तक्ष॒न्रथं॑ सु॒वृतं॑ विद्म॒नाप॑स॒स्तक्ष॒न्हरी॑ इन्द्र॒वाहा॒ वृष॑ण्वसू । तक्ष॑न्पि॒तृभ्या॑मृ॒भवो॒ युव॒द्वय॒स्तक्ष॑न्व॒त्साय॑ मा॒तरं॑ सचा॒भुव॑म् ॥
तक्ष॑न् । रथ॑म् । सु॒ऽवृत॑म् । वि॒द्म॒नाऽअ॑पसः । तक्ष॑न् । हरी॒ इति॑ । इ॒न्द्र॒ऽवाहा॑ । वृष॑ण्वसू॒ इति॒ वृष॑ण्ऽवसू । तक्ष॑न् । पि॒तृऽभ्या॑म् । ऋ॒भवः॑ । युव॑त् । वयः॑ । तक्ष॑न् । व॒त्साय॑ । मा॒तर॑म् । स॒चा॒ऽभुव॑म् ॥
विद्मनापसः उत्कृष्टेन ज्ञानेन निष्पाद्यकर्माणो लाभवत्कर्माणः वा ऋभवः रथम् अश्विनोः आरोहणार्थं सुवृतं शोभनवर्तनं सुचक्रं वा तक्षन् अकुर्वन् । तथा इन्द्रवाहा इन्द्रस्य वाहनभूतौ हरी । हरणशीलावेतत्संज्ञकावश्वौ तक्षन् कृतवन्तः । कीदृशौ । वृषण्वसू सेचनसमर्थेन दृढतरेण धनेन बलेन वा युक्तौ । अपि च पितृभ्यां स्वकीयाभ्यां मातापितृभ्यां वृद्धाभ्यां युवत् यौवनोपेतं वयः आयुः ऋभवः तक्षन् कृतवन्तः । तथा वत्साय मातरं गां सचाभुवं सहभुवं सह वर्तमानां तक्षन् अकुर्वन् ॥ तक्षन् । तक्षू त्वक्षू तनूकरणे ' । लङि • बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । सुवृतम् । शोभनं वर्तते इति सुवृत् ।' वृतु वर्तने । ‘ क्विप् च ' इति क्विप् । विद्मनापसः । ‘ विद ज्ञाने'। अन्येभ्योऽपि दृश्यन्ते ' इति दृशिग्रहणात् भावे मनिन् । संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणाभावः । बहुलवचनात् अलुक् । यद्वा । ‘ विद्लृ लाभे' । औणादिको भावे मक् । ततः पामादिलक्षणो नप्रत्ययः । विद्मनं लाभवत् अपः कर्म येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । छान्दसः पूर्वसवर्णदीर्घः । इन्द्ववाहा । इन्द्रं वहतः इतीन्द्रवाहौ ।' वहश्च ' इति ण्विप्रत्ययः । ‘ अत उपधायाः' इति वृद्धिः । ‘ सुपां सुलुक्' इति विभक्तेः आकारः । वृषण्वसू । वृष सेचने । ‘ कनिन्युवृषितक्षि° ' इत्यादिना कनिन् । नित्त्वादाद्युदात्तत्वम् । वृषण्वस्वश्वयोरुपसंख्यानम् । ( पा. सू. १. ४. १८. ४) इति वसुशब्दे उत्तरपदे वृषण्भावः । . बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । युवत् । अत्र युवञ्शब्दः सामर्थ्यात् प्रवृत्तिनिमित्तं युवत्वमात्रमाचष्टे । तदस्यास्त्यस्मिन्” इति युवत् छान्दसो वर्णलोपः ॥
“The Ṛbhus, possessed of skill in their work, constructed (for the Aśvins) a well-built car; they framed the vigorous horses bearing Indra; they gave youthful existence to their parents; they gave to the calf its accompanying mother.”
WORKING with skill they wrought the lightly rolling car: they wrought the Bays who bear Indra and bring great gifts.
