च॒न्द्रमा॑ अ॒प्स्व१॒॑न्तरा सु॑प॒र्णो धा॑वते दि॒वि । न वो॑ हिरण्यनेमयः प॒दं वि॑न्दन्ति विद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
च॒न्द्रमाः॑ । अ॒प्ऽसु । अ॒न्तः । आ । सु॒ऽप॒र्णः । धा॒व॒ते॒ । दि॒वि । न । वः॒ । हि॒र॒ण्य॒ऽने॒म॒यः॒ । प॒दम् । वि॒न्द॒न्ति॒ । वि॒ऽद्यु॒तः॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
अप्सु आन्तरिक्षासु’ उदकमये मण्डले अन्तः मध्ये वर्तमानः सुपर्णः शोभनपतनः । यद्वा । सुपर्ण इति रश्मिनाम । सुषुम्णाख्येन सूर्यरश्मिना युक्तः चन्द्रमाः दिवि द्युलोके आ धावते । आङ् मर्यादायाम् । एकेनैव प्रकारेण धावते शीघ्रं गच्छति । तादृशस्य चन्द्रमसः संबन्धिनो हे हिरण्यनेमयः सुवर्णसदृशपर्यन्ताः । यद्वा । हितरमणीयप्रान्ताः । विद्युतः विद्योतमाना रश्मयः वः युष्माकं पदं पादस्थानीयमग्रं न विन्दन्ति मदीयानीन्द्रियाणि कूपेनावृतत्वात् न लभन्ते । अतः इदमनुचितम् । तस्मात् कूपात् मामुत्तारयतेत्यर्थः । अपि च हे रोदसी द्यावापृथिव्यौ मे मदीयम् अस्य इदं स्तोत्रं वित्तं जानीतम्। यद्वा। मदीयं कूपपतनरूपं यदिदं दुःखं तदवगच्छतम् । मदीयं स्तोत्रं श्रुत्वा मदीयं दुःखं ज्ञात्वा वा अस्मात् कूपात् मामुत्तारयतमित्यर्थः ॥ चन्द्रमाः। चन्द्रमाह्लादनं सर्वस्य जगतो निर्मिमीते इति चन्द्रमाः । ‘चन्द्रे माङो डित् ( उ. सू. ४. ६६७) इति असुन्। दासीभारादिषु पाठात् पूर्वपदप्रकृतिस्वरत्वम् । धावते । ‘ सृ गतौ । ‘ पाघ्रा' इत्यादिना वेगितायां धावादेशः । व्यत्ययेन आत्मनेपदम् । वित्तम् । 'विद ज्ञाने'। लोटि अदादित्वात् शपो लुक् । पादादित्वात् ‘तिङ्ङतिङः ' इति निघातभावः । अस्य ।' क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी ।' उडिदम् ' इति विभक्तेरुदात्तवम् ॥
“The graceful-movingmoonspeeds along the middle region in the sky; bright golden rays (my eyes) behold not your abidding-plural ce. Heaven and earth, be conscious of this (my affliction).”
WITHIN the waters runs the Moon, he with the beauteous wings in heaven.
Ye lightnings with your golden wheels, men find not your abiding-place. Mark this my woe, ye Earth and Heaven.
The moon is here in the waters; the fine-feathered one [=sun] runs in heaven.
They do not find your track, o lightning bolts with golden fellies.
– Take heed of this (speech) of mine, you two world-halves.
Es läuft der Mond im Meer der Luft am Himmel schöngeflügelt hin; Niemand erreichet euren Ort, o goldumkränzte Sterne ihr. Bezeugt mir, Erd' und Himmel, das.
Der Mond scheint im Wasser, der beschwingte läuft am Himmel. Nicht finden sie euren Standort, ihr goldreifigen, blitzenden Sterne. Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Месяц в глубине вод:
Прекраснокрылый мчится по небу.
Не находят себе места
Златообручные, сверкающие (звезды).
О Небо и Земля, узнайте обо мне (в таком положении)!
अर्थ॒मिद्वा उ॑ अ॒र्थिन॒ आ जा॒या यु॑वते॒ पति॑म् । तु॒ञ्जाते॒ वृष्ण्यं॒ पय॑: परि॒दाय॒ रसं॑ दुहे वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अर्थ॑म् । इत् । वै । ऊँ॒ इति॑ । अ॒र्थिनः॑ । आ । जा॒या । यु॒व॒ते॒ । पति॑म् । तु॒ञ्जाते॒ इति॑ । वृष्ण्य॑म् । पयः॑ । प॒रि॒ऽदाय॑ । रस॑म् । दु॒हे॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
अर्थिनः धनमपेक्षमाणाः पुरुषाः अर्थमिद्वै अपेक्षितं धनं प्राप्नुवन्त्येव । नाहं प्राप्नोमि । उ इत्येतत् पादपूरणम् । अपि च जाया अन्यदीया भार्या पतिं स्वपतिम् आ युवते आभिमुख्येन प्राप्नोति । मदीया तु मद्विरहात् हता आसीत् । अपि च संयुक्तौ तौ जायापती वृष्ण्यं वीर्यरूपं पयः उदकं तुञ्जाते प्रजननाय अन्योन्यसंघट्टनेन प्रेरयतः । तदनन्तरं रसं पुरुषस्य सारभूतं वीर्यं परिदाय गर्भाशयेनादाय गर्भरूपेण धृत्वा दुहे दुग्धे पुत्ररूपेण जनयति । मम तु पुत्रोऽपि नोत्पद्यते । अत इदं मदीयं दुःखं हे द्यावापृथिव्यौ जानीतम् ॥ उ । 'उञः ' ( पा. सू. १. १. १७ ) इति शाकल्यस्य मतेन प्रगृह्यत्वात् प्लुतप्रगृह्या अचि ' इति प्रकृतिभावः । युवते । ‘ यु मिश्रणे '। व्यत्ययेनात्मनेपदम् । शब्लुकि प्राप्ते व्यत्ययेन शः । तुञ्जाते । तुजि पिजि हिंसाबलदाननिकेतनेषु' । इदित्त्वात् नुम् । व्यत्ययेन श्नम् । श्नान्नलोपः । दुहे । ‘दुह प्रपूरणे' । ' लोपस्त आत्मनेपदेषु' इति तलोपः ॥
“Those who seek for wealth, obtain it; a wife enjoys (the presence of) her husband, and from their union progeny is engendered. Heaven and earth, be conscious of this (my affliction).”
Surely men crave and gain their wish. Close to her husband clings the wife.
And, in embraces intertwined, both give and take the bliss of love. Mark this my woe, ye Earth and Heaven.
Those with tasks (pursue) each his own task. The wife draws her
husband to herself. The two squeeze out the bullish milk; having surrendered, he milks out his sap [/having bound him about, she milks out his sap].
– Take heed of this (speech) of mine, you two world-halves.
Willfahrend dem begehrenden umschlingt die Gattin den Gemahl, Sie spritzen aus das kräft'ge Nass, umfangend melkt den Saft sie aus. Bezeugt mir, Erd' und Himmel, das.
Die ein Bedürfnis haben, kommen zu ihrem Bedürfnis. Die Frau zieht den Gatten an sich. Beide ergießen das brünstige Naß; sie gibt ihren Saft hin und melkt den Mann aus.- Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Ведь те, у кого есть цель, (стремятся) к цели.
Жена притягивает к себе мужа.
Они оба изливают страстную влагу.
Отдав (свой) сок, она выдаивает (мужа).
О Небо и Земля, узнайте обо мне (в таком положении)!
