इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिर॑: । र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म् ॥
इन्द्र॑म् । विश्वाः॑ । अ॒वी॒वृ॒ध॒न् । स॒मु॒द्रऽव्य॑चसम् । गिरः॑ । र॒थिऽत॑मम् । र॒थीना॑म् । वाजा॑नाम् । सत्ऽप॑तिम् । पति॑म् ॥
विश्वाः सर्वाः गिरः अस्मदीयाः स्तुतयः इन्द्रम् अवीवृधन् वर्धितवत्यः। कीदृशमिन्द्रम् । समुद्रव्यचसं समुद्रवत् व्याप्तवन्तं रथीनां रथयुक्तानां योद्धॄणां मध्ये रथीतमम् अतिशयेन रथयुक्तं वाजानाम् अन्नानां पतिं स्वामिनं सत्पतिं सतां सन्मार्गवर्तिनां पालकम् ॥ विश्वाः । विशेः क्वन् । नित्स्वरः । अवीवृधन् । वृधेर्णिचि चङि ‘ उर्ऋत्' (पा. सू. ७. ४.७ ) इत्यनुवृत्तौ ‘ नित्यं छन्दसि’ ( पा. सू. ७. ४. ८) इति ऋकारस्य ऋकारविधानात् लघूपधगुणाभावः । निघातस्वरः । समुद्रव्यचसम् । व्यचेः असुन्। गाङ्कुटादिभ्योऽञ्णिन्ङित् (पा. सू. १. २. १) इति प्राप्तस्य ङित्त्वस्य ‘व्यचेः कुटादित्वमनसि ' ( का. १. २. १. १ ) इति असिनिषेधात् 'ग्रहिज्या° '(पा. सू. ६. १. १६) इत्यादिना ङिति विधीयमानं संप्रसारणं न भवति । समुद्रव्यच इव व्यचो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । रथीतमं रथीनाम् । रथशब्दादुत्पन्नस्य इनः छान्दसं दीर्घत्वम् । प्रत्ययस्वरेणोदात्तत्वं च । वाजानाम् । वृषादित्वादाद्युदात्तत्वम् । सत्पतिम् । पत्यावैश्वर्ये' (पा. सू. ६. ३. १८) इति पूर्वपदप्रकृतिस्वरत्वम् ॥
“All our praises magnify Indra, expansive as the ocean, the most valiant of warriors who fight in chariots, the lord of food, the protector of the virtuous.”
ALL sacred songs have magnified Indra expansive as the sea,
The best of warriors borne on cars, the Lord, the very Lord of strength.
All the songs have strengthened Indra, expansive as the sea,
the best charioteer of charioteers, the lord of prizes and the lord of
settlements.
Den Indra feiert jedes Lied, ihn, der sich ausdehnt wie ein Meer, Den stärksten Wagenkämpfer ihn, den Allgebieter in der Schlacht.
Indra, der so viel wie das Meer faßt, haben alle Lobreden erbaut, den ersten der Wagenlenker, den wahren Herren der Siegerpreise.
Все хвалебные песни подкрепили
Индру, вмещающего в себя (целое) море,
Лучшего из возниц,
Господина наград, господина (всего) сущего.