The Rbhus for their Parents made life young again; and fashioned for the calf a mother by its side.
They fashioned the smooth-rolling chariot, working with their
know-how; they fashioned the two fallow bays that convey Indra and bring bullish goods.
They fashioned—the R̥bhus—for their parents youthful vigor; they fashioned for the calf a mother to stay by it.
Den schnellen Wagen schuf die weise Künstlerschar, die stiergewalt'gen Füchse, die den Indra ziehn, Die Ribhu's schufen Jugendkraft dem Aelternpaar, dem Kalb die Mutter, die mit ihm sich neu vereint.
Sie zimmerten den gutlaufenden Wagen der Asvin, kundig zu Werk gehend; sie zimmerten das Falbenpaar, das den Indra fährt, das ......Ihren Eltern zimmerten die Ribhu´s jugendliches Alter; sie zimmerten dem Kalbe eine begleitende Mutter.
Они смастерили легкоходную колесницу со знанием дела.
Они смастерили двоих коней, везущих Индру, полных мужеских сил.
Рибху смастерили юный возраст родителям.
Они смастерили теленку мать-спутницу.
आ नो॑ य॒ज्ञाय॑ तक्षत ऋभु॒मद्वय॒: क्रत्वे॒ दक्षा॑य सुप्र॒जाव॑ती॒मिष॑म् । यथा॒ क्षया॑म॒ सर्व॑वीरया वि॒शा तन्न॒: शर्धा॑य धासथा॒ स्वि॑न्द्रि॒यम् ॥
आ । नः॒ । य॒ज्ञाय॑ । त॒क्ष॒त॒ । ऋ॒भु॒ऽमत् । वयः॑ । ऋत्वे॑ । दक्षा॑य । सु॒ऽप्र॒जाव॑तीम् । इष॑म् । यथा॑ । क्षया॑म । सर्व॑ऽवीरया । वि॒शा । तत् । नः॒ । शर्धा॑य । धा॒स॒थ॒ । सु । इ॒न्द्रि॒यम् ॥
हे ऋभवः नः अस्माकं यज्ञाय यज्ञार्थं ऋभुमत् उरुभासनयुक्तं वयः हविर्लक्षणमन्नम् आ तक्षत आ समन्तादुत्पादयत । एतदेव विव्रियते। क्रत्वे क्रतवेऽस्मदीयाय कर्मणे दक्षाय बलाय च ॥ तादर्थ्ये चतुथीं। एतदुभयार्थं सुप्रजावती शोभनाभिः पुत्रपौत्रादिलक्षणाभिः प्रजाभिर्युक्ताम् इषम् अन्नम् आ तक्षत इति शेषः । अपि च सर्ववीरया सर्वैर्वीरैः पुत्रादिभिरुपेतया विशा प्रजया सह यथा येन प्रकारेण क्षयाम सुखेन निवसाम तत् तादृशम् इन्द्रियम् । धननामैतम् । धनं नः अस्मभ्यं शर्धाय बलार्थं सु धासथ सुष्ठु धत्त प्रयच्छतेत्यर्थः ॥ ऋभुमत् । उरु भाति' इति नैरुक्तव्युत्पत्त्या (निरु. ११. १५) ऋभुशब्दः प्रकाशमात्रवाची। ‘ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । क्रत्वे । जसादिषु च्छन्दसि वावचनम्' इति ‘घेर्ङिति ' इति गुणाभावे यणादेशः । क्षयाम् । ‘क्षि निवासगत्योः' । व्यत्ययेन शप् । धासथ । धाञो लेटि अडागमः। ‘सिब्बहुलं लेटि' इति सिप् । अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् ॥
“Prepare fully for our sacrifice resplendent sacrificial food, and for our rite and for our strength, such nutriments as may be the cause of excellent progeny, so that we may live (surrounded) by vigorous descendants, such wealth do you confer upon us for our benefit.”
For sacrifice make for us active vital power for skill and wisdom food with noble progeny.
Grant to our company this power most excellent, that with a family all-heroic we may dwell.
