निन्द्र चर्कृतात् पुनःपुनस्तेनासुरेण कृतादुपद्रवात् नः अस्मान् रक्षेति शेषः । इत् इत्यवधारणे । अस्मान् रक्षैव नः अस्मान् मा परा दाः मा परित्याक्षीः । अस्माभिर्ज्ञातेन मार्गेण गत्वा अस्मदुपद्रवकारिणमसुरं जहीति तात्पर्यार्थः । तत्र व्यतिरेके दृष्टान्तोऽभिधीयते । मघेव निष्षपी । यथा विनिर्गतसपो विनिर्गतशेपः यथेष्टचारी दासीपतिः मघेव यथा धनान्यस्थाने परित्यजति तथास्मान् मा परित्याक्षीरित्यर्थः । अत्र निरुक्तं-निष्पपी स्त्रीकामो भवति विनिर्गतसपः। सपः सपतेः स्पृशतिकर्मणः। मा नो मघेव निष्षपी परा दाः । स यथा धनानि विभजति मा नस्त्वं तथा परा दाः' (निरु. ५.१६) इति ॥ नीथा । ‘णीञ् प्रापणे '। हनिकुषिनीरमिकाशिभ्यः क्थन् ' इति करणे क्थन्प्रत्ययः । गात् । एतेर्लुङि ‘ इणो गा लुङि' इति गादेशः । ‘ गातिस्था' इति सिचो लुक् । बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । चर्कृतात् । करोतेर्यङ्लुगन्तात् ‘निष्ठा ' इति क्तप्रत्ययः । मघाऽइव । ‘शेश्छन्दसि । इति शेर्लोपः ।' निष्षपी। ' षप समवाये । सपति समवैति योन्या संगच्छते इति सपः शेपः । पचाद्यच् । निर्गतो नित्योद्धृतः सपः शेपो यस्य स स्त्रीव्यसनी निष्षपः । वर्णव्यापत्त्या ईकारः । दाः । ‘डुदाञ् दाने' । लुङि ‘ गातिस्था' इति सिचो लुक् । ‘न माड्योगे ' इत्यडभावः ॥ ॥ १८ ॥
“Since the track that leads to the dwelling of the Dasyu has been seen by us, as a cow knows the way to her stall, therefore do you, Maghavan, (defend us) from his repeated violence; do not you cast away as a libertine throws away wealth.”
Soon as this Dasyu's traces were discovered, as she who knows her home, he sought the dwelling.
Now think thou of us, Maghavan, nor cast us away as doth a profligate his treasure.
When that guide [=both riverbed and strategy] of the Dasyu was revealed, she who recognized it [=Dawn] went to his seat as if
straight home.
Now then, bounteous one, just grant us acclaim. Don’t hand us over, like a careless man his bounties.
Als jene List des Dämons er erkannte, ging er zum Ort, der Kuh gleich, die den Stall kennt; Nun mögst du starker unserer gedenken, nicht gib uns hin, wie Schätze der Verschwender.
Als diese Spur des Dasyu entdeckt war, kam die wegekundige Sarama zu seinem Sitze wie nach ihrem Hause. Nun gedenke unser, du Gabenreicher; gib uns nicht preis wie der Verschwender seine Reichtümer!
Когда же выяснилась та уловка дасью,
Знающая (путь Сарама) пришла в его (жилище), как к себе домой.
Вот тут подумай о нас с похвалой, о щедрый!
Не отдай нас (дасью), как беззаботный – (свои) богатства!
