इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॒रागा॑च्चि॒त्रः प्र॑के॒तो अ॑जनिष्ट॒ विभ्वा॑ । यथा॒ प्रसू॑ता सवि॒तुः स॒वायँ॑ ए॒वा रात्र्यु॒षसे॒ योनि॑मारैक् ॥
इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योतिः॑ । आ । अ॒गा॒त् । चि॒त्रः । प्र॒ऽके॒तः । अ॒ज॒नि॒ष्ट॒ । विऽभ्वा॑ । यथा॑ । प्रऽसू॑ता । स॒वि॒तुः । स॒वाय॑ । ए॒व । रात्री॑ । उ॒षसे॑ । योनि॑म् । अ॒रै॒क् ॥
ज्योतिषां ग्रहनक्षत्रादीनां द्योतमानानां मध्ये इदम् उषआख्यं ज्योतिः श्रेष्ठं प्रशस्यतमम् । अस्य कोऽतिशय इति चेत् उच्यते । नक्षत्रादिकं ज्योतिः स्वात्मानमेव प्रकाशयति नान्यत् । चन्द्रस्तु यद्यप्यन्यत् प्रकाशयति तथापि न विस्पष्टप्रकाशः । औषसं तु ज्योतिः युगपदेव सर्वस्य जगतः अन्धकारनिराकरणेन विशेषेण प्रकाशकम् । अतः प्रशस्यतममित्यर्थः । तादृशं ज्योतिः आगात् पूर्वस्यां दिश्यागमत् । आगते च तस्मिन् चित्रः चायनीयः प्रकेतः अन्धकारावृतस्य सर्वस्य पदार्थस्य प्रज्ञापकः तदीयो रश्मिः विभ्वा विभुर्व्याप्तः सन् अजनिष्ट प्रादुरभूत्। किंच यथा रात्री रात्रिः स्वयं सवितुः सूर्यसकाशात् प्रसूता उत्पन्ना । सूर्यो हि अस्तं गच्छन् रात्रिं जनयति । तस्मिन्ननस्तमिते रात्रेरुत्पत्त्यभावात् । एवमेव रात्रिरपि उषसे सवाय उषस उत्पत्तये तदर्थं योनिं स्थानं स्वकीयापरभागलक्षणम् अरैक् आरेचितवती कल्पितवतीत्यर्थः । यद्वा । प्रसूता रात्रिसकाशादुत्पन्नोषाः सवितुः सूर्यस्य सवाय प्रसवाय जन्मने यथा भवति एवं रात्रिरपि उषसे उषसो यज्जन्म तदर्थं योनिं स्वापरभागलक्षणं स्थानं कृतवती । अत्र निरुक्तम् - इदं श्रेष्ठं ज्योतिषां ज्योतिरागमत् चित्रं प्रकेतनं प्रज्ञाततममजनिष्ट विभूततमं यथा प्रसूता सवितुः प्रसवाय रात्रिरादित्यस्यैवं रात्र्युषसे योनिमरिचत्स्थानम् ' (निरु. २. १९) इति ॥ श्रेष्ठम् । प्रशस्यशब्दात् अतिशायनिकः इष्ठन् । ‘प्रशस्यस्य श्रः' (पा. सू. ५. ३. ६०) इति श्रादेशः । प्रकृत्यैकाच् (पा. सू. ६.. ४. १६३) इति प्रकृतिभावात् टिलोपाभावः । अगात् । एतेः लुङि • इणो गा लुङि' इति गादेशः। ‘ गातिस्था° ' इति सिचो लुक् । प्रकेतः । ‘कित ज्ञाने' । अन्तर्भावितण्यर्थात् कर्मणि घञ् । थाथादिना उत्तरपदान्तोदात्तत्वम् । अजनिष्ट । ‘ जनी प्रादुर्भावे'। लुङि सिच इडागमः । विभ्वा ।' विप्रसंभ्यो ड्वसंज्ञायाम्' इति भवतेः डुप्रत्ययः । ‘सुपां सुलुक् । इत्यादिना सोः आकारादेशः । ‘ ओः सुपि ' इति यणादेशस्य ' न भूसुधियोः' इति प्रतिषेधे प्राप्ते ‘ छन्दस्युभयथा ' इति यणादेशः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । विपूर्वात् भवतेः औणादिको डुन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । प्रसूता । षूङ् प्राणिप्रसवे'। कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सवाय । छन्दसि जवसवौ वक्तव्यौ ' ( पा. सू. ३. ३. ५६. ४) इति निपातनात् अच् । चित्त्वादन्तोदात्तत्वम् । अणोऽप्रगृह्यस्यानुनासिकः इति संहितायाम् अकारः सानुनासिकः । एव। ‘ निपातस्य च ' इति संहितायां दीर्घः । रात्री । ‘ रात्रेश्चाजसौ ' इति ङीप्। यस्येति च ' इति इकारलोपः। अरैक्।' रिचिर विरेचने । लङि ‘ बहुलं छन्दसि' इति विकरणस्य लुक् । लघूपधगुणे ‘ हल्ङ्याब्भ्यः० ' इति तिलोपः। वर्णव्यापत्त्या व्यत्ययेन एकारस्य ऐकारः ॥
“This most excellent luminary of all luminaries has arrived; the wonderful and diffusive manifester (of all things) has been born; in like manner as night is the offspring of the sun, so she becomes the birth-plural ce of the dawn.”
This light is come, amid all lights the fairest; born is the brilliant, far-extending brightness.
Night, sent away for Savitar's uprising, hath yielded up a birth-place for the Morning.
