ईळे॒ द्यावा॑पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम॑न्नि॒ष्टये॑ । याभि॒र्भरे॑ का॒रमंशा॑य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
ईळे॑ । द्यावा॑पृथि॒वी इति॑ । पू॒र्वऽचि॑त्तये । अ॒ग्निम् । घ॒र्मम् । सु॒ऽरुच॑म् । याम॑न् । इ॒ष्टये॑ । याभिः॑ । भरे॑ । का॒रम् । अंशा॑य । जिन्व॑थः । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
अहं द्यावापृथिवी द्यावापृथिव्यौ ईळे स्तौमि । किमर्थम् । पूर्वचित्तये पूर्वमेवाश्विनोः प्रज्ञापनाय । ते ह्यश्विनोः प्रत्यासन्ने । यद्वा । द्यावापृथिवी अश्विनौ स्तौमि पूर्वचित्तये अन्यदीयात्स्तोत्रात्पूर्वमेवास्मदीयस्य स्तोत्रस्य प्रबोधनाय । तथा चोक्तं - ’तत्कावश्विनौ द्यावापृथिव्यावित्येके' ( निरु. १२. १) इति । अपि च यामन् यामनि अश्विनोरागमने सति इष्टये तदीययागार्थमाहवनीयरूपेण स्थापितम् अग्निं स्तौमीति शेषः । कीदृशमग्निम् । घर्मं प्रवृञ्जनेन दीप्तं सुरुचम् अत एव शोभनकान्तियुक्तम् । हे अश्विनौ भरे । संग्रामनामैतत् । संग्रामे अंशाय युष्मदीयभागाय जयप्राप्त्यर्थं याभिः ऊतिभिः पालनैः सहागत्य कारम् । कारशब्दः शङ्खवाचीत्यभियुक्ताः संगिरन्ते । कारं शब्दकारिणं शङ्खं जिन्वथः मुखेनापूरयथः ताभिः तादृशैः ऊतिभिः पालनैः सह। उ इति समुच्चये । अस्मानपि सुष्ठु आ गतम् आगच्छतम् ॥ ईळे । ‘ईड स्तुतौ ' । उत्तमैकवचनम् इट् । अदादित्वात् शपो लुक् । अनुदात्तेत्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । द्यावापृथिवी । द्यौश्च पृथिवी च । ‘दिवो द्यावा' इति द्यावादेश आद्युदात्तो निपातितः । पृथिवीशब्दो ङीपन्तः अन्तोदात्तः । ‘देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् । ‘°अपृथिवी ' इति पर्युदासात् ‘नोत्तरपदेऽनुदात्तादौ ' इति निषेधाभावः। ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । पूर्वचित्तये । ‘चिती संज्ञाने' । अस्मात् अन्तर्भावितण्यर्थात् भावे क्तिन् । मरुवृधादित्वात् पूर्वपदान्तोदात्तत्वम् । सुरुचम् । ‘रुच दीप्तावभिप्रीत्यां च' संपदादिलक्षणो भावे क्विप् । शोभना रुग्यस्य । ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यामन् । ' या प्रापणे ' । आतो मनिन् ' इति ‘कृत्यल्युटो बहुलम्' इति बहुलवचनात् भावे मनिन् । कारम् । क्रियतेऽनेनेति कारः । करणे घञ् । 'कर्षात्वतः' इत्यन्तोदात्तत्वम् । जिन्वथः । ‘जिवि प्रीणनार्थः । अत्र प्रीणनहेतुभूतमापूरणं लक्ष्यते । धनेनापूरितो हि पुरुषः प्रीतो भवति । इदित्त्वात् नुम् । भौवादिकः । शपः पित्त्वादनुदात्तत्वम् । तिङः अदुपदेशात् लसार्वधातुकस्वरेण धातुस्वरः शिष्यते ।' यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । तत्र हि व्यवहितेऽपि कार्यमिष्यते (का. ८. १. ६६ ) इत्युक्तम् । ऊ षु ।“ इकः सुञि' इति दीर्घत्वम् । सुञः' इति पत्वम् । ईषाअक्षादित्वात् सुञ उकारस्य प्रकृतिभावः । ऊतिभिः । अवतेर्भावे क्तिन् । ज्वरत्वर' इत्यादिना वकारस्य उपधायाश्च ऊठ् ।ऊतियूति' इत्यादिना निपातनात् क्तिन उदात्तत्वम् । गतम् । गमेर्लोटि ‘बहुलं छन्दसि' इति विकरणस्य लुक् । ' अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः ॥
“I praise Heaven and Earth for preliminary meditation, (prior to the coming of the Aśvins); I praise the hot and bright-shining Agni upon their approach, (as preparatory) to their worship; with those appliances with which you sound the conch-shell in battle for your share (in the booty), with those aids, Aśvins, come willingly hither.”
To give first thought to them, I worship Heaven and Earth, and Agni, fair bright glow, to hasten their approach.
Come hither unto us, O Asvins, with those aids wherewith in fight ye speed the war-cry to the spoil.
I reverently invoke Heaven and Earth, to be first in their thought; (I reverently invoke) Agni and the very bright gharma drink, for (the
Aśvins) to seek on their journey.
Those with which you stimulate the decisive act in the match, for (us to gain) a share—with those forms of help come here, o Aśvins.
Zur ersten Andacht preise Erd' und Himmel ich, die lichte Glut, den Agni, dass er eilig komm'; Mit solchen Hülfen kommt, o Ritter, schnell herbei, durch die im Kampf den Streiter ihr zur Beute führt.
Himmel und Erde rufe ich auf, um ihrer zuerst zu gedenken; ich rufe Agni, den Glanzreichen, den heißen Trank zu kochen, auf daß die Asvin in ihrer Fahrt sich beeilen. Mit den Hilfen, mit denen ihr im Kampfe unserem Einsatz zum Siege verhelfet - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Я призываю Небо-и-Землю для первого напоминания,
(Я призываю) Агни (сделать) котелок с молоком сверкающим, чтобы (Ашвины) спешили в путь.
Какими (силами) вы вызываете в состязании решающий бросок к победе,
С этими самыми поддержками приходите сюда, о Ашвины!
यु॒वोर्दा॒नाय॑ सु॒भरा॑ अस॒श्चतो॒ रथ॒मा त॑स्थुर्वच॒सं न मन्त॑वे । याभि॒र्धियोऽव॑थ॒: कर्म॑न्नि॒ष्टये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
यु॒वोः । दा॒नाय॑ । सु॒ऽभराः॑ । अ॒स॒श्चतः॑ । रथ॑म् । आ । त॒स्थुः॒ । व॒च॒सम् । न । मन्त॑वे । याभिः॑ । धियः॑ । अव॑थः । कर्म॑न् । इ॒ष्टये॑ । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
सुभराः शोभनस्तोत्रभरणाः असश्चतः अन्यत्रानासक्ताः स्तोतारो हे अश्विनौ युवोः युवयोः रथम् आ तस्थुः आतिष्ठन्ति प्राप्नुवन्ति । किमर्थम् । दानाय युष्मत्कर्तृकदानार्थम् । धनलाभायेत्यर्थः । तत्र दृष्टान्तः । वचसं न यथा न्यायोपेतेन वचसा वाक्येन युक्तं विपश्चितं मन्तवे बुभुत्सितार्थप्रतिपत्तये स्तोतारः प्राप्नुवन्ति तद्वत् । अपि च कर्मन् कर्मणि इष्टये यागार्थं प्रवृत्तान् धियः ध्यातॄन विशिष्टज्ञानोपेतान् याभिः ऊतिभिः पालनैः अवथः युवां रक्षथः । ताभिरित्यादि पूर्ववत् ॥ वचसम् । अर्शआदित्वात् मत्वर्थीयः अच् । मन्तवे । ‘मन ज्ञाने'। ‘कमिमनिजनि” ' इत्यादिना तुप्रत्ययः । धियः । ध्यायन्तीति धियः स्तोतारः । ‘ध्यै चिन्तायाम् । ‘क्विप् च ' इति क्विप् । चशब्देन दृशिग्रहणानुकर्षणात् संप्रसारणम् । कर्मन् । ‘सुपां सुलुक्' इति सप्तम्या लुक् । 'न ङिसंबुद्ध्योः' इति नलोपप्रतिषेधः ॥
“Earnest and exclusive adorers stand, Aśvins, round your car, (to benefit) by your bounty, as (disciples listen) to the words (of a teacher) for instrumental uction; with those aids with which you defend the pious who are engaged in acts of worship, come, Aśvins,wilingly hither.”
Ample, unfailing, they have mounted as it were an eloquent car that ye may think of us and give.
Come hither unto us, O Asvins, with those aids wherewith ye help our thoughts to further holy acts.
For you two to give them, inexhaustible (gifts?), easy to carry, have mounted onto your chariot, as if onto an eloquent (vehicle) for
thinking.
Those with which you help (us) to seek insights at the cultic act—with those forms of help come here, o Aśvins.
Für eure Huld bestiegen wuchtig unerschöpft den Wagen Hülfen, dass er fast zu wanken scheint, Mit solchen Hülfen kommt, o Ritter, schnell herbei, mit denen Andacht ihr beeilt beim heil'gen Werk.
Auf eurem Wagen stellten sich zum Verschenken die leichtlastenden unversieglichen Gaben ein wie bei einem Wortkundigen die Gedanken zum Ersinnen sich einstellen. Mit denen ihr Asvin die Gedanken fördert, daß sie bei der heiligen Handlung willig kommen - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Ваши неиссякающие (подарки) для раздачи, чье бремя легко,
Взошли на колесницу, как на речистого (находят мысли), чтобы придумывать гимн.
Какими (силами) вы помогаете поэтическим мыслям спешить к обряду,
С этими самыми поддержками приходите сюда, о Ашвины!