स त्वं न॑ इन्द्र॒ सूर्ये॒ सो अ॒प्स्व॑नागा॒स्त्व आ भ॑ज जीवशं॒से । मान्त॑रां॒ भुज॒मा री॑रिषो न॒: श्रद्धि॑तं ते मह॒त इ॑न्द्रि॒याय॑ ॥
सः । त्वम् । नः॒ । इ॒न्द्र॒ । सूर्ये॑ । सः । अ॒प्ऽसु । अ॒ना॒गाः॒ऽत्वे । आ । भ॒ज॒ । जी॒व॒ऽशं॒से । मा । अन्त॑राम् । भुज॑म् । आ । रि॒रि॒षः॒ । नः॒ । श्रद्धि॑तम् । ते॒ । म॒ह॒ते । इ॒न्द्रि॒याय॑ ॥
हे इन्द्र सः त्वं नः अस्मान् सूर्ये सर्वस्य प्रेरके आदित्ये आ भज आभाजय आभिमुख्येन भक्तान" संभक्तान् कुरु । तथा सः त्वम् अप्सु अब्देवतासु अस्मानाभाजय । अपि च जीवशंसे जीवैः प्राणिभिः शंसनीये कामयितव्ये अनागास्त्वे अपापत्वे पापरहित्येऽस्मानाभाजय । अपि च नः अस्माकम् अन्तरां गर्भरूपेण अन्तर्वर्तमानां भुजं पालयित्रीं प्रजाम् आ समन्तात् मा रीरिषः मा हिंसीः। ते तव महते प्रभूताय इन्द्रियाय बलाय श्रद्धितम् अस्माभिः श्रद्धानं कृतम् । त्वदीयं बलं बहुमानपूर्वकं स्तुम इत्यर्थः। तस्मात्तादृशबलयुक्तस्त्वं मा रीरिष इति पूर्वेण संबन्धः ॥ अनागास्त्वे । न विद्यते आगः पापं यस्य सोऽनागाः । तस्य भावस्तत्त्वम् । छान्दस उपधादीर्घः । जीवशंसे । 'शंसु स्तुतौ'। कर्मणि घञ्। थाथादिना उत्तरपदान्तोदात्तत्वम् । भुजम् । भुनक्ति पालयतीति भुक् प्रजा। क्विप् । रीरिषः । ‘रिष हिंसायाम्' । स्वार्थे ण्यन्तात् अस्मात् लुङि चङि णिलोपे उपधाह्रस्वत्वादीनि । छान्दसं पदकालीनमभ्यासह्रस्वत्वम् । श्रद्धितम् । श्रच्छब्दस्य ऊर्यादित्वेन ( पा. सू. १. ४. ६१ ) गतित्वात् ‘ गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
“Excite in us, Indra, veneration for the sun, for the waters, and for those who are worthy of the praise of living beings, as exempt from sin; injure not our offspring while yet in the womb, for our trust is in yourmighty power.”
Indra, as such, give us a share of sunlight, of waters, sinlessness, and reputation.
Do thou no harm to our yet unborn offspring: our trust is in thy mighty Indra-power.
You, Indra—give us a share in the sun, in the waters, in blamelessness, in the praise of the living.
Do no harm to our inner delight. Trust has been placed in your great Indrian power.
O Indra, schenk uns Sonnenlicht und Wasser, Schuldlosigkeit verleih und Lob der Menschen, Verdirb uns nicht die Freude, die uns nah ist, wir trauen deiner grossen Indrastärke.
Laß du, Indra, uns am Sonnenlicht, am Wasser, an der Schuldlosigkeit, an der Rede der Lebenden teilhaben. Schädige nicht unsere Herzensfreude! Man hat deinem großen indrischen Namen vertraut.
Ты, о Индра, надели нас долей в солнце,
В водах, в отсутствии вины, в речи живых!
Не причина вреда вашей внутренней радости!
Твоей великой сути Индры верят.
अधा॑ मन्ये॒ श्रत्ते॑ अस्मा अधायि॒ वृषा॑ चोदस्व मह॒ते धना॑य । मा नो॒ अकृ॑ते पुरुहूत॒ योना॒विन्द्र॒ क्षुध्य॑द्भ्यो॒ वय॑ आसु॒तिं दा॑: ॥
अध॑ । म॒न्ये॒ । श्रत् । ते॒ । अ॒स्मै॒ । अ॒धा॒यि॒ । वृषा॑ । चो॒द॒स्व॒ । म॒ह॒ते । धना॑य । मा । नः॒ । अकृ॑ते । पु॒रु॒ऽहू॒त॒ । योनौ॑ । इन्द्र॑ । क्षुध्य॑त्ऽभ्यः । वयः॑ । आ॒ऽसु॒तिम् । दाः॒ ॥
हे इन्द्र अध अथ अनन्तरं मन्ये त्वां मनसा जानामि । ते तव अस्मै बलाय श्रत् अधायि अस्माभिः श्रद्धा कृता । त्वदीयबलविषयमादरातिशयेन स्तोत्रं कृतमित्यर्थः । वृषा कामानां वर्षिता स त्वं महते प्रौढाय धनाय चोदस्व चोदय अस्मान् प्रेरय । हे पुरुहूत पुरुभिर्बहुभिर्यजमानैराहूत इन्द्र अकृते अनिष्पादिते धनशून्ये योनौ । गृहनामैतत् । गृहे नः अस्मान् मा धाः निधेहि । धनधान्यपूर्णे गृहेऽस्मान् वासयेत्यर्थः । अपि च हे इन्द्र क्षुध्यद्भ्यो बुभुक्षितेभ्योऽन्येभ्योऽपि स्तोतृभ्यः वयः अन्नम् आसुतिं पेयं क्षीरादिकं च दाः देहि ॥ अधायि । दधातेः कर्मणि लुङि च्लेश्चिण् । ‘ आतो युक् चिण्कृतोः' इति युक् । क्षुध्यद्भ्यः । ‘ क्षुध बुभुक्षायाम्' । दिवादित्वात् श्यन् । नित्त्वादाद्युदात्तत्वम् ॥
“Hence, Indra, I meditate on you; on his (your power) has our trust been plural ced; showerer (of benefits), direct us to great wealth; consign us not, you who are invoked by many, to a destitute dwelling; give, Indra, food and drink to the hungry.”