स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे॑म शवसस्पते । त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑राजितम् ॥
स॒ख्ये । ते॒ । इ॒न्द्र॒ । वा॒जिनः॑ । मा । भे॒म॒ । श॒व॒सः॒ । प॒ते॒ । त्वाम् । अ॒भि । प्र । नो॒नु॒मः॒ । जेता॑रम् । अप॑राऽजितम् ॥
हे शवसस्पते बलस्य पालक इन्द्र ते तव सख्ये अनुग्रहप्रयुक्ते सखित्वे वर्तमाना वयं वाजिनः अन्नवन्तो भूत्वा मा भेम शत्रुभ्यो भीतिं प्राप्ता मा भूम । अतः त्वाम् अभयहेतुम् अभि प्र णोनुमः सर्वतः प्रकर्षेण स्तुमः । कीदृशं त्वाम्। जेतारं युद्धेषु जयशीलम् अपराजितं क्वापि पराजयरहितम् ॥ सख्ये । सख्युः कर्म सख्यम् । 'सख्युर्यः' (पा. सू. ५. १. १२६ )। प्रत्ययस्वरः । वाजिनः । वाजोऽन्नमेषामस्तीति वाजिनः । प्रत्ययस्वरः । भेम। ञिभी भये '। लुङुत्तमबहुवचनं मस् । ‘ नित्यं ङितः ' ( पा. सू. ३. ४. ९९ ) इति सलोपः । ‘ बहुलं छन्दसि ' इति च्लेर्लुक् । ‘ छन्दस्युभयथा ' ( पा. सू. ३. ४. ११७ ) इति तिङः अर्धधातुकत्वेन ङित्वाभावाद्गुणः । न माङयोगे ' ( पा. सू. ६. ४.७४ ) इति अडागमप्रतिषेधः । शवसस्पते । शवसः ‘ षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ' ( पा. सू. ८. ३, ५३ ) इति विसर्जनीयस्य संहितायां सत्वम्। सुबामन्त्रितपराङ्गवद्भावेन (पा. सू. २. १. २ ) पदद्वयनिघातः । नोनुमः । ‘णु स्तुतौ'। णो नः ' (पा. सू. ६. १. ६५ ) इति नत्वम् । यङो लुक् । प्रत्ययलक्षणेन ' सन्यङोः ' (पा. सू. ६. १. ९) इति द्विर्भावः । ‘ गुणो यङ्लुकोः ' ( पा. सू. ७. ४. ८२ ) इत्यभ्यासस्य गुणः । प्रत्ययलक्षणेन धातुसंज्ञायां लटो मस् । अदादिवद्भावात् शपो लुक् । ' उपसर्गादसमासेऽपि णोपदेशस्य' (पा. सू. ८. ४. १४ ) इति संहितायां णत्वम् । जेतारम् । जि जये। ताच्छील्यादिषु तृन् । ञ्नित्यादिर्नित्यम् ' ( पा. सू. ६. १. १९७ ) इत्याद्युदात्तत्वम् । अपराजितम् । अव्ययपूर्वपदप्रकृतिस्वरत्वेन नञ् उदात्तत्वम् ॥
“Supported by your friendship, Indra, cherisher of strength, we have no fear, but glorify you, the conqueror, the unconquered.”
Strong in thy friendship, Indra, Lord of power and might, we have no fear.
We glorify with praises thee, the never-conquered conqueror.
In comradeship with you who control the prizes, o Indra, let us not fear, o lord of power.
We keep crying out to you, the conqueror who is not to be conquered.
In deiner Freundschaft sein, o Held, wir ohne Furcht, o Herr der Kraft, Wir stimmen Lob, o Indra, an dem unbesiegten Sieger dir.
In deiner, des Sieghaften, Freundschaft, Indra, wollen wir nicht zagen, du Herr der Stärke. Zu dir schreien wir, zu dem unbesiegten Sieger.
В дружбе с тобой, о Индра, награждающий,
Нам, о повелитель силы, (нечего) бояться.
Мы ликуем навстречу тебе,
Победителю, непобежденному.
पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन्त्यू॒तय॑: । यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम् ॥
पू॒र्वीः । इन्द्र॑स्य । रा॒तयः॑ । न । वि । द॒स्य॒न्ति॒ । ऊ॒तयः॑ । यदि॑ । वाज॑स्य । गोऽम॑तः । स्तो॒तृऽभ्यः॑ । मंह॑ते । म॒घम् ॥
