य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्त॑: । आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥
य॒ज्ञः । दे॒वाना॑म् । प्रति॑ । ए॒ति॒ । सु॒म्नम् । आदि॑त्यासः॑ । भव॑त । मृ॒ळ॒यन्तः॑ । आ । वः॒ । अ॒र्वाची॑ । सु॒ऽम॒तिः । व॒वृ॒त्या॒त् । अं॒होः । चि॒त् । या । व॒रि॒वो॒वित्ऽत॑रा । अस॑त् ॥
अस्मदीयः यज्ञो देवानाम् इन्द्रादीनां सुम्नं सुखं प्रत्येति प्राप्नोतु ।
अपि च हे आदित्यासः आदित्याः मृळयन्तः अस्मान् सुखयन्तः भवत ।
तथा वः युष्माकं सुमतिः शोभना मतिः भद्रानुग्रहपरा बुद्धिः अर्वाची अस्मदभिमुखी आ ववृत्यात् आवर्तताम् ।
या मतिः अंहोश् चित् दारिद्र्यं प्राप्तस्यापि पुरुषस्य वरिवोवित्तरा । वरिवः इति धननाम । अतिशयेन धनस्य लम्भयित्री असत् भवेत् ।
सैषा मतिरस्मान् रक्षतुं वर्ततामित्यर्थः ॥
भवत । आमन्त्रितं पूर्वमविद्यमानवत्' इति आदिल्यास इति पादादौ वर्तमानस्य आमन्त्रितस्य अविद्यमानवत्वेनास्य पादादित्वात् ‘०अपादादौ' इति पर्युदासात् निघाताभावः ।
मृळ्यन्तः । ‘ मृड सुखने '। प्यन्तात् लटः शतृ । शप् । छन्दस्युभयथा ' इति शतुः आर्धधातुकत्वेन अदुपदेशात् लसार्वधातुकानुदात्तत्वाभावे शतुः स्वरः शिष्यते ।
ववृत्यात् । वृतु वर्तने । लिङि व्यत्ययेन परस्मैपदम् । बहुलं छन्दसि ' इति शप: श्लुः ।
अंहोः । ‘ अहि गतौ ' । इदित्त्वात् नुम् । औणादिक उप्रत्ययः ।
वरिवोवित्तरा । 'विद्लृ लाभे'। अस्मादन्तर्भावितण्यर्थात् क्विप् । तत आतिशायनिक तरप् ।
असत् ।' अस भुवि '। लेटि अडागमः ॥
“May our sacrifice give satisfaction to the gods; Ādityas, be gracious, and may your good intentions be directed towards us, so as to be abundant source of affliction to the poor.”
THE sacrifice obtains the Gods' acceptance: be graciously inclined to us, Adityas.
Hitherward let your favour be directed, and be our best deliverer from trouble.
The sacrificer seeketh the favour of the gods;
Be ye kindly, O Adityas;
May thy lovingkindness come hither,
That it may the more free us from affliction.
The sacrifice goes toward the benevolence of the gods: o Ādityas, become compassionate.254 I.108
Your benevolent thought, inclined our way, should turn you hither—that which will be excellent at finding a wide place even out of narrow
straits.
Zur Huld der Götter eilet hin das Opfer, o seid uns gnädig, ihr Aditi-Söhne, Zu uns hinstrebend lenk euch eure Gunst her, die auch aus Drangsal freisten Raum uns schaffe.
Das Opfer kommt der Huld der Götter entgegen. Adityas! Seid barmherzig! Eure Gunst soll zu uns einlenken, die auch aus Not am besten befreien wird.
Жертва движется навстречу милости богов.
О Адитьи, будьте снисходительны!
Да повернет сюда ваша благожелательность,
Та, что лучше всех находит широкий выход даже из узости!