Now we, I think, in thee as such have trusted: lead us on, Mighty One, to ample riches.
In no unready house give us, O Indra invoked of many, food and drink when hungry.
And, I think, trust has been placed in this (power) of yours right here. As bull, bestir yourself toward great stakes.
Don’t (put) us in an unprepared womb, o much invoked one. Indra, grant vitality and the pressing (of soma) to those who hunger
for them.
So, mein' ich, haben wir auf dich getrauet; führ als ein Held uns hin zu grossem Reichthum; Setz, vielgerufner, nicht in öden Sitz uns, den Hungernden gib, Indra, Trank und Speise.
Darum meine ich: Man hat dir dafür Vertrauen geschenkt. Als Bulle mache dich zu großem Kampfgewinn scharf! Setz uns nicht in ein unfertiges Nest, du Vielgerufener! Indra, gib den Hungernden stärkende Speise und Trank!
Вот я и думаю: в нее у тебя поверили.
Как бык, возбуди себя на великую добычу!
Не (посади) нас на неприготовленное место, о многопризываемый!
О Индра, голодающим дай жизненную силу, питье!
मा नो॑ वधीरिन्द्र॒ मा परा॑ दा॒ मा न॑: प्रि॒या भोज॑नानि॒ प्र मो॑षीः । आ॒ण्डा मा नो॑ मघवञ्छक्र॒ निर्भे॒न्मा न॒: पात्रा॑ भेत्स॒हजा॑नुषाणि ॥
मा । नः॒ । व॒धीः॒ । इ॒न्द्र॒ । मा । परा॑ । दाः॒ । मा । नः॒ । प्रि॒या । भोज॑नानि । प्र । मो॒षीः॒ । आ॒ण्डा । मा । नः॒ । म॒घ॒ऽव॒न् । श॒क्र॒ । निः । भे॒त् । मा । नः॒ । पात्रा॑ । भे॒त् । स॒हऽजा॑नुषाणि ॥
हे इन्द्र नः अस्मान् मा वधीः मा हिंसीः । सर्वदा रक्षेत्यर्थः । अपि च मा परा दाः मा परित्याक्षीः । परादानं परित्यागः । अस्मत्कृतां पूजा सर्वदा गृहाणेत्यर्थः । अपि च नः अस्माकं प्रिया प्रियाणीप्सितानि भोजनानि उपभोग्यानि धनानि मा प्र मोषीः मापहार्षीः। अस्मास्वेव धनानि यथा स्युस्तथा कुर्वित्यर्थः । तथा हे मघवन् धनवन् शक्र सर्वकार्यशक्तेन्द्र नः अस्माकम् आण्डा अण्डसंबन्धीनि गर्भरूपेण निषिक्तान्यपत्यानि मा भेत् मा भिनः । गर्भरूपेणावस्थितान् अस्मत्पुत्रान् रक्षेत्यर्थः । मा च नः पात्रा । पतन्ति गच्छन्ति गमनसमर्थानि यानि तान्यपत्यानि पात्राणि । तानि च मा भेत् मा भिदः । सहजानुषाणि । जानुभ्यां यानि भूमिं सनन्ति गच्छन्तीत्यर्थः । तानि जानुषाणि । तैः सहितानि मा विनीनशः । वधीः । हन्तेर्माङि लुङि च ' इति वधादेशः । स चादन्तः । सिच् । अतो लोपः' इत्यकारलोपः । तस्य स्थानिवद्भावात् ‘ अतो हलादेः' इति वृद्ध्यभावः । ‘ इट ईटि' इति सिचो लोपः । मोषीः । ‘ मुष स्तेये ' । लुङि सिचः इट् । नेटि ' इति वृद्धिप्रतिषेधः । भेत् ।' भिदिर् विदारणे' । लङि सिपि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । लघूपधगुणः ।' हल्ङ्याब्भ्यः ' इति सिपो लोपः
“Harm us not, Indra, abandon us not; deprive us not of the enjoyments that aare dear to us; injure not, affluent Śakra, our unborn offspring; harm not those who are capable (only of crawling) on their knees.”
Slay us not, Indra; do not thou forsake us: steal not away the joys which we delight in.
Rend not our unborn brood, strong Lord of Bounty! our vessels with the life that is within them.
Don’t smite us, Indra; don’t hand us over. Don’t steal our dear delights. Don’t split apart our “eggs,” o bounteous and powerful one; don’t split our “cups” along with their contents.