इन्द्रस्य संबन्धिन्यः रातयः धनदानानि पूर्वीः अनादिकालसिद्धाः प्रभूता वा । अस्येन्द्रस्य सर्वदा यष्टृभ्यो धनदानमेव स्वभाव इत्यर्थः । एवं सति इदानींतनोऽपि यजमानः स्तोतृभ्यः ऋत्विग्भ्यः गोमतः गोसहितस्य वाजस्य अन्नस्य पर्याप्तं मघं धनं यदि मंहते दक्षिणारूपेण ददाति तदानीम् ऊतयः बहुधनदानपूर्वकाणि इन्द्रस्य अस्मद्विषयाणि रक्षणानि न वि दस्यन्ति विशेषेण नोपक्षीयन्ते । मघं रेक्णः' इत्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु मघशब्दः (नि. २.१०.१) पठितः। ‘दाति दाशति' इत्यादिषु दशसु दानकर्मसु “ मंहते ' (नि. ३. २०. १०) इति पठितम् ॥ पूर्वीः । पुरुशब्दस्य ‘वोतो गुणवचनात् (पा. सू. ४. १. ४४) इति ङीष् । आद्यस्य उकारस्य दीर्घश्छान्दसः ॥ जसि ‘दीर्घाज्जसि च ' ( पा. सू. ६. १. १०५ ) इति निषेधं बाधित्वा वा छन्दसि' (पा. सू. ६. १. १०६ ) इति पूर्वसवर्णदीर्घत्वम् । ङीषः प्रत्ययस्वरेणोदात्तत्वम् । रातयः । ‘मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ' इति क्तिन उदात्तत्वम् । दस्यन्ति । ‘दसु उपक्षये। 'दिवादिभ्यः श्यन्' । निघातः । ऊतयः । ऊतियूति' (पा. सू. ३. ३, ९७ ) इत्यादिना क्तिन् उदात्तः । यदि । निपातत्वादाद्युदात्तः । संहितायां • निपातस्य च ' ( पा. सू. ६. ३. १३६ ) इति दीर्घत्वम् । स्तोतृभ्यः । ‘ष्टुञ्। स्तुतौ ।' धात्वादेः षः सः ' ( पा. सू. ६. १. ६४ )। तृचश्चित्त्वादन्तोदात्तत्वम् । मंहते । शपः पित्त्वादनुदात्तत्वम् । तिङ्श्च लसार्वधातुकस्वरेण • तिङ्ङतिङः' इति निघातो न भवति, ‘ निपातैर्यद्यदिहन्त° ' ( पा. सू. ८. १. ३०) इति निषेधात् ॥
“The ancient liberalities of Indra, his protections, will not be wanting to him who presents to the reciters of the hymns, wealth of food and cattle.”
The gifts of Indra from of old, his saving succours, never fail,
When to the praise-singers he gives the boon of substance rich in kine.
Many are the gifts of Indra; his forms of help do not become exhausted when he grants to his praisers the bounty of a prize consisting of cattle.
Des Indra Gaben sind gar viel und seine Hülfen gehn nicht aus; Wenn er des rinderreichen Guts den Sängern grosse Fülle schenkt.
Viele sind des Indra gaben, seine Gnaden versiegen nicht, wenn er von der Siegesbeute an Rindern den Sängern eine Gabe gibt.
Много у Индры даров,
Не иссякают (его) милости,
Если из награды (стада) коров,
Он дарит певцам щедрый дар.
पु॒रां भि॒न्दुर्युवा॑ क॒विरमि॑तौजा अजायत । इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥
पु॒राम् । भि॒न्दुः । युवा॑ । क॒विः । अमि॑तऽओजाः । अ॒जा॒य॒त॒ । इन्द्रः॑ । विश्व॑स्य । कर्म॑णः । ध॒र्ता । व॒ज्री । पु॒रु॒ऽस्तु॒तः ॥