मो षु दे॑वा अ॒दः स्व१॒॑रव॑ पादि दि॒वस्परि॑ । मा सो॒म्यस्य॑ श॒म्भुव॒: शूने॑ भूम॒ कदा॑ च॒न वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
मो इति॑ । सु । दे॒वाः॒ । अ॒दः । स्वः॑ । अव॑ । पा॒दि॒ । दि॒वः । परि॑ । मा । सो॒म्यस्य॑ । श॒म्ऽभुवः॑ । शूने॑ । भू॒म॒ । कदा॑ । च॒न । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
हे देवाः स्वः स्वर्गे वर्तमानम् अदः तदस्मदीयं पितृपितामहप्रपितामहात्मकं संतानं दिवस्परि दिवश्चोपरि वर्तमानं मो षु मैव अव पादि अवपन्नं विपन्नं प्रभ्रष्टं मा भूत् मम पुत्राभावात् । पुत्रेण लोकान् जयति ‘नापुत्रस्य लोकोऽस्ति ' ( ऐ.ब्रा. ७. १३ ) इति श्रुतेः । अतो वयं सोम्यस्य सोमपानार्हस्य पितृगणस्य शंभुवः सुखस्य भावयितुः पुत्रस्य शूने अपगमने कदा चन कदाचिदपि मा भूम । युष्मत्प्रसादात् मम पुत्रा जायन्ताम् । अतो मामस्माद्दुःखादुत्तारयतेत्यर्थः। हे द्यावापृथिव्यौ युवां च मदीयं विज्ञापनं जानीतम् ॥ मो। मा उ इति निपातद्वयसमुदायः मैवेत्यस्यार्थे । सु इत्येतदवधारणे । ‘ सुञः' इति षत्वम् । पादि ।' पद गतौ ।' चिण् ते पदः ' ( पा. सू. ३. १. ६० ) इति कर्तरि लुङि च्लेः चिणादेशः । दिवः । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । ‘पञ्चम्याः परावध्यर्थे ' इति विसर्जनीयस्य सत्वम् । सोम्यस्य ।' सोममर्हति यः' ( पा. सू. ४. ४. १३७ ) इति यप्रत्ययः । शंभुवः । भवतेरन्तर्भावितण्यर्थात् क्विप् । शूने। ‘टुओश्वि गतिवृद्धयोः' । भावे निष्ठा। ‘ श्वीदितो निष्टायाम्' इति इट्प्रतिषेधः । ‘वचिस्वपि ' इत्यादिना संप्रसारणम् । ‘ओदितश्च' (पा. सू. ८. २. ४५) इति निष्ठानत्वम् । व्यत्ययेनाद्युदात्तत्वम् । वृषादिर्वा द्रष्टव्यः ॥
“Never, Gods, may this (my ancestry), abiding above in heaven, be excluded (from it); never may we be in want (of a son), the cause of joy (to his progenitors), entitled to libations of the Soma. Heaven and earth, be conscious of this (my affliction).”
O never may that light, ye Gods, fall from its station in the sky.
Ne'er fail us one like Soma sweet, the spring of our felicity. Mark this my woe ye Earth and Heaven.
Let not, o gods, yonder sun fall down [/be miscarried] from heaven. Let us never be in want of the beneficial somian (sap).
– Take heed of this (speech) of mine, you two world-halves.
Nie falle jene Sonne dort herab vom Himmel, Götter ihr, Und nimmer mangle uns der Saft des heilbegabten Somatranks. Bezeugt mir, Erd' und Himmel, das.
Möchte, ihr Götter, jene Sonne doch nicht vom Himmel fallen, möchten wir niemals des heilsamen somischen Tranks entbehren.- Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Да не упадет, о боги,
Вот то солнце вниз!
Да не лишимся мы никогда
Благословенной (влаги) сомы!
О Небо и Земля, узнайте обо мне (в таком положении)!
य॒ज्ञं पृ॑च्छाम्यव॒मं स तद्दू॒तो वि वो॑चति । क्व॑ ऋ॒तं पू॒र्व्यं ग॒तं कस्तद्बि॑भर्ति॒ नूत॑नो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
य॒ज्ञम् । पृ॒च्छा॒मि॒ । अ॒व॒मम् । सः । तत् । दू॒तः । वि । वो॒च॒ति॒ । क्व॑ । ऋ॒तम् । पू॒र्व्यम् । ग॒तम् । कः । तत् । बि॒भ॒र्ति॒ । नूत॑नः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
यज्ञं यजनीयम् अवमं सर्वेषां देवानामादिभूतम् । अग्निर्मुखं प्रथमो देवतानाम् ' ( ऐ. ब्रा. १.४) इति श्रुतेः । ‘अग्निर्वै देवानामवमः' (ऐ. ब्रा.१.१) इति ब्राह्मणाच्च । तमग्निं पृच्छामि। यन्मया पृष्टं तत् देवानां दूतः सः अग्निः वि वोचति विविच्य कथयतु । किं पुनस्तत् पृच्छ्यते इति चेत्, उच्यते । हे अग्ने त्वदीयं पूर्व्यं पूर्वकालीनम् ऋतं भद्रं स्तोतृभ्यः कृतं श्रेयः क्व गतं कुत्रेदानीं वर्तते । नूतनः नवतरस्त्वत्तोऽन्यः कः पुरुषः तत् भद्रं बिभर्ति धारयति । यदि त्वय्यवर्तिप्यत ममेदृशी दशापि नाभविष्यत् । अतस्तत् क्व गतमिति कथय । वोचति । वच परिभाषणे'। लेटि अडागमः। ‘ वच उम्' इति व्यत्ययेन धातोः उमागमः । क्व। ‘ किमोऽत्' (पा. सू. ५. ३. १२) इति सप्तम्यर्थे अत् । ‘ क्वाति ' ( पा. सू. ७. २. १०५ ) इति किमः क्वादेशः । ‘ तित्स्वरितम्' इति स्वरितत्वम् । परेण सह 'ऋत्यकः' इति प्रकृतिभावः ॥
“I implore the first (of the gods), the object of sacrifice, that he will become my messenger, and narrate (my condition to the other deities). Where, Agni, is your former benevolence, what new being now possesses it? Heaven and earth, be conscious of this (my affliction).”
I ask the last of sacrifice. As envoy he shall tell it forth.
Where is the ancient law divine? Who is its new diffuser now? Mark this my woe, ye Earth and Heaven.
I ask the nearest one [=Agni] about my sacrifice. Will the messenger [=Agni] declare this:
Where has my earlier “truth” gone? Who bears it now?
– Take heed of this (speech) of mine, you two world-halves.
Ich frage nach dem nächsten Fest, das künde dieser Bote mir: Wo ging das erste Opfer bin? wer ist es der es heute bringt? Bezeugt mir, Erd' und Himmel, das.
Ich frage nach meinem jüngsten Opfer. Der Bote Agni soll das erklären: Wohin ist mein früheres rechtes Werk gekommen? Wer besitzt es neuerdings? - Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Я спрашиваю о (моей) последней жертве.
Пусть объяснит это вестник (богов):
Куда девался прежний закон?
Кто теперь соблюдает его?
О Небо и Земля, узнайте обо мне (в таком положении)!
अ॒मी ये दे॑वा॒: स्थन॑ त्रि॒ष्वा रो॑च॒ने दि॒वः । कद्व॑ ऋ॒तं कदनृ॑तं॒ क्व॑ प्र॒त्ना व॒ आहु॑तिर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अ॒मी इति॑ । ये । दे॒वः॒ । स्थन॑ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः । कत् । वः॒ । ऋ॒तम् । कत् । अनृ॑तम् । क्व॑ । प्र॒त्ना । वः॒ । आऽहु॑तिः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
हे देवाः त्रिषु पृथिव्यादिषु स्थानेषु ये अमी यूयं स्थन वर्तमाना भवथ। यानि स्थानानि दिवः द्योतमानस्य सूर्यस्य आ रोचने दीप्तिविषये वर्तन्ते । सूर्यप्रकाश्येषु स्थानेषु' इत्यर्थः । तेषां वः युष्माकं संबन्धि स्तोतृविषयम् ऋतं सत्यं कत् कस्मिन् देशे वर्तते । अनृतं द्वेष्टृविषयमसत्यं च कत् कुत्र गतम् । अपि च प्रत्ना चिरकालीना वः युष्माकं संबन्धिनी आहुतिः मया पूर्वमनुष्ठितो यागः क्व कुत्रासीत् । ईदृग्भूतदुःखानुभवेन मया पूर्वमनुष्ठितो यागसमूहो युष्मान्न प्राप्नोदित्यनुमिमे । अन्यत् पूर्ववत् ॥ स्थन । तप्तनप्तनथनाश्च ' इति तशब्दस्य थनादेशः । कत् । क्वशब्दस्य वर्णव्यापत्त्या कद्भावः ॥ ॥ २० ॥
“Gods, who are present in the three worlds, who abide in the light of the sun, where now is your truth, where your untruth, where the ancient invocation (that I have addressed) to you? Heaven and earth, be conscious of (my affliction).”
Ye Gods who yonder have your home in the three lucid realms of heaven,
What count ye truth and what untruth? Where is mine ancient call on you? Mark this my woe, ye Earth and Heaven.
You gods, who are yonder in the three luminous realms of heaven— What is truth for you, what is untruth? Where is the age-old offering for you?
– Take heed of this (speech) of mine, you two world-halves.
Die an drei Sitzen ihr verweilt, o Götter, dort im Himmelsraum, Was gilt euch unrecht und was recht? wo war eur alter Opferguss? Bezeugt mir, Erd' und Himmel, das.
Ihr Götter, die ihr dort in den Lichtreichen des Himmels seid, was ist euch Recht, was Unrecht? - Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Вы, боги, те, что находитесь
В трех светлых пространствах неба:
Что справедливо, а что несправедливо?