उप॑ नो दे॒वा अव॒सा ग॑म॒न्त्वङ्गि॑रसां॒ साम॑भिः स्तू॒यमा॑नाः । इन्द्र॑ इन्द्रि॒यैर्म॒रुतो॑ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑ति॒: शर्म॑ यंसत् ॥
उप॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न्तु॒ । अङ्गि॑रसाम् । साम॑ऽभिः । स्तू॒यमा॑नाः । इन्द्रः॑ । इ॒न्द्रि॒यैः । म॒रुतः॑ । म॒रुत्ऽभिः॑ । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ॥
देवाः दानादिगुणयुक्ताः सर्वे देवाः अवसा रक्षणेनास्मभ्यं दातव्येनान्नेन वा युक्ताः नः अस्मान् स्तोतॄन् उप आ गमन्तु उपागच्छन्तु प्राप्नुवन्तु । कथंभूताः। अङ्गिरसाम् एतत्संज्ञकानामृषीणां संबन्धिभिः सामभिः प्रगीतैर्मन्त्रैः स्तूयमानाः । अपि च इन्द्रः इन्द्रियैः । धननामैतत् । स्वसंबन्धिभिरस्मभ्यं दातव्यैर्धनैः सहास्मानागच्छतु । तथा मरुतः सप्तगणरूपा एकोनपञ्चाशत्संख्याकाः ‘ ईदृङ् चान्यादृङ् च ' इत्येवमादिनामानो देवाः मरुद्भिः स्वावयवभूतैः प्राणापानादिरूपेण वर्तमानैः वायुभिः सहास्मानागच्छन्तु। तथा अदितिः अखण्डनीया अदीना वा देवमाता आदित्यैः स्वकीयैः पुत्रैः सह नः अस्मभ्यं शर्म सुखं यंसत् यच्छतु ॥ गमन्तु । लोटि बहुलं छन्दसि' इति शपो लुक् । ‘ छन्दस्युभयथा ' इति झेः आर्धधातुकत्वेन ङित्त्वाभावात् ‘ गमहन' इत्यादिना उपधालोपाभावः । यंसत् । यम उपरमे '। लेटि अडागमः ।' सिब्बहुलं लेटि' इति सिप् ॥
“May the gods, who are to be lauded by the hymns of the Aṅgirasas, come hither for our protection; may Indra with his treasures, the Maruts with the vital airs, and Aditi with the Ādityas (come and) give us felicity.”
By praise-songs of Angirases exalted, may the Gods come to us with their protection.
May Indra with his powers, Maruts with Maruts, Aditi with Adityas grant us shelter.
Let the gods come close to us here with help, being praised with the melodies of the Aṅgirases.
Indra with his Indrian powers, the Maruts with the Maruts, Aditi with the Ādityas will extend shelter to us.
Die Götter mögen hülfreich zu uns kommen, gepriesen durch der Angiras Gesänge; Uns reiche Indra Schutz mit Indrafreunden, mit den Aditja's Aditi, mit Rudra's Rudra.
Die Götter sollen mit ihrem Beistand zu uns kommen, mit den Weisen der Angiras´ besungen, Indra mit den Indrischen, die Marut mit den Marut, Aditi mit den Aditya´s sollen uns ihren Schutz gewähren.
Да придут к нам боги о поддержкой,
Прославляемые напевами Ангирасов!
Индра с силами Индры, Маруты с силами Марутов,
Адити с Адитьями пусть даруют нам защиту!
तन्न॒ इन्द्र॒स्तद्वरु॑ण॒स्तद॒ग्निस्तद॑र्य॒मा तत्स॑वि॒ता चनो॑ धात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
तत् । नः॒ । इन्द्रः॑ । तत् । वरु॑णः । तत् । अ॒ग्निः । तत् । अ॒र्य॒मा । तत् । स॒वि॒ता । चनः॑ । धा॒त् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
यदस्माभिः प्रार्थ्यमानमन्नमस्ति । चन इत्यन्ननाम । तत् तादृशं चनः अन्नं नः अस्मभ्यम् इन्द्रः धात् दधातु ददातु । एवं तद्वरुणः इत्यादावपि योज्यम् । तत् इदमिन्द्रादिभिर्दत्तमस्मदीयमन्नं मित्रादयः ममहन्तां पूजयन्तु पालयन्वित्यर्थः ॥ चनः । ‘ चायृ पूजानिशामनयोः । ‘चायेरन्ने ह्रस्वश्च ' ( उ. सू. ४. ६३९) इति असुन् नुडागमश्च धातोर्ह्रस्वत्वं च । वलि लोपः। नित्त्वादाद्युदात्तत्वम् । धात् । छन्दसि लुङ्लङलिटः' इति प्रार्थनायां लुङ् । ‘ गातिस्था' इति सिचो लुक् ॥ ॥ २५ ॥
“May Indra, may Varuṇa, may Agni, may Aryaman, may Savitā, bestow upon us that food (which we solicit); and may Mitra, Varuṇa, Aditi--ocean, earth and heaven, preserve it (to us).”
This laud of ours may Varuna and Indra, Aryaman Agni, Savitar find pleasant.
This prayer' of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
In this of ours shall Indra take delight, in this shall Varuṇa, in this Agni, in this shall Aryaman, in this Savitar take delight.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
Das mög' uns Indra, Varuna und Agni, das Arjaman und Savitar verleihen; Das mög' uns Mitra, Varuna gewähren, und Aditi, das Meer und Erd' und Himmel.
Das sollen uns Indra, das Varuna, das Agni, das Aryaman und Savitri gut aufnehmen. Das sollen uns Mitra und Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
В этом нас Индра, в этом Варуна, в этом Агни,
В этом Арьяман, в этом Савитар пусть нас удовлетворит!
Пусть нам это щедро даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!