वि ह्यख्यं॒ मन॑सा॒ वस्य॑ इ॒च्छन्निन्द्रा॑ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् । नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्यं॒ स वां॒ धियं॑ वाज॒यन्ती॑मतक्षम् ॥
वि । हि । अख्य॑म् । मन॑सा । वस्यः॑ । इ॒च्छन् । इन्द्रा॑ग्नी॒ इति॑ । ज्ञा॒सः । उ॒त । वा॒ । स॒ऽजा॒तान् । न । अ॒न्या । यु॒वत् । प्रऽम॑तिः । अ॒स्ति॒ । मह्य॑म् । सः । वा॒म् । धिय॑म् । वा॒ज॒ऽयन्ती॑म् । अ॒त॒क्ष॒म् ॥
हे इन्द्राग्नी वस्यः प्रशस्तं धनम् इच्छन् कामयमानोऽहं ज्ञासः ज्ञातीन् उत वा अपि वा सजातान् । समानजन्मानो ज्ञातिव्यतिरिक्ता बान्धवाः । तांश्च मनसा बुद्ध्या वि ह्यख्यं युवामेव ज्ञातिरूपेण बन्धुरूपेण च व्यज्ञासिषम् । ते हि धनस्य दातारो भवन्ति । अपि च युवत् युवाभ्याम् अन्या अन्येन केनचिन् मह्यं दत्ता प्रमतिः प्रकृष्टा बुद्धिः न अस्ति । मदीया यैषा प्रकृष्टा बुद्धिः सा युवाभ्यामेव दत्ता । सः तादृश्या बुद्ध्या युक्तोऽहं वां युवयोः संबन्धिनीं वाजयन्तीम् अन्नमस्मभ्यमिच्छन्तीं धियं ध्यानेन निष्पन्नां स्तुतिम् अतक्षम् अकार्षम् ॥ अख्यम् । लुङि ‘ अस्यतिवक्तिख्यातिभ्योऽङ्' इति च्लेरादेशः । वस्यः । वसुशब्दात् ईयसुन्। 'टे: " इति टिलोपः । छान्दस ईकारलोपः । ज्ञासः । सुखदुःखादिकं साम्येन जानन्तीति ज्ञासो ज्ञातयः । ‘ ज्ञा अवबोधने'। औणादिकोऽसुन्। व्यत्ययेन विभक्तेरुदात्तत्वम् । युवत् । ‘सुपां सुलुक् इति विभक्तेर्लुक् । द्व्यर्थाभिधायकत्वात् ‘युवावौ द्विवचने' (पा. सू. ७. २.९२ ) इति युष्मदो मपर्यन्तस्य युवादेशः ॥
“Indra and Agni, desirous of wealth, I consider you, in my mind, as kinsmen and relations; the clear understanding you have given me, (is given) by no one else, and (so gifted), I have composed this hymn to you, intimating my wish for sustenance.”
LONGING for weal I looked around, in spirit, for kinsmen, Indra-Agni, or for brothers.
No providence but yours alone is with me so have I wrought for you this hymn for succour.
Because, seeking a better state, I have surveyed with my mind my kith and kin, o Indra and Agni,
there exists for me no other (fatherly) solicitude than you two. So I have fashioned for you a thought that seeks the prize.
Ich schaute aus im Geiste Gut begehrend, Indrāgni, nach Bekannten und Verwandten, Doch ausser euch ist mir kein andrer Beistand, Drum hab' ich euch dies kräft'ge Lied gedichtet.
Ich habe zwar nach Verwandten oder Standesgenossen im Geiste Umschau gehalten, mein Heil suchend, o Indra und Agni. Es gibt für mich keine andere Zuversicht als euch beide; darum habe ich auf euch ein lohnbringendes Loblied gedichtet.
В поисках счастья я мысленно перебирал,
О Индра и Агни, кровных родственников или же соплеменников:
Нет для меня другой заботы, кроме вас двоих!
Я выточил для вас поэтическое творение, которое принесет награду.