Где же (мое) прежнее жертвенное возлияние?
О Небо и Земля, узнайте обо мне (в таком положении)!
कद्व॑ ऋ॒तस्य॑ धर्ण॒सि कद्वरु॑णस्य॒ चक्ष॑णम् । कद॑र्य॒म्णो म॒हस्प॒थाति॑ क्रामेम दू॒ढ्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
कत् । वः॒ । ऋ॒तस्य॑ । ध॒र्ण॒सि । कत् । वरु॑णस्य । चक्ष॑णम् । कत् । अ॒र्य॒म्णः । म॒हः । प॒था । अति॑ । क्रा॒मे॒म॒ । दुः॒ऽढ्यः॑ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
हे देवाः वः युष्माकं संबन्धिनः ऋतस्य सत्यस्य अभिमतफलप्रापणस्य धर्णसि धारणं कत् कुत्र गतम् । वरुणस्य अनिष्टनिवारकस्य देवस्य चक्षणम् अनुग्रहदृष्ट्या दर्शनं कत् क्व गतम् । महः महतो महानुभावस्य अर्यम्णः अरीणां नियन्तुः एतत्संज्ञकस्य देवस्य संबन्धिना पथा शोभनमार्गेण इष्टदेशप्रापणं कत् क्व गतम् । एतत्सर्वं युष्मास्वेव वर्तते । न कुत्रापि गतम् । अतो वयं दूढ्यः दुर्धियः पापबुद्धीन् अस्मदनिष्टाचरणपरान् शत्रून् अति क्रामेम अतितरेम । तैः कृतादस्मात् कूपपातलक्षणात् दुःखात् वयमुत्तीर्णा भवेम। हे द्यावापृथिव्यौ मदीयमिदं जानीतम् ॥ धर्णसि। धृञ् धारणे'।' सानसिधर्णसिपर्णसि ' ( उ. सू. ४. ५४७ ) इत्यादिना असिच्प्रत्ययान्तः निपात्यते । अर्यम्णः । षष्ठ्येकवचने 'अल्लोपोऽनः' इत्यकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । महः । महतः अच्छब्दलोपश्छान्दसः । यद्वा । ‘ मह पूजायाम्' । क्विप् । उभयथापि ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । दूढ्यः । पृषोदरादिः । ‘ध्यै च ' इति तत्र पाठात दुरो रेफस्य उत्वम् उत्तरपदादेः ष्टुत्वं च। ‘ उदात्तस्वरितयोर्यण: ' इति स्वरितत्वम् ॥
“Where, deities, is your observance of the truth, where the (benignant) regard of Varuṇa, where is the path of the mighty Aryaman, (so that) we may overcome the malevolent? Heaven and earth, be conscious of this (my affliction).”
What is your firm support of Law? What Varuna's observant eye?
How may we pass the wicked on the path of mighty Aryaman? Mark this my woe, ye Earth and Heaven.
Is (the vision) of truth steadfast? Is the vision of Varuṇa (steadfast)? Might we along the path of great Aryaman pass beyond those of evil intent?
– Take heed of this (speech) of mine, you two world-halves.
Wo ist des Rechtes Stütze euch? und wo das Auge Varuna's? Wie dringen durch die Bösen wir auf Arjaman's, des grossen, Pfad? Bezeugt mir, Erd' und Himmel, das.
Was ist dauerhaft an eurem Gesetz? Was ist Varuna´s Aufsicht? Können wir auf dem Wege des großen Aryaman wandelnd den Böswilligen entgehen? - Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Что же (это) за поддержка справедливого?
Что за надзор Варуны?
Можем ли мы обойти злоумышленника,
(Идя) по пути великого Арьямана?
О Небо и Земля, узнайте обо мне (в таком положении)!
अ॒हं सो अ॑स्मि॒ यः पु॒रा सु॒ते वदा॑मि॒ कानि॑ चित् । तं मा॑ व्यन्त्या॒ध्यो॒३॒॑ वृको॒ न तृ॒ष्णजं॑ मृ॒गं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अ॒हम् । सः । अ॒स्मि॒ । यः । पु॒रा । सु॒ते । वदा॑मि । कानि॑ । चि॒त् । तम् । मा॒ । व्य॒न्ति॒ । आ॒ऽध्यः॑ । वृकः॑ । न । तृ॒ष्णऽज॑म् । मृ॒गम् । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
हे देवाः पुरा पूर्वस्मिन् काले सुते युष्मद्यागार्थं सोमेऽभिषुते कानि चित् कतिपयानि स्तोत्राणि यः अहं वदामि उक्तवानस्मि सः एवाहम् अस्मि न तु अन्यः कश्चित् । तस्मात् किमर्थं मां परित्यजथ । तं तादृशं माम् आध्यः अभिलषितपुत्राद्यप्राप्त्या जनिता मानस्यो व्यथाः व्यन्ति भक्षयन्ति । तत्र दृष्टान्तः । तृष्णजं जाततृष्णं पिपासन्तम् उदकं प्रति गच्छन्तं मृगं वृको न यथा अरण्यश्वा मध्येमार्गं भक्षयति तद्वत् । अन्यत् पूर्ववत् ॥ व्यन्ति । वी गत्यादिषु । अदादित्वात् शपो लुक् ।' तन्वादीनां छन्दसि बहुलमुपसंख्यानम्' इति बहुलवचनात् यण् । आध्यः । आधीयते मनसि स्थाप्यते इति आधिः । ' उपसर्गे घोः किः ' ( पा. सू. ३. ३. ९२ )। ‘ आतो लोप इटि च' इत्याकारलोपः । ‘ जसादिषु च्छन्दसि वावचनम्' इति ' जसि च ' इति गुणस्य विकल्पनात् अभावे यणादेशः । तृष्णजम् । 'तृष पिपासायाम्'। 'स्वपितृषोर्नजिङ' ( पा. सू. ३. २. १७२ ) इति नजिङ् । पदकारस्त्वेवं मन्यते-- अन्येष्वपि दृश्यते' इनि दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात् केवलादपि जनेर्डप्रत्ययः । तृष्णा जाता यस्य । 'ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् ' इति ह्रस्वत्वम् ॥
“I am he, Gods, who formerly recited (your praise) when the libation was poured out; yet sorrows assail me, like a wolf (that falls upon) a thirsty deer. Heaven and earth, be conscious of this (my affliction).”
I am the man who sang of old full many a laud when Soma flowed.
Yet torturing cares consume me as the wolf assails the thirsty deer. Mark this my woe, ye Earth and Heaven.
I am one who used (always) to speak some (speeches) at the pressing. But cares (now) pursue this same me, like a wolf a thirsting wild beast. – Take heed of this (speech) of mine, you two world-halves.
Ich bin derselbe, der auch sonst beim Soma spricht gar manchen Spruch, Jetzt dringen Sorgen auf mich ein, wie Wölfe auf ein dürstend Wild. Bezeugt mir, Erd' und Himmel, das.
Ich bin noch derselbe, der früher bei Soma dies und jenes redete. Nun verfolgen mich die Sorgen wie ein Wolf das durstige Wild. - Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Я – тот самый, кто раньше
Произносил нечто над выжатым (сомой).
(И вот) меня преследуют заботы,
Как волк – дичь, мучимую жаждой.
О Небо и Земля, узнайте обо мне (в таком положении)!