अयम् इन्द्रः उच्यमानगुणयुक्तः अजायत संपन्नः । कीदृग्गुणक इति तदुच्यते । पुराम् असुरपुराणां भिन्दुः भेत्ता युवा कदाचिदपि वलीपलितादिवार्धकरहितः कविः मेधावी अमितौजाः प्रभूतबलः विश्वस्य कर्मणः कृत्स्नस्य ज्योतिष्टोमादेः धर्ता पोषकः वज्री यजमानरक्षणार्थं सर्वदा वज्रयुक्तः पुरुष्टुतः बहुविधे तत्तत्कर्मणि स्तुतः ॥ भिन्दुः । भिदिर् विदारणे'। ‘कुः' इत्यनुवृत्तौ ‘ पॄभिदिव्यधिगृधिषिदृशिभ्यः ' ( उ. सू. १. २३ ) इति कुप्रत्ययः । तस्य ‘ छन्दस्युभयथा' (पा. सू. ३. ४. ११७ ) इति सार्वधातुकसंज्ञायां • रुधादिभ्यः श्नम् ' ( पा. सू. ३. १. ७८ ) । मित्त्वात् अन्त्यात् अचः परो भवति (पा. सू. १. १. ४७ )। असोरल्लोपः' । अनुस्वारपरसवर्णौ (पा. सू. ८. ३. २४; ८. ४. ५८ )। ‘ अचः परस्मिन्पूर्वविधौ ' (पा. सू. १. १. ५७ ) इति प्राप्तस्य स्थानिवद्भावस्य ‘न पदान्त' (पा. सू. १. १. ५८ ) इत्यादिना निषेधः । युवा । ‘ यु मिश्रणामिश्रणयोः । ‘ कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः । ( उ. सू. १. १५४ ) इति कनिन् । नित्त्वादाद्युदात्तः । कविः । कु शब्दे' । ‘अच इः ' ( उ. सू. ४. ५७८) इति इः । प्रत्ययस्वरः। अमितौजाः । अमितशब्दस्य अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । विश्वस्य ।' अशिप्रुषि' ' ( उ. सू. १. १४९ ) इत्यादिना क्वन् । नित्त्वादाद्युदात्तः । कर्मणः। ‘ अन्येभ्योऽपि दृश्यन्ते' (पा. सू. ३. २. ७५ ) इति मनिन् । नित्स्वरः । धर्ता। तृच् । चित्त्वादन्तोदात्तः । वज्री । मत्वर्थीय इनिः । प्रत्ययस्वरः । पुरुष्टुतः । ‘ स्तुतस्तोमयोश्छन्दसि ' ( पा. सू. ८. ३. १०५) इति षत्वम् । बहुषु प्रदेशेषु स्तुतः । ‘थाथघञ्तासूजबित्रकाणाम् ' ( पा. सू. ६. २. १४४ ) इत्यन्तोदात्तत्वम् । तृतीयासमासे हि थाथादिस्वरापवादः ‘ तृतीया कर्मणि' (पा. सू. ६. २. ४८ ) इति पूर्वपदप्रकृतिस्वरः स्यात् ॥
“Indra was born the destroyer of cities, ever young, ever wise, of unbounded strength, the sustainer of all pious acts, the wielder of the thunderbolt, the many-praised.”
Crusher of forts, the young, the wise, of strength unmeasured, was he born
Sustainer of each sacred rite, Indra, the Thunderer, much-extolled.
He was born as a splitter of strongholds, a youthful poet, possessed of immeasurable power.
Indra is the sustainer of every deed, the much-praised wielder of the mace.
Als Burgzerstörer ward erzeugt der Jüngling von gewalt'ger Kraft, Der Blitzer Indra, vielgerühmt, der weise Träger jedes Werks.
Der Burgenbrecher, der jugendliche Seher wurde mit unermeßlicher Kraft geboren, Indra; der jegliches Werk durchsetzt, der vielgepriesene Keulenträger.
Проламывающий крепости, юный поэт,
Он родился с непомерной силой,
Индра, поддерживающий любое (наше) дело,
Многопрославленный громовержец.
त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिल॑म् । त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः ॥
त्वम् । व॒लस्य॑ । गोऽम॑तः । अप॑ । अ॒वः॒ । अ॒द्रि॒ऽवः॒ । बिल॑म् । त्वाम् । दे॒वाः । अबि॑भ्युषः । तु॒ज्यमा॑नासः । आ॒वि॒षुः॒ ॥