यु॒वं तासां॑ दि॒व्यस्य॑ प्र॒शास॑ने वि॒शां क्ष॑यथो अ॒मृत॑स्य म॒ज्मना॑ । याभि॑र्धे॒नुम॒स्वं१॒॑ पिन्व॑थो नरा॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
यु॒वम् । तासा॑म् । दि॒व्यस्य॑ । प्र॒ऽशास॑ने । वि॒शाम् । क्ष॒य॒थः॒ । अ॒मृत॑स्य । म॒ज्मना॑ । याभिः॑ । धे॒नुम् । अ॒स्व॑म् । पिन्व॑थः । न॒रा॒ । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
हे नरा नेतारावश्विनौ दिव्यस्य दिवि भवस्य स्वर्गसमुत्पन्नस्य अमृतस्य सोमस्य पानेनोत्पन्नेन मज्मना बलेन युक्तौ युवं युवां तासां यास्त्रिषु लोकेषु वर्तन्ते तासां सर्वासां विशां प्रजानां प्रशासने प्रकृष्टानुशासने शिक्षणे क्षयथः । ऐश्वर्यकर्मायम् । ईशाथे समर्थौ भवथः । यद्वा । मज्मना अन्येषामसाधारणेन बलेन विशां प्रजानां दिविभवस्यामृतस्य वृष्ट्युदकस्य प्रशासने प्रदाने क्षयथः ईश्वरौ भवथः । अपि च याभिः ऊतिभिः रक्षाभिः अस्वं प्रसवासमर्थां धेनुं गां शयुनाम्ने ऋषये पिन्वथः सिञ्चथः पयसा पूरितवन्तावित्यर्थः । ताभिरूतिभिरित्यादि पूर्ववत् ॥ अस्वम् ।' पूङ् प्राणिगर्भविमोचने '। सवनं सूः । संपदादिलक्षणो भावे क्विप् । नास्ति सूः यस्याम् इति असूः । ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । अमि ‘ओः सुपि ' इति यणादेशः । उदात्तस्वरितयोर्यण: ' इति परस्यानुदात्तस्य स्वरितत्वम् । पिन्वथः । पिवि सेचने '। इदित्त्वात् नुम् । भौवादिकः ॥
“By the vigour infused from celestial nectar, you are able, leaders (of sacrifice), to rule over those beings (who people the three worldds); with those aids by which you gave (milk) to the barren cow, come, Aśvins, willingly hither.”
Ye by the might which heavenly nectar giveth you are in supreme dominion Lords of all these folk.
Come hither unto us, O Asvins, with those aids wherewith ye, Heroes, made the barren cow give milk.
You two rule over these clans at the command of the divine, through the might of the immortal.
Those with which you swell the uncalved cow, you superior men—with those forms of help come here, o Aśvins.
Mit Herrscherkraft beherrschet diese Stämme ihr im Machtgebiet des himmlischen Unsterblichen; Mit solchen Hülfen kommt, o Ritter, schnell herbei, durch die die unfruchtbare Kuh ihr schwellen lasst.
Ihr habt auf Geheiß des himmlischen Geschlechts über diese Stämme die Macht kraft eures Lebensbalsams. Mit denen ihr die unfruchtbare Kuh milchreich macht, ihr Herren, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
При осуществлении божественного (промысла) вы правите
Этими племенами благодаря напитку бессмертия.
Какими (силами) вы вызвали прилив молока у яловой коровы, о мужи,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॒: परि॑ज्मा॒ तन॑यस्य म॒ज्मना॑ द्विमा॒ता तू॒र्षु त॒रणि॑र्वि॒भूष॑ति । याभि॑स्त्रि॒मन्तु॒रभ॑वद्विचक्ष॒णस्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । परि॑ऽज्मा । तन॑यस्य । म॒ज्मना॑ । द्वि॒इमा॒ता । तू॒र्षु । त॒रणिः॑ । वि॒ऽभूष॑ति । याभिः॑ । त्रि॒ऽमन्तुः॑ । अभ॑वत् । वि॒ऽच॒क्ष॒णः । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
परिज्मा परितो गन्ता वायुः तनयस्य आत्मीयस्य पुत्रस्याग्नेः । अग्निर्हि व्यानवृत्त्यात्मना वर्तमानेन वायुना मथ्यमानः सन् जायते । तथा च श्रूयते-' अथ यः प्राणापानयोः संधिः स व्यानः। अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोति ' ( छा. उ. १. ३. ३; ५) इति । यद्वा । सृष्ट्यादौ वायुसकाशादुत्पन्नत्वादग्नेः पुत्रत्वम् । आम्नायते च-’वायोरग्निः' ( तै. आ. ८. १ ) इति । एवं स्वपुत्रस्याग्नेः मज्मना बलेन युक्तः सन् द्विमाता द्वयोर्लोकयोः निर्माता । अग्निः पृथिवीस्थानो वायुरन्तरिक्षस्थानः । उभयर्मिलितयोः उभयनिर्मातृत्वमुपपन्नम् । यद्वा । द्विमातेति तनयस्य विशेषणम् । ‘सुपां सुलुक् । इति षष्ठ्याः सुः । द्विमातृकस्य द्वाभ्यामरणिभ्यां जातस्य। एवंभूतो वायुर्हे अश्विनौ याभिः ऊतिभिः हेतुभूतैः पालनैः तूर्षु तरीतृषु धावत्सु मध्ये तरणिः अतिशयेन तरीता शीघ्रगामी 'विभूषति विभवति व्याप्तो भवति । यद्वा । विशेषेण सर्वमलंकरोति । अपि च त्रिमन्तुः त्रयाणां मन्ता त्रिविधेषु पाकयज्ञहविर्यज्ञसोमयज्ञेष्वासादितज्ञानः कक्षीवान् याभिः युष्मदीयाभिरूतिभिः विचक्षणः विशिष्टज्ञानयुक्तः अभवत् । ताभिः सर्वाभिः ऊतिभिः अस्मानागच्छतम् ॥ परिज्मा । परिपूर्वात् अज गतिक्षेपणयोः' इत्यस्मात् ‘श्वन्नुक्षन् ' इत्यादौ निपात्यते । तूर्षु । ‘तॄ प्लवनतरणयोः । ‘बहुलं छन्दसि ' इति उत्वम् । हलि च ' इति दीर्घः । यद्वा । त्वरतेः क्विप् । ज्वरत्वर' इत्यादिना वकारोपधयोः ऊठ् । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । विभूषति । भवतेर्लेटि अडागमः । ‘सिब्बहुलं लेटि' इति सिप् । यद्वा । ‘भूष अलंकारे'। भौवादिकः । विचक्षणः । ‘अनुदात्तेतश्च हलादेः' इति युच् ॥
“With those aids by which the circumambient (wind), endowed with the vigour of his son, the measurer of the two worlds (of heaven and earth), and swiftest of the swift, beautifies (all things), and by which (Kakṣīvat) became learned in the three kinds of sacrifice; with them come, Aśvins, willingly hither.”
The aids wherewith the Wanderer through his offspring's might, or the Two-Mothered Son shows swiftest mid the swift;
Wherewith the sapient one acquired his triple lore,--Come hither unto us, O Asvins, with those aids.
Those through which the earth-encircler [=Wind] is distinguished in the might of his extension, through which he of two mothers [=Agni] is distinguished, transiting in his transits,
through which the wide-gazing one [=Soma] became of triple thought— with those forms of help come here, o Aśvins.
Durch die der Himmelswandrer mit des Sehers Macht, der zwiegeborne siegreich sich in Schlachten zeigt, Durch die Trimantu reiche Einsicht sich erwarb, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Durch die Parijman durch die Größe der Nachkommenschaft und Dvimatri in den Wettkämpfen siegreich sich hervortut, durch die Trimantu hellsehend ward - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами) Париджман выделяется благодаря обилию потомства
(И) Двиматар, победоносный в состязаниях,
Какими – Триманту стал ясновидящим,
С этими самыми поддержками приходите сюда, о Ашвины!
याभी॑ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद्वन्द॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे । याभि॒: कण्वं॒ प्र सिषा॑सन्त॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । रे॒भम् । निऽवृ॑तम् । सि॒तम् । अ॒त्ऽभ्यः । उत् । वन्द॑नम् । ऐर॑यतम् । स्वः॑ । दृ॒शे । याभिः॑ । कण्व॑म् । प्र । सिसा॑सन्तम् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
हे अश्विनौ याभिः ऊतिभिः रेभम् एतत्संज्ञम् ऋषिं निवृतम् असुरैः कूपे अप्सु निवारितं सितं तदीयैः पाशैर्बद्धमेवंभूतमृषिम् अद्भ्यः सकाशात् उत् ऐरयतम् उदगमयतम् । तथा वन्दनम् एतत्संज्ञमृषिं च तथाभूतमुदैरयतम् । किमर्थम् । स्वः आदित्यं दृशे द्रष्टुम् । अपि च कण्वम् असुरैः अन्धकारे प्रक्षिप्तं सिषासन्तम् आलोकं संभक्तुमिच्छन्तं याभिः ऊतिभिः प्र आवतं प्रकर्षेण अरक्षतम् । ताभिरित्यादि समानम् ॥ रेभम् । ‘रेभृ शब्दे'। रेभते स्तौतीति रेभः । पचाद्यच् । निवृतम् । वृञ् वरणे'। अस्मात् अन्तर्भावितण्यर्थात् कर्मणि निष्ठा । ' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सितम् । ‘षिञ् बन्धने '। अद्भ्यः । ‘ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । वन्दनम् ।' वदि अभिवादनस्तुत्योः'। वन्दते स्तौतीति वन्दनः । नन्द्यादिलक्षणो ल्युः । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । स्वरित्येतद्दिवश्चादित्यस्य च साधारणनामधेयम् । तदुक्तं यास्केन -- ’स्वरादित्यो भवति सु अरणः सु ईरणः' (निरु. २. १४) इति । स्वरादिनिपातम् ' ( पा. सू. १. १. ३७ ) इति अव्ययत्वात् सुपो लुक् । दृशे । 'दृशे विख्ये च' इति दृशेः तुमर्थे केप्रत्ययान्तो निपात्यते । सिषासन्तम् । ‘वन षण संभक्तौ ' । सनि सनीवन्तर्ध' इत्यादिना विकल्पनात् इडभावः । ‘जनसनखनां सञ्झलोः' इति आत्वम् । द्विर्भावे अभ्यासस्य ह्रस्वत्वम् ।' सन्यतः । इति इत्वम् ॥ ॥ ३३ ॥
“With those aids by which you raised up from the water, Rebha, who had been cst bound (into a well), and also Vandana (similarly circumstanced), to behold the sky; by which you protected Kaṇva, when longing to see the light; with them, Aśvins, come willingly hither.”
Wherewith ye raised from waters, prisoned and fast bound, Rebha, and Vandana to look upon the light;
Wherewith ye succoured Kanva as he strove to win,--Come hither unto us, O Asvins, with those aids.
Those with which from the waters you raised up rasping Rebha, who was confined and bound, and raised up Vandana to see the sun,
with which you helped Kaṇva desiring gain—with those forms of help come here, o Aśvins.
