त॒तं मे॒ अप॒स्तदु॑ तायते॒ पुन॒: स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते । अ॒यं स॑मु॒द्र इ॒ह वि॒श्वदे॑व्य॒: स्वाहा॑कृतस्य॒ समु॑ तृप्णुत ऋभवः ॥
त॒तम् । मे॒ । अपः॑ । तत् । ऊँ॒ इति॑ । ता॒य॒ते॒ । पुन॒रिति॑ । स्वादि॑ष्ठा । धी॒तिः । उ॒चथा॑य । श॒स्य॒ते॒ । अ॒यम् । स॒मु॒द्रः । इ॒ह । वि॒श्वऽदे॑व्यः॒ । स्वाहा॑ऽकृतस्य । सम् । ऊँ॒ इति॑ । तृ॒प्णु॒त॒ । ऋ॒भ॒वः॒ ॥
हे ऋभवः मे मया अपः अग्निष्टोमादिरूपं कर्म ततं विस्तारितं बहुशः पूर्वमनुष्ठितम् । तदु तदेव पुनः तायते विस्तार्यते अनुष्ठीयते इत्यर्थः । तत्र स्वादिष्ठा स्वादुतमा अतिशयेन प्रीतिकरी धीतिः स्तुतिश्च उचथाय स्तुत्याय शस्यते पठ्यते । अपि च इह अस्मिन्यागे समुद्रः समुन्दनशीलः अयं सोमरसः विश्वदेव्यः सर्वेभ्यो देवेभ्यः पर्याप्तो यथा भवति तथा संपादितः । तस्य स्वाहा कृतस्य स्वाहाकारेणाग्नौ प्रक्षिप्तस्य सोमस्य पानेन समु तृप्णुत सम्यगेव तृप्ता भवत ॥ ततम् । ‘ तनु विस्तारे'। निष्ठायां यस्य विभाषा ' इति इट्प्रतिषेधः। ‘ अनुदात्तोपदेश° ' इत्यादिना अनुनासिकलोपः । अपः । ‘ आप्लृ व्याप्तौ ' । आपः कर्माख्यायां ह्रस्वो नुट् च वा इति असुन् धातोर्ह्रस्वश्च । तायते । ‘ तनोतेर्यकि ' ( पा. सू. ६. ४. ४४ ) इति आत्वम् । स्वादिष्ठा । स्वादुशब्दादातिशायनिक इष्ठन् ।' टेः' इति टिलोपः । उचथाय । वच परिभाषणे ' । औणादिकः अथक्प्रत्ययः । ‘ वचिस्वपि ' इत्यादिना संप्रसारणम् । समुद्रः। ‘ उन्दी क्लेदने । ‘स्फायितञ्चि' इत्यादिना रक् ।' अनिदिताम् ' इति नलोपः । विश्वदेव्यः । देवार्हो भागो देव्यः । ‘ छन्दसि च ' इति यप्रत्ययः । विश्वे सर्वे देव्या यस्मिन्सोमे । ‘ बहुव्रीहौ विश्वं संज्ञायाम् । इति व्यत्ययेनासंज्ञायामपि पूर्वपदान्तोदात्तत्वम् । स्वाहाकृतस्य । स्वाहाशब्दस्य ऊर्यादित्वेन गतित्वात् ( पा. सू. १. ४. ६१ ) • गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । तृप्णुत । ‘ तृप प्रीणने । ‘ स्वादिभ्यः श्नुः । ऋभव इत्यनेन संहितायाम् ‘ ऋत्यकः' इति प्रकृतिभावः ॥
“Ṛbhus, the rite formerly celebrated by me is again repeated, and the melodious hymn is recited in your praise; in this ceremony, the Soma is sufficient for all the gods; drink of it to your utmost content when offered on the fire.”
THE holy work I wrought before is wrought again: my sweetest hymn is sung to celebrate your praise.
Here, O ye Rbhus, is this sea for all the Gods: sate you with Soma offered with the hallowing word.
My (ritual) work has been stretched out, and it is being stretched out again. My sweetest insight is being recited for a hymn.
Right here is the sea (of soma) belonging to the All Gods. Satiate
yourselves together on the (soma) prepared with the svāhā-cry, o R̥bhus.
Gespannt war mein Gewebe, wieder spann' ich es zu preisen euch, ertönt der süsseste Gesang; Hier ist dies Meer, für alle Götter reicht es aus; erlabt euch, Ribhu's, an dem Spruch-geweihten Trank.
Mein Werk ward früher ausgeführt, es wird aufs neue ausgeführt: die süßeste Dichtung wird zu einem Lobgedicht vorgetragen. Hier ist das für die Allgötter bestimmte Meer des Soma; tut euch, ihr Ribhu´s, an dem mit Svaha gesegneten Trank gütlich!
Соткан мой труд, и снова ткется все он же.
Складчайшая поэзия произносится, чтобы стать гимном.
Этот океан здесь предназначен Всем-Богам.
Насыщайтесь, о Рибху, выжатым (сомой,) сопровождаемым (возгласом): Свага!