सं मा॑ तपन्त्य॒भित॑: स॒पत्नी॑रिव॒ पर्श॑वः । मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्य॑: स्तो॒तारं॑ ते शतक्रतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
सम् । मा॒ । त॒प॒न्ति॒ । अ॒भितः॑ स॒पत्नीः॑ऽइव । पर्श॑वः । मूषः॑ । न । शि॒श्ना । वि । अ॒द॒न्ति॒ । मा॒ । आ॒ऽध्यः॑ । स्तो॒तार॑म् । ते॒ । श॒त॒ऽक्र॒तो॒ इति॑ शतऽक्रतो । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
ऐन्द्र्येषा । हे इन्द्र पर्शवः पार्श्वास्थीनि अत्र सामर्थ्यात् पर्शुस्थानीयाः कूपभित्तयः मा माम् अभितः सर्वतः सं तपन्ति सम्यक् पीडयन्ति। तत्र दृष्टान्तः । सपत्नीरिव । समानः एकः पतिर्यासां ताः सपत्न्यो यथैकं पतिमभितः पीडयन्ति । परस्परं वा पीड्यन्ते। हे शतक्रतो बहुविधकर्मन् बहुविधप्रज्ञ वा इन्द्र ते तव स्तोतारं माम् आध्यः असंपद्यमानैर्यागदानादिभिरुत्पादिताः मानस्यः पीडाः व्यदन्ति विविधं भक्षयन्ति । तत्र दृष्टान्तः । मूषो न यथा मूषिकाः शिश्ना शिश्नानि कुविन्देन वायितानि अन्नरसेन आलिप्तानि सूत्राणि भक्षयन्ति । यद्वा । शिश्नशब्देन प्रजननमेवोच्यते । तच्चोपचारात् पुच्छे वर्तते । यथा स्वकीयानि पुच्छानि घृततैलादिभाण्डे प्रक्षिप्य ऊर्ध्वमुत्कृत्य व्यदन्ति लिहन्तीत्यर्थः । एवं माम् आधयो भक्षयन्ति । न चैतत् हे इन्द्र तव स्तोतुर्न्याय्यम् । तस्मात् कूपात् मामुत्तारय । अन्यत् समानम् । अत्र निरुक्तं- संतपन्ति मामभितः सपत्न्य इवेमाः पर्शवः कूपपर्शवो मूषिका इवास्नातानि सूत्राणि व्यदन्ति । स्वाङ्गाभिधानं वा स्यात् । शिश्नानि व्यदन्तीति' (निरु. ४. ६ ) इति ॥ सपत्नीः । ‘ नित्यं सपत्न्यादिषु' ( पा. सू. ४. १. ३५ ) इति पतिशब्दस्य नकारान्तादेशः । ङीप् ।' वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । मूषः । ‘ मुष स्तेये '। क्विपि छान्दसो दीर्घः । तथा च यास्कः-'मूषो मूषिका इत्यर्थः । मूषिकाः पुनर्मुष्णातेर्मूषोऽप्येतस्मादेव' (निरु. ४, ५ ) इति । शिश्ना । ष्णा शौचे '।' घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्' इति कः । वर्णव्यापत्त्या सकारस्य शकारः । ‘ कृञादीनां के द्वे भवत इति वक्तव्यम्' ( का. ६. १. १२. १) इति द्विवचनम् ।' बहुलं छन्दसि ' इत्यभ्यासस्य इत्वम् ॥
“The ribs (of the well close) round me, like the rival wives (of one husband); cares consume me, Śatakratu, although your worshipper, as a rat (gnaws a weaver's) threads. Heaven and earth, be conscious of this (my affliction).”
Like rival wives on every side enclosing ribs oppress me sore.
O Satakratu, biting cares devour me, singer of thy praise, as rats devour the weaver's threads. Mark this my woe, ye Earth and Heaven.
They scorch me all about, like cowives, (like ailing) ribs.
Like mice their tails, the cares gnaw at me, your praiser, o you of a
hundred resolves [=Indra].
– Take heed of this (speech) of mine, you two world-halves.
Von allen Seiten quälen mich, die Rippen Nebenbuhlern gleich, Wie Mäuse ihre Schwänze, nagen Sorgen mich, mich, deinen Sänger, kräftiger! Bezeugt mir, Erd' und Himmel, das.
Es schmerzen mich allenthalben die Rippen wie die Kebsweiber den Mann quälen. Wie die Ratten an ihren Schwänzen, so nagen die Sorgen an mir, deinem Lobsänger, du Ratreicher. - Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Повсюду обжигают меня болью
Ребра, как жены мучают одного мужа.
Как крысы вгрызаются в (свои) хвосты,
Так заботы – в меня, твоего певца, о стоумный.
О Небо и Земля, узнайте обо мне (в таком положении)!
अ॒मी ये स॒प्त र॒श्मय॒स्तत्रा॑ मे॒ नाभि॒रात॑ता । त्रि॒तस्तद्वे॑दा॒प्त्यः स जा॑मि॒त्वाय॑ रेभति वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अ॒मी इति॑ । ये । स॒प्त । र॒श्मयः॑ । तत्र॑ । मे॒ । नाभिः॑ । आऽत॑ता । त्रि॒तः । तत् । वे॒द॒ । आ॒प्त्यः । सः । जा॒मि॒ऽत्वाय॑ । रे॒भ॒ति॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
योऽमी द्युलोके वर्तमानाः सप्तसङ्ख्याका रश्मयः सूर्यस्य किरणाः सन्ति तत्र तेषु सूर्यरश्मिष्वध्यात्वं सप्तप्राणरूपेण वर्तमानेषु मे मदीया नाभिरातता सम्बद्धा । ऋषिरात्मानमेव परोक्षतया निर्दिशति । त्रितस्तीर्णतमस्तिरस्कृताज्ञान आप्त्योऽपां पुत्र ऋषिस्तत्पूर्वोक्तं वृत्तान्तं वेद । जानाति । नान्यः । स जानन्नृषिर्जामित्वाय कूपान्निर्गन्तृत्वाय रेभति । तान् रश्मीन् स्तौति । अन्यत्समानं ॥ अतता । तनोतेः कर्मणि निष्या । आनुदात्तोपदेशेत्यादिनानुनासिकलोपः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । जामित्वाय । जमतिर्गतिकर्मा । जमति गच्छतीति जामिः । औणादिक इण्प्रत्ययः । तस्य भावस्तत्त्वम् । रेभति । रेभृ शब्दे । भौवादिकः ॥ ९ ॥
“Those which are the seven rays (of the sun), in them is my navel expanded; Trita, the son of the waters, knows that (it is so), and he praises them for his extrication (from the well). Heaven and earth, be conscious of this (my affliction).”
Where those seven rays are shining, thence my home and family extend.
This Trta Aptya knoweth well, and speaketh out for brotherhood. Mark this my woe, ye Earth and Heaven.
The seven reins [=seers?] that are yonder—to there is my umbilical cord stretched.
Trita Āptya knows this. He rasps (witness) to the kinship.
– Take heed of this (speech) of mine, you two world-halves.
Dort wo die sieben Strahlen sind, da ist verbreitet mein Geschlecht, Das kennet Trita Aptia, er spricht für meine Brüderschaft. Bezeugt mir, Erd' und Himmel, das.
Jene sieben Strahlen - bis dahin reicht mein Ursprung. Trita Aptya weiß das, er erhebt seine Stimme zu Gunsten der Verwandtschaft. - Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Вот те семь лучей –
Дотуда протянулась моя родословная.
Трита Аптья ведает это.
Он поднимает голос в пользу родства.
О Небо и Земля, узнайте обо мне (в таком положении)!
अ॒मी ये पञ्चो॒क्षणो॒ मध्ये॑ त॒स्थुर्म॒हो दि॒वः । दे॒व॒त्रा नु प्र॒वाच्यं॑ सध्रीची॒ना नि वा॑वृतुर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अ॒मी इति॑ । ये । पञ्च॑ । उ॒क्षणः॑ । मध्ये॑ । त॒स्थुः । म॒हः । दि॒वः । दे॒व॒ऽत्रा । नु । प्र॒ऽवाच्य॑म् । स॒ध्री॒ची॒नाः । नि । व॒वृ॒तुः॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
उक्षणः सेक्तारः कामाभिवर्षकाः पञ्च । 'तन्न इन्द्रस्तद्वरुणस्तदग्निस्तदर्यमा तत्सविता चनो धात् ' ( ऋ. सं. १. १०७. ३ ) इत्यर्धर्चेन प्रतिपादिताः पञ्चसंख्याका देवाः । यद्वा । अग्निर्वायुः सूर्यश्चन्द्रमा विद्युदित्येवं पञ्चसंख्याकाः । तथा च शाट्यायनकम्-' एतान्येव पञ्च ज्योतींषि यान्येषु लोकेषु दीप्यन्ते । अग्निः पृथिव्यां वायुरन्तरिक्षे च आदित्यो दिवि चन्द्रमा नक्षत्रे विद्युदप्सु ' इति । नक्षत्रे नक्षत्रलोके । अप्सु मेघस्थोदकेषु । तैत्तिरीयेऽप्येवमाम्नातम्-‘अग्निः पृथिव्यां वायुरन्तरिक्षे सूर्यो दिवि चन्द्रमा दिक्षु नक्षत्राणि स्वर्लोके' (तै. आ. १. २०. १) इति । ये अमी पञ्चसंख्याका देवाः महो दिवः महतो विस्तीर्णस्य द्युलोकस्य मध्ये तस्थुः तिष्ठन्ति आसते देवत्रा देवेषु नु क्षिप्रं प्रवाच्यं प्रशंसनीयं देवानां योग्यं मदीयं स्तोत्रं प्रति सध्रीचीनाः सहाञ्चन्तो युगपदागच्छन्तस्ते देवाः मदीयं परिचरणं स्वीकुर्वन्ति । तदनन्तरं नि ववृतुः तृप्ताः सन्तो निवर्तन्ते च । अन्यत् समानम् ॥ उक्षणः । ‘ वा पपूर्वस्य निगमे ' इत्युपधादीर्घाभावः । देवत्रा । देवमनुष्य ' इत्यादिना सप्तम्यर्थे त्राप्रत्ययः । प्रवाच्यम् । वाचयतेः ‘ अचो यत्' इति यत् । ' णेरनिटि ' इति णिलोपः । ‘ यतोऽनावः' इत्याद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । सध्रीचीनाः । सहाञ्चन्तीति सध्र्यञ्चः । ते एव सध्रीचीनाः । सहपूर्वात् अञ्चतेः ‘ऋत्विक्' इत्यादिना क्विन् । 'अनिदिताम्' इति नलोपः। 'सहस्य सध्रिः' (पा. सू. ६. ३. ९५ ) इति सध्र्यादेशः । ‘ विभाषाञ्चेरदिक्स्त्रियाम् ' इति स्वार्थे ग्वप्रत्ययः । ववृतुः । ‘ वृतु वर्तने '। छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट् । व्यत्ययेन परस्मैपदम् । ‘ अन्येषामपि दृश्यते' इति संहितायामभ्यासस्य दीर्घत्वम् ॥ ॥ २१ ॥
“May the five shedders (of benefits), who abide in the centre of the expanded heavens, having together conveyed my prayers quickly to the gods, (speedily) return. Heaven and earth, be conscious of this (my affliction).”