अश्र॑वं॒ हि भू॑रि॒दाव॑त्तरा वां॒ विजा॑मातुरु॒त वा॑ घा स्या॒लात् । अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्रा॑ग्नी॒ स्तोमं॑ जनयामि॒ नव्य॑म् ॥
अश्र॑वम् । हि । भू॒रि॒दाव॑त्ऽतरा । वा॒म् । विऽजा॑मातुः । उ॒त । वा॒ । घ॒ । स्या॒लात् । अथ॑ । सोम॑स्य । प्रऽय॑ती । यु॒वऽभ्या॑म् । इन्द्रा॑ग्नी॒ इति॑ । स्तोम॑म् । ज॒न॒या॒मि॒ । नव्य॑म् ॥
हे इन्द्राग्नी वां युवां भूरिदावत्तरा अतिशयेन बहुधनस्य दाताराविति अश्रवं हि अश्रौषं खलु। कस्मात् पुरुषात् । विजामातुः। श्रुताभिरूप्यादिभिर्गुणैर्विहीनो जामाता यथा कन्यावते बहु धनं प्रयच्छति कन्यालाभार्थं ततोऽप्यतिशयेन दाताराविन्द्राग्नी इत्यर्थः। उत वा अपि च स्यालात् । स्यं शूर्पम् । तस्मात् लाजानावपति विवाहकाले इति स्यालः कन्याभ्राता। स यथा भगिनीप्रीत्यर्थं बहु धनं प्रयच्छति ततोऽप्यतिशयेन दाताराविन्द्राग्नी ।ध इति पादपूरणः। तथा च सति अथ अनन्तरं हे इन्द्राग्नी युवाभ्यां सोमस्य प्रयती अभिषुतस्य सोमस्य प्रदानेन सह नव्यं नवतरं प्रत्यग्रं स्तोमं स्तोत्रं जनयामि निष्पादयामि । अत्र निरुक्तम् - अश्रौषं हि बहुदातृतरौ वां विजामातुरसुसमाप्ताज्जामातुः । विजामातेति शश्वद्दाक्षिणाजाः क्रीतापतिमाचक्षतेऽसुसमाप्त इव वरोऽभिप्रेतो जामाता जा अपत्यं तन्निर्माता । उत वा घा स्यालादपि च स्यालात् स्याल आसन्नः संयोगेनेति नैदानाः । स्याल्लाजानावपतीति वा । लाजा लाजतेः स्यं शूर्पं स्यतेः । शूर्पमशनपवनं शृणातेः शम्नातेर्वा । अथ सोमस्य प्रदानेन युवाभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यं नवतरम्' ( निरु. ६.९ ) इति ॥ अश्रवम् । श्रु श्रवणे'। लङि उत्तमपुरुषैकवचने ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । भूरिदावत्तरा । डुदाञ् दाने '। आतो मनिन्” इति वनिप् । अतिशयेन भूरिदावा भूरिदावत्तरः । ‘भूरिदाव्नस्तुड्वक्तव्यः । (पा, सू. ८. २. १७. २ ) इति तरपः तुट् । पदसंज्ञायां नलोपः । ‘ सुपां सुलुक् ' इति विभक्तेराकारः । घ । ऋचि तुनुघ० • इत्यादिना संहितायां दीर्घत्वम् । अथ । ‘ निपातस्य च ' इति । प्रयती । यम उपरमे ' । क्तिनि ‘ अनुदात्तोपदेश इत्यादिनानुनासिकलोपः । ‘ तादौ च° ' इति गतेः प्रकृतिस्वरत्वम् । युवभ्याम् । ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते ' इति • युष्मदस्मदोरनादेशे इत्यात्वाभावः। शेषे लोपः' इति दकारलोपः ॥
“I have heard, Indra and Agni, that you are more munificent givers than an unworthy bridegroom, or the brother of a bride; therefore, as I offer you a Soma libation, I address you, Indra and Agni, with a new hymn.”
For I have heard that ye give wealth more freely than worthless son-in-law or spouse's brother.