आ॒भो॒गयं॒ प्र यदि॒च्छन्त॒ ऐत॒नापा॑का॒: प्राञ्चो॒ मम॒ के चि॑दा॒पय॑: । सौध॑न्वनासश्चरि॒तस्य॑ भू॒मनाग॑च्छत सवि॒तुर्दा॒शुषो॑ गृ॒हम् ॥
आ॒ऽभो॒गय॑म् । प्र । यत् । इ॒च्छन्तः॑ । ऐत॑न । अपा॑काः । प्राञ्चः॑ । मम॑ । के । चि॒त् । आ॒पयः॑ । सौध॑न्वनासः । च॒रि॒तस्य॑ । भू॒मना॑ । अग॑च्छत । स॒वि॒तुः । दा॒शुषः॑ । गृ॒हम् ॥
हे ऋभवः अपाकाः परिपक्वज्ञानाः प्राञ्चः पूर्वकालीनाः मम आपयः प्रापयितारो मदीया ज्ञातयः के चित् एवंभूता ये केचन यूयम् आभोगयम् उपभोग्यं सोमम् इच्छन्तः यत् यदा प्र ऐतन तपश्चरितुमरण्यं गतवन्तः । ऋभवो हि सुधन्वन आङ्गिरसस्य पुत्राः। तदुक्तं यास्केन - ऋभुर्विभ्वा वाज इति सुधन्वन आङ्गिरसस्य त्रयः पुत्रा बभूवुः ' ( निरु. ११. १६) इति । कुत्सोऽप्याङ्गिरसः अतस्तेन मदीया ज्ञातय इत्युक्तम् । हे सौधन्वनासः सुधन्वनः पुत्राः तदानीं च रितस्य समुपार्जितस्य तपसः भूमना भूम्ना बहुत्वेन दाशुषः हवींषि दत्तवतः सवितुः सोमाभिषवं कुर्वतो यजमानस्य संबन्धि यज्ञगृहम् अगच्छत तपसा लब्धसोमाः सन्तः कृतपाना: यूयं गत वन्तः । यद्वा । दाशुषः प्रातःसवनादिष्वग्न्यादिभिरपसारितेभ्यः ऋभुभ्यः सोमपानं दत्तवतः सवितुः गृहं निवासस्थानं तृतीयसवनाख्यमगच्छत प्राप्ताः । एतत्सर्वम् ‘ आर्भवं शंसति ' ( ऐ. ब्रा. ३. ३०) इत्यादौ विस्पष्टमाम्नातम् ॥ आभोगयम् । आ समन्ताद्भोग आभोगः । तदर्हः आभोगयः । ‘ छन्दसि च ' इति य: । यस्य ' इति लोपाभावश्छान्दसः । व्यत्ययेन प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वा । आङ्पूर्वाद्भुजेरौणादिकः कर्मणि इप्रत्ययः कुत्वं च । अमि व्यत्ययेन गुणः । ऐतन । इण् गतौ ' । लङि मध्यम बहुवचनस्य यस्य तादेशः । ‘ तप्तनप्तनथनाश्च ' इति तस्य तनबादेशः । आडागमो वृद्धिश्च । आपयः । आप्नोतेरौणादिक इप्रत्ययः । भूमना । बहुशब्दात् पृथ्वादिलक्षण इमनिच् । बहोर्लोपो भू च बहोः ' इति इकारलोपो बहोर्भूभावश्च । संज्ञापूर्वकस्य विधेरनित्यत्वात् अलोपाभावः ॥
“When, Ṛbhus, you who are amongst my ancestors, yet immature (in wisdom), but desirous of enjoying (the Soma libations), retired to the forest to perform (penance), then, sons of Sudhanvan, throught he plural nitude of your completed (devotions), you came to the (sacrificial) hall of the worshipper Savitā.”
When, seeking your enjoyment onward from afar, ye, certain of my kinsmen, wandered on your way,
Sons of Sudhanvan, after your long journeying, ye came unto the home of liberal Savitar.
When, facing front, you shrewd ones went forth in search of your daily bread, kind of like my pals,
o sons of Sudhanvan, after your fill of roaming you came to the house of Savitar the pious.
Als nach Genüssen suchend ihr hinwandertet nach West und Ost, die ihr zum Theil mir seid verwandt, Da kamt Sudhanvan-Söhne ihr nach langer Fahrt zum Hause hin des holdgesinnten Savitar.
Als ihr Unterhalt suchend westwärts, ostwärts weiter zoget als gewisse Bekannte von mir, da gelanget ihr Söhne des Sudhanvan nach vielem Wandern in das Haus des opferspenden Savitri.
Когда вы двинулись вперед в поисках пищи,
(Говоря): У меня есть кое-какие приятели к западу (и) к востоку,
После долгих скитаний, о сыновья Судханвана,
Вы добрались до дома Савитара, приносящего жертвы.