May those five Bulls which stand on high full in the midst of mighty heaven,
Having together swiftly borne my praises to the Gods, return. Mark this my woe, ye Earth and Heaven.
The five oxen that stand yonder in the middle of great heaven— this is now to be proclaimed among the gods—they have turned back (toward home), directed toward a single end.
– Take heed of this (speech) of mine, you two world-halves.
Und die fünf Stiere, welche dort am grossen Himmels-Nabel stehn, Vereinigt lenken sie dorthin, was Göttern zu verkünden ist. Bezeugt mir, Erd' und Himmel, das.
Jene fünf Sterne, die in der Mitte des hohen Himmels standen als ein unter Göttern rühmliches Werk, sind miteinander verschwunden. - Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Вот те пятеро быков,
Которые стояли посреди великого неба –
(Явление,) достойное восхваления среди богов –
Вернулись назад (все) вместе.
О Небо и Земля, узнайте обо мне (в таком положении)!
सु॒प॒र्णा ए॒त आ॑सते॒ मध्य॑ आ॒रोध॑ने दि॒वः । ते से॑धन्ति प॒थो वृकं॒ तर॑न्तं य॒ह्वती॑र॒पो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
सु॒ऽप॒र्णाः । ए॒ते । आ॒स॒ते॒ । मध्ये॑ । आ॒ऽरोध॑ने । दि॒वः । ते । से॒ध॒न्ति॒ । प॒थः । वृक॑म् । तर॒न्त॒म् । य॒ह्वतीः॑ । अ॒पः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
सुपर्णाः । रश्मिनामैतत् । शोभनपतनाः एते सूर्यरश्मयः आरोधने सर्वस्यावरके व्याप्ते दिवः अन्तरिक्षस्य मध्ये आसते वर्तन्ते । ते सूर्यरश्मयः पथः मार्गात् वृकम् अरण्यश्वानं सेधन्ति निषेधन्ति निवारयन्ति । कीदृशम् । यह्वतीः महतीः अपः तरन्तम् अतिक्रामन्तम् । कूपपतनात्पूर्वं त्रितं दृष्टा एनं भक्षयितुं कश्चिदरण्यश्वा महतीं नदीं तितीर्षुः आजगाम । स च सूर्यरश्मीन् दृष्ट्वा अयमवसरो न भवतीति निववृते । अतो रश्मयो वृकं निषेधन्तीत्युच्यते । यास्कपक्षे तु आप इत्यन्तरिक्षनाम। यह्वतीरपो महदन्तरिक्षं पथः पथा द्वादशराश्यात्मना मार्गेण तरन्तं वृकं चन्द्रमसं सूर्यरश्मयो निषेधन्ति । अहनि हि सूर्यरश्मिभिः निरुद्धश्चन्द्रमा निष्प्रभो दृश्यते । अतो निष्प्रभं कुर्वन्तीत्यर्थः ॥ आरोधने। आरुध्यते आव्रियतेऽनेनेति आरोधनम् । करणे ल्युट्। सेधन्ति । ‘षिधु गत्याम्'। अयं केवलोऽपि निपूर्वार्थे द्रष्टव्यः । पथः । पञ्चम्येकवचने • भस्य टेर्लोपः' इति टिलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । यास्कपक्षे तु तृतीयार्थे व्यत्ययेन पञ्चमी । यह्वतीः । यह्व इति महन्नाम । अस्मादाचारार्थे ‘ सर्वप्रातिपदिकेभ्यः‘ (पा. म. ३. १. ११. ३) इति क्विप् । ततो लटः शतृ ।' उगितश्च' इति ङीप् । आगमानुशासनस्यानित्यत्वात नुमभावः । ‘शतुरनुमः' इति नदीस्वरो व्यत्ययेन न प्रवर्तते ॥
“The rays of the sun abide in the surrounding centre of heaven; they drive back the wolf crossing the great waters from the path. Heaven and earth, be conscious of this (my affliction).”
High in the mid ascent of heaven those Birds of beauteous pinion sit.
Back from his path they drive the wolf as he would cross the restless floods. Mark this my woe, ye Earth and Heaven.
These fine-feathered ones sit in the middle, on the stairway to heaven. They keep away from the path the wolf that is overtaking the boisterous waters.
– Take heed of this (speech) of mine, you two world-halves.
Es sitzen die geflügelten dort mitten an des Himmels Dom, Sie scheuchen von dem Pfad den Wolf, der durch die schnellen Fluten setzt. Bezeugt mir, Erd' und Himmel, das.
Die Schönbeschwingten sitzen da mitten auf der Leiter zum Himmel; die vertreiben den Wolf, der über die jüngsten Gewässer kommt, vom Wege. - Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Эти прекраснокрылые сидят
Посреди подъема на небо.
Они прогоняют с дороги волка,
Переправляющегося через юные воды.
О Небо и Земля, узнайте обо мне (в таком положении)!
नव्यं॒ तदु॒क्थ्यं॑ हि॒तं देवा॑सः सुप्रवाच॒नम् । ऋ॒तम॑र्षन्ति॒ सिन्ध॑वः स॒त्यं ता॑तान॒ सूर्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
नव्य॑म् । तत् । उ॒क्थ्य॑म् । हि॒तम् । देवा॑सः । सु॒ऽप्र॒वा॒च॒नम् । ऋ॒तम् । अ॒र्ष॒न्ति॒ सिन्ध॑वः । स॒त्यम् । त॒ता॒न॒ । सूर्यः॑ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
हे देवासः देवाः नव्यं नवतरम् उक्थ्यं प्रशस्यं स्तुत्यर्हं सुप्रवाचनं सुष्ठु ऋत्विग्भिर्वाचयितुं शक्यम् एवंभूतं तत् भवदीयं बलं हितं युष्मासु निहितम् । अतो युष्मदीयेन बलेन सिन्धवः स्यन्दनशीला नद्यः ऋतम् उदकम् अर्षन्ति आलस्यराहित्येन सर्वदा प्रेरयन्ति । अशोष्याः सत्यः प्रवहन्तीत्यर्थः । तथा सूर्यः सत्यं सर्वदा विद्यमानं स्वकीयं तेजः ततान आतनोति विस्तारयति । अन्यत् समानम् ॥ सुप्रवाचनम् । वच परिभाषणे ' । अस्मात् ण्यन्तात् 'अन्येभ्योऽपि दृश्यते 'इति स्वलर्थे युच् । अर्षन्ति । अतेर्लेटि • सिब्बहुलं लेटि' इति सिप् । गुणः । ततान । ‘अन्येषामपि दृश्यते' इति संहितायामभ्यासस्य दीर्घत्वम् ॥
अग्ने तव त्यदुक्थ्य देवेष्वस्त्याप्यम् । स नः सुत्तो मनुष्वदा देवान्यक्षि विदुष्टरो वित्तं मै अस्य रोदसी ॥ १२ ॥
“That new praiseworthy and commended (vigour) is seated in you, ye Gods, (by which) the rivers urge on the waters, and the sun diffuses his constant (light). Heaven and earth, be conscious of this (my affliction).”
Firm is this new-wrought hymn of praise, and meet to be told forth, O Gods.
The flowing of the floods is Law, Truth is the Sun's extended light. Mark this my woe, ye Earth and Heaven.