So offering to you this draught of Soma, I make you this new hymn, Indra and Agni,
For I have heard that ye both are more generous
Than a worthless son-in-law or a wife's brother.
So with the offering of Soma I make for you,
O Indra and Agni, a new hymn of praise;
Because I have heard of you two as better givers of abundance than a no-count son-in-law or brother-in-law—
so with an offering of soma for you, o Indra and Agni, I beget a newer praise.
Denn ihr, so hör ich, seid an Gaben reicher, als Tochtermann und als der Gattin Bruder, Drum zeuge ich, indem ich Soma spende, ein neues Loblied euch, o Indra-Agni!
Ich habe ja von euch gehört, daß ihr mehr gebt als ein unechter Tochtermann oder ein Schwager. Darum verfertige ich unter Darbringung von Soma auf euch beide, Indra und Agni, ein neues Loblied.
Ведь я слышал, что вы даете еще больше,
Чем зять или же свояк.
И вот вместе с приношением вам сомы,
О Индра и Агни, я возношу новую хвалу.
मा च्छे॑द्म र॒श्मीँरिति॒ नाध॑मानाः पितॄ॒णां श॒क्तीर॑नु॒यच्छ॑मानाः । इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णो मदन्ति॒ ता ह्यद्री॑ धि॒षणा॑या उ॒पस्थे॑ ॥
मा । छे॒द्म॒ । र॒श्मीन् । इति॑ । नाध॑मानाः । पि॒तॄ॒णाम् । श॒क्तीः । अ॒नु॒ऽयच्छ॑मानाः । इ॒न्द्रा॒ग्निऽभ्या॑म् । कम् । वृष॑णः । म॒द॒न्ति॒ । ता । हि । अद्री॒ इति॑ । धि॒षणा॑याः । उ॒पऽस्थे॑ ॥
रश्मीन् । रश्मिशब्दो रज्जुवाची । यथा रश्मयो दीर्घा अविच्छिन्ना भवन्ति एवमविच्छिन्नान् पुत्रपौत्रादीन् मा च्छेद्म मा विच्छिन्नान् कुर्मेति बुद्ध्या नाधमानाः इन्द्राग्न्योः सकाशात् तथाविधान पुत्रादीन् याचमानाः। तदनन्तरं पितॄणां शक्तीः शक्त्युत्पादकान् वीर्योत्पादकान् तान् पुत्रादीन् अनुयच्छमानाः अनुक्रमेण नियतान् कुर्वन्तः वृषणः सेक्तारः पुत्रोत्पादनसमर्थाः सपत्नीका इत्यर्थः । एवंभूता यजमानाः इन्द्राग्निभ्यां कं सुखं यथा भवति तथा मदन्ति स्तुवन्ति । हि यस्मात् अद्री शत्रूनादृणन्तौ हिंसन्तौ विदारयन्तौ ताविन्द्राग्नी धिषणायाः स्तुत्याः उपस्थे उपस्थाने समीपे भवतः । तस्मात् तत्सांनिध्याय स्तुवन्तीति भावः । यद्वा । निपातानामनेकार्थत्वात् हिशब्दो यदेत्यर्थः । यदा ताविन्द्राग्नी उद्दिश्य अद्री अभिषवसाधनभूता ग्रावाणो धिषणाया उपस्थे । धिषणा अधिषवणचर्म । तस्योपरिष्टादिन्द्राग्न्यर्थं सोममभिषुण्वन्ति । तदातदा यजमानाः स्तुवन्तीति योजनीयम् ॥ छेद्म ।' छिदिर् द्वैधीकरणे' । लङि बहुलं छन्दसि' इति विकरणस्य लुक्। छन्दस्युभयथा' इत्यार्धधातुकत्वेन ङित्त्वाभावाल्लघूपधगुणः । ‘ न माङ्योगे ' इत्यडभावः । रश्मीन् । दीर्घादटि समानपादे' इति संहितायां नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा ' इति ईकारः सानुनासिकः । नाधमानाः । ‘ नाधृ याच्ञायाम्'। पितॄणाम् । नामन्यतरस्याम्' इति नाम उदात्तत्वम् । मदन्ति । ‘ मदि स्तुतौ ' । आगमानुशासनस्यानित्यत्वात् नुमभावः । व्यत्ययेन परस्मैपदम् ॥
“Never may we cut off the long line (of posterity); thus soliciting and asking for descendants endowed with the vigour of their progenitors, the (worshippers), begetting children, praise Indra and Agni for their happiness, and they two, destroyers of foes, are nigh (to hear this adoration).”