Durch die ihr Rebha, der gebunden und verhüllt, aus Fluten zogt, und Vandana, das Licht zu schaun, Durch die ihr Kanva halfet, dem verlangenden, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Mit denen ihr den gefangnen, gefesselten Rebha aus dem Wasser den Vandana herausholtet, um die Sonne wiederzusehen, mit denen ihr dem auf Verdienst ausgehenden Kanva weiterhalft - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами) Ребху, скрытого (и) связанного из вод
Вы извлекли (и) Вандану, чтоб они видели солнце,
Какими – Канве, желающему достигнуть цели, вы помогли,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॒रन्त॑कं॒ जस॑मान॒मार॑णे भु॒ज्युं याभि॑रव्य॒थिभि॑र्जिजि॒न्वथु॑: । याभि॑: क॒र्कन्धुं॑ व॒य्यं॑ च॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । अन्त॑कम् । जस॑मानम् । आ॒ऽअर॑णे । भु॒ज्युम् । याभिः॑ । अ॒व्य॒थिऽभिः॑ । जि॒जि॒न्वथुः॑ । याभिः॑ । क॒र्कन्धु॑म् । व॒य्य॑म् । च॒ । जिन्व॑थः । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
आरणम् अगाधं कूपादि । तत्रासुरैः प्रक्षिप्तं जसमानं तैर्हिंस्यमानम् अन्तकं शत्रूणामन्तकरम् एतत्संज्ञं राजर्षिं हे अश्विनौ 'याभिः ऊतिभिः अवथः रक्षथः । तथा भुज्युं सर्वस्य पालकमेतत्संज्ञं समुद्रमध्ये निमग्नं तुग्र्यं तुग्रस्य पुत्रं राजर्षिं याभिः ऊतिभिः रक्षणहेतुभूताभिः अव्यथिभिः व्यथारहिताभिर्नौभिः जिजिन्वथुः युवामतर्पयतम् । एतच्च मन्त्रान्तरे' ‘तुग्रो ह भुज्युमश्विनोदमेघे' (ऋ. सं. १. ११६. ३ ) इत्यादिके विस्पष्टयिष्यते । अपि च कर्कन्धुं वय्यं च एतत्संज्ञकौ चासुरैः पीड्यमानौ याभिः ऊतिभिः जिन्वथः प्रीणयथः । गतमन्यत् ॥ जसमानम् । जसु हिंसायाम् । यकि प्राप्ते व्यत्ययेन शप् । आरणे । आङ्पूर्वात् अर्तेः ल्युट्। जिजिन्वथुः । जिविः प्रीणनार्थः । लिटि अथुसि रूपम् ॥
“With those aids by which you rescued Antaka, (when cast into) a deep (pool), and about to be destroyed; by which, inflicting no distress, you preserved Bhujyu, and by which you relieved Karkandhu and Vayya; with them, Aśvins, come willingly hither.”
Wherewith ye rescued Antaka when languishing deep in the pit, and Bhujyu with unfailing help.
And comforted Karkandhu, Vayya, in their woe,--Come hither unto us, O Asvins, with those aids.
Those with which you revived Antaka, languishing in foreign parts, with which unwavering ones you revived Bhujyu,
with which you revive Karkandhu and Vayya—with those forms of help come here, o Aśvins.
Mit welchen sichern Hülfen ihr dem Antaka, dem in der Tiefe schmachtenden und Bhudschju halft, Durch die Karkandhu und den Vajja ihr erquickt, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Mit denen ihr den in der Grube verschmachtenden Antaka, mit welchen nie irregehenden Hilfen ihr den Bhujyu erquickt habt, mit denen ihr den Karkandhu und Vayya erquicket - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами) Антаку, томящегося в пропасти,
Какими непоколебимыми (поддержками) вы вернули к жизни Бхуджью,
Какими – вы возвращаете к жизни Каркандху и Вайю,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॑: शुच॒न्तिं ध॑न॒सां सु॑षं॒सदं॑ त॒प्तं घ॒र्ममो॒म्याव॑न्त॒मत्र॑ये । याभि॒: पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । शु॒च॒न्ति । ध॒न॒साम् । सु॒ऽसं॒सद॑म् । त॒प्तम् । घ॒र्मम् । ओ॒म्याऽव॑न्तम् । अत्र॑ये । याभिः॑ । पृष्नि॑ऽगुम् । पु॒रु॒ऽकुत्स॑म् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
हे अश्विनौ धनसां धनस्य संभक्तारं शुचन्तिम् एतन्नामानं सुषंसदम् । संसीदन्त्यस्मिन्निति संसत् गृहम् । शोभनसंसदं याभिः ऊतिभिरकुरुतम् । तथा अत्रये याभिश्चोतिभिः तप्तं प्रवृञ्जनेन संतप्तं घर्मं महावीरम् ओम्यावन्तं सुखयुक्तं सुखेन स्प्रष्टुं शक्यमकुरुतम् । यद्वा । शतद्वारे यन्त्रगृहे असुरैः पीड्यमानाय घर्मं दीप्तं पीडासाधनमग्निं तप्तं तापकारिणम् ओम्यावन्तं सुखवन्तम् अकुरुतम्। यथा अस्मै सुखं भवति तथा हिमेनोदकेन तमग्निमवारयेथाम् । यास्कपक्षे तु अत्रये हविषामत्त्रेऽग्नये हविरुत्पत्त्यर्थं सूर्यकिरणसंतप्तं घर्मं नैदाघम् अहः ओम्यावन्तं तृप्तिहेतुवृष्ट्युदकोपेतं कृतवन्तौ इति योज्यम् । अपि च याभिः ऊतिभिः पृश्निगुं पुरुकुत्सं च अवतम् अरक्षतम् । ताभिः सर्वाभिः ऊतिभिः अस्मानागच्छतम् ॥ शुचन्तिम् । शुच दीप्तौ । औणादिको झिच् । धनसाम् ।' जनसनखनक्रमगमो विट्'। ‘विड्वनोरनुनासिकस्यात् ' इति आत्वम् । सुषंसदम् । शोभना संसद्यस्य । नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । ओम्यावन्तम् । अवतेः ‘ अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । ज्वरत्वर । इत्यादिना वकारस्य उपधायाश्च ऊठ् । गुणः । छन्दसि च ' इत्यर्हार्थे यप्रत्ययः । ‘नस्तद्धिते' इति टिलोपः । ये चाभावकर्मणोः' इति प्रकृतिभावस्तु व्यत्ययेन न प्रवर्तते । पृश्निगुम् । पृश्नयो नानावर्णा गावो यस्य स तथोक्तः । ‘गोस्त्रियोरुपसर्जनस्य ' (पा. सू. १. २. ४८) इति गोशब्दस्य ह्रस्वत्वम् ॥
“With those aids by which you enriched Śucanti, and gave him a handsome habitation, and rendered the scorching heat plural asurable to Atri, and by which you preserved Pṛśnigu and Purukutsa; with them, Aśvins, come willingly hither.”
Wherewith ye gave Sucanti wealth and happy home, and made the fiery pit friendly for Atri's sake;
Wherewith ye guarded Purukutsa, Prsnigu,--Come hither unto us, O Asvin;, with those aids.
Those with which (you made) Śucanti gain the stakes, keeping good company, (with which you made) the heated pot comfortable for Atri, with which you helped Pr̥śnigu and Purukutsa—with those forms of help come here, o Aśvins.
Durch die ihr Schatz und schönen Sitz Çutschanti gabt, in heisser Glut dem Atri Linderung verlieht, Durch die ihr schütztet Purukutsa, Priçnigu, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Mit denen ihr den Sucanti zu einem Schätzegewinner mit guter Gefolgschaft machtet und dem Atri gegen die heiße Glut ein Schutzmittel machtet, mit denen ihr dem Prisnigu, dem Purukutsa beistandet - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами) (вы сделали) Шучанти завоевателем богатства, (человеком) с хорошей свитой,
(И) для Атри (сделали) раскаленный котелок с молоком благословенным,
Какими – вы помогли Пришнигу, Пурукутсе,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॒: शची॑भिर्वृषणा परा॒वृजं॒ प्रान्धं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः । याभि॒र्वर्ति॑कां ग्रसि॒ताममु॑ञ्चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । शची॑भिः । वृ॒ष॒णा॒ । प॒रा॒ऽवृज॑म् । प्र । अ॒न्धम् । श्रो॒णम् । चक्ष॑से । एत॑वे । कृ॒थः । याभिः॑ । वर्ति॑काम् । ग्र॒सि॒ताम् । अमु॑ञ्चतम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
हे वृषणा कामानां वर्षितारावश्विनौ याभिः शचीभिः कर्मभिः प्रज्ञाभिर्वा परावृजम् एतन्नामकमृषिं पङ्गुं सन्तमपङ्गुमकुरुतम् । तथा अन्धं दृष्टिरहितं सन्तमृज्राश्वमृषिं चक्षसे प्रकाशाय सम्यक् चक्षुषा दर्शनाय याभिरूतिभिः प्र कृथः प्रकर्षेण कुरुथः । याभिश्च श्रोणं विगुणजानुकमेव सन्तमृषिम् एतवे गन्तुं प्र कृथः प्रकर्षेण कृतवन्तौ । अपि च याभिः ऊतिभिः वर्तिकां चटकसदृशस्य पक्षिणः स्त्रियं ग्रसितां वृकेण ग्रस्ताम् अमुञ्चतं वृकास्यान्निर्मुक्तामकुरुतम् । यास्कपक्षे तु वृकेण विवृतज्योतिष्केण सूर्येण याभिर्ग्रस्तां वर्तिकां प्रत्यहमावर्तमानामुषसं तस्मादमोचयतम् इति योज्यम् । ताभिः सर्वाभिः ऊतिभिः अस्मानप्यागच्छतम् ॥ वृषणा । वृष सेचने '।' कनिन्युवृषि' ' इत्यादिना कनिन् । परावृजम् । ' वृजी वर्जने ' । परावृणक्ति तपसा पापं विनाशयतीति परावृक् । ‘क्विप् च ' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । एतवे । तुमर्थे सेसेन्' इत्येतेः तवेन्प्रत्ययः । कृथः । डुकृञ् करणे'।' बहुलं छन्दसि ' इति विकरणस्य लुक् ॥
याभिः सिन्धु मधुमन्तुमसञ्चतं वसिष्ठं याभिरजरोवर्जिन्वतम् । ।
“Showerers (of benefits), with those aids by which you enabled (the lame) Parāvṛj (to walk), the blind (Ṛjraśva) to see, and (the cripple) Śroṇa to go, and by which you set free the quail when seized (by a wolf); with those aids, Aśvins, come willingly hither.”
Mighty Ones, with what powers ye gave Paravrj aid what time ye made the blind and lame to see and walk;
Wherewith ye set at liberty the swallowed quail,--Come hither unto us, O Asvins, with those aids.
Those powers with which, o bulls, you (helped) the outcaste, made the blind to see, the lame to go, with which you released the quail that had been swallowed—with those forms of help come here, o Aśvins.