For our sacrifice fashion R̥bhu-like vigor; for will, for skill (fashion) refreshment along with good offspring.
So that we may dwell peacefully with a clan possessing hale heroes, you shall establish this Indrian strength for our troop.
Für unser Opfer schafft uns rüst'ge Jugendkraft, zu Macht und Weisheit kinderreiche Labung uns, Und unsrer Schar verleihet solche Indramacht, dass fest wir wohnen mit dem ganzen Heldenstamm.
Zimmert uns meisterliche Kraft für das Opfer zu Rat und Tat, reichen Kindersegen! Daß wir mit unserem Stamm aus vollzähligen Mannen sicher wohnen, möget ihr unserer Heerschar doch ja die indragleiche Kraft verleihen.
Сладьте нам за жертву жизненную силу, как это свойственно Рибху,
За силу духа, за силу действия – подкрепление, состоящее из прекрасного потомства!
Чтобы жили мы племенем здоровых мужей,
Щедро даруйте нашему войску силу Индры!
आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा॑य सा॒तिमर्व॑ते नरः । सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा॑ जा॒मिमजा॑मिं॒ पृत॑नासु स॒क्षणि॑म् ॥
आ । त॒क्ष॒त॒ । सा॒तिम् । अ॒स्मभ्य॑म् । ऋ॒भ॒वः॒ । सा॒तिम् । रथा॑य । सा॒तिम् । अर्व॑ते । न॒रः॒ । सा॒तिम् । नः॒ । जैत्री॑म् । सम् । म॒हे॒त॒ । वि॒श्वऽहा॑ । जा॒मिम् । अजा॑मिम् । पृत॑नासु । स॒क्षणि॑म् ॥
हे नरः यज्ञस्य नेतारः ऋभवः अस्मभ्यम् अनुष्ठातृभ्यः सातिं संभजनीयमन्नं धनं वा आ तक्षत । अ समन्तात्कुरुत। तथा अस्मदीयाय रथाय रंहणशीलाय पुत्रादये रथायैव वा सातिं संभजनीयं धनम् आतक्षत । तथा अर्वते अश्वाय सातिं संभजनीयमन्नं धनं वा अश्वयोग्यम् आतक्षतेत्येव । किं च विश्वहा सर्वेष्वहःसु नः अस्माकं जैत्रीं जयशीलामपरिमितत्वेन सर्वाधिकां सातिं संभजनीयं धनं सं महेत । सर्वो जनः सम्यक् पूजयतु। वयं च पृतनासु संग्रामेषु जामिं सहजातम् अजामिं सहानुत्पन्नं शत्रुं वा सक्षणिम् अस्मानभिभवन्तं युष्मत्प्रसादादभिभवेमेति शेषः ॥ सातिम् । ‘ ऊतियूतिजूतिसाति° ' इत्यादिना क्तिन उदात्तत्वम् । महेत । मह पूजायाम् । सक्षणिम् । षह अभिभवे । औणादिकः सनिप्रत्ययः । ढत्वकत्वषत्वानि ॥
“Ṛbhus conductors (of sacrifice), bestow ample sustenance upon us, upon our chariots, upon our horses; let every one daily acknowledge our victorious wealth, and may we triumph in battle over our foes; whether strangers or kinsmen.”
Do ye, O Rbhus, make prosperity for us, prosperity for car, ye Heroes, and for steed.
Grant us prosperity victorious evermore,
conquering foes in battle, strangers or akin.
Fashion winning for us, o R̥bhus, winning for our chariot, winning for our steed, o men.
Might you bring to pass victorious winning for us always, conquering kin and non-kin in battles.
O Ribhu's, schafft, o Helden, uns Gewinn herbei, Gewinn dem Wagen, und Gewinn dem Renner auch, Des Siegs Gewinn lasst uns erlangen jederzeit, durch den im Kampf wir Freund und Feind bewältigen.