तत्स॑वि॒ता वो॑ऽमृत॒त्वमासु॑व॒दगो॑ह्यं॒ यच्छ्र॒वय॑न्त॒ ऐत॑न । त्यं चि॑च्चम॒समसु॑रस्य॒ भक्ष॑ण॒मेकं॒ सन्त॑मकृणुता॒ चतु॑र्वयम् ॥
तत् । स॒वि॒ता । वः॒ । अ॒मृ॒त॒ऽत्वम् । आ । अ॒सु॒व॒त् । अगो॑ह्यम् । यत् । श्र॒वय॑न्तः । ऐत॑न । त्यम् । चि॒त् । च॒म॒सम् । असु॑रस्य । भक्ष॑णम् । एक॑म् । सन्त॑म् । अ॒कृ॒णु॒त॒ । चतुः॑ऽवयम् ॥
हे ऋभवः तत् तदानीं सविता सर्वस्य प्रेरको देवः वः युष्माकम् अमृतत्वं देवत्वम् आसुवत् आभिमुख्येन प्रेरितवान् दत्तवानित्यर्थः । यत् यदा यूयम् अगोह्यं गूहितुमशक्यं सर्वैर्दृश्यमानं सवितारं श्रवयन्तः अपेक्षितं सोमपानं विज्ञापयन्तः सन्तः ऐतन आगच्छत । तदानीमिति पूर्वेणान्वयः । यस्मात् यूयं देवैराज्ञापिताः सन्तः असुरस्य त्वष्टुः संबन्धिनम् । तेन निर्मितमित्यर्थः । भक्षणं सोमपानसाधनं त्यं तं चमसम् एकं चित् असहायमेव सन्तं चतुर्वयं चतुर्व्यूहम् अकृणुत कृतवन्तः । सृष्ट्यादौ त्वष्ट्रा कृतं चमसं होतृचमसादिमुख्यचमसचतुष्टयरूपेण ऋभवः कृतवन्तः इत्यर्थः ॥ असुवत् । षू प्रेरणे'। तौदादिकः । श्रवयन्तः । श्रु श्रवणे' । छान्दसो वृद्ध्यभावः। ऐतन। लङि मध्यमबहुवचनस्य तादेशे ‘तप्तनप्तनथनाश्च' इति तनबादेशः । भक्षणम् । करणे ल्युट् । अकृणुत। कृवि, हिंसाकरणयोश्च । लङि मध्यमबहुवचने ‘धिन्विकृण्व्योर च' इति उप्रत्ययः । चतुर्वयम् । वया अवयवाः । चत्वारोऽवयवा यस्य स तथोक्तः ॥
“Then Savitā bestowed upon you immortality, when you came to him, who is not to be concealed, and representd (your desire) to partake of the libations; and that ladle for the sacrificial viands which the Asura had formed single, you made fourfold.”
Savitar therefore gave you immortality, because ye came proclaiming him whom naught can hide;
And this the drinking-chalice of the Asura, which till that time was one, ye made to be fourfold.
Then Savitar impelled you to immortality when you went to make Agohya heed.
This very beaker, the drinking vessel of the lord [=Tvaṣṭar]—though it was single, you made it fourfold.
Darum verlieh euch Savitar Unsterblichkeit, weil ihm, den ewig hellen rufend, ihr erschient, Den Becher auch, aus welchem trinkt der ew'ge Gott, den einen habt ihr in vier Becher umgeformt.
Da beschied euch Savitri die Unsterblichkeit, als ihr den Agohya anrufend kamet. Ihr habt sogar jenen Becher, das Trinkgefäß des Asura, der einzig war, vervierfacht.
Тут Савитар сотворил вам бессмертие,
Когда вы отправились, крича, к Агохье,
Из того самого кубка для питья Асуры,
Из одного вы сделали четыре.
वि॒ष्ट्वी शमी॑ तरणि॒त्वेन॑ वा॒घतो॒ मर्ता॑स॒: सन्तो॑ अमृत॒त्वमा॑नशुः । सौ॒ध॒न्व॒ना ऋ॒भव॒: सूर॑चक्षसः संवत्स॒रे सम॑पृच्यन्त धी॒तिभि॑: ॥
वि॒ष्ट्वी । शमी॑ । त॒र॒णि॒ऽत्वेन॑ । वा॒घतः॑ । मर्ता॑सः । सन्तः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः॒ । सौ॒ध॒न्व॒नाः । ऋ॒भवः॑ । सूर॑ऽचक्षसः । स॒व्ँम्व॒त्स॒रे । सम् । अ॒पृ॒च्य॒न्त॒ । धी॒तिऽभिः॑ ॥
वाघतः । ऋत्विङ्नामैतत् अत्र च सामर्थ्यात् तद्वन्तो लक्ष्यन्ते । ऋत्विग्भिरुपेता ऋभवः शमी । कर्मनामैतत् । यागदानादीनि कर्माणि अन्यान्यपि ‘ एकं चमसं चतुरः कृणोतन ' ( ऋ. सं. १. १६१. २) इत्यादिना देवैरुक्तानि कर्माणि तरणित्वेन । तरणिरिति क्षिप्रनाम । क्षिप्रत्वेन शैघ्र्येण विष्ट्वी । यद्यप्येतत्कर्मनाम तथाप्यत्र क्रियापरं व्याप्य कृत्वेत्यर्थः । एवं कर्माणि कृत्वा मर्तासः मनुष्या अपि सन्तः अमृतत्वं देवत्वम् आनशुः आनशिरे । कृतैः कर्मभिर्लेभिरे। देवत्वं प्राप्य च सौधन्वनाः सुधन्वनः पुत्राः सूरचक्षसः सूर्यसमानप्रकाशाः सूर्यसदृशज्ञाना वा ते ऋभवः संवत्सरे संवत्सरावयवभूते वसन्तादिकालेऽनुष्ठेयैः धीतिभिः अग्निष्टोमादिकर्मभिः समपृच्यन्त संयुक्ता अभवन् हविर्भागार्हा बभूवुरित्यर्थः । अत्र निरुक्तं - ‘ कृत्वा कर्माणि क्षिप्रत्वेन वोढारो मेधाविनो वा मर्तासः सन्तोऽमृतत्वमानशिरे सौधन्वना ऋभवः सूरख्याना वा सूरप्रज्ञा वा संवत्सरे समपृच्यन्त धीतिभिः कर्मभिर्ऋभुर्विभ्वा वाज इति सुधन्वन आङ्गिरसस्य त्रयः पुत्रा बभूवुः' (निरु. ११. १६) इति ॥ विष्ट्वी। ‘विष्लृ व्याप्तौ । स्नात्व्यादयश्च ' ( पा. सू. ७. १. ४९ ) इति क्त्वाप्रत्ययस्य ईकारान्तादेशः । शमी । ‘ सुपां सुलुक् ' इति शसो लुक् । आनशुः । ‘ अशू व्याप्तौ'। व्यत्ययेन परस्मैपदम् । ‘ अश्नोतेश्च ' इति अभ्यासादुत्तरस्य नुडागमः । अपृच्यन्त ।' पृची संपर्क '। कर्मणि लङ् ॥
“Associated with the priests, and quickly performing the holy rites, they, being yet mortals, acquired immortality and the son of Sudhanvan, the Ṛbhus, brilliant as the sun, became connected with the ceremonies (appropriated to the different season) of the year.”
When they had served with zeal at sacrifice as priests, they, mortal as they were, gained immortality.
The Rbhus, children of Sudhanvan, bright as suns, were in a year's course made associate with prayers.
Toiling with labor, with surpassing skill, the cantors, though they were mortal, reached immortality.
The sons of Sudhanvan, the R̥bhus, who have the sun as their eye, in a year became infused with insights.
Da emsig sie mit kräftigem Gebet gewirkt, erlangten sie, die Sterblichen, Unsterblichkeit, Sudhanvans Stamm, die sonnengleiche Ribhuschar, ward mit Gebeten angefüllt im Jahreslauf.
Nachdem die fahrenden Sänger mit rechtem Fleiß und Pünktlichkeit gearbeitet hatten, erlangten sie, die Sterbliche waren, Unsterblichkeit. Die Ribhu´s, die Söhne des Sudhanvan, die sonnenäugigen, sahen in Jahresfrist ihre Erwartungen erfüllt.
Поработав упорно и успешно, (эти) жрецы,
Будучи смертными, достигли бессмертия.
Рибху, сыновья Судханвана, солнечноглазые,
В течение года соединились с (божественными) силами прозрения.
क्षेत्र॑मिव॒ वि म॑मु॒स्तेज॑नेनँ॒ एकं॒ पात्र॑मृ॒भवो॒ जेह॑मानम् । उप॑स्तुता उप॒मं नाध॑माना॒ अम॑र्त्येषु॒ श्रव॑ इ॒च्छमा॑नाः ॥
क्षेत्र॑म्ऽइव । वि । म॒मुः॒ । तेज॑नेनम् । एक॑म् । पात्र॑म् । ऋ॒भवः॑ । जेह॑मानम् । उप॑ऽस्तुताः । उ॒प॒ऽमम् । नाध॑मानाः । अम॑र्त्येषु । श्रवः॑ । इ॒च्छमा॑नाः ॥
उपस्तुताः समीपस्थैर्ऋषिभिः स्तुताः ऋभवः जेहमानं होमक्रियां प्रति प्रयतमानम् एकम् असहायं.पात्रं पानसाधनं त्वष्ट्रा निर्मितं चमसं मानदण्डेन क्षेत्रमिव भूमिमिव तेजनेन तीक्ष्णेन शस्त्रेण चमसचतुष्टयरूपेण कर्तुं वि ममुः विशेषेण मानं कृतवन्तः । किमिच्छन्तः । उपमं सर्वेषामुपमानभूतं प्रशस्तं सोमलक्षणमन्नं नाधमानाः याचमानाः । एतदेव विवृणोति । अमर्त्येषु मरणरहितेषु देवेषु मध्ये श्रवः हविर्लक्षणमन्नम् इच्छमानाः इच्छन्तः । देवैः सह सोमपानं कामयमानाः तल्लाभाय चतुरश्चमसानकार्षुरित्यर्थः ॥ ममुः । ‘माङ् माने शब्दे च । व्यत्ययेन परस्मैपदम् । तेजनेन । अणोऽप्रगृह्यस्यानुनासिकः ' (पा. सू. ८. ४. ५७) इति अनवसाने व्यत्ययेन अकारस्य आनुनासिक्यम् । ईषाअक्षादित्वात् प्रकृतिभावः । जेहमानम् । वेहृ जेहृ बाहृ प्रयत्ने' । भौवादिकः । अनुदात्तेत्त्वात् आत्मनेपदम् । उपस्तुताः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । उपमम् । ‘ माङ् माने'। ‘ आतश्चोपसर्गे ' इति कप्रत्ययः । इच्छमानाः । व्यत्ययेन आत्मनेपदम् ॥ ॥ ३० ॥
“Lauded by the bystanders, the Ṛbhus, with a sharp weapon, meted outt the single sacrificial ladle, like a field (measured by a rod), soliciting the best (libations) and desiring (to participate of) sacrificial food amongs thte gods.”