Mit welchen Kräften, Helden, ihr dem Krüppel halft, den Lahmen gehend und den Blinden sehend macht, Mit denen die verschlungne Wachtel ihr gelöst, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Mit welchen Künsten ihr Bullen dem Aussetzling beistandet, dem Blinden und Lahmen zum Sehen und Gehen verhelft, mit denen ihr die verschlungene Wachtel befreitet - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими силами (вы,) два быка, (приходите на помощь) отверженному,
Слепого (и) хромого делаете способным видеть (и) ходить,
Какими – освободили проглоченную перепелку,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॒: सिन्धुं॒ मधु॑मन्त॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि॑न्वतम् । याभि॒: कुत्सं॑ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । सिन्धु॑म् । मधु॑ऽमन्तम् । अस॑श्चतम् । वसि॑ष्ठम् । याभिः॑ । अ॒ज॒रौ॒ । अजि॑न्वतम् । याभिः॑ । कुत्स॑म् । श्रु॒तर्य॑म् । नर्य॑म् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
हे अश्विनौ सिन्धुं स्यन्दनशीलां नदीं मधुमन्तं मधुसदृशेनोदकेन पूर्णां याभिः ऊतिभिः असश्चतम् अगमयतं प्रावाहयतमित्यर्थः । हे अजरौ जरारहितावश्विनौ वसिष्ठम् ऋषिं याभिः ऊतिभिः अजिन्वतम् अप्रीणयतम् । याभिः च कुत्सादीन् त्रीन् ऋषीन् आवतम् अरक्षतम् । ताभिः सर्वाभिः ऊतिभिः अस्मानपि सुष्ठ्वागच्छतम् ॥ मधुमन्तम् । मधुशब्दात् भूम्नि मतुप् । लिङ्गव्यत्ययः । असश्चतम् । सश्चतिर्गतिकर्मा । अस्मात् अन्तर्भावितण्यर्थात् लुङ् ॥
“With those aids by which you caused the sweet stream to flow, by which you, who are exempt from decay, gratified Vāsiṣṭha, and by which you protected (ṛṣis:) Kutsa, Śrutarya, and Narya; with them, Aśvins, come willingly hitheṛ ”
Wherewith ye quickened the most sweet exhaustless flood, and comforted Vasistha, ye who ne'er decay;
And to Srutarya, Kutsa, Narya gave your help,--Come hither unto us, O Asvins, with those aids.
Those with which you revived the honeyed, inexhaustible river, with which you revived Vasiṣṭha, you unaging ones,
with which you helped Kutsa, Śrutarya, Narya—with those forms of help come here, o Aśvins.
Durch die den honigsüssen Strom, der nie versiegt, durch die ihr ew'gen den Vasischtha fördertet, Durch die Çrutarja, Kutsa, Narja ihr geschützt, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Mit denen ihr den Strom honigreich, unversieglich machtet, mit denen ihr Alterlosen den Vasistha erquicktet, mit denen ihr dem Kutsa, dem Srutarya, dem Narya beistandet - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами вы сделали) реку медовой, неиссякающей,
Какими, о двое нестареющих, вы оживили Васиштху,
Какими – помогли Кутсе, Шрутарье, Нарье,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॑र्वि॒श्पलां॑ धन॒साम॑थ॒र्व्यं॑ स॒हस्र॑मीळ्ह आ॒जावजि॑न्वतम् । याभि॒र्वश॑म॒श्व्यं प्रे॒णिमाव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । वि॒श्पला॑म् । ध॒न॒ऽसाम् । अ॒थ॒र्व्य॑म् । स॒हस्र॑ऽमीळ्हे । आ॒जौ । अजि॑न्वतम् । याभिः॑ । वश॑म् । अ॒श्व्यम् । प्रे॒णिम् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
हे अश्विनौ धनसां धनं संभजमानाम् अथर्व्यम् अगच्छन्तीं छिन्नजङ्घात्वेन गन्तुमसमर्थाम् । थर्वतिर्गतिकर्मा । विश्पलाम् एतत्संज्ञामगस्त्यपुरोहितस्य खेलस्य संबन्धिनीं सहस्रमीळ्हे । मीळ्हमिति धननाम । बहुधनोपेते आजौ संग्रामे याभिः ऊतिभिः अजिन्वतं गन्तुं समर्थामकुरुतम् । एतच्च ' चरित्रं हि वेरिवाच्छेदि पर्णम् ' ( ऋ. सं. १. ११६. १५ ) इत्यत्र विस्पष्टयिष्यते । याभिः च अश्व्यम् अश्वाख्यस्य पुत्रं प्रेणिं स्तुतेः प्रेरयितारं वशम् एतत्संज्ञम् ऋषिम् आवतम् अरक्षतम् । ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम् ॥ प्रेणिम् । 'प्रेणृ गतिप्रेरणश्लेषणेषु' । औणादिक इप्रत्ययः ॥ ॥ ३४ ॥
“With those aids by which you enabled the opulent Viśpalā, when she was unable to move, to go to the battle rich in a thousand spoils, and by which you protected the devout Vaśa, the son of Aśva; with them, Aśvins, come willingly hither.”
Wherewith ye helped, in battle of a thousand spoils, Vispala seeking booty, powerless to move.
Wherewith ye guarded friendly Vasa, Asva's son,--Come hither unto us, O Asvins, with those aids.
Those with which you revived Viśpalā, to pursue the way, to gain the stakes in the contest with a thousand battle-prizes,
with which you helped Vaśa Aśvya and Preṇi [?]—with those forms of help come here, o Aśvins.
Durch die ihr halft im tausendfach verschlungnen Kampf der Viçpala, der gabenreichen Priesterin, Durch die dem lieben Vaça Açvia ihr halft, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Mit denen ihr die Vispala, die preisgewinnende, pfeilschnelle, in dem Wettkampf um Tausend als Kampfpreis erquicket, mit denen ihr dem Vasa Asva, dem Preni beistandet, mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами) Вишпалу, не могущую двигаться (?), (сделали) завоевывающей награду,
Оживили в состязании, где ставка тысяча,
Какими – помогли Ваше Ашвье, певцу (?),
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॑: सुदानू औशि॒जाय॑ व॒णिजे॑ दी॒र्घश्र॑वसे॒ मध॒व कोशो॒ अक्ष॑रत् । क॒क्षीव॑न्तं स्तो॒तारं॒ याभि॒राव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । औ॒शि॒जाय॑ । व॒णिजे॑ । दी॒र्घऽश्र॑वसे । मधु॑ । कोशः॑ । अक्ष॑रत् । क॒क्षीऽव॑न्तम् । स्तो॒तार॑म् । याभिः॑ । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
उशिक्संज्ञा दीर्घतमसः पत्नी तस्याः पुत्रो दीर्घश्रवा नाम कश्चिदृषिरनावृष्टयां जीवनार्थमकरोत् `वाणिज्यम् । स च वर्षणार्थमश्विनौ तुष्टाव । तौ च अश्विनौ मेघं प्रेरितवन्तौ। अयमर्थः पूर्वार्धे प्रतिपाद्यते । हे सुदानू शोभनदानावश्विनौ औशिजाय उशिक्पुत्राय वणिजे वाणिज्यं कुर्वते दीर्घश्रवसे एतत्संज्ञाय ऋषये याभिः युष्मदीयाभिः ऊतिभिः हेतुभूताभिः कोशः मेघः मधु माधुर्योपेतं वृष्टिजलम् अक्षरत् असिञ्चत् युष्मत्प्रसादादपेक्षिता वृष्टिर्जातेत्यर्थः । अपि च उशिजः पुत्रं स्तोतारं कक्षीवन्तम् एतत्संज्ञमृर्षि याभिः ऊतिभिः आवतम् अरक्षतम् । ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम् ॥ कक्षीवन्तम् । कक्ष्या रज्जुरश्वस्य । तया युक्तः कक्षीवान् । ‘आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवत्' इति निपातनात् मतुपो वत्वम् । संप्रसारणम् ॥
“With those aids by which, beauteous donors, the cloud (was made to) shed its sweet (water), for the sake of the merchant Dīrghaśravas, the son of Uṣij, and by which you protected the devout Kakṣīvat; with them, Aśvins, come willingly hither.”
Whereby the cloud, ye Bounteous Givers, shed sweet rain for Dirghasravas, for the merchant Ausija,
Wherewith ye helped Kaksivan, singer of your praise,--Come hither unto us, O Asvins, with those aids.
Those through which, o you of good drops, a cask streamed honey for Dīrghaśravas Auśija the merchant,
with which you helped Kakṣīvant the praiser—with those forms of help come here, o Aśvins.
Durch die der Eimer Meth ergoss, o Spendende, dem Uçidschsohn, dem weitberühmten Handelsherrn, Mit denen dem Kakschīvat ihr, dem Sänger halft, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Durch die, ihr Gabenschönen, für den Kaufmann Dirghasravas, den Sohn der Usij, die Kufe Honig träufte, mit denen ihr dem Sänger Kaksivat beistandet, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами), о вы двое с прекрасными дарами, для купца Диргхашраваса,
Сына Ушидж, бочка сочилась медом,
Какими – вы помогли восхвалителю Какшиванту,
С этими самыми поддержками приходите сюда, о Ашвины!
याभी॑ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे । याभि॑स्त्रि॒शोक॑ उ॒स्रिया॑ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । र॒साम् । क्षोद॑सा । उ॒द्गः । पि॒पि॒न्वथुः॑ । अ॒न॒श्वम् । याभिः॑ । रथ॑म् । आव॑तम् । जि॒षे । याभिः॑ । त्रि॒ऽशोकः॑ । उ॒स्रियाः॑ । उ॒त्ऽआज॑त । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
‘रसा नदी भवति रसतेः शब्दकर्मणः ' ( निरु. ११. २५) इति यास्कः । हे अश्विनौ याभिः ऊतिभिः हेतुभूताभिः रसां नदीमनावृष्ट्या जलरहितां क्षोदसा कूलानि संपिंषता उद्नः उदकेन पिपिन्वथुः युवां पूरितवन्तौ । तथा अनश्वम् अश्वैर्वियुक्तमात्मीयं रथं जिषे जेतुं याभिः ऊतिभिः अवतम् अगम्यतम् । अपि च याभिः ऊतिभिः कण्वपुत्रः त्रिशोकः ऋषिः उस्रियाः अपहृता: गा: उदाजत उदगमयत् असुरसकाशात् लेभे । '“ताभिः सर्वाभिः ऊतिभिः सह अस्मानप्यागच्छतम् ॥ क्षोदसा । 'क्षुदिर् संपेषणे'। औणादिकः असुन् । उद्नः । तृतीयैकवचनस्य ‘सुपां सुपो भवन्ति ' इति शसादेशः । ‘पद्दन' इत्यादिना उदकशब्दस्य उदन्भावः । भसंज्ञायाम् अल्लोपोऽनः' इति अकारलोपः । पिपिन्वथुः । ‘पिवि सेचने'। इदित्त्वात् नुम् । जिषे । 'जि जये। ‘तुमर्थे सेसेन् इति क्से प्रत्ययः । उदाजत । अज गतिक्षेपणयोः ॥
“With those aids by which you filled the (dry) river-bed”
Wherewith ye made Rasa swell full with water-floods, and urged to victory the car without a horse;
Wherewith Trisoka drove forth his recovered cows,--Come hither unto us, O Asvins, with those aids.