This light has come, of all the lights the fairest: The brilliant brightness has been born effulgent. Urged onward for god Savitar's uprising, Night now has yielded up her place to morning.
This fairest light of lights has come here. The bright sign, wide-reaching, has been born.
Just as she [=Dawn] is impelled forth for the impulsion of Savitar, so Night has left behind the womb for Dawn.
Das schönste Licht der Lichter ist gekommen, die helle prächt'ge Leuchte ist erstanden; Die Nacht, erregt zu Savitars Erregung, hat ihren Sitz geräumt der Morgenröthe.
Dies schönste Licht der Lichter ist gekommen; ihr prächtiges Vorgesicht ward geboren, sich ausbreitend. Wie sie selbst angewiesen des Savitri Weisung folgt, so hat die Nacht der Morgenröte den Platz geräumt.
Вот пришел свет света, лучший из всех.
Яркий предвестник родился, (далеко) распространяясь.
Как (сама) она вызвана к жизни по побуждению Савитара,
Так ночь уступила место Ушас.
रुश॑द्वत्सा॒ रुश॑ती श्वे॒त्यागा॒दारै॑गु कृ॒ष्णा सद॑नान्यस्याः । स॒मा॒नब॑न्धू अ॒मृते॑ अनू॒ची द्यावा॒ वर्णं॑ चरत आमिना॒ने ॥
रुश॑त्ऽवत्सा । रुश॑ती । श्वे॒त्या । आ । अ॒गा॒त् । अरै॑क् । ऊँ॒ इति॑ । कृ॒ष्णा । सद॑नानि । अ॒स्याः॒ । स॒मा॒नब॑न्धू॒ इति॑ स॒मा॒नऽब॑न्धू । अ॒मृते॒ इति॑ । अ॒नू॒ची इति॑ । द्यावा॑ । वर्ण॑म् । च॒र॒तः॒ । आ॒मि॒ना॒ने इत्या॑ऽमि॒ना॒ने ॥
श्वेत्या इत्युषसो नामधेयम् । रुशती दीप्ता श्वेत्या श्वेतवर्णोषाः। रुशद्वत्सा रुशन् दीप्तः सूर्यो वत्सो यस्याः सा तथोक्ता। यथा मातुः समीपे वत्सः संचरति एवमुषसः समीपे सूर्यस्य नित्यम् अवस्थानात्तद्वत्सत्वम् । अथवा यथा वत्सो मातुः स्तन्यं रसं पिबन् हरति एवमुषसोऽवश्यायाख्यं रसं पिबन् वत्स इत्युच्यते । तादृशी सती आगात् आगतवती । आगतायाः अस्याः उषसः कृष्णा कृष्णवर्णा रात्रिः सदनानि स्थानानि स्वकीयान्त्यार्धयामलक्षणानि अरैक् आरेचितवती कल्पितवती दत्तवतीत्यर्थः । उ इत्येतत् पादपूरणम्। अपि चैते रात्र्युषसौ समानबन्धू समानेनैकेन सूर्याख्येन बन्धुना सख्या युक्ते । यद्वा । सूर्येण सह संबद्धे । यथोषाः उदेष्यता सूर्येण संबद्धा एवं रात्रिरपि अस्तं यता सूर्येण संबद्धा । अमृते मरणरहिते कालात्मकतया नित्यत्वात् अनूची अन्वञ्चन्त्यौ । प्रथमं रात्रिः पश्चादुषा इत्यनेन क्रमेण गच्छन्त्यौ । यद्वा । सूर्यगत्यनुसारेण गच्छन्त्यौ । एवंभूते वर्णं सर्वेषां प्राणिनां रूपम् आमिनाने जरयन्त्यौ । यद्वा । स्वकीयं रूपं हिंसन्त्यौ । उषसा नैशं तमो निवर्त्यते प्रकाशात्मकमुषसो रूपं रात्र्या । एवंविधे सत्यौ द्यावा द्योतमाने चरतः प्रतिदिवसमावर्तेते । यद्वा । द्यावा नभसा अन्तरिक्षमार्गेण चरतः प्रतिदिवसं गच्छतः । अत्र निरुक्तं -रुशद्वत्सा सूर्यवत्सा रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः । सूर्यमस्या वत्समाह साहचर्याद्रसहरणाद्वा । रुशती श्वेत्यागात् श्वेत्या श्वेततेररिचत्कृष्णा सदनान्यस्याः कृष्णवर्णा रात्रिः कृष्णं कृष्यतेर्निकृष्टो वर्णः । अथैने संस्तौति समानबन्धू समानबन्धने अमृते अमरणधर्माणावनूची अनूच्यावितीतरेतरमभिप्रेत्य द्यावा वर्णं चरतस्ते एव द्यावौ द्योतनादपि वा द्यावा चरतस्तया सह चरत इति स्यादमिनाने आमिन्वाने अन्योन्यस्याध्यात्मं कुर्वाणे' (निरु. २. २०) इति ॥ श्वेत्या।' श्विता वर्णे '। अस्मात् ण्यन्तात् 'अचो यत्' इति भावे यत्। णिलोपः । अर्शआदित्वात् मत्वर्थीयः अच् । अमृते । मृतं मरणमनयोर्नास्तीति बहुव्रीहौ नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । अनूची । अनुपूर्वादञ्चतेः 'ऋत्विक्' इत्यादिना क्विन् । ‘ अनिदिताम् ' इति नलोपः । अञ्चतेश्चोपसंख्यानम् ' इति ङीप्। ‘ अचः' इत्यकारलोपे ‘चौ ' इति दीर्घः । अनुदात्तस्य च यत्रोदात्तलोपः' इति ङीप् उदात्तत्वम् ।' सुपां सुलुक्° ' इति विभक्तेर्लुक् । आमिनाने । “ मीङ् हिंसायाम्' । क्रैयादिकः । शानचि ‘मीनातेर्निगमे ' इति ह्रस्वत्वम् ॥
“The white-shining dawn, the parent of the sun, has arrived; dark night has sought her own abode; both allied to the same (sun), immortal, succeeding to each other, and mutually effacing each other's complexion, they traverse the heavens.”