Anew has this (speech) been established worthy to be spoken, good to proclaim, o gods.
The rivers stream truth; the sun stretches through the real.
– Take heed of this (speech) of mine, you two world-halves.
᳓
Preiswürdig ist dies neue Werk, o Götter, und des Rühmens werth, Die Flüsse strömen aus das Recht, und Wahrheit strahlt die Sonne aus. Bezeugt mir, Erd' und Himmel, das.
Aufs neue ist das preisliche, gelobte Werk gefestigt, Ihr Götter: Die Flüsse strömen regelmäßig, die Sonne hat sich wahrhaft ausgebreitet. - Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Снова укреплено это достойное воспевания,
Заслуживающее лучшего восхваления (светило), о боги.
Закон струят реки.
Правду протянуло солнце.
О Небо и Земля, узнайте обо мне (в таком положении)!
अग्ने॒ तव॒ त्यदु॒क्थ्यं॑ दे॒वेष्व॒स्त्याप्य॑म् । स न॑: स॒त्तो म॑नु॒ष्वदा दे॒वान्य॑क्षि वि॒दुष्ट॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अग्ने॑ । तव॑ । त्यत् । उ॒क्थ्य॑म् । दे॒वेषु॑ । अ॒स्ति॒ । आप्य॑म् । सः । नः॒ । स॒त्तः । म॒नु॒ष्वत् । आ । दे॒वान् । य॒क्षि॒ । वि॒दुःऽत॑रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
हे अग्ने तव उक्थ्यं प्रशस्यं त्यत् श्रुतिप्रसिद्धम्' आप्यम् । आपिर्बन्धुः । तस्य भावः । बान्धवं देवेषु दानादिगुणयुक्तेष्विन्द्रादिषु अन्ति विद्यते । तस्मात् सः तादृशः विदुष्टरः विद्वत्तरस्त्वं नः अस्माकं यज्ञे सत्तः निषण्णः सन् 'देवान् तानिन्द्रादीन् आ शास्त्रमर्यादया यक्षि यज हविर्भिः पूजय । तत्र दृष्टान्तः । मनुष्वत् । यथा मनूनां यज्ञे तद्वत् । अन्यत् पूर्ववत् ॥ आप्यम् । ‘ आप्लृ व्याप्तौ ' । अस्मात् ण्यन्तात् ' अच इः' इति इप्रत्ययः । ब्राह्मणादित्वात् ष्यन् । सत्तः । 'नसत्तनिषत्त' (पा. सू. ८. २. ६१ ) इति निपातनात् निष्ठानत्वाभावः । छान्दसो निशब्दलोपो द्रष्टव्यः । मनुष्वत् । मनेरौणादिक उसिप्रत्ययः । तत्र तस्येव' ( पा सू. ५. १. ११६) इति षष्ठ्यर्थे वतिः । ‘ नभोऽङ्गिरोमनुषां वत्युपसंख्यानम् ' (पा. सू. १. ४. १८. ३) इति भत्वेन पदत्वाभावात् रुत्वाद्यभावः । यक्षि । 'बहुलं छन्दसि ' इति शपो लुक् । व्रश्चादिपत्वे कुत्वषत्वे । विदुष्टरः । विद्वस्शब्दात् तरपि अयस्मयादिवेन भत्वात् ' वसोः संप्रसारणम्' इति संप्रसारणम् । ‘शासिवसिघसीनां च' इति षण्वम् ॥
“Worthy of praise, Agni, is that your relationship 9with the gods), do you, who are most wise, seated at our (solemnity) worship (the gods), as (at the sacrifice of) Manu.”
Worthy of laud, O Agni, is that kinship which thou hast with Gods.
Here seat thee like a man: most wise, bring thou the Gods for sacrifice. Mark this my woe, ye Earth and Heaven.
O Agni, it exists: this friendship of yours among the gods, worthy to be hymned.
Seated here, sacrifice to the gods for us as you did for Manu—as the one who knows better.
– Take heed of this (speech) of mine, you two world-halves.
᳓
Preiswerth ist deine Brüderschaft, o Agni, mit der Götterschar, Drum setz dich her nach Menschen Art und ehr die Götter, kundigster. Bezeugt mir, Erd' und Himmel, das.
Agni, du hast die preisliche Bekanntschaft unter den Göttern. Setz dich her wie bei Manu und opfere als Kundigster den Göttern. - Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
О Агни, ведь у тебя дружба
С богами, достойная воспевания.
Сев у нас, подобно Манусу,
Принеси жертву богам, как самый сведущий!
О Небо и Земля, узнайте обо мне (в таком положении)!
स॒त्तो होता॑ मनु॒ष्वदा दे॒वाँ अच्छा॑ वि॒दुष्ट॑रः । अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
स॒त्तः । होता॑ । म॒नु॒ष्वत् । आ । दे॒वान् । अच्छ॑ । वि॒दुःऽत॑रः । अ॒ग्निः । ह॒व्या । सु॒सू॒द॒ति॒ । दे॒वः । दे॒वेषु॑ । मेधि॑रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
मनुष्वत् मनोरिवास्माकं यज्ञे सत्तः निषण्णः होता देवानामाह्वाता विदुष्टरः विद्वत्तरः देवः दानादिगुणयुक्तः देवेषु सर्वेष्विन्द्रादिषु मध्ये मेधिरः मेधावी एवंभूतः अग्निः तान् देवान् अच्छ आभिमुख्येन हव्या हव्यानि अस्मदीयानि हवींषि । मर्यादायामाकारः । शास्त्रमर्यादया यथाशास्त्रं सुषूदति प्रेरयतु । अन्यत् समानम् ॥ सुषूदति । ‘षूद क्षरणे' । लेटि अडागमः । ‘ बहुलं छन्दसि ' इति शपः श्लुः । मेधिरः । मेधारथाभ्यामिरनिरची वक्तव्यौ ' ( पा. सू. ५. २. १०९. ३ ) इति मत्वर्थीय इरन् ।
“May that wise and liberal Agni, a sage amongst the gods, seated at our rite, as at the sacrifice of Manu, be the invoker of the deities, and offer them oblations. Heaven and earth, be conscious of this (my affliction).”
Here seated, man-like as a priest shall wisest Agni to the Gods
Speed onward our oblations, God among the Gods, intelligent. Mark this my woe, ye Earth and Heaven.
Seated here as Hotar, as for Manu, (facing?) toward the gods, as the one who knows better,
Agni sweetens the oblations, the wise god among the gods.
– Take heed of this (speech) of mine, you two world-halves.
᳓
Gesetzt als Priester, menschengleich, als kundigster zu Göttern hin, Macht Agni schön den Opferguss, der Gott bei Göttern weisheitsvoll. Bezeugt mir, Erd' und Himmel, das.
Wie bei Manu als Hotri sitzend bitte die Götter her als Kundigster. Agni macht die Opfer schmackhaft, der weise Gott unter den Göttern. - Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Сев как хотар, подобно Манусу,
(Пригласи) сюда богов, как самый сведущий!
Агни делает вкусными жертвенные возлияния,
Бог, мудрый среди богов.
О Небо и Земля, узнайте обо мне (в таком положении)!
ब्रह्मा॑ कृणोति॒ वरु॑णो गातु॒विदं॒ तमी॑महे । व्यू॑र्णोति हृ॒दा म॒तिं नव्यो॑ जायतामृ॒तं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
ब्रह्मा॑ । कृ॒णो॒ति॒ । वरु॑णः । गा॒तु॒ऽविद॑म् । तम् । ई॒म॒हे॒ । वि । ऊ॒र्णो॒ति॒ । हृ॒दा । म॒तिम् । नव्यः॑ । जा॒य॒ता॒म् । ऋ॒तम् । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
यः वरुणः अनिष्टस्य निवारयिता देवः ब्रह्म परिवृढं तद्रक्षणरूपं कर्म कृणोति करोति तं तादृशं गातुविदं गातोर्मार्गस्य दुःखनिवारकस्य लम्भयितारं वरुणम् ईमहे अभिमतफलं याचामहे । ईमहे इति याञ्चाकर्मा। तस्मै वरुणाय अयमस्मदीयः स्तोता हृदा हृदयेन मतिं मननीयां स्तुतिं व्यूर्णोति विवृणोति प्रकाशयति उच्चारयतीत्यर्थः। सोऽयं नव्यः स्तुत्यो वरुणोऽस्माकम् ऋतं जायतां सत्यभूतोऽस्तु ॥ ब्रह्म। ‘ अन्येषामपि दृश्यते ' इति सांहितिको दीर्घः । गातुविदम् ।' विद्लृ लाभे'। अन्तर्भावितण्यर्थात् क्विप् । ईमहे ।' ईङ् गतौ '।' बहुलं छन्दसि ' इति विकरणस्य लुक् । हृदा । ‘पदन्' इत्यादिना हृदयशब्दस्य हृदादेशः ॥ ॥ २२ ॥
“Varuṇa performs the rite of preservation; we desire him as guide of our way; (to him, the repeater of praise) addresses praise with his (whole) heart; may he who is entitled to laudation become our true (support). Heaven and earth, be conscious of this (my affliction).”