Let us not break the cords: with this petition we strive to gain the powers of our forefathers.
For Indra-Agni the strong drops are joyful, for here in the bowl's lap are both the press-stones.
Crying in distress, “Let us not cut the reins,” guiding themselves
following the skills of the forefathers,
the bulls bring about exhilaration for Indra and Agni—for the two
(pressing) stones are in the lap of the Holy Place.
»Lasst nicht zerreissen uns den Strang«, so sprechend, sich richtend nach der Väter Vorschrift, regen Die Stiere lustig sich für Indra-Agni; denn beide Steine sind im Schooss der Presse.
Daß wir die Zügel nicht zerreißen", also flehend und der Väter Leistungen einhaltend, schwelgen die Bullen für Indra und Agni in Soma, denn diese sind die beiden Preßsteine im Schoße der Dhisana.
Моля так: Хоть бы мы не порвали вожжи! –
(И) соразмеряясь с силами отцов,
Быки опьяняются для Индры и Агни:
Ведь те – два давильных камня в лоне Дхишаны.
यु॒वाभ्यां॑ दे॒वी धि॒षणा॒ मदा॒येन्द्रा॑ग्नी॒ सोम॑मुश॒ती सु॑नोति । ताव॑श्विना भद्रहस्ता सुपाणी॒ आ धा॑वतं॒ मधु॑ना पृ॒ङ्क्तम॒प्सु ॥
यु॒वाभ्या॑म् । दे॒वी । धि॒षणा॑ । मदा॑य । इन्द्रा॑ग्नी॒ इति॑ । सोम॑म् । उ॒श॒ती । सु॒नो॒ति॒ । तौ । अ॒श्वि॒ना॒ । भ॒द्र॒ऽह॒स्ता॒ । सु॒पा॒णी॒ इति॑ सुऽपाणी । आ । धा॒व॒त॒म् । मधु॑ना । पृ॒ङ्क्तम् । अ॒प्ऽसु ॥
हे इन्द्राग्नी युवाभ्यां मदाय युवयोर्हर्षाय देवी द्योतमाना उशती युवां कामयमाना धिषणा मन्त्ररूपा वाक् सोमम् अभिषुणोति । यद्वा । धिषणा अधिषवणचर्म । द्योतमानं तद्युवयोर्मदं कामयमानं सत् सोममभिषुणोति । ग्रावभिः तस्मिन्नभिषवात्तस्याभिषवकर्तृत्वम् । अश्विना अश्ववन्तौ भद्रहस्ता शोभनदोर्दण्डौ सुपाणी । मणिबन्धादूर्ध्वभागः पाणिः । शोभनपाणी एवंभूतौ हे इन्द्राग्नी तौ युवाम् आ धावतं शीघ्रमागच्छतम् । आगत्य च अप्सु उदकेषु वर्तमानेन मधुना माधुर्योपेतेन सारांशेन पृङ्क्तम् अस्मदीयं सोमं संयोजयतम् । यद्वा । अप्सु वसतीवरीषु मधुना माधुर्यं संयोजयतम् । विभक्ति व्यत्ययः ॥ युवाभ्याम् । षष्ठ्यर्थे चतुर्थी । उशती । ‘ वश कान्तौ । अदादित्वात् शपो लुक् । ग्रहिज्यादिना संप्रसारणम् । ‘उगितश्च' इति ङीप् । ‘ शतुरनुमः' इति नद्या उदात्तत्वम् । पृङ्क्तम् । ‘पृची संपर्के । रौधादिकः । लोटि थसस्तम् । ‘श्नसोरल्लोपः' । अनुस्वारपरसवर्णौ । न च ' अचः परस्मिन् ' इत्यल्लोपस्य स्थानिवत्त्वं, ‘न पदान्त ' इत्यादिना निषेधात् ॥
“The sacred prayer, desiring your presence, offers to you both, Indra and Agni, for your exhilaration, the Soma libation; do you two, who have horses, handsome arms, and graceful hands, come quickly and mix (the libation) with sweetness in the waters.”