The Rbhus, with a rod measured, as 'twere a field, the single sacrificial chalice. wide of mouth,
Lauded of all who saw, praying for what is best, desiring glorious fame among Immortal Gods.
Like a field with a sharp stick, the R̥bhus measured into parts the single cup, which was gaping—
they who were crying in want at the praise-invocation, seeking highest fame among the immortals.
Es massen wie das Feld mit einem Rohrstab die Ribhu's aus die eine weite Schale, Sie, die gepriesnen, herrlichstes erflehend. und Ruhm begehrend bei den ew'gen Göttern.
Wie ein Grundstück maßen die Ribhu´s mit dem Rohrstab den einen gähnenden Becher aus, belobt, höchsten Lohn sich ausbittend, bei den Unsterblichen Ruhm suchend.
Как (меряют) поле, Рибху измерили тростниковой палочкой
Один зияющий сосуд,
Воспетые, просящие высшей (награды),
Ищущие славы среди бессмертных.
आ म॑नी॒षाम॒न्तरि॑क्षस्य॒ नृभ्य॑: स्रु॒चेव॑ घृ॒तं जु॑हवाम वि॒द्मना॑ । त॒र॒णि॒त्वा ये पि॒तुर॑स्य सश्चि॒र ऋ॒भवो॒ वाज॑मरुहन्दि॒वो रज॑: ॥
आ । मा॒नी॒षाम् । अ॒न्तरि॑क्षस्य । नृऽभ्यः॑ । स्रु॒चाऽइ॑व । घृ॒तम् । जु॒ह॒वा॒म॒ । वि॒द्मना॑ । त॒र॒णि॒ऽत्वा । ये । पि॒तुः । अ॒स्य॒ । स॒श्चि॒रे । ऋ॒भवः॑ । वाज॑म् । अ॒रु॒ह॒न् । दि॒वः । रजः॑ ॥
अन्तरिक्षस्य अन्तरिक्षलोकस्य मध्यमस्थानस्य संबन्धिभ्यः नृभ्यः यज्ञस्य नेतृभ्य ऋभुभ्यः । ऋभवो हि यज्ञस्य नेतारः । तेन हि ते देवत्वं प्राप्ताः । यद्वा । अन्तरिक्षस्य लोकस्य नेतृभ्यः । मध्यमे स्थाने ह्येते पठ्यन्ते । तादृशेभ्यः स्रुचेव यथा सुचा जुह्वा घृतं क्षरणशीलाज्योपेतं हविः आ जुहवाम । मर्यादयामाकारः । यथाशास्त्रं प्रयच्छाम । एवमेव मनीषां स्तुतिं विद्मना वेदनेन ज्ञानेन कुर्मः इति शेषः । अपि च ये ऋभवः पितुः सर्वस्य जगतः पालकस्य अस्य सूर्यस्य तरणित्वा तरणित्वानि तरणकौशलानि सश्चिरे सूर्यरश्मिभूताः सन्तः प्रापुः । तदुक्तम् - आदित्यरश्मयोऽप्यृभव उच्यन्ते' इति । ते ऋभवः दिवो रजः। रजःशब्दो लोकवाची । द्योतमानस्य स्वर्गाख्यस्य लोकस्य संबन्धिनं वाजं सोमलक्षणमन्नम् अरुहन् यागदानादिभिः कर्मभिरन्यैश्च देवोक्तैः चमसचतुष्टयकरणादिकैः प्राप्नुवन् ॥ स्रुचेव। ‘सावेकाचः' इति विभक्तेरुदात्तत्वम्। जुहवाम। ‘हु दानादनयोः' । लोटि ‘ आडुत्तमस्य पिच्च ' इति आडागमः । विद्मना । ‘ विद ज्ञाने'। औणादिको मनिः । न संयोगाद्वमन्तात् ' इति अल्लोपाभावः । तरणित्वा । ‘तॄ प्लवनतरणयोः । ‘ अर्तिसृभृधृधम्यश्यवितॄभ्योऽनिः' इति कर्तरि अनिप्रत्ययः । तस्य भावस्तरणित्वम् । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । सश्चिरे । ग्लुञ्च षस्ज गतौ ' इत्यत्र सश्चिमप्येके पठन्ति । व्यत्ययेन आत्मनेपदम् । ‘ द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्' इति वचनात् द्विर्वचनाभावः । इरेचश्चित्त्वादन्तोदात्तत्वम् । ‘यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । अरुहन् । रुह बीजजन्मनि प्रादुर्भावे च ' । लुङि ‘ कृमृ दृरुहिभ्यश्छन्दसि' इति च्लेः अङादेशः । दिवः ।' उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । रजः । ‘ रञ्ज रागे' । रजन्त्यस्मिन्निति रजो लोकः । तदुक्तं -' लोका रजांस्युच्यन्ते ' ( निरु. ४. १९) इति । औणादिकोऽधिकरणे असुन्। ‘ रजकरजनरजःसूपसंख्यानम् ' इति नलोपः । ‘ सुपां सुलुक्° ' इति षष्ठ्या लुक् ॥
“To the leaders (of the sacrifice), dwelling in the firmament, we present, as with a ladle, the appointed clarified butter, and praise with knowledge those Ṛbhus, who, having equalled the velocityof the protector (of the universe, the sun), ascended to the region of heaven, through (the offerings) of (sacrificial) food.”