The Fair, the Bright is come with her white offspring; to her the Dark One hath resigned her dwelling.
Akin, immortal, following each other, changing their colours both the heavens move onward.
Bringing a radiant calf she comes resplendent: To her the Black one has given up her mansions. Akin, immortal, following each the other, Morning and Night fare on, exchanging colours.
Having a gleaming calf, herself gleaming white, she has come here. The black one [=Night] has left behind her seats for her.
Having the same (kin-)bonds, immortal, following one upon the other, the two, Day (and Night), keep exchanging their color.
Die lichte kam mit lichtem Kalbe schimmernd, und ihre Sitze räumte ihr die schwarze; Verwandt, unsterblich, aufeinanderfolgend, gehn Nacht und Morgen ihre Farbe wechselnd.
Mit hellfarbigem Kalbe ist die hellfarbige, weiße Usas gekommen; die schwarze Nacht hat ihre Sitze geräumt. Beide von gleicher Sippe, unsterblich, aufeinander folgend, wandeln Tag und Nacht, indem sie die Farbe vertauschen.
Со светлым теленком, светящаяся, сияющая, она пришла,
И уступила черная ей (свои) насиженные места.
Происходящие из одного рода, бессмертные, следующие друг за другом,
Странствуют день (и ночь), меняясь цветом.
स॒मा॒नो अध्वा॒ स्वस्रो॑रन॒न्तस्तम॒न्यान्या॑ चरतो दे॒वशि॑ष्टे । न मे॑थेते॒ न त॑स्थतुः सु॒मेके॒ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे ॥
स॒मा॒नः । अध्वा॑ । स्वस्रोः॑ । अ॒न॒न्तः । तम् । अ॒न्याऽअ॑न्या । च॒र॒तः॒ । दे॒वशि॑ष्टे॒ इति॑ दे॒वऽशि॑ष्टे । न । मे॒थे॒ते॒ इति॑ । न । त॒स्थ॒तुः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । नक्तो॒षासा॑ । सऽम॑नसा । विरू॑पे॒ इति॒ विऽरू॑पे ॥
स्वस्रोः भगिन्योः रात्र्युषसोः अध्वा संचरणसाधनभूतो मार्गः समानः एक एव । येनैव आकाशमार्गेणोषा निर्गच्छति तेनैव रात्रिरपि । स च मार्गः अनन्तः अवसानरहितः । तं मार्गं देवशिष्टे देवेन द्योतमानेन सूर्येण अनुशिष्टे शिक्षिते सत्यौ अन्यान्या एकैका चरतः क्रमेण गच्छतः । अपि च सुमेके शोभनमेहने सर्वेषामुत्पादकत्वात् शोभनप्रजनने नक्तोषासा रात्रिरुषाश्च विरूपे तमःप्रकाशलक्षणाभ्यां विरुद्धरूपाभ्यां युक्ते अपि समनसा समानमनस्के ऐकमत्यं प्राप्ते सत्यौ न मेथेते परस्परं न हिंस्तः । तथा न तस्थतुः क्वचिदपि न तिष्ठतः । सर्वदा लोकानुग्रहार्थं गच्छतः इत्यर्थः ॥ अन्यान्या ।' कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम् ' ( पा. म. ८. १. १२. ११ ) इति अन्यशब्दस्य द्विर्भावः । तस्य परमाम्रेडितम् ' इति आम्रेडितसंज्ञायाम् ‘अनुदात्तं च ' इति आम्रेडितानुदात्तत्वम् । देवशिष्टे । शासु अनुशिष्टौ' । अस्मात् कर्मणि निष्ठा ।' यस्य विभाषा ' इति इट्प्रतिषेधः । ‘ शास इदङ्हलोः ' (पा. सू. ६. ४. ३४) इति उपधाया इत्वम् । शासिवसिघसीनां च ' इति षत्वम् । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । मेथेते । मिथृ मेथृ मेधाहिंसनयोः'। भौवादिकः । अनुदात्तेत् । सुमेके। ‘मिह सेचने'। भावे घञ् । शोभनो मेहो ययोस्ते । व्यत्ययेन ककारः। उत्तरपदस्य ञित्स्वरेणाद्युदात्तत्वम्। ' आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । नक्तोषासा। ‘सुपां सुलक्' इति विभक्तेराकारः। अन्येषामपि दृश्यते' इति संहितायामुपधादीर्घः ॥
“The path of the sisters is unending; they travel it alternately, guided by the radiant (sun); combined in purpose, though of different forms, night and dawn, giving birth (to all things), obstruct not eachother, neither do they stand still.”
Common, unending is the Sisters' pathway; taught by the Gods, alternately they travel.
Fair-formed, of different hues and yet one-minded, Night and Dawn clash not, neither do they travel.
The sisters' pathway is the same, unending: Taught by the gods alternately they tread it. Fair-shaped, of form diverse, yet single-minded, Morning and Night clash not, nor do they tarry.
The road is the same for the two sisters—unending. They proceed on it, one after the other, commanded by the gods.