For you the bowl divine, Indra and Agni, presses the Soma gladly to delight you.
With hands auspicious and fair arms, ye Asvins, haste, sprinkle it with sweetness in the waters.
For you two, o Indra and Agni, for your exhilaration, the goddess, the Holy Place, eagerly presses the soma.
You two, o Aśvins, with your auspicious hands and lovely palms—rinse it with honey, infuse it in the waters.
Euch, Indra-Agni, presst die Göttin Presse zum Rausche willig aus die Somatränke, Die spület durch mit schönem Arm und Händen, mischt, Rosselenker, sie mit Meth und Wasser.
Euch, Indra und Agni, zur Berauschung preßt die Göttin Dhisana willig das Soma aus. Ihr beide, Asvin mit der glücklichen Hand, mit der schönen Hand, rühret ihn um und durchtränkt ihn mit Honig im Wasser!
Для вас двоих, о Индра и Агни, богиня Дхишана
Охотно выжимает сому.
Вы, два Ашвина с руками, приносящими счастье, с прекрасными кистями рук,
Разбавьте (сому) медом в воде, смешайте (его)!
यु॒वामि॑न्द्राग्नी॒ वसु॑नो विभा॒गे त॒वस्त॑मा शुश्रव वृत्र॒हत्ये॑ । तावा॒सद्या॑ ब॒र्हिषि॑ य॒ज्ञे अ॒स्मिन्प्र च॑र्षणी मादयेथां सु॒तस्य॑ ॥
यु॒वाम् । इ॒न्द्रा॒ग्नी॒ इति॑ । वसु॑नः । वि॒ऽभा॒गे । त॒वःऽत॑मा । शु॒श्र॒व॒ । वृ॒त्र॒ऽहत्ये॑ । तौ । आ॒ऽसद्य॑ । ब॒र्हिषि॑ । य॒ज्ञे । अ॒स्मिन् । प्र । च॒र्ष॒णी॒ इति॑ । मा॒द॒ये॒था॒म् । सु॒तस्य॑ ॥
हे इन्द्राग्नी वसुनः धनस्य विभागे स्तोतृभ्यो दातुं विभजने तात्पर्येण वर्तमानौ युवां वृत्रहत्ये वृत्रस्यासुरस्य हनने तवस्तमा अतिशयेन बलिनौ प्रवृद्धतमौ वा शुश्रव अश्रौषम् । हे चर्षणी सर्वस्य द्रष्टाराविन्द्राग्नी तौ युवामस्मदीये अस्मिन् यज्ञे बर्हिषि वेद्यामास्तीर्णे दर्भे आसद्य उपविश्य सुतस्य अभिषुतस्य सोमस्य पानेन प्र मादयेथां प्रकर्षेण तृप्तौ भवतम् । विभागे । ‘ भज सेवायाम् । भावे घञ् । चजोः कुघिण्ण्यतोः' इति कुत्वम् । थाथादिनोत्तरपदान्तोदात्तत्वम् । तवस्तमा । तव इति बलनाम । लुप्तमत्वर्थीयादेतस्मादातिशायनिकस्तमप् । यद्वा । तवतिर्वृद्ध्यर्थः सौत्रो धातुः । तस्मादौणादिकः कर्तरि असिप्रत्ययः । सुपां सुलुक् ' इति विभक्तेः पूर्वसवर्णदीर्घत्वम् । वृत्रहत्ये । ‘ हनस्त च ' इति हन्तेर्भावे क्यप्; तत्संनियोगेन तकारान्तादेशश्च । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ ॥ २८ ॥
“I have heard, (when you were present) at the division of the treasure (among the worshippers), that you two, Indra and Agni, were most vigorous in the destruction of Vṛtra; beholders of all things seated at this sacrifice upon the sacred grass, be exhilarated, (by drinking of the effused libation).”