वलनामकः कश्चिदसुरो देवसंबन्धिनीर्गा अपहृत्य कस्मिंश्चिद्बिले गोपितवान् । तदानीमिन्द्रः तद्बिलं स्वसैन्येन समावृत्य तस्माद्बिलात् गा निःसारयामास । तदिदमुपाख्यानम् ‘इन्द्रो वलस्य बिलमपौर्णोत् ' ( तै. सं. २. १. ५. १ ) इत्यादिब्राह्मणेषु मन्त्रान्तरेषु च प्रसिद्धम् । तदेतत् हृदि निधाय अयं मन्त्रः प्रवर्तते । हे अद्रिवः वज्रयुक्तेन्द्र त्वं गोमतः वलस्य गोभिर्युक्तस्य वलनामकस्यासुरस्य संबन्धि बिलम् अपावः स्वसैन्यमुखेन अपावृतवानसि । तदानीं तुज्यमानासः वलेन हिंस्यमानाः देवाः अबिभ्युषः त्वदीयरक्षया वलादभीताः सन्तः त्वाम् आविषुः प्राप्तवन्तः ॥ अप । निपातत्वादाद्युदात्तः । अवः । वृञ् वरणे' । लङ् । सिप् । ‘इतश्च लोपः०' (पा. सू. ३. ४. ९७) । ‘ स्वादिभ्यः श्नुः ' ( पा. सू. ३. १. ७३ )। तस्य ' बहुलं छन्दसि' (पा. सू. २. ४. ७३ ) इति लुक् । गुणो रपरत्वं हल्ङयादिलोपः। विसर्जनीयः । अडागमः । अद्रिवः । अद्रिरस्यास्तीति मतुप् । ' छन्दसीरः ' ( पा. सू. ८. २. १५) इति वत्वम् । संबोधने ‘उगिदचां' (पा. सू. ७. १. ७० ) इति नुम् । हल्ङ्यादिसंयोगान्तलोपौ ।' मतुवसो रु संबुद्धौ छन्दसि' (पा. सू. ८. ३. १) इति रुत्वम् । बिलम् ।' नब्विषयस्यानिसन्तस्य' ( फि. सू. २६) इत्याद्युदात्तत्वम् । अबिभ्युषः । ‘ ञिभी भये । लिट् । द्विर्भावः । अभ्यासस्य ह्रस्वजश्त्वे । ‘ क्वसुश्च' ( पा. सू. ३. २. १०७) इति लिटः क्वसुरादेशः । क्रादिनियमात् प्राप्त इट् ' वस्वेकाजाद्धसाम् ' ( पा. सू. ७. २. ६७ ) इति नियमात् निवर्तते । जसि सर्वनामस्थानेऽपि व्यत्ययेन भत्वात् वसोः संप्रसारणम् । परपूर्वत्वम् । ‘ शासिवसिघसीनां च ' ( पा. सू. ८. ३. ६० ) इति षत्वम् । अचि श्नुधातु ' ( पा. सू. ६. ४. ७७ ) इत्यादिना प्राप्तम् इयङादेशं बाधित्वा “ एरनेकाचः ० ' ( पा. सू. ६. ४. ८२ ) इति यणादेशः । नञ्समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तुज्यमानासः । तुजेर्हिंसार्थात् परस्य कर्मणि लटः स्थाने शानच् । ‘सार्वधातुके यक्' (पा. सू. ३. १. ६७) इति यक् । तस्मात् अदुपदेशादुत्तरस्य लसार्वधातुकस्यानुदात्तत्वम् । यक एव प्रत्ययस्वरः शिष्यते । आविषुः । अव रक्षणादिषु । अस्माद्गत्यर्थात् लुङो झिः । तस्य ' सिजभ्यस्तविदिभ्यश्च ' ( पा. सू. ३. ४. १०९ ) इति जुस् । सिच इडागमः । ‘ आडजादीनाम् ' ( पा. सू. ६. ४. ७२ ) इति आडागमः । ‘ आदेशप्रत्यययोः । (पा. सू. ८. ३. ५९ ) इति षत्वम् ॥
“Your, wielder of the thunderbolt, did open the cave of Vala, who had there concealed the cattle; and the gods whom he had oppressed, no longer feared when they had obtained you (for their ally).”
Lord of the thunder, thou didst burst the cave of Vala rich in cows.
The Gods came pressing to thy side, and free from terror aided thee,
You uncovered the opening of Vala filled with cattle, o possessor of the stone.
Before the fearless one [=Vala?], the gods, though being pushed back, came to your aid.
Du Schleuderer hast aufgethan des rinderreichen Vala Schloss; Die Schar der Götter, frei von Furcht, mit regem Eifer stand dir bei.
Du hast des rinderreichen Vala Höhle aufgeschlossen, du Herr des Preßsteins. Dir haben die Götter beigestanden vor dem furchtlosen erschreckend.
Ты у Валы, обладателя коров,
Раскрыл пещеру, о метатель камней.
Тебя поддержали боги,
(Тобой) бесстрашным вдохновляемые.