They do not oppose each other, nor do they stand still, though well grounded—Night and Dawn, of like mind but different form.
Der Nacht, des Morgens Weg ist gleich und endlos, gelehrt von Göttern gehn sie nacheinander, Nicht stehn sie still, noch stossen sich die hehren, an Farbe ungleich, gleich an Sinn, die Schwestern.
Beider Schwestern Weg ist der gleiche endlose; den wandeln sie eine um die andere von den Göttern gewiesen. Sie kommen nicht in Streit, sie bleiben nicht stehen, den richtigen Abstand einhaltend. Nacht und Morgen sind gleichen Sinnes und doch von ungleicher Farbe.
Общий путь у двух сестер, бесконечный.
По нему странствуют они одна за другой, наученные богом.
Они не ссорятся, не останавливаются, (эти) две хорошо соразмеренные,
Ночь и Ушас одного духа, (но) разного вида.
भास्व॑ती ने॒त्री सू॒नृता॑ना॒मचे॑ति चि॒त्रा वि दुरो॑ न आवः । प्रार्प्या॒ जग॒द्व्यु॑ नो रा॒यो अ॑ख्यदु॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
भास्व॑ती । ने॒त्री । सू॒नृता॑नाम् । अचे॑ति । चि॒त्रा । वि । दुरः॑ । नः॒ । आ॒व॒रित्या॑वः । प्र॒ऽर्प्य॑ । जग॑त् । वि । ऊँ॒ इति॑ । नः॒ । रा॒यः । अ॒ख्य॒त् । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥
भास्वती विशिष्टप्रकाशनयुक्ता । सूनृतेति वाङ्नाम । सूनृतानां वाचां नेत्री उत्पादयित्री । उषसः प्रादुर्भावानन्तरं हि पशुपक्षिमृगादयः सर्वे शब्दं कुर्वन्ति । एवंभूता उषाः अचेति अस्माभिः अज्ञायि । चित्रा चायनीया ज्ञाता सा नः अस्माकं दुरः द्वाराणि तमसा तिरोहितानि वि आवः व्यवृणोत् । यथास्माभिर्दृश्यन्ते तथा तमो निवार्य प्रकाशयतीत्यर्थः। अपि च जगत् सर्वं भुवनं प्रार्प्य प्रकाशं गमयित्वा नः अस्माकं रायः धनानि वि अख्यत् विशिष्टप्रकाशनयुक्तान्यकरोत् । उ इत्येतत् पादपूरणम् । सैषा उषाः विश्वा भुवनानि सर्वाणि भुवनानि तमसा तिरोहितत्वेन अविद्यमानकल्पानि अजीगः उद्गिरति स्वमुखान्निर्गमयति । स्वकीयेन प्रकाशेन तमो निःसार्य पुनरुत्पन्नानीव करोतीत्यर्थः ॥ नेत्री। ‘णीञ् प्रापणे'। तृच् । 'ऋन्नेभ्यो ङीप् । उदात्तयणो हल्पूर्वात् ' इति ङीप उदात्तत्वम् । अचेति । चिती संज्ञाने। दुरः। द्वारशब्दस्य ‘ रयेर्मतौ बहुलम् ' (पा. सू. ६. १. ३७. ६) इति बहुलवचनात् संप्रसारणम् । आवः। वृञ् वरणे'। लुङि ‘मन्त्रे घस' इति च्लेर्लुक् । गुणः । हल्याेरब्भ्यः' इति तिलोपः। 'छन्दस्यपि दृश्यते' इति आडागमः । प्रार्प्य। 'ऋ गतौ । णौ ‘ अर्तिही ' इत्यादिना पुक्। ‘ समासेऽनञ्पूर्वे क्त्वो ल्यप् ' । अख्यत् । ‘ख्या प्रकथने ' । लुङि ‘ अस्यतिवक्ति' इत्यादिना च्लेरङादेशः । अजीगः। 'गॄ निगरणे'। लङि तिपि ‘ बहुलं छन्दसि ' इति विकरणस्य श्लुः । द्विर्वचनोरदत्वहलादिशेषाः । ‘अर्तिपिपर्त्योश्च, बहुलं छन्दसि' इति अभ्यासस्य इत्वम् । छान्दसः ईकारः । यद्वा । अस्मात् ण्यन्तात् लुङि चङि द्विर्भावसन्वद्भावेत्वदीर्घाः । छान्दसः चङो लोपः ॥
“Brilliant guide of the speakers of truth, the many-tinted dawn, is recognized by us; she has opened our doors; having illuminated the world, she has made our riches manifest. Uṣās gives back all the regions (that had been swallowed up by night).”
Bright leader of glad sounds, our eyes behold her; splendid in hue she hath unclosed the portals.
She, stirring up the world, hath shown us riches: Dawn hath awakened every living creature.
Bright leader of glad sounds she shines effulgent: Widely she has unclosed for us her portals. Pervading all the world she shows us riches: Dawn has awakened every living creature.
Light-filled leader of liberalities, the bright one has appeared. She has opened out the doors for us.
Having stirred forth the moving world, she has looked out for riches for us. – Dawn has awakened all the creatures.
Die glänzend herführt alle Herrlichkeiten, erschien im Licht und schloss uns auf die Thore, Was lebt, erregend zeigte sie uns Schätze; das Morgenroth erweckte alle Wesen.
Die lichtreiche Bringerin der Schenkungen erprangte; die Prangende hat uns die Tore geöffnet. Die lebende Welt bringt sie in Bewegung und hat für uns Schätze entdeckt Usas hat alle Wesen erweckt
Сверкающая водительница богатых даров
Показалась: яркая, она открыла нам врата.