Those with which you swelled the Rasā (River) with a gush of water, with which you helped the horseless chariot to victory,
with which Triśoka drove up ruddy cows for himself—with those forms of help come here, o Aśvins.
Durch die den Strom ihr schwellen liesst von Wogenflut, den rosselosen Wagen hin zum Siege triebt, Durch die Triçoka seine Kühe heimwärts trieb, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Durch die ihr die Rasa mit Wassers Flut angeschwellt habt, mit denen ihr den Wagen ohne Roß zum Sieg verhalft, durch die Trisoka die Kühe heraustrieb, mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами) вы наполнили Расу водой стремнины,
Какими – бесконной колеснице помогли победить,
Какими – Тришока выгнал рыжих коров,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॒: सूर्यं॑ परिया॒थः प॑रा॒वति॑ मन्धा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तम् । याभि॒र्विप्रं॒ प्र भ॒रद्वा॑ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । सूर्य॑म् । प॒रि॒ऽया॒थः । प॒रा॒ऽवति॑ । म॒न्धा॒तार॑म् । क्षैत्र॑ऽपत्येषु । आव॑तम् । याभिः॑ । विप्र॑म् । प्र । भ॒रत्ऽवा॑जम् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
हे अश्विनौ परावति दूरदेशे स्थितं सूर्यं तमोरूपेण स्वर्भानुनावृतमादित्यं तस्मात्तमसो मोचयितुं याभिः ऊतिभिः परियाथः युवां परितो गच्छथः । तथा मन्धातारम् ऋषिं क्षैत्रपत्येषु । क्षेत्राणां पतिरधिपतिः क्षेत्रपतिः । तत्संबन्धिषु कर्मसु आवतम् अरक्षतम् । अपि च याभिः ऊतिभिः विप्रं मेधाविनं भरद्वाजम् ऋषिमन्नप्रदानेन प्र आवतं प्रकर्षेणारक्षतम् । ताभिः सर्वाभिः ऊतिभिः सह रक्षणार्थमस्मानप्यागच्छतम् । क्षैत्रपत्येषु । ब्राह्मणादेराकृतिगणत्वात् कर्मण्यर्थे प्यञ् ॥
“With those aids by which you encompassed the sun, when afar off, (to extricate him from eclipse); by which you defended Mandhātā in (the discharge of) his soverign functions, and by whciḥ you protected the sage Bharadvāja; with them, Aśvins, come willingly hither.”
Wherewith ye, compass round the Sun when far away, strengthened Mandhatar in his tasks as lord of lands,
And to sage Bharadvaja gave protecting help,--Come hither unto us, O Asvins, with those aids.
Those with which you drive around the sun in the distance and you helped Mandhātar [/the thinker] in (the battles for) lordship of lands, with which you helped the inspired poet Bharadvāja—with those forms of help come here, o Aśvins.
Durch die in weiter Ferne ihr die Sonn' umfahrt, und dem Mandhatar zum Besitz der Länder halft, Mit denen ihr dem Sänger Bharadvadscha halft, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Mit denen ihr in der Ferne die Sonne überholet, dem Mandhatri zu Landbesitz verhalft, mit denen ihr dem redegewaltigen Bharadvaja weiterhalft, mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами) вы объезжаете солнце вдалеке,
Помогли Мандхатару во владении землей,
Какими – вы поддержали вдохновенного Бхарадваджу,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॑र्म॒हाम॑तिथि॒ग्वं क॑शो॒जुवं॒ दिवो॑दासं शम्बर॒हत्य॒ आव॑तम् । याभि॑: पू॒र्भिद्ये॑ त्र॒सद॑स्यु॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । म॒हाम् । अ॒ति॒थि॒ऽग्वम् । क॒शः॒ऽजुव॑म् । दिवः॑ऽदासम् । श॒म्ब॒र॒ऽहत्ये॑ । आव॑तम् । याभिः॑ । पूः॒ऽभिद्ये॑ । त्र॒सद॑स्युम् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
हे अश्विनौ महां महान्तम् अतिथिग्वम् अतिथिभिर्गन्तव्यं कशोजुवम् असुरभीत्या उदकं प्रवेष्टु गन्तारम् एवंभूतं दिवोदासम् एतत्संज्ञकं राजर्षिं शम्बरहत्ये । शम्ब आयुधम् । तद्युक्तः शम्बरोऽसुरः। तस्य हनने विषयभूते सति 'याभिः ऊतिभिः अवतम् अरक्षतम्। अपि च याभिः ऊतिभिः पूर्भिद्ये पुराणि नगराणि भिद्यन्तेऽस्मिन्निति पूर्भिद्यः संग्रामः । तस्मिन् त्रसदस्युम् एतत्संज्ञकम् ऋषिं पुरुकुत्सपुत्रम् आवतम् अरक्षतम् । ताभिरित्यादि पूर्ववत् ॥ महाम् । महान्तमित्यस्य छान्दसो वर्णलोपः । कशोजुवम् । कशः इत्युदकनाम । ‘कश गतिशासनयोः'। असुन्। कशांस्युदकानि जवतीति कशोजूः ॥ जु इति सौत्रो धातुर्गत्यर्थः । ‘क्विब्वचि° ' ( उ. सू. २. २१५) इत्यादिना क्विब्दीर्घौ। दिवोदासम् । ‘दिवश्व दासे षष्ठ्या अलुग्वक्तव्यः ' ( का. ६. ३. २१. ५) इति अलुक् । ‘दिवोदासादीनां छन्दस्युपसंख्यानम् ' ( पा. सू. ६. २. ९१. १) इति पूर्वपदाद्युदात्तत्वम् । शम्बरहत्ये । ‘हनस्त च ' इति हन्तेर्भावे क्यप्; तसंनियोगेन तकारान्तादेशश्च । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“With those aids by which you defended the mighty and hospitable Divodāsa, (when, having undertaken) the death of Śambara, he hid himself in the water (through fear of the asuras); by which you protected Trasadasyu in war; with them, Aśvins, come willingly hither.”
Wherewith, when Sambara was slain, ye guarded well great Atithigva, Divodisa, Kasoju,
And Trasadasyu when the forts were shattered down,--Come hither unto us, O Asvins, with those aids.
Those with which you helped the great Atithigva Kaśojū and Divodāsa at the smiting of Śambara,
with which you helped Trasadasyu at the stronghold splitting—with those forms of help come here, o Aśvins.
Durch die dem grossen Atithigva, Kaçodschu und Divodasa wider Çambara ihr halft, Dem Trasadasju bei der Burgzerstörung halft, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Mit denen ihr dem großen Atithigva Kasoju Divodasa im Sambara-Kampf beistandet, mit denen ihr dem Trasadasyu bei dem Burgenbrechen beistandet, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами) великого Атитхигву, Кашоджу,
Диводасу вы поддержали в убийстве Шамбары,
Какими вы поддержали Трасадасью при проламывании крепостей,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॑र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि॑र्वि॒त्तजा॑निं दुव॒स्यथ॑: । याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । व॒म्रम् । वि॒ऽपि॒पा॒नम् । उ॒प॒ऽस्तु॒तम् । क॒लिम् । याभिः॑ । वि॒त्तऽजा॑निम् । दु॒व॒स्यथः॑ । याभिः॑ । विऽअ॑श्वम् । उ॒त । पृथि॑म् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
हे अश्विनौ वम्रं विखनसः पुत्रमेतत्संज्ञमृषिं विपिपानं विशेषेण पार्थिवं रसं पिबन्तं याभिः ऊतिभिः अरक्षतम् । कीदृशम् । उपस्तुतं समीपस्थैः सम्यक् स्तुतमिति स्तूयमानम् । तथा वित्तजानिं लब्धभार्यं कलिम् एतत्संज्ञमृषिं याभिः ऊतिभिः दुवस्यथः रक्षथः । उत अपि च व्यश्वं विगताश्वं पृथिम् एतत्संज्ञं वैनं राजर्षिं 'याभिः ऊतिभिः आवतम् अरक्षतम् । अन्यत् पूर्ववत् ॥ विपिपानम् । ‘पा पाने'। ताच्छीलिकः चानश् । बहुलं छन्दसि ' इति शपः श्लुः । 'बहुलं छन्दसि । इति अभ्यासस्य इत्वम्। उपस्तुतम्। स्तौतेः कर्मणि निष्ठा । प्रवृद्धादित्वादुत्तरपदान्तोदात्तत्वम् (पा. सू. ६. २. १४७ )। वित्तजानिम् । वित्ता लब्धा जाया येन स तथोक्तः । ‘जायाया निङ्' (पा.सू
. ५. ४. १३४ ) इति समासान्तो निङादेशः । लोपो ब्योर्वलि ' इति वलिः लोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । व्यश्वम् । विगतोऽश्वो यस्मात्स तथोक्तः । बहुव्रीहिस्वरेण पूर्वपदस्योदात्तत्वे ‘उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितत्वम् ॥ ॥ ३५ ॥
“With those aids by which you preserved Vamra, praised by all around him, when drinking (the dews of the earth); by which you protected Kali when he had taken a wife, and Pṛthi,when had lost his horse; with them, Aśvins, come willingly hither.”
Wherewith ye honoured the great drinker Vamra, and Upastuta and Kali when he gained his wife,
And lent to Vyasva and to Prthi favouring help,--Come hither unto us, O Asvins, with those aids.
Those with which you favor Vamra [/the ant], who drinks up, and Upastuta, with which you favor Kali, who acquired a wife,
with which you helped Vyaśva and Pr̥thi—with those forms of help come here, o Aśvins.