Erschlag' uns nicht, o Indra, noch verwirf uns, und raube nicht uns unsre liebe Nahrung; Zerstör uns, Indra, nicht das ungeborne, noch auch die Leiber, die die Frucht umschliessen.
Töte uns nicht, Indra, gib uns nicht preis, raub uns nicht unsere lieben Genüsse! Zerbrich nicht, du Gabenreicher, Mächtiger, unsere Eier, zerbrich nicht die Schalen samt der Brut!
Не убей нас, Индра, не отдай (врагу),
Не отними наши любимые наслаждения!
Не разбей, о щедрый, наши яйца, о могучий!
Не разбей наши сосуды вместе с выводком!
अ॒र्वाङेहि॒ सोम॑कामं त्वाहुर॒यं सु॒तस्तस्य॑ पिबा॒ मदा॑य । उ॒रु॒व्यचा॑ ज॒ठर॒ आ वृ॑षस्व पि॒तेव॑ नः शृणुहि हू॒यमा॑नः ॥
अ॒र्वाङ् । आ । इ॒हि॒ । सोम॑ऽकामम् । त्वा॒ । आ॒हुः॒ । अ॒यम् । सु॒तः । तस्य॑ । पि॒ब॒ । मदा॑य । उ॒रु॒ऽव्यचाः॑ । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ । पि॒ताऽइ॑व । नः॒ । शृ॒णु॒हि॒ । हू॒यमा॑नः ॥
हे इन्द्र त्वम् अर्वाङ् अस्मदभिमुखः सन् एहि आगच्छ । किं कारणमिति चेत् यस्मात्त्वां सोमकामं सोमविषयाभिलाषम् आहुः पुराविदः कथयन्ति ।“अयम् अस्मदीयः सोमः सुतः ऋत्विग्भिरभिषुतः। अत आगच्छेत्यर्थः । आगत्य च मदाय हर्षार्थं तस्य तम् अस्मदीयमभिषुतं सोमं पिब । एतदेव स्पष्टीक्रियते । उरुव्यचाः उरु विस्तीर्णं व्यचो व्यापनं यस्य तादृशो महावयवो भूत्वा जठरे आत्मीये उदरे आ वृषस्व सोममासिञ्च । आ समन्तात् पूरयेत्यर्थः । एवंभूतस्त्वं हूयमानः स्तुतिभिराहूयमानः सन् पितेव पुत्राणां वाक्यानि शृणोति तथा नः अस्माकं वाक्यानि शृणुहि शृणु ॥ सोमकामम् । सोमविषयः कामः अभिलाषो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । आहुः । ‘ ब्रुवः पञ्चानामादित आहो ब्रुवः' (पा. सू. ३. ४.८४) इति झेः उसादेशः धातोराहादेशश्च । तस्य । क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । मदाय । ‘मदी हर्षे'। मदोऽनुपसर्गे' इति भावे अप् । उरुव्यचाः । ‘ व्यच व्याजीकरणे'। औणादिकः असिप्रत्ययः । व्यचेः कुटादित्वमनसि' (का. १. २. १. १ ) इति वचनात् ङित्त्वाभावेन संप्रसारणाभावः । परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । यद्वा । उरु विचति व्याप्नोतीति उरुव्यचाः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वृषस्व । वृष सेचने'। व्यत्ययेनात्मनेपदशप्रत्ययौ । शृणुहि ।' उतश्च प्रत्ययाच्छन्दसि वावचनम् इति हेर्लुगभावः ॥ ॥ १९ ॥
“Come into our presence; they have called you, fond of the Soma; it is prepared; drink of it for your exhilaration; vast of limb, distend your stomach, and when invoked hear us, as a father (listens to the words of his sons).”
Come to us; they have called thee Soma-lover: here is the pressed juice. Drink thereof for rapture.
Widely-capacious, pour it down within thee, and, invocated, hear us like a Father.
Come here nearby. They say you have lust for soma. Here it is,
pressed: drink it, for exhilaration.
Being of broad expanse, rain it into your belly. Like a father, hear us when you are being called on.
O komm herbei, man nennt dich Freund des Soma, hier steht gebraut er, trink davon zum Rausche, Du umfangsreicher, giess ihn in den Bauch dir; wenn wir dich rufen, hör uns wie ein Vater.
Komm hierher! Man sagt, dich verlange nach Soma. Dieser ist ausgepreßt, davon trink zum Rausche! Schütte ihn dir in deinen Bauche, du der Geräumige! Erhöre uns wie ein Vater, wenn er gerufen!
Иди сюда! Говорят, ты любишь сому.
Он выжат – пей его, Опьяняйся!
Заливай его в утробу, о просторный!
Услышь нас, как отец, призываемый!