Приведя в движение живой мир, она явила нам богатства.
Ушас пробудила все существа.
जि॒ह्म॒श्ये॒३॒॑ चरि॑तवे म॒घोन्या॑भो॒गय॑ इ॒ष्टये॑ रा॒य उ॑ त्वम् । द॒भ्रं पश्य॑द्भ्य उर्वि॒या वि॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
जि॒ह्म॒ऽश्ये॑ । चरि॑तवे । म॒घोनी॑ । आ॒ऽभो॒गये॑ । इ॒ष्टये॑ । रा॒ये । ऊँ॒ इति॑ । त्वम् । द॒भ्रम् । पश्य॑त्ऽभ्यः । उ॒र्वि॒या । वि॒ऽचक्षे॑ । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥
मघोनी इत्युषसो नामधेयम् । मघोनी धनवती उषाः जिह्मश्ये जिह्मं वक्रं शयानाय पुरुषाय चरितवे चरितुं शयनादुत्थाय स्वापेक्षितं प्रति गन्तुं व्युच्छन्ती भवति । त्वम् । अयमेकशब्दपर्यायः सर्वनामशब्दः । यदाह- ‘ त्व इति विनिग्रहार्थीयं सर्वनामानुदात्तम्' (निरु. १.७) इति। त्वम् एकं प्रति आभोगये आभोग्याय शब्दादिविषयार्थं तथा अपरं प्रति इष्टये यागार्थं तथा अन्यं प्रति राये धनार्थं च व्युच्छन्तीति शेषः । उशब्दश्चार्थे । अपि च 'दभ्रम् अल्पं पश्यद्यः"ो अन्धकारावृतत्वेन ईषद्द्रष्टृभ्यो मनुष्येभ्यः विचक्षे विशिष्टप्रकाशाय व्युच्छन्ती उर्विया उर्वी विस्तीर्णा उषाः सर्वाणि भूतजातानि तमसा तिरोहितानि प्रकाशदानेन उद्गीर्णानीव करोति । जिह्मश्ये । ‘शीङ् स्वप्ने'। जिह्मं शेते इति जिह्मशीः । ‘ क्विप् च' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम्। ‘एरनेकाचः० ' इति यण् । उदात्तस्वरितयोर्यणः । इति विभक्तेः स्वरितत्वम् । आभोगये । आभोगशब्दाच्चतुर्थ्येकवचने यकारोपजनः । यद्वा । आङ्पूर्वात भुजेः बहुलवचनादौणादिकः किप्रत्ययः कुत्वं च। उर्विया । ‘इयाडियाजीकाराणामुपसंख्यानम् (पा. सू. ७. १. ३९.१ ) इति उर्वीशब्दादुत्तरस्य सोः डियाजादेशः। विचक्षे । ‘चक्षिङ् व्यक्तायां वाचि'। विपूर्वादस्मात् संपदादिलक्षणो भावे क्विप् ॥ ॥ १ ॥
“The opulent (dawn) arouses to exertion the man bowed down in sleep--one man to enjoyments, another to devotion, another to (the acquisition of) wealth; she has enabled those who were almost sightless to see distinctly. The expansive Uṣas has given back all the regions.”
Rich Dawn, she sets afoot the coiled-up sleeper, one for enjoyment, one for wealth or worship,
Those who saw little for extended vision. All living creatures hath the Dawn awakened.
Men lying on the ground she wakes to action: Some rise to seek enjoyment of great riches, Some, seeing little, to behold the distant: Dawn has awakened every living creature.
The bounteous one (has awakened them), for (even) one who lies crossways to move, for (another) one to seek wealth to his use,
for (even) those who see (only) a little to gaze out widely. – Dawn has awakened all the creatures.264 I.113
Den hingestreckten weckt zum Gehn die reiche, den zum Genuss, und den zum Schatzerwerben, Die schwach nur sehn, um weit sich umzublicken, das Morgenroth erweckte alle Wesen.
Den schräg Daliegenden zum Gehen, den seinen Unterhalt und jenen um Reichtum zu suchen. Die wenig Sehenden zum weithin Schauen: so hat die freigebige Usas alle Wesen erweckt;
Лежащего ничком щедрая (побуждает) к передвижениям,
Другого – к поискам пищи, к богатству,
Плохо видящих – к тому, чтоб видеть далеко.
Ушас пробудила все существа.