Zimmert uns Gewinn, ihr Ribhu´s, Gewinn dem Wagen, Gewinn dem Rennpferd, ihr Herren! Siegreichen Gewinn möget ihr uns allezeit schenken, einen Verwandt wie Fremd in den Kämpfen überwindenden Helden.
Сладьте нам удачу, о Рибху,
Удачу колеснице, удачу скакуну, о мужи!
Щедро наделяйте нас удачей, достойной победителя, - все дни,
(Героем,) одолевающим в боях (врага,) будь то кровный родственник или чужой!
ऋ॒भु॒क्षण॒मिन्द्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा॑न्म॒रुत॒: सोम॑पीतये । उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो॑ हिन्वन्तु सा॒तये॑ धि॒ये जि॒षे ॥
ऋ॒भु॒क्षण॑म् । इन्द्र॑म् । आ । हु॒वे॒ । ऊ॒तये॑ । ऋ॒भून् । वाजा॑न् । म॒रुतः॑ । सोम॑ऽपीतये । उ॒भा । मि॒त्रावरू॑णा । नू॒नम् । अ॒श्विना॑ । ते । नः॒ । हि॒न्व॒न्तु॒ । सा॒तये॑ । धि॒ये । जि॒षे ॥
ऋभुक्षणम् । महन्नामैतत् । महान्तम् इन्द्रम् आ हुवे आह्वयामि। किमर्थम्। ऊतये रक्षणार्थम् । तथा ऋभून्वाजान् । ऋभुर्विभ्वा वाज इति त्रयः सुधन्वनः पुत्राः। तत्र प्रथमोत्तमवाचकशब्दाभ्यां मध्यमोऽपि लक्ष्यते । अतः शब्दद्वयेन त्रयोऽप्युच्यन्ते । तदुक्तं यास्केन - ‘ प्रथमोत्तमाभ्यां बहुवन्निगमा भवन्ति न मध्यमेन' (निरु. ११. १६) इति । एवंविधानृभून् मरुतः च सोमपीतये सोमपानायाह्वयामि । तथा उभा युगलरूपेण संहत्य वर्तमानौ द्वौ मित्रावरुणावश्विनौ च नूनम् अवश्यं सोमपानायाह्वयामीति शेषः । अपि च आहूताश्चेन्द्रादयः नः अस्मान् हिन्वन्तु प्रेरयन्तु गमयन्त्वित्यर्थः । किमर्थम् । सातये संभजनीयाय धनाय धिये धनसाध्याय कर्मणे जिषे जेतुं शत्रूणां जयार्थं च ॥ ऋभुक्षणम् । उरुभासमाने स्थाने क्षियति निवसतीति ऋभुक्षाः । उरुपूर्वाद्भातेः ' मृगय्वादयश्च' ( उ. सू. १. ३७ ) इति कुप्रत्ययः । ‘ आतो लोप इटि च ' इति आकारलोपः पूर्वपदस्य ऋभावश्च । ऋभुशब्दोपपदात् ' क्षि निवासगत्योः' इत्यस्मात् ‘ पतेस्थ च ' इति विधीयमान इनिप्रत्ययो बहुलवचनात् भवति । टिलोपः । ‘ इतोऽत्सर्वनामस्थाने ' ( पा. सू. ७. १. ८६ ) इति अत्वम् इकारस्य । ‘ वा षपूर्वस्य निगमे ' इति विकल्पनात् उपधादीर्घाभावः । यद्वा । अर्तेः भुक्षिनक्। कित्त्वाद्गुणाभावः । अत एव न अवगृह्यते । सोमपीतये । 'पा पाने '। 'स्थागापापचो भावे ' इति भावे क्तिन् । ‘ घुमास्था° ' इति ईत्वम् । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । हिन्वन्तु । ' हि गतौ वृद्धौ च ' । अस्मात् अन्तर्भावितण्यर्थात् लोटि स्वादित्वात् श्नुः । जिषे। ‘जि जये। ‘ तुमर्थे सेसेन्” इति क्सेप्रत्ययः ॥
“I invoke the mighty Indra for protection, and the Ṛbhu, Vājas and Maruts to drink the Soma, also both Mitra, Varuṇa and the Aśvins; and may they direct us to opulence, to holy rites, and to victory.”