तवा॒हं शू॑र रा॒तिभि॒: प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न् । उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रव॑: ॥
तव॑ । अ॒हम् । शू॒र॒ । रा॒तिऽभिः॑ । प्रति॑ । आ॒य॒म् । सिन्धु॑म् । आ॒ऽवद॑न् । उप॑ । अ॒ति॒ष्ठ॒न्त॒ । गि॒र्व॒णः॒ । वि॒दुः । ते॒ । तस्य॑ । का॒रवः॑ ॥
हे शूर संग्रामे शौर्ययुक्तेन्द्र तव रातिभिः कर्मसु त्वदीयैर्धनदानैर्निमित्तभूतैः अहं होता प्रत्यायं त्वां पुनरागतोऽस्मि । पुरा बहुषु कर्मसु त्वत्तो धनस्य लब्धत्वादस्मिन् कर्मणि प्रत्यागमनमित्युच्यते । किं कुर्वन् । सिंधुं स्यन्दमानं सोमम् आवदन् सर्वतः कथयन् । अस्मिन् सोमयागे त्वदीयां धनदानकीर्तिं प्रकटयन्नित्यर्थः । हे गिर्वणः गीर्भिर्वननीयेन्द्र कारवः कर्तार ऋत्विग्यजमानाः उपातिष्ठन्त पुरा धनलाभार्थं त्वामुपस्थितवन्तः । उपस्थाय च तस्य तादृशस्यौदार्योपेतस्य ते तव धनदानं विदुः जानन्ति । गिर्वणस्शब्दं यास्क इत्थं निर्ब्रूते - गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति (नि. ६. १४) इति । ‘रेभो जरिता' इत्यादिषु त्रयोदशसु स्तोतृनामसु कारुशब्दः (नि. ३. १६. ३) पठितः । तव । युष्मदस्मदोर्ङसि ' (पा. सू. ६. १. २११) इत्याद्युदात्तत्वम् । रातिभिः । ‘ मन्त्रे वृष ' इत्यादिना क्तिन् उदात्तः । आयम् । इणो लङ्। ‘ तस्थस्थमिपां तातंतामः! (पा. सू. ३. ४. १०१ ) इति अमादेशः । ‘ अदिप्रभृतिभ्यः शपः ' ( पा. सू. २, ४, ७२ ) इति शपो लुक् । आडागमः । वृद्ध्यायादेशौ । ‘ तिङ्ङतिङः' इति निघातः । सिन्धुम् । ‘ स्यन्दू प्रस्रवणे ' । ‘ °नित् ' ( उ. सू. १. ९) इत्यनुवृत्तौ स्यन्देः संप्रसारणं धश्च ( उ. सू. १. ११ ) इति उप्रत्ययो धकारश्च अन्तादेशः । नित्त्वादाद्युदात्तः । आवदन् । ‘ वद व्यक्तायां वाचि'। लटः शतृ । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । आङा सह ‘कुगतिप्रादयः' (पा. सू. २. २. १८) इति समासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अतिष्ठन्त । ‘उपान्मन्त्रकरणे '(पा. सू. १. ३. २५) इत्यात्मनेपदम् । गिर्वणः । ‘ वन षण संभक्तौ । असुन् । 'आमन्त्रितस्य च ' इति निघातः । विदुः । ‘ विद ज्ञाने'। लट्। ‘ अदिप्रभृतिभ्यः शपः' इति शपो लुक् । ‘ विदो लटो वा ' ( पा. सू. ३. ४.८३) इति झेः उस् । पादादित्वात् न निघातः । संहितायां ‘ युष्मत्तत्ततक्षुःष्वन्तःपादम्' (पा. सू. ८. ३. १०३) इति षत्वम् ।' ष्टुना ष्टुः ( पा. सू. ८. ४. ४१) इत्युत्तरस्य तकारस्य ष्टुत्वम् । तस्य ।' सावेकाचः०' (पा. सू. ६. १. १६८ ) इति विभक्तेरुदात्तत्वं प्राप्तं ' न गोश्वन्साववर्ण । (पा. सू. ६. १. १८२ ) इति निषिध्यते । कारवः । कृवापाजि' (उ. सू. १. १) इत्यादिना उण् । प्रत्ययस्वरः ॥
“(Attracted) by your bounties, I again come, Hero, to you, celebrating (your liberality) while offering this libation; the performers of the rite approach you, who are worthy of praise, for they have known your (munificence).”
I, Hero, through thy bounties am come to the flood addressing thee.
Song-lover, here the singers stand and testify to thee thereof.