Durch die den Trinker Vamra, den Upastuta, durch die den Kali, als er freite, ihr erquickt, Durch die den Prithi und Viaçva ihr geschützt, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Deren ihr den Vamra, den Ausschlürfer, den Upastuta, deren ihr den Kali, der ein Weib fand, würdiget, mit denen ihr dem Vyasva und Prithi beistandet, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами) – Вамру, выпивающего (сому), Упастуту,
Какими – вы награждаете Кали, нашедшего жену,
Какими – вы поддержали Вьяшву и Притхи,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॑र्नरा श॒यवे॒ याभि॒रत्र॑ये॒ याभि॑: पु॒रा मन॑वे गा॒तुमी॒षथु॑: । याभि॒: शारी॒राज॑तं॒ स्यूम॑रश्मये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । न॒रा॒ । श॒यवे॑ । याभिः॑ । अत्र॑ये । याभिः॑ । पु॒रा । मन॑वे । गा॒तुम् । ई॒षथुः॑ । याभिः॑ । शारीः॑ । आज॑तम् । स्यूम॑ऽरश्मये । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
हे नरा नेतारावश्विनौ पुरा पूर्वस्मिन्काले शयवे एतत्संज्ञकाय ऋषये गातुं दुःखान्निर्गमनलक्षणं मार्गं याभिः ऊतिभिः ईषथुः युवां वाञ्छितवन्तौ कृतवन्तावित्यर्थः । किं तत् । सामर्थ्यात् ‘शयवे चिन्नासत्या शचीभिः ' ( ऋ. सं. १. ११६. २२ ) इत्यस्यामृचि प्रतिपादितम् । तथा अत्रये ऋषये शतद्वारे यन्त्रगृहेऽसुरैः पीड्यमानाय संतापकारिणः अग्नेः शीतेनोदकेन शीतकरणलक्षणं गातुं दुःखनिर्गमनहेतुभूतं मार्गं याभिः ऊतिभिर्युवामिष्टवन्तौ । एतच्च हिमेनाग्निं घ्रंसमवारयेथाम्' (ऋ. सं. १. ११६. ८) इत्यादौ प्रसिद्धम् । तथा मनवे एतन्नाम्ने राजर्षये याभिः ऊतिभिः यवादिधान्यवापनादिरूपं गातुं दारिद्र्यनिर्गमनहेतुं मार्गं युवां कृतवन्तौ । तथा च मन्त्रान्तरं- यवं वृकेणाश्विना वपन्ता ' ( ऋ. सं. १. ११७. २१ ) इति । अपि च स्यूमरश्मये स्यूतः संबद्धः रश्मिर्दीप्तिर्यस्य तस्मै एतत्संज्ञकाय ऋषये याभिः ऊतिभिः शारीः । शरो नाम वेणुविशेषः । तद्विकारभूता इषूः आजतं शत्रून्प्रति प्रैरयतम् । ताभिरूतिभिरित्यादि पूर्ववत् ॥ नरा। ‘नृ नये'। ‘ऋदोरप्'। ‘सुपां सुलुक् ' इति विभक्तेः आकारः । शयवे ।' शीङ् स्वप्ने । भृमृशीतॄचरि° ' ( उ. सू. १. ७. ) इत्यादिना उप्रत्ययः । ईषथुः । ‘इषु इच्छायाम्'। लिटि अथुसि ‘°असवर्णे' ( पा. सू. ६. ४. ७८) इति पर्युदासात् अभ्यासस्य इयङादेशाभावे सवर्णदीर्घः । शारीः । विकारार्थे शरशब्दात् “ अनुदात्तादेश्च' इति अञ् । ' टिड्ढाणञ्” ' इति ङीप् । स्यूमरश्मये । ‘षिबु तन्तुसंताने' । सिवेः औणादिको मन्प्रत्ययः ।' च्छ्वोः शूठ्' इति ऊठ् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“With those aids, leaders (of sacrifices), which you afforded to Śayu, to Atri, and formerly to Manu, anxious (to show them) the way (to escape from evil); with those by which you shot arrows (upon the foes) of Syūmaraśmi; with them, Aśvis, willingly come hither.”
Wherewith, O Heroes, ye vouchsafed deliverance to Sayu, Atri, and to Manu long ago;
Wherewith ye shot your shafts in Syumarasmi's cause.--Come hither unto us, O Asvins, with those aids.
Those with which, o superior men, you sought a way for Śayu, with which for Atri, with which for Manu long ago,
with which you drove the (cows?) of Śara for Syūmarśmi—with those forms of help come here, o Aśvins.
Durch welche ihr dem Çaju und dem Atri einst, durch die dem Manu ihr zu hohem Glück verhalft, Durch die dem Sjumaraçmi Pfeile ihr gebracht, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Mit denen ihr Herren für Sayu, mit denen ihr für Atri, mit denen ihr vormals für Manu einen Weg suchtet, mit denen ihr dem Syumarasmi die Kühe des Sara zutriebt, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами) – для Шаю, какими – для Атри,
Какими – некогда для Ману вы искали путь,
Какими – для Сьюмарашми вы прогнали (стрелы) Шары,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॒: पठ॑र्वा॒ जठ॑रस्य म॒ज्मना॒ग्निर्नादी॑देच्चि॒त इ॒द्धो अज्म॒न्ना । याभि॒: शर्या॑त॒मव॑थो महाध॒ने ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । पठ॑र्वा । जठ॑रस्य । म॒ज्मना । अ॒ग्निः । न । अदी॑देत् । चि॒तः । इ॒द्धः । अज्म॑न् । आ । याभिः॑ । शर्या॑तम् । अव॑थः । म॒हा॒ऽध॒ने । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
हे अश्विनौ जठरस्य । ‘ जठरमुदरं भवति जग्धमस्मिन्ध्रियते ' ( निरु. ४, ७ ) इति यास्कः । जठरोपलक्षितस्य शरीरस्य मज्मना बलेन युक्तः सन् पठर्वा एतत्संज्ञो राजर्षिः अज्मन् । संग्रामनामैतत् । अज्मनि संग्रामे युष्मदीयाभिः याभिः ऊतिभिः आ समन्तात् अदीदेत् अदीप्यत । तत्र दृष्टान्तः । चितः काष्ठैरभिचितः इद्धः यज्ञगृहे ऋत्विग्भिः प्रज्वालितः अग्निर्न । यथा अग्निः प्रकाशते तद्वदित्यर्थः । अपि च शर्यातं मानवमिन्द्रेण सह स्पर्धमानं महाधने । संग्रामनामैतत् । महता धनेनोपेते संग्रामे याभिः ऊतिभिः अवथः रक्षथः । ताभिरित्यादि गतम् ॥ अदीदेत् । दीदेतिश्छान्दसो दीप्तिकर्मा । अज्मन् ।' अज गतिक्षेपणयोः' । अजन्ति क्षिपन्त्यस्मिन्बाणानिति अधिकरणे औणादिको मनिन् । ‘वलादावार्धधातुके विकल्प इष्यते' (का. २. ४. ५६. २) इति वचनात् वीभावाभावः । ‘सुपां सुलुक् ' इति सप्तम्या लुक् । महाधने ।' आन्महतः' इति आत्वम् ॥
“WIth those aids by which Paddarvan shone with with strngth of orm in battle, like a blazing fire piled up (with fuel); by which you defended Śaryāta in war; with them, Aśvins, come willingly hither.”
Wherewith Patharva, in his majesty of form, shone in his course like to a gathered kindled fire;
Wherewith ye helped Saryata in the mighty fray,--Come hither unto us, O Asvins, with those aids.
Those with which Paṭharvan, with the might of his belly, shone like a fire laid and kindled, on his drive,
with which you help Śaryāta in (the contest) for great stakes—with
those forms of help come here, o Aśvins.
Durch die Patharvan strahlte, mächtig von Gestalt, auf seinem Zug, wie Feuer, das geschichtet flammt, Durch die ihr dem Çarjata halft im grossen Kampf, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Mit denen Patharvan kraft seines bauchigen Wagens wie geschichtetes entzündetes Feuer leuchtete in der Rennbahn, mit denen ihr dem Saryata beistandet im Kampf um den großen Siegerpreis, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами) Патхарван благодаря величине живота
Засверкал, как костер, сложенный и зажженный на дороге,
Какими вы поддержали Шарьяту (в борьбе) за великую награду,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॑रङ्गिरो॒ मन॑सा निर॒ण्यथोऽग्रं॒ गच्छ॑थो विव॒रे गोअ॑र्णसः । याभि॒र्मनुं॒ शूर॑मि॒षा स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । अ॒ङ्गि॒रः॒ । मन॑सा । नि॒ऽर॒ण्यथः॑ । अग्र॑म् । गच्छ॑थः । वि॒ऽव॒रे । गोऽअ॑र्णसः । याभिः॑ । मनु॒म् । शूरम् । इ॒षा । स॒म्ऽआव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
अङ्गिरः इत्येतदामन्त्रितं वाक्यात् बहिर्भूतम् । तेन चात्मानं संबोध्य स्तुतावृषिं प्रेरयति। हे अङ्गिरः अङ्गिरसां गोत्रज त्वमश्विनौ स्तुहि। हे अश्विनौ मनसा मननीयेन स्तोत्रेण प्रीतौ सन्तौ युवां याभिः ऊतिभिः निरण्यथः स्तोतॄन् नितरां रमयथः । यद्वा! मनसैव करणभूतेन रमयथः । तथा गोअर्णसः गोरूपस्यारणीयस्य धनस्य पणिभिर्गुहायां निहितस्य विवरे विवरणे गुहाद्वारस्योद्घाटनेन प्रकाशने विषयभूते सति याभिः ऊतिभिः सह युवाम् अग्रं सर्वेभ्यो देवेभ्यः पुरस्तात् गच्छथः । अपि च शूरं वीर्यवन्तं मनुम् इषा पृथिव्यामुप्तेन यवादिधान्यरूपेणान्नेन याभिः ऊतिभिः समावतं सम्यगरक्षतम् । ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम् ॥ निरण्यथः। निरमयथ इत्यस्य वर्णव्यापत्त्या एतद्रूपम् । विवरे । ' ग्रहवृद्दनिश्चिगमश्च ' इति भावे अप् । थाथादिना उत्तरपदान्तोदात्तत्वम् ॥
“Aṅgiras, (prise the Aśvins); Aśvins, with those aids by which, with (gratified) minds, you delight (in praise), and thence preceded the gods to the cavern, to recover the stolen cattle; by which you sustained the heroic Manu with food; with them, Aśvins, come willingly hither.”
Wherewith, Angirases! ye triumphed in your heart, and onward went to liberate the flood of milk;
Wherewith ye helped the hero Manu with new strength,--Come hither unto us, O Asvins, with those aids.
Those by which, o Aṅgiras, with your mind you two *find a way out and go to the forefront at the opening up of (the cave) flooding with cows,
with which you helped Manu the champion with refreshment—with those forms of help come here, o Aśvins.