क्ष॒त्राय॑ त्वं॒ श्रव॑से त्वं मही॒या इ॒ष्टये॑ त्व॒मर्थ॑मिव त्वमि॒त्यै । विस॑दृशा जीवि॒ताभि॑प्र॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
क्ष॒त्राय॑ । त्व॒म् । श्रव॑से । त्व॒म् । म॒ही॒यै । इ॒ष्टये॑ । त्व॒म् । अर्थ॑म्ऽइव । त्व॒म् । इ॒त्यै । विऽस॑दृशा । जी॒वि॒ता । अ॒भि॒ऽप्र॒चक्षे॑ । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥
क्षत्राय । धननामैतत् । धनार्थं त्वम् एकं प्रति उषा व्युच्छन्ती' इति शेषः । तथा श्रवसे अन्नार्थं त्वम् एकं प्रति महीयै महत्यै इष्टये अग्निष्टोमादिमहायज्ञार्थं त्वम् एकं प्रति व्युच्छन्ती। तथा अर्थमिव अपेक्षितमर्थं प्रति इत्यै गमनार्थं त्वम् एकं प्रति व्युच्छन्ती । अपि च विसदृशा विलक्षणानि नानारूपाणि जीविता जीवितानि जीवनोपायभूतानि कृषिवाणिज्यादीनि अभिप्रचक्षे
आभिमुख्येन प्रकाशयितुं व्युच्छन्ती उषाः सर्वाणि भूतजातानि तमसा निगीर्णानि अजीग: प्रकाशनेन उद्गीर्णानीवाकरोत् ॥ त्वम् । त्वसमसिमनेमेत्यनुच्चानि' (फि. सू. ७८ ) इति सर्वानुदात्तत्वम्। महीयै। मह्यै । महेः ‘इन् सर्वधातुभ्यः' इति इन्प्रत्ययः। कृदिकारदक्तिनः' इति ङीष् । ‘ उदात्तयणः' इति विभक्तेरुदात्तत्वम् । छान्दसः ईकारोपजनः । यद्वा । महीशब्दादुत्तरस्य चतुर्थ्येकवचनस्य ' याडापः ' ( पा. सू. ७. ३. ११३ ) इति व्यत्ययेन याडागमः । छान्दसमन्तोदात्तत्वम् । विसदृशा । ‘त्यदादिषु दृशोऽनालोचने कञ्च' इत्यत्र ‘ समानान्ययोश्च' (पा. सू. ३. २. ६०. १) इति वचनात् दृशेः कञ् । 'समानस्य च्छन्दसि' इति सभावः। विगतसादृश्यानि विसदृशानि। ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अभिप्रचक्षे । चक्षेः “ तुमर्थे सेसेन्” ' इति सेन्प्रत्ययः । स्कोः संयोगाद्योः' इति कलोपः । कत्वषत्वे ॥
“The dawn rouses one man to acquire wealth, another to earn food, another to achieve greatness, another to sacrifices, another to his own (pursuits), another to activity, and lights all men to their various means of maintaining life. Uṣās has given back all the regions.”
One to high sway, one to exalted glory, one to pursue his gain, and one his labour:
All to regard their different vocations, all moving creatures hath the Dawn awakened.
One for dominion, and for fame another; Another is aroused for winning greatness; Another seeks the goal of varied nurture: Dawn has awakened every living creature.
(She has awakened) one for dominion, another for fame, another to seek greatness, another to go to whatever his goal.
Living being are not alike in what they have in view. – Dawn has awakened all the creatures.
Zur Herrschaft den, zum Ruhmgenuss den andern, den zum Erwerb, und den nach Glück zu jagen, Verschiedne Lebenswege zu durchmustern, das Morgenroth erweckte alle Wesen.
Den zur Herrschaft und jenen um Ruhm und jenen um Ehre zu suchen, einen anderen um an sein Geschäft wie nach einem Reiseziel zu gehen. Um die verschiedenartigen Lebensweisen sich auszusuchen hat Usas alle Wesen erweckt.
Того – к власти, этого к славе, иного к поискам
Величия, этого – заниматься своими делами.
Чтобы видны были различные образы жизни,
Ушас пробудила все существа.
ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि व्यु॒च्छन्ती॑ युव॒तिः शु॒क्रवा॑साः । विश्व॒स्येशा॑ना॒ पार्थि॑वस्य॒ वस्व॒ उषो॑ अ॒द्येह सु॑भगे॒ व्यु॑च्छ ॥
ए॒षा । दि॒वः । दु॒हि॒ता प्रति॑ । अ॒द॒र्शि॒ । वि॒ऽउ॒च्छन्ती॑ । यु॒व॒तिः । शु॒क्रऽवा॑साः । विश्व॑स्य । ईशा॑ना । पार्थि॑वस्य । वस्वः॑ । उषः॑ । अ॒द्य । इ॒ह । सु॒ऽभ॒गे॒ । वि । उ॒च्छ॒ ॥
दिवो दुहिता व्योम्नो दुहितृस्थानीया । तस्य हि पूर्वार्धे उषा उत्पद्यते । सा एषा व्युच्छन्ती तमो वर्जयन्ती प्रत्यदर्शि सर्वैः प्राणिभिर्दृष्टाभूत् । कीदृशी सा । युवतिः यावयित्री फलानां पुरुषैः प्रापयित्री नित्ययौवनोपेता वा । शुक्रवासाः श्वेतवसना निर्मलदीप्तिर्वा । तथा विश्वस्य सर्वस्य पार्थिवस्य पृथिव्याः संबन्धिनः वस्वः धनस्य ईशाना ईश्वरी। हे सुभगे शोभनधने उषः तादृशी त्वम् अद्य अस्मिन् काले इह अस्मिन् देवयजनदेशे व्युच्छ तमांसि विवासय वर्जयेत्यर्थः ॥ दिवः। ‘ उडिदम्' इति विभक्तेरुदात्तत्वम् । व्युच्छन्ती ।' उछी विवासे । विवासो वर्जनम् । तौदादिकः । युवतिः । ‘ यूनस्तिः ' (पा. सू. ४. १. ७७)। शुक्रवासाः । ‘वस आच्छादने । वस्ते सर्वमाच्छादयतीति प्रकाशो वासः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। ईशाना। ‘ईश ऐश्वर्ये'। अदादित्वात् शपो लुक् । अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । पार्थिवस्य । पृथिव्या ञाञौ ' इति प्राग्दीव्यतीयः अञ्प्रत्ययः । वस्वः । लिङ्गव्यत्ययः । ‘ धेर्ङिति' इति गुणस्य ‘ जसादिषु च्छन्दसि वावचनम् ' इति विकल्पितत्वादभावे यणादेशः ॥
“The daughter of heaven, young, white-robed, the mistress of all earthly treasure, is beheld dissipating the darkness. Auspicious Uṣās,shine upon us today in this (hall of sacrifice).”