I came back with your gifts, o champion, announcing (them) to our boundary river.
O you who long for songs, the bards have approached me: they know of this (act) of yours.
Um deiner Gaben willen, o Held, bin ich gekommen den Strom [des Soma, nach Sāyaṇa] dir ankündigend; die Sänger standen dabei, o Liederfreund, und bezeugen es dir.
Mit deinen Gaben, o Held, kehrte ich zurück, dem Strom es meldend. Sie standen dabei, du Lobbegehrender, die Dichter sind dir des Zeugen
С твоими дарами, о герой,
Я вернулся (домой), объявляя (их) реке.
Они были при этом, о жаждущий восхвалений, –
Певцы знают это о тебе.
मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः । वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र ॥
मा॒याभिः॑ । इ॒न्द्र॒ । मा॒यिन॑म् । त्वम् । शुष्ण॑म् । अव॑ । अ॒ति॒रः॒ । वि॒दुः । ते॒ । तस्य॑ । मेधि॑राः । तेषा॑म् । श्रवां॑सि । उत् । ति॒र॒ ॥
हे इन्द्र त्वं मायिनं नानाविधकपटोपेतं शुष्णं भूतानां शोषणहेतुम् एतन्नामकमसुरं मायाभिः तत्प्रतिकूलैः कपटविशेषैः । यद्वा। तद्वधोपायगोचरप्रज्ञाभिः अवातिरः हिंसितवानसि। एतच्च यास्केनोक्तम् -- ‘ इन्द्रः शुष्णं जघान ' ( निरु. ३. ११) इति । शुष्णं पिप्रुम् ' ( ऋ. सं. १. १०३. ८ ) इत्यादिमन्त्रे चायमर्थो विस्पष्टः । मेधिराः मेधावन्तोऽनुष्ठातारः तस्य तादृशस्य ते तव महिमानं विदुः जानन्ति । तेषां जानतामनुष्ठातॄणां श्रवांसि अन्नानि उत्तिर वर्धय । 'केतः केतुः' इत्यादिष्वेकादशसु प्रज्ञानामसु 'माया वयुनम्' (नि. ३. ९.९) इति पठितम् । श्रवःशब्दं यास्को निर्वक्ति ‘ श्रव इत्यन्ननाम श्रूयत इति सतः ' ( निरु. १०.३ ) इति ॥ मायाभिः । माङ् माने ॥ माच्छाससिसूभ्यो यः ' ( उ. सू. ४, ५४९ ) इति यप्रत्ययः । प्रत्ययस्वरः । मायिनम् । मायास्यास्तीति मायी । व्रीह्यादित्वात् इनिप्रत्ययः (पा. सू. ५. २. ११६ )। प्रत्ययस्वरः । शुष्णम् । ‘ शुष शोषणे' । अस्मादन्तर्भावितण्यर्थात् । नित्' इत्यनुवृत्तौ ‘ तृषिशुषिरसिभ्यः किच्च' ( उ.
सू. ३. २९२ ) इति नप्रत्ययः । नित्त्वादाद्युदात्तः । अतिरः । तरतेर्लङि व्यत्ययेन शः तस्य ङित्त्वेन गुणाभावात् ' ऋत इद्धातोः' इति इत्वम् । रपरत्वम् । विदुष्टे तस्य । गतमन्त्रे गतम् । मेधिराः । ‘ मिधृ मेधृ मेधाहिंसनयोः' । औणादिक इरन् । नित्त्वादाद्युदात्तः । श्रवांसि । नब्विषयत्वादाद्युदात्तः ॥
“Your slewest, Indra, by stratagems, the wily Śuṣṇa; the wise have known of this your (greatness); bestow upon them (abundant) food.”
The wily Susna, Indra! thou o'er-threwest with thy wondrous powers.
The wise beheld this deed of thine: now go beyond their eulogies.
With your tricks, Indra, you brought down tricky Śuṣṇa.
The wise know of that (act) of yours. Raise up their fame!
Mit Zauberkraft hast du, o Indra, den Zauberer Çuschna zu Boden gestreckt, das bezeugen dir die Weisen; deren Ruhm erhöhe du.
Mit Listen hast du den listigen Susna überwunden, Indra. Das wissen von dir die Weisen; deren Ruhm erhöhe du!