Indra, the Rbhus' Lord, I invocate for aid, the Rbhus, Vajas, Maruts to the Soma draught.
Varuna, Mitra, both, yea, and the Asvins Twain: let them speed us to wealth, wisdom, and victory.
Indra, master of the R̥bhus, do I call upon for help, and the R̥bhus, the Vājas, the Maruts for soma-drinking.
Both Mitra and Varuṇa now and both the Aśvins—let them impel us to winning, to insight, to victory.
Den Ribhuherrscher Indra ruf' zu Hülfe ich, die Ribhu's, Vadscha's, Maruts zu dem Somatrunk; Die beiden Mitra, Varuna, die Ritter nun, dass sie uns fördern zu Gewinn, zu Muth und Sieg.
Den Indra Ribhuksan rufe ich herbei zum Beistand, die Ribhu´s die Vaja´s, die Marut zum Somatrunk, Mitra und Varuna, das Paar, und die Asvin jetzt: die sollen uns aneifern, daß das Gedicht den Preis gewinne.
Рибхукшана-Индру я призываю на помощь,
(Всех) Рибху, Ваджу, Марутов – на питье сомы,
Обоих: Митру и Варуну, (а также) теперь (и) Ашвинов:
Пусть они вдохновят нас на удачу, на поэтическое творчество, на победу!
ऋ॒भुर्भरा॑य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो॑ अ॒स्माँ अ॑विष्टु । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
ऋ॒भुः । भरा॑य । सम् । शि॒शा॒तु॒ । सा॒तिम् । स॒म॒र्य॒ऽजित् । वाजः॑ । अ॒स्मान् । अ॒वि॒ष्टु॒ । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
ऋभुः प्रथमोऽस्माकं सातिं संभजनीयं धनं भराय संग्रामार्थं सं शिशातु सम्यक् तीक्ष्णीकरोतु । संग्रामोचितं धनमस्मभ्यं प्रयच्छत्वित्यर्थः । तथा समर्यजित् । मर्या मनुष्याः । तैः सह वर्तते इति समर्यः संग्रामः । तत्र शत्रूणां जेता वाजः एतत्संज्ञस्तृतीयश्च अस्मान् स्तोतॄन् अविष्टु अवतु संग्रामाद्रक्षत्वित्यर्थः । यदनेन सूक्तेन प्रार्थितमस्मदीयं तत् मित्रादयः ममहन्तां पूजयन्तु ॥ शिशातु । ‘ शो तनूकरणे'। बहुलं छन्दसि ' इति विकरणस्य श्लुः। ‘आदेचः' इति आत्वम् । द्विर्भावः । ह्रस्वत्वे ‘बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । अविष्टु । अवतेर्लोटि ‘सिब्बहुलं लेटि' इति बहुलग्रहणात् सिप् । इडागमः । षत्वष्टुत्वे ॥ ॥ ३२ ॥
“May Ṛbhu supply us with wealth for war; may Vāja, victorious in battle, protect us, and may Mitra, Varuṇa, Aditi--ocean, earth, and heaven, be propitious ot this our prayer.”
May Rbhu send prosperity for battle, may Vaja conquering in the fight protect us.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
Let R̥bhu sharpen winning for the taking; let Vāja, victorious in the clash, help us.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
Gewinn beeile Ribhu für die Schlacht uns, uns helfe Vadscha, der in Kämpfen sieget, Das mög' uns Mitra, Varuna gewähren und Aditi, das Meer und Erd' und Himmel.
Ribhu soll uns scharf machen, daß wir den Gewinn davontragen; Vaja, der Sieger im Wettstreit, soll uns beistehen. - Das sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel.
Да отточит Рибху для нас удачу, чтоб (мы) унесли (награду)!
Да поможет нам Ваджа, побеждающий в соревнованиях!
Пусть это нам щедро даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!