You, I have heard, were mightiest, Indra-Agni, when Vrtra fell and when the spoil was parted.
Sit at this sacrifice, ye ever active, on the strewn grass, and with the juice delight you.
O Indra and Agni, I have heard of you as most powerful at the
distribution of goods, at the smashing of obstacles.
Having sat on the ritual grass at this sacrifice here, make yourselves exhilarated on the pressed soma, o you of extensive domains.
Ihr seid, so hör' ich, bei des Guts Vertheilung, im Feindeskampf die stärksten, Indra-Agni, Drum setzt euch auf die Streu bei diesem Opfer, und an dem Saft, o eilende, berauscht euch.
Ich hörte, daß ihr,, Indra und Agni, in der Verteilung der Schätze, in der Feindeschlacht die stärksten seid. Setzt ihr euch darum auf das Barhis zu diesem Opfer und tut euch gütlich am Gepreßten, den Vorrang habend!
Вы, Индра и Агни, при разделе добра,
Я слышал, самые сильные, (а также) при убийстве Вритры.
Вы двое, усевшись на жертвенной соломе во время этой жертвы,
Наслаждайтесь выжатым (сомой), о вы двое, (стоящие) впереди народов!
प्र च॑र्ष॒णिभ्य॑: पृतना॒हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ । प्र सिन्धु॑भ्य॒: प्र गि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा॑ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ॥
प्र । च॒र्ष॒णिऽभ्यः॑ । पृ॒त॒ना॒ऽहवे॑षु । प्र । पृ॒थि॒व्याः । रि॒रि॒चा॒थे॒ इति॑ । दि॒वः । च॒ । प्र । सिन्धु॑ऽभ्यः । प्र । गि॒रिऽभ्यः॑ । म॒हि॒ऽत्वा । प्र । इ॒न्द्रा॒ग्नी॒ इति॑ । विश्वा॑ । भुव॑ना । अति॑ । अ॒न्या ॥
पृतनाहवेषु पृतनासु संग्रामेषु रक्षणार्थमाह्वानेषु सत्सु हे इन्द्राग्नी आगतवन्तौ युवां चर्षणिभ्यः सर्वेभ्योऽपि मनुष्येभ्यः महित्वा महत्त्वेन प्र रिरिचाथे अतिरिच्येथे सर्वाधिकौ भवथ इत्यर्थः । अत्रोपसर्गवशाद्धातुः स्वाभिधेयविपरीतमर्थमाचष्टे यथा प्रस्मरणं प्रस्थानमिति । तथा पृथिव्याः सर्वस्या भूमेश्च प्र रिरिचाथे । एवं द्युप्रभृतिभ्योऽपि । सिन्धवः स्यन्दनशीला आपः । गिरयः पर्वताः । अपि च हे इन्द्राग्नी विश्वा भुवना सर्वाणि भूतजातानि अन्या उक्तव्यतिरिक्तानि यानि सन्ति तान्यतीत्य प्र रिरिचाथे अधिकौ भवथः ॥ पृतनाहवेषु । पृतनासु हवः पृतनाहवः। ह्वेञः ‘ भावेऽनुपसर्गस्य ' इति अप् संप्रसारणं च । व्यत्ययेन थाथादिस्वराभावे कृदुत्तरपदप्रकृतिस्वरत्वम् । रिरिचाथे। ‘रिचिर् विरेचने '। ‘ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट् । यद्वा । लट्येव ‘ बहुलं छन्दसि ' इति विकरणस्य श्लुः । महित्वा ।' मह पूजायाम् ' । औणादिक इन्प्रत्ययः । तस्य भावो महित्वम् । ‘ सुपां सुलुक्' इति तृतीयाया डादेशः ॥
“Attending to the summons at the time of battle, you surpass all me (in magnitude); you are vaster than the earth, than the sky, than the rivers, than the mountains; you exceed all other existent things.”