Колдовскими чарами, о Индра, колдовского
Шушну ты поверг ниц.
Мудрые знают это о тебе.
Возвысь их славу!
इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत । स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः ॥
इन्द्र॑म् । ईशा॑नम् । ओज॑सा । अ॒भि । स्तोमाः॑ । अ॒नू॒ष॒त॒ । स॒हस्र॑म् । यस्य॑ । रा॒तयः॑ । उ॒त । वा॒ । सन्ति॑ । भूय॑सीः ॥
स्तोमाः स्तोतार ऋत्विजः ओजसा बलेन ईशानं जगतो नियामकं इन्द्रं अभि अनूषत सर्वत्र स्तुतवन्तः। यस्य इन्द्रस्य रातयः धनदानानि सहस्रं सहस्रसंख्योपेतानि सन्ति। उत वा अथवा भूयसीः सहस्रसंख्याया अप्यधिकाः सन्ति । तमिन्द्रमिति पूर्वत्रान्वयः ॥ इन्द्रम् ।' ऋज्रेन्द्र ( उ. सू. २. १८६ ) इत्यादिना रन् । नित्त्वादाद्युदात्तः। ईशानम् । लटः शानच् ।' अदिप्रभृतिभ्यः शपः' इति शपो लुक् । धातोरनुदात्तेत्त्वात् ' तास्यनुदात्त° '(पा. सू. ६. १. १८६) इत्यादिना शानचोऽनुदात्तत्वम् । ओजसा । नब्विषयत्वादाद्युदात्तः । स्तोमाः । ‘ अर्तिस्तुसु° ' ( उ. सू. १. १३७ ) इत्यादिना मन्प्रत्ययः । नित्त्वादाद्युदात्तः । अनूषत । णु स्तुतौ '।' णो णः । लुङ्। व्यत्ययेन झः । तस्य अदादेशः ( पा.सू. ७. १. ५)। च्लेः सिच् । अस्य धातोः कुटादित्वेन सिचो ङित्त्वाद्गुणाभावः । इडभावश्छान्दसः दीर्घत्वं च । अडागमः । सहस्रम् । ‘ कर्दमादीनां च ' (फि. सू. ५९) इति द्वितीयाक्षरमुदात्तम् । रातयः । मन्त्रे वृष° ' इत्यादिना क्तिन् उदात्तः । उत। प्रातिपदिकस्वरः । वा । चादिरनुदात्तः । सन्ति । प्रत्ययाद्युदात्तत्वम् । तिङ्ङतिङः' इति निघातो न भवति ‘यद्वृत्तान्नित्यम् ' ( पा. सू. ८. १. ६६ ) इति प्रतिषेधात् । स हि व्यवहितेऽपि भवतीत्युक्तम् । भूयसीः। सहस्रादतिशयेन बह्व्यो भूयस्यः । अत्र विभक्तव्यस्य सहस्रस्य संनिधिबलादुपपदत्वप्रतीते: “ द्विवचनविभज्योपपदे तरबीयसुनौ' (पा. सू. ५. ३. ५७ ) इति बहुशब्दात् ईयसुन् । ‘ बहोर्लोपो भू च बहोः ' (पा. सू. ६. ४. १५८ ) इति ईकारलोपः प्रकृतेः भू इति आदेशश्च । ईयसुनो नित्त्वादाद्युदात्तत्वम् ।' उगितश्च ' ( पा. सू. ४. १. ६) इति ङीप् ॥ २१ ॥ ॥ ३ ॥
“The reciters of sacred hymns praise with all their might, Indra, the ruler of the world, whose bounties are (computed) by thousands or even more.”
Our songs of praise have glorified Indra who ruleth by his might,
Whose precious gifts in thousands come, yea, even more abundantly.
The praise-songs have cried out to Indra, who holds sway by his might, whose gifts are a thousand or even greater.
Den Indra, der da herrscht mit Macht, hat unser Lobgesang gerühmt, Ihn, dessen Gaben tausendfach und wol noch grösser sind an Zahl.
Indra, der durch seine Stärke mächtig, haben die Loblieder angerufen, dessen Gaben tausend oder noch mehr sind.
Восхваления призвали Индру,
Властвующего благодаря (своей) силе,
(Индру), чьи дары – тысяча
Или даже еще больше.