Varuna makes the holy prayer. To him who finds the path we pray.
He in the heart reveals his thought. Let sacred worship rise anew. Mark this my woe, ye Earth and Heaven.
Varuṇa creates sacred formulations; we implore him as the finder of the way.
He opens up the thought in our heart. Let a newer truth be born.
– Take heed of this (speech) of mine, you two world-halves.
᳓
Gebete wirket Varuna, ihn bitten wir, dass Bahn er macht, Er schliesst das Lied im Herzen auf, das heil'ge Werk erstehe neu. Bezeugt mir, Erd' und Himmel, das.
Varuna wirkt das Segenswort; an ihn als den Pfadfinder wenden wir uns. Er erschließt im Herzen den Gedanken; ein neues rechtes Lied soll entstehen. - Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Варуна создает молитву.
К нему, ведающему путь, мы обращаемся.
Он открывает сердцем мысль!
Пусть снова возникнет закон!
О Небо и Земля, узнайте обо мне (в таком положении)!
अ॒सौ यः पन्था॑ आदि॒त्यो दि॒वि प्र॒वाच्यं॑ कृ॒तः । न स दे॑वा अति॒क्रमे॒ तं म॑र्तासो॒ न प॑श्यथ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अ॒सौ । यः । पन्थाः॑ । आ॒दि॒त्यः । दि॒वि । प्र॒ऽवाच्य॑म् । कृ॒तः । न । सः । दे॒वाः॒ । अ॒ति॒ऽक्रमे॑ । तम् । म॒र्ता॒सः॒ । न । प॒श्य॒थ॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
पन्थाः सततगामी । यद्वा । ब्रह्मलोकं गच्छतामुपासकानां मार्गभूतः । सूर्यद्वारेण ते विरजाः प्रयान्ति' (मु. उ. १. २. ११ ) इति श्रुतेः । एवंभूतः यः असौ आदित्यः दिवि द्युलोके प्रवाच्यं प्रकर्षण वचनं यथा भवति तथा कृतः निर्मितः । यथा सर्वैः प्राणिभिर्दृश्यते तथा वर्तमानः इत्यर्थः । हे देवाः सः अयमादित्यो युष्माभिरपि न अतिक्रमे अतिक्रमितुं न शक्यः । युष्मज्जीवनस्य तदायत्तत्वात् । सति हि सूर्ये वसन्तादयः काला निष्पद्यन्ते । कालेषु च यागाः क्रियन्ते । यागेषु च सत्सु भवतां जीवनम् । अतो युष्माभिरप्यसौ नातिक्रमितव्यः । एवं च सति हे मर्तासः पापकृतो मनुष्याः तं महानुभावं सूर्यं न पश्यथ सूर्यं न जानीथ। एतच्च कूपे पातयित्वा निर्गतौ एकतद्वितौ प्रति निन्दनम् । अहमेव मन्त्रद्रष्टा तं सूर्यं जानामि पापकृतौ युवां न जानीथः इति । पन्थाः ।' पत्लृ गतौ'। 'पतेस्थ च' इति इनिप्रत्ययः । पथिमथ्यृभुक्षामात्' इति आत्वम् । ‘इतोऽत्सर्वनामस्थाने' (पा. सू. ७. १.८६) इति अत्वम् इकारस्य ।' थो न्यः' (पा. सू. ७. १. ८७)। 'पथिमथोः सर्वनामस्थाने' इत्याद्युदातत्वम्। प्रवाच्यम् । वक्तेर्ण्यन्तात् ‘अचो यत्' इति भावे यत् ।' यतोऽनावः' इत्याद्युदात्तत्वम् । अतिक्रमे । ‘ क्रमु पदविक्षेपे '। ‘कृत्यार्थं तवैकेन्' इति केन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
“The sun, who is avowedly made the path in heaven, is not to be disregarded, Gods, by you; but you, mortals, regard him not. Heaven and earth be conscious of this (my affliction).”
That pathway of the Sun in heaven, made to be highly glorified,
Is not to be transgressed, O Gods. O mortals, ye behold it not. Mark this my woe, ye Earth and Heaven.
The path that is yonder, belonging to the Ādityas, made as something to be proclaimed in heaven—
it is not to be overstepped, o gods; o mortals, you do not (even) see it. – Take heed of this (speech) of mine, you two world-halves.
Der Weg, den die Aditja's gehn, am Himmel rühmenswerth gebahnt, Den überschreiten Götter nicht, den schaut ihr nicht, o Sterbliche. Bezeugt mir, Erd' und Himmel, das.
Jenen Aditiweg, der am Himmel als rühmliches Werk bereit ist, den kann keiner übertreten, ihr Götter, den sehet ihr Sterblichen nicht. - Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Вот тот путь Адитьев,
Созданный на небе, как (творение,) достойное восхваления, -
Его вам не обойти, о боги!
Вы, смертные, не видите его.
О Небо и Земля, узнайте обо мне (в таком положении)!
त्रि॒तः कूपेऽव॑हितो दे॒वान्ह॑वत ऊ॒तये॑ । तच्छु॑श्राव॒ बृह॒स्पति॑: कृ॒ण्वन्नं॑हूर॒णादु॒रु वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
त्रि॒तः । कूपे॑ । अव॑ऽहितः । दे॒वान् । ह॒व॒ते॒ । ऊ॒तये॑ । तत् । शु॒श्रा॒व॒ । बृह॒स्पतिः॑ । कृ॒ण्वन् । अं॒हू॒र॒णात् । उ॒रु । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
कूपेऽवहितः पातितः त्रितः एतत्संज्ञः ऋषिः ऊतये रक्षणाय देवान् हवते स्तुतिभिराकारयति । यदेतत् त्रितस्याह्वानं बृहस्पतिः बृहतां महतां देवानां रक्षकः एतत्संज्ञो देवः एतत् आह्वानं शुश्राव श्रुतवान् । किं कुर्वन् । अंहूरणात् अंहसः पापरूपादस्मात् कूपपातादुन्नीय उरु विस्तीर्णं शोभनं कृण्वन् कुर्वन् ॥ हवते । ह्वयतेर्लटि ‘ बहुलं छन्दसि' इति संप्रसारणम् । शब्गुणावादेशाः । ऊतये ।' ऊतियूति इत्यादिना क्तिन उदात्तत्वम् । बृहस्पतिः । ‘ तदबृहतोः करपत्योः ' ( पा. सू. ६. १. १५७.ग. ) इति पारस्करादिषु पाठात् सुट्तलोपौ ।' उभे वनस्पत्यादिषु" ' इति पूर्वोत्तरपदयोः युगपत्प्रकृतिस्वरत्वम् । अंहूरणात् । अहि गतौ । इदित्वात् नुम् । ‘ स्वर्जिपिञ्ज्यादिभ्य ऊरोलची ' (उ. सू. ४. ५३० ) इति भावे ऊरप्रत्ययः । दुःखप्राप्तिहेतुभावा गतिरस्यास्तीति पामादिलक्षणो मत्वर्थीयो नः ( पा. सू. ५. २. १०० )। आङ्पूर्वात् हन्तेर्वा रूपमुन्नेयम् ॥
“Trita, fallen into the well, invokes the Gods for succour; Bṛhaspati, who liberates many from sin, heard (the submission). Heaven and earth, be conscious of this (my affliction).”
Trta, when buried in the well, calls on the Gods to succour him.
That call of his Brhaspati heard and released him from distress. Mark this my woe, ye Earth and Heaven.
Trita, set down in a well, calls upon the gods for help.
Br̥haspati has heard this, making a broad (space) from narrowness.
– Take heed of this (speech) of mine, you two world-halves.
Als Trita in die Grube fiel, rief er um Huld die Götter an, Das hat Brihaspati gehört, und aus der Enge ihn befreit. Bezeugt mir, Erd' und Himmel, das.
Trita, in den Brunnen gesteckt, ruft also die Götter um Beistand. Das hört Brihaspati, der Befreiung aus der Enge erwirkte. - Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Трита, посаженный в колодец,
Взывает к богам о помощи.
Это услышал Брихаспати,
Создающий широкий простор из узости.
О Небо и Земля, узнайте обо мне (в таком положении)!