Surpassing all men where they shout for battle, ye Twain exceed the earth and heaven in greatness.
Greater are ye than rivers and than mountains, O Indra-Agni, and all things beside them.
You extend beyond the bordered domains at the battle cries, you extend beyond earth and heaven,
beyond the rivers, beyond the mountains in your greatness, beyond and over all other creatures, o Indra and Agni.
Ihr überragt im Schlachtenlärm die Streiter, ihr überragt die Erde und den Himmel, Die Ströme und die Bergeshöhn an Grösse, o Indra-Agni, mehr als alle Wesen.
Ihr übertrefft alle Völker im Schlachtgeschrei, Ihr Erde und Himmel, ihr die Flüsse, die Berge an Größe. Ihr, Indra und Agni, überraget alle anderen Wesen.
(Вы стоите) впереди народов, когда раздаются призывы в битвах,
Превосходите землю и небо,
Пре(восходите) реки, (пре)восходите горы величием.
Пре(восходите) все другие существа, о Индра и Агни.
आ भ॑रतं॒ शिक्ष॑तं वज्रबाहू अ॒स्माँ इ॑न्द्राग्नी अवतं॒ शची॑भिः । इ॒मे नु ते र॒श्मय॒: सूर्य॑स्य॒ येभि॑: सपि॒त्वं पि॒तरो॑ न॒ आस॑न् ॥
आ । भ॒र॒त॒म् । शिक्ष॑तम् । व॒ज्र॒बा॒हू॒ इति॑ वज्रऽबाहू । अ॒स्मान् । इ॒न्द्रा॒ग्नी॒ । अ॒व॒त॒म् । शची॑भिः । इ॒मे । नु । ते । र॒श्मयः॑ । सूर्य॑स्य । येभिः॑ । स॒ऽपि॒त्वम् । पि॒तरः॑ । नः॒ । आस॑न् ॥
हे वज्रबाहू वज्रहस्तौ इन्द्राग्नी आ भरतम् अस्मदर्थं धनमाहरतम् । आहृत्य च शिक्षतं अस्मभ्यं दत्तम् । शिक्षतिर्दानकर्मा । अपि च अस्मान् अनुष्ठातॄन शचीभिः । कर्मनामैतत् । आत्मीयैः कर्मभिः अवतं रक्षतम् । किं च सूर्यात्मन इन्द्रस्य येभिः रश्मिभिः यैः अर्चिभिः नः अस्माकं पितरः पूर्वपुरुषाः सपित्वं सहप्राप्तव्य स्थानम् आसन् ब्रह्मलोकमगच्छन् । अर्चिरादिमार्गेण हि ब्रह्मलोकमुपासका गच्छन्ति । तथा च श्रूयते - तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहः ' ( छा. उ. ५. १०. १ ) इति। यद्वा। येभी रश्मिभिः सपित्वं समवेतत्वमध्यगच्छन्। ते रश्मयः इमे नु इदानीमस्माभिर्दृश्यमाना एत एव खलु । सूर्यात्मन इन्द्रस्य ये रश्मयस्त एवाग्नेरपि । तथा च श्रूयते - अग्निं वावादित्यः सायं प्रविशति तस्मादग्निर्दूरान्नक्तं ददृशे ' (तै. ब्रा. २. १. २. ९) इति । तस्मात् सूर्यस्य रश्मीनां स्तवनेनेन्द्राग्न्योरुभयोरपि स्तुतिः सिद्धा । भरतम् । हृग्रहोर्भः०' इति भत्वम् । शिक्षतम् । ‘ शिक्ष विद्योपादाने '। अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम् । धातुस्वरः शिष्यते । तिङः परत्वान्निघाताभावः । सपित्वम् । ‘ आप्लृ व्याप्तौ ' । अस्मात् सशब्दोपपदात् “ कृत्यार्थे तवैकेन्” ' इति त्वन्प्रत्ययः । पृषोदरादित्वात् धातोः पिभावः । यद्वा । ‘ षप समवाये । इन्सर्वधातुभ्यः' इति इन् । सपेर्भावः सपित्वम् । आसन् । अस गतिदीप्त्यादानेषु'। लङि आडागम उदात्तः । ‘ यद्वृत्तान्नित्यम्' इति निघाताभावः ॥
“Bring wealth, thunderers, and give it to us; protect us, Indra and Agni, by your deeds; may those rays of the sun, by which our forefathers have attained together a hevenly region, shine also upon us.”