As oil in ladles, we through knowledge will present unto the Heroes of the firmament our hymn,--
The Rbhus who came near with this great Father's speed, and rose to heaven's high sphere to eat the strengthening food.
Let us pour an inspired thought with our know-how, like ghee with a ladle, for the men of the midspace.
Those who by their surpassing skill followed (the way) of the father of this one, the R̥bhus mounted to their prize, the realm of heaven.
Des Luftraums Männern wollen kundig ein Gebet wir giessend weihen wie mit Löffeln Butterseim, Die Ribhu's, die mit ihres Vaters Siegerkraft sein Gut gewannen, stiegen auf zum Himmelsraum.
Wir wollen den Herrn des Luftreiches kundig eine Dichtung als Opfer bringen wie Schmalz mit dem Löffel. Die Ribhu´s, die die Pünktlichkeit seines Vaters erreichten, die haben als Lohn den Himmelsraum erklommen.
Мы хотим искусно принести в жертву молитву
Мужам воздушного пространства, как (приносят в жертву) жир ложкой.
Рибху, которые благодаря (своему) успеху последовали за этим отцом,
Поднялись в область неба за наградой.
ऋ॒भुर्न॒ इन्द्र॒: शव॑सा॒ नवी॑यानृ॒भुर्वाजे॑भि॒र्वसु॑भि॒र्वसु॑र्द॒दिः । यु॒ष्माकं॑ देवा॒ अव॒साह॑नि प्रि॒ये॒३॒॑ऽभि ति॑ष्ठेम पृत्सु॒तीरसु॑न्वताम् ॥
ऋ॒भुः । नः॒ । इन्द्रः॑ । शव॑सा॑ । नवी॑यान् । ऋ॒भुः । वाजे॑भिः । वसु॑ऽभिः । वसुः॑ । द॒दिः । यु॒ष्माक॑म् । देवाः॑ । अव॑सा । अह॑नि । प्रि॒ये । अ॒भि । ति॒ष्ठे॒म॒ । पृ॒त्सु॒तीः । असु॑न्वताम् ॥
ऋभुर्विभ्वा वाज इति त्रयः सुधन्वनः पुत्राः । तत्र शवसा बलेन नवीयान् नवतरः प्रशस्ततरः ऋभुः नः अस्माकम् इन्द्रः परमेश्वरः । अस्माकं रक्षक इत्यर्थः । यद्वा । इन्द्र एव प्रसंगात् उरुभातीति नैरुक्तव्युत्पत्या्र ऋभुरिति स्तूयते । अपि च वाजेभिः वाजैरस्मभ्यं दातव्यैरन्नैः वसुभिः निवासहेतुभिर्धनैश्च ऋभुः वसुः अस्माकं निवासयिता अत एव ददिः तेषामन्नानां धनानां च दाता भवतु । परोऽर्धर्चः प्रत्यक्षकृतः । हे देवाः दानादिगुणयुक्ता ऋभुप्रभृतयः युष्माकं संबन्धिना अवसा रक्षणेन युक्ते प्रिये अस्माकमनुकूले अहनि दिवसे वर्तमाना वयम् असुन्वतां सुन्वद्यजमानविरोधिनां शत्रूणां पृत्सुतीः सेना अभि तिष्ठेम ‘ ॥ नवीयान् । नवशब्दात् आतिशायनिक ईयसुन्। वाजेभिः । ‘ बहुलं छन्दसि' इति भिस ऐसभावः । वसुः । ‘वस निवासे' । अस्मात् अन्तर्भावितण्यर्थात् ‘ शॄस्वृस्निहि°' इत्यादिना उप्रत्ययः । नित्' इत्यनुवृत्तेरादेयुदात्तत्वम् । ददिः । डुदाञ् दाने ' । ‘ आगमहन' इति किप्रत्ययः । लिङ्वद्भावात् द्विर्भावादि । ‘आतो लोप इटि च' इति आकारलोपः ॥
“The most excellent Ṛbhu is in strength our defender; Ṛbhu, through gifts of food and of wealth, is our asylum; may he bestow them upon us, Gods, through your protection; may we, upon a favourable occasion, overcome the hosts of those who offer no libations.”