Mit denen ihr, o Angira's, euch gern erfreut, und vorwärts zu der rinderreichen Grotte eilt, Durch die dem Helden Manu ihr zum Trank verhalft, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Mit denen ihr, o Angiras, von Herzen .......und voranginget in dem Spalt der Berghöhle, die die Rindermasse barg, durch die ihr dem tapferen Manu mit Nahrung aushalft, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами), о Ангирас, вы радуетесь духом,
Идете вперед в пещеру, где море коров,
Какими – вы поддержали пищей храброго Ману,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॒: पत्नी॑र्विम॒दाय॑ न्यू॒हथु॒रा घ॑ वा॒ याभि॑ररु॒णीरशि॑क्षतम् । याभि॑: सु॒दास॑ ऊ॒हथु॑: सुदे॒व्यं१॒॑ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । पत्नीः॑ । वि॒ऽम॒दाय॑ । नि॒ऽऊ॒हथुः॑ । आ । घ॒ । वा॒ । याभिः॑ । अ॒रु॒णीः । अशि॑क्षतम् । याभिः॑ । सु॒ऽदासे॑ । ऊ॒हथुः॑ । सु॒ऽदे॒व्य॑म् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
हे अश्विनौ विमदाय एतन्नाम्ने ऋषये याभिः युष्मदीयाभिः ऊतिभिः पत्नीः भार्याः पुरुमित्रस्य दुहितरं न्यूहथुः नितरां युवां प्रापितवन्तौ । ध इति पादपूरणः । तथा याभिः ऊतिभिः अरूणीः अरुणवर्णाः आरोचमाना गाः आ आभिमुख्येन अशिक्षतम् अदत्तम् । तथा पिजवनपुत्राय सुदासे कल्याणदानाय राज्ञे सुदेव्यं प्रशस्तं धनं याभिः ऊतिभिः ऊहथुः प्रापितवन्तौ । ताभिरित्यादि गतम् ॥ पत्नीः । अमो व्यत्ययेन शसादेशः । न्यूहथुः । वह प्रापणे'। अथुसि यजादित्वात् संप्रसारणम् । द्विर्वचनादि । सुदासे । शोभनं ददातीति सुदाः । असुन् । सुदेव्यम् । दिगादित्वाद्यत् (पा. सू. ४. ३. ५४ )। तित्स्वरितम् ' इति स्वरितत्त्वम् ॥
“With those aids by which you gave a wife to Vimada, by which you recovered the ruddy kine, by which you conferred excellent wealth upon Sudās; with them, Aśvins, come willingly hither.”
Wherewith ye brought a wife for Vimada to wed, wherewith ye freely gave the ruddy cows away;
Wherewith ye brought the host of kind Gods to Sudas--Come hither unto us, O Asvins, with those aids.
Those with which you brought home wives for Vimada or with which you did your best to obtain the ruddy (cows),
with which you brought Sudevī (as wife) [/divine favor] for Sudās—with those forms of help come here, o Aśvins.
Durch die ihr heimfuhrt Frauen für den Vimada, durch welche rothe Kühe ihr gespendet habt, Durch die dem Sudas ihr Sudevi zugeführt, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Mit denen ihr für Vimada die Gattinen heimführtet, oder mit denen ihr die Rötlichen zu gewinnen suchtet, mit denen ihr dem Sudas die Göttergunst brachtet, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами) вы привели жен для Вимады,
Или же какими – вы подарили рыжих (коров),
Какими – Судасу принесли благоволение богов,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॒: शंता॑ती॒ भव॑थो ददा॒शुषे॑ भु॒ज्युं याभि॒रव॑थो॒ याभि॒रध्रि॑गुम् । ओ॒म्याव॑तीं सु॒भरा॑मृत॒स्तुभं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । शन्ता॑ती॒ इति॒ शम्ऽता॑ती । भव॑थः । द॒दा॒शुषे॑ । भु॒ज्युम् । याभिः॑ । अव॑थः । याभिः॑ । अध्रि॑ऽगुम् । ओ॒म्याऽव॑तीम् । सु॒ऽभरा॑म् । ऋ॒त॒ऽस्तुभ॑म् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
हे अश्विनौ ददाशुषे हवींषि दत्तवते यजमानाय याभिः ऊतिभिः शंताती सुखस्य कर्तारौ भवथः । याभिः च ऊतिभिः भुज्युं तुग्रस्य पुत्रम् अवथः । याभिः च अध्रिगुम् । अधिगुर्देवानां शमिता । ' अध्रिगुश्चापापश्च उभौ देवानां शमितारौ ' (तै. ब्रा. ३. ६. ६. ४ ) इति श्रुतेः । अपि च ऋतस्तुभम्। ऋतं सत्यं स्तोभत्युच्चारयतीति ऋतस्तुप् । एतत्संज्ञमृषिम् ओम्यावतीम् । ओम्या इति सुखनाम । तद्युक्तां सुभरां सुखेन भरणीयाम् इषं याभिः ऊतिभिः प्रापयथः। ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम् ॥ शंताती। ‘शिवशमरिष्टस्य करे' (पा. सू. ४. ४. १४३ ) इति तातिल्प्रत्ययः । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । ददाशुषे । दा दाने '। लिटः क्वसुः । ‘वसोः संप्रसारणम्' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् ॥ ॥ ३६ ॥
“With those aids by which you are bestowers of happiness upon the donor (of oblations), by which you have protected Bhujyu and Adhrigu, and by which you have granted delighting and nourishing (food) to Ritastubh; with them. Aśvins, come willingly hither.”
Wherewith ye bring great bliss to him who offers gifts, wherewith ye have protected Bhujyu, Adhrigu,
And good and gracious Subhara and Rtastup,--Come hither unto us, O Asvins, with those aids.
Those with which you become weal for the pious man, with which you aid Bhujyu, with which Adhrigu,
(and make) (the woman) R̥tastubh comfortable and easy-bearing—with those forms of help come here, o Aśvins.
Durch die ihr segnet den, der euch gehuldigt hat, durch die ihr helft dem Bhudschju und dem Adhrigu, Der Subhara, der holden und dem Ritastubh, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Mit denen ihr dem Opferspender heilbringend seid, mit denen ihr dem Bhujyu beisteht, mit denen dem Adhrigu, mit denen ihr der Omyavati, der Subhara, der Ritastubh beigestanden habt, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами) вы бываете благословенными для почитающего (вас),
Какими – вы помогаете Бхуджью, какими – Адхригу,
Омьявати, Субхаре, Ритастубху,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॑: कृ॒शानु॒मस॑ने दुव॒स्यथो॑ ज॒वे याभि॒र्यूनो॒ अर्व॑न्त॒माव॑तम् । मधु॑ प्रि॒यं भ॑रथो॒ यत्स॒रड्भ्य॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । कृ॒शानु॑म् । अस॑ने । दु॒व॒स्यथः॑ । ज॒वे । याभिः॑ । यूनः॑ । अर्व॑न्तम् । आव॑तम् । मधु॑ । प्रि॒यम् । भ॒र॒थः॒ । यत् । स॒रट्ऽभ्यः॑ । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
स्वानादिषु सोमपालेषु' मध्ये कृशानुरेकः सोमपालः । तथा च तैत्तिरीयकं- हस्त सुहस्त कृशानवेते वः सोमक्रयणः: ' (तै. सं. १. २.७) इति । तं कृशानुम् असने। इषवोऽस्यन्तेऽस्मिन्नित्यसनः संग्रामः । तस्मिन् संग्रामे हे अश्विनौ याभिः ऊतिभिः दुवस्यथः रक्षथः । तथा याभिः च जवे वेगे प्रवृत्तं यूनः तरुणस्य पुरुकुत्सस्य अर्वन्तम् अश्वम् आवतम् अरक्षतम् । अपि च यत् मधु क्षौद्रं प्रियं सर्वेषामनुकूलवेद्यं तत् सरड्भ्यः मधुमक्षिकाभ्यः याभिः च ऊतिभिः भरथः संपादयथः । ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम् ॥ असने । ‘असु क्षेपणे ' । ' करणाधिकरणयोश्च ' इति अधिकरणे ल्युट् । सरड्भ्यः । ‘सृ गतौ । सर्तेरटिः ॥
“With those aids by which you defended Kṛśānu in battle, with which you succoured the horse of the young Purukutsa in speed, and by which you deliver the plural asant honey to the bees; with them, Aśvins, come willingly hither.”
Wherewith ye served Krsanu where the shafts were shot, and helped the young man's horse to swiftness in the race;
Wherewith ye bring delicious honey to the bees,--Come hither unto us, O Asvins, with those aids.
With which you favor Kr̥śānu in shooting, with which you helped the steed of the youth in speed—
you bring the dear honey that comes from the bees—with those forms of help come here, o Aśvins.
Durch die den Schützen bei dem Schiessen ihr belohnt, des Jünglings Renner bei dem Wettlauf habt beeilt, Womit den Bienen ihr den lieben Honig bringt, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Deren ihr den Krisanu bei dem Schusse würdiget, mit denen ihr dem Rennpferd des Jünglings im Wettlauf beistandet, wenn ihr den Bienen den lieben Honig bringt, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами) вы награждаете Кришану при выпускании стрелы,
Какими – помогли на ристалище скакуну юноши,
Когда приносите мед, приятный пчелам,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॒र्नरं॑ गोषु॒युधं॑ नृ॒षाह्ये॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः । याभी॒ रथाँ॒ अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । नर॑म् । गो॒षु॒ऽयुध॑म् । नृ॒ऽसह्ये॑ । क्षेत्र॑स्य । सा॒ता । तन॑यस्य । जिन्व॑थः । याभिः॑ । रथा॑न् । अव॑थः । याभिः॑ । अर्व॑तः । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
हे अश्विनौ गोषुयुधं गोविषयं युद्धं कुर्वन्तं नरं यज्ञस्य नेतारं यजमानं याभिः ऊतिभिः नृषाह्ये नृभिः सोढव्ये संग्रामे जिन्वथः प्रीणयथः रक्षथः इत्यर्थः । तथा क्षेत्रस्य गृहादिरूपस्य । तनयशब्दो धनवाची । तनयस्य धनस्य च साता सातये संभजनार्थं याभिः ऊतिभिः यजमानं रक्षथः,। 'याभिः च यजमानानां रथान् रक्षथः । तदीयान् अर्वतः अश्वांश्च याभिः अवथः । ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम् ॥ गोषयुधम् । 'युध संप्रहारे ' । गोषु युध्यते इति गोषुयुत् । तत्पुरुषे कृति बहुलम्' इति अलुक् । नृषाह्ये । ' षह मर्षणे '। ‘शकिसहोश्च' इति यत् । अन्येषामपि दृश्यते' इति सांहितिको दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । साता । ' वन षण संभक्तौ । भावे क्तिन् । ‘जनसनखनां सञ्झलोः ' इति आत्वम् । ‘ऊतियूति' इत्यादिना क्तिन उदात्तत्वं निपातितम् ।' सुपां सुलुक् ' इति चतुर्थ्यां डादेशः । जिन्वथः । जिविः प्रीणनार्थः । भौवादिकः । इदित्त्वात् नुम् । रथान् ।' दीर्घादटि समानपादे' इति नकारस्य रुत्वम् । ‘आतोऽटि नित्यम्' इति सानुनासिक आकारः ॥
“With those aids by which you succoured the worshipper contending in war for cattle, by which you assist him in the acquisition of houses and wealth, by which you preserve his chariots and horses; with them, Aśvins, come willingly hitheṛ ”
Wherewith ye speed the hero as he fights for kine in hero battle, in the strife for land and sons,
Wherewith ye safely guard his horses and his car,--Come hither unto us, O Asvins with those aids.
Those with which you revive the superior man fighting for cattle at the conquering of men, at the winning of land and descendants,
with which you help the chariots, with which the steeds—with those forms of help come here, o Aśvins.