Bring wealth and give it, ye whose arms wield thunder: Indra and Agni, with your powers protect us.
Now of a truth these be the very sunbeams wherewith our fathers were of old united.
Bring it to the fore, ready your skill, you two with the mace in your arms. Help us, o Indra and Agni, with your skills.
Here are the very rays of the sun with which our forefathers were in communion.
O bringt herbei und schenket, blitzbewehrte, mit euren Kräften helft uns, Indra-Agni; Hier eben diese Sonnenzügel sind es, durch die mit euch vereint die Väter waren.
Bringt mit, strengt euch an, ihr mit der Keule im Arm; stehet uns nach Kräften bei, Indra und Agni! Diese sind noch dieselben Strahlen der Sonne, mit denen unsere Väter gleichzeitig waren.
Принесите (поддержку), одарите, о двое с ваджрой в руках,
Помогите нам, о Индра и Агни, (своими) силами!
Вон те самые лучи солнца,
К которым были причастны отцы наши.
पुरं॑दरा॒ शिक्ष॑तं वज्रहस्ता॒स्माँ इ॑न्द्राग्नी अवतं॒ भरे॑षु । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
पुर॑म्ऽदरा॑ । शिक्ष॑तम् । व॒ज्र॒ऽह॒स्ता॒ । अ॒स्मान् । इ॒न्द्रा॒ग्नी॒ इति॑ । अ॒व॒त॒म् । भरे॑षु । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
हे वज्रहस्ता हस्तेन गृहीतवज्रौ पुरंदरा असुरपुराणां दारयितारौ इन्द्राग्नी शिक्षतम् अस्मदपेक्षितं धनं प्रयच्छतम् । अपि च भरेषु संग्रामेषु अस्मान् अवतं रक्षतम् । यदनेन सूक्तेन प्रार्थितं तत् अस्मदीयं मित्रादयः ममहन्तां पूजयन्ताम् ॥ पुरंदरा । ‘ पूःसर्वयोर्दारिसहोः ' ( पा. सू. ३. २. ४१ ) इति खच् ।' वाचंयमपुरंदरौ च ' ( पा. सू. ६. ३. ६९ ) इति निपातनात् अम् । ‘ सुपां सुलुक्° ' इति विभक्तेः आकारः ॥ ॥ २९ ॥
“Indra and Agni, wielders of the thunderbolt, overturners of cities, grant us wealth, defens us in battles; and may Mitra, Varuṇa, Aditi--ocean, earth and heaven, be propitious to this (our prayer).”
Give, ye who shatter forts, whose hands wield thunder: Indra and Agni, save us in our battles.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
O stronghold-splitters with the mace in your hands, ready your skill. Help us, o Indra and Agni, in the raids.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
Ihr Burgzerstörer, schenkt, ihr blitzbewehrten, und helft uns, Indra-Agni, in den Schlachten. Das mög' uns Mitra, Varuna gewähren und Aditi, das Meer, und Erd' und Himmel.
Ihr Burgenbrecher mit der Keule in der Hand, strengt euch an, stehet uns in den Kämpfen bei, Indra und Agni! - Das sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
О два проламывателя крепостей, одарите (нас), о вы с ваджрой в руках!
Помогите нам в битвах, о Индра и Агни!
Пусть нам это щедро даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!