Rbhu to us is Indra freshest in his might, Rbhu with powers and wealth is giver of rich gifts.
Gods, through your favour may we on the happy day quell the attacks of those who pour no offerings forth.
(One) R̥bhu is for us a newer Indra by his power; (another) R̥bhu is a good one by his goods, a giver by his prizes.
With the help of you, o gods, on a favorable day may we stand up to the battle thrusts of those who don’t press soma.
Durch Kraft ist Ribhu uns ein neuer Indra nun, durch gute Macht ein guter Geber Ribhu uns, Durch eure Gunst, o Götter, lasst bezwingen uns an günst'gem Tag der Somalosen Ungestüm.
Ribhu ist uns an Kraft ein neuer Indra, Ribhu mit den Vaja´s und Vasu´s ein gütiger Geber. Mit eurer Hilfe, ihr Götter, wollen wir an dem günstigen Tage die Anfeindungen derer, die keinen Soma pressen, bestehen.
Рибху для нас по (своей) силе – как более новый Индра,
Рибху вместе с Ваджами и Васу – сам Васу, щедро дающий.
С вашей помощью, о боги, в благоприятный день
Мы хотим устоять против нападок тех, кто не выжимает (сому).
निश्चर्म॑ण ऋभवो॒ गाम॑पिंशत॒ सं व॒त्सेना॑सृजता मा॒तरं॒ पुन॑: । सौध॑न्वनासः स्वप॒स्यया॑ नरो॒ जिव्री॒ युवा॑ना पि॒तरा॑कृणोतन ॥
निः । चर्म॑णः । ऋ॒भ॒वः॒ । गाम् । अ॒पिं॒श॒त॒ । सम् । व॒त्सेन॑ । अ॒सृ॒ज॒त॒ । मा॒तर॑म् । पुन॒रिति॑ । सौध॑न्वनासः । सु॒ऽअ॒प॒स्यया॑ । नरः॑ । जिव्री॒ इति॑ । युवा॑ना । पि॒तरा॑ । अ॒कृ॒णो॒त॒न॒ ॥
पुरा कस्यचिदृषेर्धेनुर्मृता। स ऋषिस्तस्या धेनोर्वत्सं दृष्ट्वा ऋभुं तुष्टाव। भवस्तत्सदृशीमन्यां धेनुं कृत्वा तदीयेन चर्मणा संवीय तेन वत्सेन समयोजयन्निति । अयमर्थः पूर्वार्धे प्रतिपाद्यते । हे ऋभवः यूयं चर्मणः चर्मणा त्वचा । तृतीयार्थे षष्ठी । गां धेनुं निः अपिंशत निःशेषेणाश्लिष्टां संयुक्तामकुरुत । तदनन्तरं मातरं तां गां पुनः वत्सेन सम् असृजत संसृष्टामकुरुत समगमयतेति यावत् । अपि च हे सौधन्वनासः सुधन्वनः आङ्गिरसस्य पुत्राः नरः यज्ञस्य नेतारः ऋभवः स्वपस्यया शोभनकर्मेच्छया योगदानाद्याचरणेनेति यावत् । जिव्री जीर्णौ वृद्धौ पितरा मातापितरौ युवाना पुनर्यौवनोपेतौ अकृणोतन यूयमकृढ्वम् ॥ अपिंशत । ‘ पिश अवयवे ' । तौदादिकः । ‘ शे मुचादीनाम्' इति नुम् । सौधन्वनासः । सुधन्वनः पुत्राः सौधन्वनाः । अन् ( पा. सू. ६. ४. १६७ ) इति प्रकृतिभावः । ‘ आज्जसेरसुक्'। ‘ आमन्त्रितस्य च ' इत्याद्युदात्तत्वम् । स्वपस्यया । शोभनमपः स्वपः । तदिच्छा स्वपस्या। सुप आत्मनः क्यच् । 'अ प्रत्ययात्' इति भावे अकारप्रत्ययः ॥ जिव्री । ‘ जॄष् वयोहानौ ' । जॄशस्तॄजागृभ्यः क्विन्' ( उ. सू. ४. ४९४ ) । 'ऋत इद्धातोः' इति इत्वम् । रेफवकारयोः स्थानविपर्ययः । बहुलवचनात् ‘हलि च ' इति दीर्घाभावः । नित्त्वादाद्युदात्तत्वम् । युवाना । ‘ सुपां सुलुक्' इति विभक्तेः आकारः । पितरा । पिता च माता च पितरौ । ‘ पिता मात्रा ' ( पा. सू. १. २. ७० ) इति पिता शिष्यते । पूर्ववत् विभक्तेः आकार: । अकृणोतन । ‘ कृवि हिंसाकरणयोश्च । इदित्वात् नुम् । धिन्विकृण्व्योर च ' इति उप्रत्ययः; तत्संनियोगेन वकारस्य च अकारः । अतो लोपे सति तस्य स्थानिवद्भावात् लघूपधगुणाभावः । लङ्मध्यमबहुवचनस्य तशब्दस्य ‘तप्तनप्तनथनाश्च ' इति तनबादेशः । तस्य पित्त्वेन ङित्त्वाभावाद्गुणः ॥
“Ṛbhus, you covered the cow with a hide, and reunited themother with the calf; sons of Sudhanvan, leaders (of sacrifice), through your good works you rendered your aged parents young.”