Durch die im Krieg den Helden, der um Kühe kämpft, ihr unterstützt, dass Feld und Kinder er erlangt, Durch welche Wagen ihr und Renner vorwärts treibt, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Mit denen ihr den um die Rinder kämpfenden Mann in der Männerschlacht, bei dem Gewinn von Land und von Kindern erquicket, mit denen ihr den Wagen, ihr den Streitrossen beisteht, mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами) мужа, сражающегося за коров в битве мужей,
Вы оживили при завоевании земли, потомства,
Какими – вы помогли колеснице, какими – коням,
С этими самыми поддержками приходите сюда, о Ашвины!
याभि॒: कुत्स॑मार्जुने॒यं श॑तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च॑ द॒भीति॒माव॑तम् । याभि॑र्ध्व॒सन्तिं॑ पुरु॒षन्ति॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
याभिः॑ । कुत्स॑म् । आ॒र्जु॒ने॒यम् । श॒त॒क्र॒तू॒ इति॑ शतऽक्रतू । प्र । तु॒र्वीति॑म् । प्र । च॒ । द॒भीति॑म् । आव॑तम् । याभिः॑ । ध्व॒सन्ति॑म् । पु॒रु॒ऽसन्ति॑म् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
हे शतक्रतू बहुविधकर्माणावश्विनौ आर्जुनेयम् । अर्जुन इतीन्द्रस्य नाम । तथा च वाजसनेयकम् - ’एतद्वा इन्द्रस्य गुह्यं नाम यदर्जुनः' इति । तस्य पुत्रं कुत्सं याभिः ऊतिभिः प्र आवतं प्रकर्षेणारक्षतम् । तथा तुर्वीतिं दभीतिं च याभिः ऊतिभिः प्र आवतम् । अपि च याभिः ध्वसन्तिम् एतत्संज्ञ पुरुषन्तिम् एतन्नामानं च ऋषिम् आवतम् अरक्षतम् । ताभिः सर्वाभिः ऊतिभिः सहास्मानपि सुष्ठ्वागच्छतम् ॥ आर्जुनेयम् ।' शुभ्रादिभ्यश्च ' ( पा. सू. ४. १. १२३ ) इति चशब्दोऽनुक्तसमुच्चयार्थं इत्युक्तत्वात् ढक् । तुर्वीतिम् । ' तुर्वी हिंसार्थः । शत्रूंस्तुर्वतीति तुर्वीतिः । औणादिक ईतिप्रत्ययः । दभीतिम् । ‘दम्भु दम्भे'। औणादिकः कीतिप्रत्ययः । ध्वसन्तिम् । ‘ध्वंसु गतौ च ' । औणादिको झिङ्प्रत्ययः। ‘अनिदिताम्' इति नलोपः । ‘झोऽन्तः' । पुरुषन्तिम् । पुरु सनोति ददातीति पुरुषन्तिः । ‘क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् ।' न क्तिचि दीर्घश्च' इति अनुनासिकलोपोपधादीर्घयोर्निषेधः ॥
“With those aids by which you, who are worshipped in many rites, protected Kutsa, the son of Arjuna, as well as Turviti, Dhabhiti, Dhvasant, and Puruśanti; with them, Aśvins, come willingly hither.”
Wherewith ye, Lords of Hundred Powers, helped Kutsa, son of Arjuni, gave Turviti and Dabhiti strength,
Favoured Dhvasanti and lent Purusanti help,--Come hither unto us, O Asvins, with those aids.
Those with which, o you of a hundred resolves, you promoted Kutsa Ārjuneya, promoted Turvīti and Dabhīti,
with which you helped Dhvasanti and Puruṣanti—with those forms of help come here, o Aśvins.
Durch die ihr mächt'gen Kutsa, Sohn des Ardschuna, und den Turviti und Dabhiti fördertet Und dem Dhvasanti und dem Puruschanti halft, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Mit denen ihr dem Kutsa, dem Sohn des Arjuna, ihr Ratreichen, und dem Turviti und Dabhiti beistandet, mit denen ihr dem Dhvasanti, dem Purusanti beistandet, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Какими (силами), о двое стоумных, вы Кутсу, сына Арджуны,
Турвити и Дабхити мощно поддержали,
Какими поддержали Дхвасанти, Пурушанти,
С этими самыми поддержками приходите сюда, о Ашвины!
अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षाम् । अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥
अप्न॑स्वतीम् । अ॒श्वि॒ना॒ । वाच॑म् । अ॒स्मे इति॑ । कृ॒तम् । नः॒ । द॒स्रा॒ । वृ॒ष॒णा॒ । म॒नी॒षाम् । अ॒द्यू॒त्ये॑ । अव॑से । नि । ह्व॒ये॒ । वा॒म् । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज॑ऽसातौ ॥
हे अश्विनौ अस्मे अस्माकं वाचम् अप्नस्वतीम् । अप्न इति कर्मनाम । विहितैः कर्मभिः संयुक्तां कृतं कुरुतम् । तथा नः अस्माकं मनीषां बुद्धिं हे वृषणा कामानां वर्षकौ दस्रा शत्रूणामुपक्षपयितारावश्विनौ वेदार्थज्ञानसमर्थां कुरुतम् । अपि च यस्मात् युवामेवंगुणविशिष्टौ तस्मात् वां युवाम् अवसे रक्षणाय नि ह्वये नितरामाह्वये । कदा । अद्यूत्ये द्योतनरहिते प्रकाशनरहिते रात्रेः पश्चिमे यामे । तस्मिन् काले हि प्रातरनुवाकाश्विनशस्त्रयोरिदं सूक्तं पठ्यते । आहूतौ च युवां वाजसातौ वाजस्यान्नस्य संभजने । यद्वा । संग्रामनामैतत् । संग्रामे नः अस्माकं वृधे वर्धनाय भवतम् ॥ अप्नस्वतीम् । ‘आपः कर्माख्यायां ह्रस्वो नुट् च वा' इति असुन् नुडागमश्च । तदस्यास्ति' इति मतुप् । ‘मादुपधायाः' इति मतुपो वत्वम् । तसौ मत्वर्थे ' इति भत्वेन पदत्वाभावात् रुत्वाद्यभावः । अस्मे । 'सुपां सुलुक् ' इति षष्ठ्याः शेआदेशः । कृतम् । करोतेर्लोटि ‘बहुलं छन्दसि । इति विकरणस्य लुक् । अद्यूत्ये । ‘द्युत दीप्तौ' ।' ऋहलोर्ण्यत्' इति भावे ण्यत् । वर्णव्यापत्त्या ऊकारः । द्यूत्यं प्रकाशनमस्मिन्नास्तीति बहुव्रीहौ व्यत्ययेनान्तस्वरितत्वम् । नि ह्वये । निसमुपविभ्यो ह्वः' इति आत्मनेपदम् । वृधे । वृधु वृद्धौ'। संपदादिलक्षणो भावे क्विप् । 'सावेकाच:० इति विभक्तेरुदात्तत्वम् ॥
“Aśvins, sanctify our words with works; showerers (of benefits), subduers of foes (invigorate) our understandin g(for the sacred study); we invoke you both, in the last watch of the night, for our preservation; be to us for increase in the provision of food.”
Make ye our speech effectual, O ye Asvins, and this our hymn, ye mighty Wonder-Workers.
In luckless game I call on you for succour: strengthen us also on the field of battle.
Make speech fruitful for us, o Aśvins; make for us inspired thought, o wondrous bulls.
I call you down for help at a time when one shouldn’t gamble. Be there to strengthen us at the winning of prizes.
Macht, o Açvinen, unser Wort erfolgreich und unser Gebet, o wunderthätige Helden; bei unglücklichem Spiele rufe ich euch zu Hülfe; seid uns zum Heil auch bei dem Kampf um Beute.
Machet ihr, ihr Asvin, unsere Rede, machet unser Gedicht belohnt, ihr Meister, ihr Bullen! Wo nicht der Würfel entscheidet, da rufe ich euch zum Beistand herbei, und seid uns zum Segen bei der Lohngewinnung!
О Ашвины, нашу речь сделайте приносящей вознаграждение,
Наше произведение, о пара удивительных быков!
Когда нет (счастливой) игры, вас двоих мы призываем на помощь.
Будьте нам на благо при завоевании добычи!
द्युभि॑र॒क्तुभि॒: परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
द्युऽभिः॑ । अ॒क्तुऽभिः॑ । परि॑ । पा॒त॒म् । अ॒स्मान् । अरि॑ष्टेभिः । अ॒श्वि॒ना॒ । सौभ॑गेभिः । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
हे अश्विनौ द्युभिः दिवसैः अक्तुभिः रात्रिभिश्च अस्मान् स्तोतॄन् परि पातं परितो रक्षतं सर्वदास्मान् रक्षतमित्यर्थः । तथा अरिष्टेभिः अहिंसितैः सौभगेभिः सुभगत्वैः सुभगत्वापादकैर्धनैः अस्मान् रक्षतम् । यस्माभिः प्रार्थितं नः अस्मदीयं तत् मित्रादयः षड्देवताः ममहन्तां पूजयन्तु । उतशब्दः समुच्चये ॥ द्युभिः । ‘दिव उत्' इति उत्वम् । “ दिवो झल्' ( पा. सू. ६. १. १८३ ) इति ‘सावेकाचः° ' इति प्राप्तस्य विभक्त्युदात्तत्वस्य प्रतिषेधः । अरिष्टेभिः । ‘रिष हिंसायाम् । निष्ठा ' इति क्तः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। 'बहुलं छन्दसि इति भिसः ऐसभावः । अश्विना । ‘सुपां सुलुक्' इति विभक्तेः आकारः । ‘आमन्त्रितस्य च ' इति सर्वानुदात्तत्वम् । सौभगेभिः। शोभनो भगः श्रीर्यस्यासौ सुभगः । तस्य भावः सौभगम् । ‘सुभगान्मन्त्रे' इत्युद्गात्रादिषु पाठात् अञ्प्रत्ययः । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ' इति उभयपदवृद्धिर्न भवति, तस्याः ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति विकल्पितत्वात् । पूर्ववत् ऐसभावः । ‘ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् ॥ ॥ ३७ ॥
“Cherish us, Aśvins, always, by night or day, with undiminished blessings; and may Mitra, Varuṇa, Aditi--ocean, earth and heaven, be favourable to this our (prayer).”
With, undiminished blessings, O ye Asvins, for evermore both night and day protect us.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
Through the days, through the nights protect us all around, o Aśvins, with your blessings that can come to no harm.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
Beschützt uns rings bei Tag und Nacht, o Açvinen, mit unverletzlichen Segnungen. Das möge uns Mitra, Varuna gewähren und Aditi, das Meer und Erd' und Himmel.
Tag und Nacht schützet uns mit unversehrtem Glück, ihr Asvin! Das sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
Днями и ночами охраняйте нас со всех сторон,
О Ашвины, нерушимым счастьем!
Пусть это нам щедро даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!