अ॒रु॒णो मा॑ स॒कृद्वृक॑: प॒था यन्तं॑ द॒दर्श॒ हि । उज्जि॑हीते नि॒चाय्या॒ तष्टे॑व पृष्ट्याम॒यी वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अ॒रु॒णः । मा॒ । स॒कृत् । वृकः॑ । प॒था । यन्त॑म् । द॒दर्श॑ । हि । उत् । जि॒ही॒ते॒ । नि॒ऽचाय्य॑ । तष्टा॑ऽइव । पृ॒ष्टि॒ऽआ॒म॒यी । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
अरुणवर्णः लोहितवर्णः ."वृकः अरण्यश्वा सकृत् एकवारं पथा यन्तं मार्गेण गच्छन्तं मां ददर्श हि दृष्टवान् । हिः पादपूरणः। निचाय्य दृष्ट्वा च मां जिघृक्षुः सन् उज्जिहीते उद्गच्छति स्म। तत्र दृष्टान्तः । तष्टेव पृष्ट्यामयी। यथा तक्षणजनितपृष्ठक्लेशः तष्टा वर्धकिः तदपनोदनाय ऊर्ध्वाभिमुखो भवति तद्वत् । हे द्यावापृथिव्यौ मदीयमिदं दुःखं वित्तं जानीतम् । यद्वा । वृक इति विवृतज्योतिष्कः चन्द्रमाः उच्यते । अरुणः आरोचमानः कृत्स्नस्य जगतः प्रकाशकः मासकृत् मासार्धमासर्त्वयनसंवत्सरादीन् कालविशेषान् कुर्वन् । तिथिविभागज्ञानस्य चन्द्रगत्यधीनत्वात् । स चन्द्रमाः आकाशमार्गे यन्तं गच्छन्तं नक्षत्रगणं ददर्श । हिरवधारणे। नक्षत्रगणमेव ददर्श न कूपपतितं मामित्यनादरो द्योत्यते । यदि मां पश्येत् उद्धरेत् कूपात् । निचाय्य नक्षत्रगणं दृष्ट्वा चोज्जिहीते । येन नक्षत्रेण संयुज्यते तेन सहोद्गच्छति । न मामभिगच्छतीत्यर्थः । अन्यत् पूर्ववत् । अत्र मासकृत् इति यास्कः एकं पदं मन्यते शाकल्यस्तु पदद्वयम् । तस्मिन्पक्षेऽयमर्थः । दक्षप्रजापतेर्दुहितृभूताः स्वभार्याः अश्विन्याद्यास्तारकाः पुनःपुनर्ददर्श। मां सकृदेव पश्यतीति सकृद्दृष्ट्वा चोज्जिहीते। ताराभिः सहोर्ध्वमेव गच्छति । न मां कूपादुत्तारयति । अत इदमनुचितम् । हे द्यावापृथिव्यौ मदीयमिमं वृत्तान्तं जानीतम् ॥ अत्र निरुक्तं-' वृकश्चन्द्रमा भवति विवृतज्योतिष्को वा विकृतज्योतिष्को वा विक्रान्तज्योतिष्को वा । अरुण आरोचन: मासकृन्मासानां चार्धमासानां च कर्ता भवति चन्द्रमा वृकः पथा यन्तं ददर्श नक्षत्रगणमभिजिहीते निचाय्य येन येन योक्ष्यमाणो भवति चन्द्रमास्तक्ष्णुवन्निव पृष्ठरोगी' (निरु. ५.२०-२१) इति । सकृत् । एकस्य सकृञ्च' ( पा. सू. ५. ४.१९) इति क्रियाभ्यावृत्तिगणने निपातितः । वृकः । वृञ् वरणे'। सृवृभूशुचिमुषिभ्यः कित् ' ( उ. सू. ३. ३२१ ) इति कप्रत्ययः । जिहीते । ओहाङ गतौ ' । जौहोत्यादिकः । ‘भृञामित्' इति अभ्यासस्य इत्वम् । निचाय्य । 'चायृ पूजानिशामनयोः । अत्र दर्शनार्थो धातूनामनेकार्थत्वात् । समासेऽनम्पूर्वे क्त्वो ल्यप्'। पृष्टयामयी। ‘स्पृश संस्पर्शने। 'स्पृश्यतेऽनेनेति स्पृष्टिः । छान्दसो वर्णलोपः । पृष्टावामयः पृष्ट्यामयः । तद्वान् पृष्ट्यामयी॥
“Once, a tawny wolf beheld me faring on my way, and having seen me, rushed upon me, (rearing) as a carpenter, whose back aches (with stooping, standing erect in his work).”
A ruddy wolf beheld me once, as I was faring on my path.
He, like a carpenter whose back is aching crouched and slunk away. Mark this my woe, ye Earth and Heaven.
Because the reddish wolf has suddenly seen me going along the path, he rears up on having noticed me, like a carpenter with a stitch in
his side.
– Take heed of this (speech) of mine, you two world-halves.
Der braune Wolf erblickte mich auf einmal, als des Wegs ich ging; Er fuhr empor als er mich sah, wie Zimmerer vor Rippenschmerz; Bezeugt mir, Erd' und Himmel, das.
Mich hat nämlich einmal der rötliche Wolf gesehen, wie ich meines Weges ging. Da er mich bemerkt hat, richtet er sich auf wie ein Zimmermann den die Rückenknochen schmerzen. - Seid in solcher Lage, meiner Eingedenk, Himmel und Erde!
Однажды меня увидел рыжий волк,
Когда я шел (своим) путем.
Заметив меня, он распрямляется,
Как плотник, у которого боль в ребрах.
О Небо и Земля, узнайте обо мне (в таком положении)!
ए॒नाङ्गू॒षेण॑ व॒यमिन्द्र॑वन्तो॒ऽभि ष्या॑म वृ॒जने॒ सर्व॑वीराः । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
ए॒ना । आ॒ङ्गू॒षेण॑ । व॒यम् । इन्द्र॑ऽवन्तः । अ॒भि । स्या॒म॒ । वृ॒जने॑ । सर्व॑ऽवीराः । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
एना अनेन आङ्गूषेण आघोषणयोग्येन स्तोत्रेण हेतुभूतेन इन्द्रवन्तः अनुग्राहकेणेन्द्रेण युक्ताः सर्ववीराः सर्वैर्वीरैः पुत्रैः पौत्रादिभिश्चोपेताः सन्तः वयं वृजने संग्रामे अभि ष्याम शत्रूनभिभवेम । तत् इदमस्मदीयं वचनं मित्रादयः ममहन्तां पूजयन्तु पालयन्त्वित्यर्थः । उतशब्दो देवतासमुच्चये। अत्र यास्कः-’ आङ्गूषः स्तोम आघोषः । अनेन स्तोमेन वयमिन्द्रवन्तः' (निरु. ५.११) इति । एना । ' द्वितीयाटौःस्वेनः '(पा. सू. २. ४. ३४) इति तृतीयायाम् इदम एनादेशः ।' सुपां सुलुक् ' इति विभक्तेः आजादेशः । चित्स्वरेणान्तोदात्तत्वम्। आङ्गूषेण । आङ्पूर्वात् घुषेः कर्मणि घञ् । आङो ङकारलोपाभावश्छान्दसः । घोषशब्दस्य गूषभावश्च पृषोदरादित्वात् । थाथादिना उत्तरपदान्तोदात्तत्वम् । स्याम । अस्तेः प्रार्थनायां लिङि' असोरल्लोपः' इति अकारलोपः । ' उपसर्गप्रादुर्भ्यामस्तिर्यच्परः' (पा. सू. ८. ३. ८७ ) इति षत्वम् ॥ ॥ २३ ॥ ॥ १५ ॥
“By this recitation, may we, becoming possessed of Indra, and strong with multiplied progeny, overcome our foes in battle; and may Mitra, Varuṇa, Aditi---ocean, earth and heaven, be gracious to us in this (request).”
Through this our song may we, allied with Indra, with all our heroes conquer in the battle.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
With this song may we, with Indra on our side and possessing hale heroes, be preeminent in the community.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
Durch dieses Loblied mögen wir von Indra begleitet in der Kriegsschar sammt allen Helden siegreich sein; das möge uns Mitra, Varuna gewähren und Aditi, das Meer und Erd' und Himmel.
Durch dieses Loblied möchten wir mit Indra auf unserer Seite mit heilen Mannen in den Ringen die Oberhand behalten. - Das mögen uns Mitra und Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
С помощью этой хвалы с Индрой на нашей стороне,
Со всеми мужами пусть превзойдем мы (всех в этой) общине!
Пусть нам это щедро даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!