Out of a skin, O Rbhus, once ye formed a cow, and brought the mother close unto her calf again.
Sons of Sudhanvan, Heroes, with surpassing skill ye made your aged Parents youthful as before.
O R̥bhus, you carved out a cow from a hide; you sent the mother to join with her calf again.
O sons of Sudhanvan, superior men, with your skillful work you made your two elderly parents young.
Ihr habt, o Ribhu's, aus dem Fell die Kuh geformt, die Mutter habt ihr wieder mit dem Kalb vereint, Ihr habt mit Kunst, o Helden aus Sudhanvans Stamm, die altersschwachen Aeltern wieder jung gemacht.
Aus dem Fell formtet ihr Ribhu´s eine Kuh und ließet die Mutter wieder mit dem Kalb zusammen. Ihr Söhne des Sudhanvan, durch eure Kunstfertigkeit machtet ihr die greisen Eltern jung.
Из шкуры, о Рибху, вы изготовили корову,
Мать вы снова соединили с теленком.
О сыновья Судханвана, благодаря (вашему) прекрасному искусству, о мужи,
Старых родителей вы сделали юными.
वाजे॑भिर्नो॒ वाज॑सातावविड्ढ्यृभु॒माँ इ॑न्द्र चि॒त्रमा द॑र्षि॒ राध॑: । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
वाजे॑भिः । नः॒ । वाज॑ऽसातौ । अ॒वि॒ड्ढि॒ । ऋ॒भु॒मान् । इ॒न्द्र॒ । चि॒त्रम् । आ । द॒र्षि॒ । राधः॑ । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
हे इन्द्र ऋभुमान् । ऋभुर्विभ्वा वाज इति त्रयोऽपि ऋभुशब्देनोपचारादत्रोच्यन्ते । तैर्युक्तस्त्वं वाजसातौ वाजस्यान्नस्य संभजने निमित्तभूते सति वाजेभिः अन्नैः अविड्ढि अस्मान् व्याप्नुहि । यद्वा । वाजसातिरिति संग्रामनाम । वाजसातौ संग्रामे वाजेभिर्वेजनयुक्तैरश्वैरविड्ढि अस्मान् रक्ष । अपि च चित्रं चायनीयं राधः धनम् आ दर्षि अस्मभ्यं दातुमाद्रियस्व । तृतीयसवने ऋभुभिः सहेन्द्रस्यावस्थानात् प्रसंगादत्रेन्द्रस्तुतिः । यदेतदस्माभिः प्रार्थितमस्मदीयं तत् मित्रादयः ममहन्तां पूजयन्ताम् ॥ वाजसातौ । ‘ वन षण संभक्तौ । भावे क्तिन् । ‘ जनसनखनां सञ्झलोः' इति आत्वम् । वाजानां सातिर्यस्मिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अविड्ढि । ‘ विष्लृ व्याप्तौ । लोटो हिः । ‘ बहुलं छन्दसि ' इति शपो लुक् । ‘हुझल्भ्यो हेर्धिः' । ष्टुत्वजश्त्वे । छन्दस्यपि दृश्यते' (पा. सू. ६. ४. ७३ ) इति दृशिग्रहणात् लोटि अडागमः । यद्वा । अवतेर्लोटि • सिब्बहुलं लेटि ' इति बहुलवचनात् विकरणः सिप् । तस्यार्धधातुकत्वात् इट् । ‘ आदेशप्रत्यययोः' इति षत्वम् । धित्वादि पूर्ववत् । ऋभुमान् । 'ह्रस्वनुड्भ्यां मतुप ' इति मतुप उदात्तत्वम् । दर्षि । दृङ् आदरे । लोटि व्यत्ययेन परस्मैपदम् । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ॥ ॥ ३१ ॥
“Indra, associated with the Ṛbhus, supply us, in the distribution of viands, with food, and consent to bestow upon us wonderful riches; and may Mitra, Varuṇa, Aditi--ocean, earth, and heaven, preserve them fo rus.”
Help us with strength where spoil is won, O Indra: joined with the Rbhus give us varied bounty.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
Aid us with prizes at the winning of prizes: o Indra, accompanied by the R̥bhus, break out bright benefit.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
Mit Labung hilf uns bei dem Kampf um Labung, mit Ribhu gib uns, Indra, reiche Gabe. Das mög' uns Mitra, Varuna gewähren und Aditi, das Meer, und Erd' und Himmel.
Steh uns mit den Vaja´s bei dem Lohngewinn bei: im Verein mit den Ribhu´s schlag uns, o Indra, eine ansehnliche Ehrengabe heraus! - Das sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
С Ваджами поддержи нас в завоевании награды!
Сопровождаемый Рибху, о Индра, раскрой блестящий дар!
Пусть это нам щедро даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!