We see her there, the Child of Heaven apparent, the young Maid, flushing in her shining raiment.
Thou sovran Lady of all earthly treasure, flush on us here, auspicious Dawn, this morning.
Daughter of Heaven, she has appeared before us, A maiden shining in resplendent raiment. Thou sovereign lady of all earthly treasure, Auspicious Dawn, shine here to-day upon us.
This Daughter of Heaven has appeared opposite, dawning forth, the youthful one with gleaming garment.
Holding sway over every earthly good, o well-portioned Dawn, dawn forth here today.
᳓
Das Himmels Tochter liess sich hier erblicken, die Jungfrau, strahlend und in Licht gekleidet; Gebietend über alles Gut der Erde, erstrahle heut, o sel'ge Morgenröthe.
Diese Tochter des Himmels ist im Morgenlicht erschienen, eine hellgekleidete junge Frau. Die du über alles irdische Gut gebeutst, geh heute bei uns, du holde Usas, hell auf!
Эта дочь неба явила себя,
Ярко пылающая юная женщина в светлых одеждах,
Повелевая надо всем земным добром,
Зажгись здесь сегодня, о счастливая Ушас!
प॒रा॒य॒ती॒नामन्वे॑ति॒ पाथ॑ आयती॒नां प्र॑थ॒मा शश्व॑तीनाम् । व्यु॒च्छन्ती॑ जी॒वमु॑दी॒रय॑न्त्यु॒षा मृ॒तं कं च॒न बो॒धय॑न्ती ॥
प॒रा॒य॒ती॒नाम् । अनु॑ । ए॒ति॒ । पाथः॑ । आ॒ऽय॒ती॒नाम् । प्र॒थ॒मा । शश्व॑तीनाम् । वि॒ऽउ॒च्छन्ती॑ । जी॒वम् । उ॒त्ऽई॒रय॑न्ती । उ॒षाः । मृ॒तम् । कम् । च॒न । बो॒धय॑न्ती ॥
परायतीनां परागच्छन्तीनाम् अतीतानामुषसां संबन्धि पाथः अन्तरिक्षैकदेशलक्षणं स्थानम् । ‘ पाथोऽन्तरिक्षं पथा व्याख्यातम् ' ( निरु. ६. ७) इति यास्कः। अद्यतन्युषाः अन्वेति अनुगच्छति । अतीता उषसो यथा व्युष्टा एवमेवैषापि व्युच्छतीत्यर्थः । तथा आयतीनाम् आगच्छन्तीनां शश्वतीनां बह्वीनामुषसां प्रथमा आद्या भवति । एषा यथा वर्तते एवमेव आगामिन्योऽप्युषस इत्यर्थः । तादृशी व्युच्छन्ती तमो वर्जयन्ती जीवं प्राणिनां जीवात्मानम् उदीरयन्ती शयनादूर्ध्वं प्रेरयन्ती उषाः मृतं स्वापसमये प्रलीनेन्द्रियत्वात् मृतमिव सन्तं कं चन कमपि पुरुषं बोधयन्ती पुनः इन्द्रियप्रवेशेन चेतनं कुर्वती प्रवर्तत इति शेषः ॥ परायतीनाम् । इण् गतौ । लटः शतृ । इणो यण् ‘ उगितश्च ' इति ङीप् । ड्याश्छन्दसि बहुलम्' इति नाम उदात्तत्वम् ॥
“Following the path”
She first of endless morns to come hereafter, follows the path of morns that have departed.
Dawn, at her rising, urges forth the living him who is dead she wakes not from his slumber.
The path of those that have gone by she follows, The first of endless dawns to come hereafter. The living at her rising she arouses; The dead she never wakens from their slumber.
She follows the troop of those who go away; she is the first of those who, one by one, come hither—
Dawn, as she dawns forth, rousing up (every) living being, but
awakening no dead one at all.
᳓
Sie folgt dem Pfade der vorangegangnen, die erste aller, die noch kommen werden, Erstrahlend und die Lebenden erregend, die Morgenröthe jeden Schläfer weckend.
Usas sucht bei den vergangenen Morgenröten Zuflucht, als erste aller kommenden, im Aufleuchten alles, was lebt, auftreibend aber keine Toten mehr erweckend.
Она идет вслед за толпой минувших (зорь),
Первая из грядущих непрерывной чередой,
Ярко пылая, Ушас, что поднимает (все) живое,
Но никогда не пробуждает мертвого.
उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य । यन्मानु॑षान्य॒क्ष्यमा॑णाँ॒ अजी॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमप्न॑: ॥
उषः॑ । यत् । अ॒ग्निम् । स॒म्ऽइधे॑ । च॒कर्थ॑ । वि । यत् । आवः॑ । चक्ष॑सा । सूर्य॑स्य । यत् । मानु॑षान् । य॒क्ष्यमा॑णान् । अजी॑ग॒रिति॑ । तत् । दे॒वेषु॑ । च॒कृ॒षे॒ । भ॒द्रम् । अप्नः॑ ॥
हे उषः त्वम् अग्निं गार्हपत्यादिरूपं समिधे समिन्धनाय प्रज्वलनार्थं यत् चकर्थ कृतवती । उषःकाले ह्यग्नयो होमार्थमुपसमिध्यन्ते । अपि च तमसा तिरोहितं जगत् सूर्यस्य चक्षसा प्रकाशेन यत् वि आवः व्यवृणोः तमसा विश्लिष्टमकरोः । तथा मानुषान् मनोः पुत्रान् मनुष्यान् यक्ष्यमाणान् यागं करिष्यतस्त्वं यत् अजीगः पूर्वं तमसा ग्रस्तान् प्रकाशेन उद्गीर्णानिवाकरोः । हे उषः देवेषु मध्ये स्वमेव भद्रं भजनीयं तत् एतत्त्रिविधम् अप्नः कर्म चकृषे कृतवती ॥ आवः । ‘ वृञ् वरणे ' । लुङि ‘मन्त्रे घस ' इति च्लेर्लुक् । गुणे ‘हल्ङ्याब्भ्यः ' इति सिलोपः। छन्दस्यपि दृश्यते' इति आडागमः । मानुषान् । मनोर्जातावञ्यतौ षुक् च ' इति अञ् षुगागमश्च ॥
“Uṣās, inasmuch as you have caused the sacred fire to be kindled, inasmuch as you have lighted the world with the light of the sun, inasmuch as you have wakened men to perform sacrifice, you have done good service to the godṣ ”
As thou, Dawn, hast caused Agni to be kindled, and with the Sun's eye hast revealed creation.
And hast awakened men to offer worship, thou hast performed, for Gods, a noble service.
O Dawn, since thou hast made them kindle Agni, Since thou hast shone forth with the light of Sūrya, Since thou the sacrificer hast awakened: Thou hast performed among the gods good service.
Dawn, since you have caused the fire to be kindled, since you have shone forth with the eye of the sun,
since you have awakened the sons of Manu who are about to sacrifice, so you have made for yourself good profit among the gods.
᳓
Dass, Morgenroth, den Agni du entflammtest und ihn enthülltest durch den Schein der Sonne, Die Menschen wecktest, welche opfern sollten, das schöne Werk hast du vollbracht den Göttern.
O Usas, daß du das Feuer anzuzünden Anlaß gabst, daß du mit der Sonne Auge aufgeleuchtet bist, daß du die Menschen, die opfern wollen, geweckt hast, damit hast du dir vor den Göttern ein löbliches Verdienst erworben.
О Ушас, за то, что ты дала зажечь костер,
Что воссияла глазом солнца,
Что пробудила людей, которые хотят принести жертвы,
За это среди богов ты создала себе прекрасное достояние.
किया॒त्या यत्स॒मया॒ भवा॑ति॒ या व्यू॒षुर्याश्च॑ नू॒नं व्यु॒च्छान् । अनु॒ पूर्वा॑: कृपते वावशा॒ना प्र॒दीध्या॑ना॒ जोष॑म॒न्याभि॑रेति ॥
किय॑ति । आ । यत् । स॒मया॑ । भवा॑ति । याः । वि॒ऽऊ॒षुः । याः । च॒ । नू॒नम् । वि॒ऽउ॒च्छान् । अनु॑ । पूर्वाः॑ । कृ॒प॒ते॒ । वा॒व॒शा॒ना । प्र॒ऽदीध्या॑ना । जोष॑म् । अ॒न्याभिः॑ । ए॒ति॒ ॥
समया इत्यव्ययं समीपवचनम् । उषाः समया भवाति समीपस्था भवतीति यत् एतत् तत् कियति काले प्रवृत्तं परिसमाप्तं वा इति आकारः प्रश्नार्थः। एतदुक्तं भवति । उषा येन कालेन संयुक्ता स कालः कियान् तस्य कालस्य किं परिमाणमिति । अनेन उषसोऽनन्तत्वमुक्तम् । तदेव स्पष्टीकरोति । पुरा याः उषसः व्यूषुः व्युष्टाः संजाताः। नूनम् अवश्यमितः परं याश्च उषसः व्युच्छान् व्युच्छन्ति व्युष्टा भविष्यन्ति । तत्र पूर्वाः व्युष्टा अतीता उषसः वावशाना कामयमाना इदानीं वर्तमाना उषाः अनु कृपते अनुकल्पते समर्था भवति । अतीता उषसो यथा प्रकाशमकुर्वन् तद्वदेषापि प्रकाशं करोतीत्यर्थः । तथा प्रदीध्याना प्रकर्षेण दीप्यमाना उषाः अन्याभिः आगामिनीभिः उषोभिः जोषं सह एति संगच्छते। आगामिन्योऽपि एतदीयं प्रकाशम् अनुकुर्वन्ति इत्यर्थः॥ कियति । किं परिमाणमस्य । किमिदंभ्यां वो घः' (पा. सू. ५. २. ४० ) इति घत्वविधानसामर्थ्यात् किंशब्दादपि परिमाणार्थे वतुप् वकारस्य घत्वम्। इदंकिमोरीश्की' (पा. सू. ६. ३.९०) इति किमः कीआदेशः । घस्य इयादेशे • यस्य° ' इति लोपः । प्रत्ययाद्युदात्तत्वम् । छान्दसः सांहितिको दीर्घः । भवाति ।लेटि आडागमः । व्यूषुः । विपूर्वो वसतिर्व्युच्छने वर्तते । लिटि उसि कित्त्वे यजादित्वात् संप्रसारणं द्विर्वचनादि । व्युच्छान् ।' उछी विवासे । विवासो वर्जनम् । लेटि आडागमः । संयोगान्तस्य
लोपः । कृपते। ‘ कृपू सामर्थ्ये '। व्यत्ययेन शः । वावशाना । ‘ वश कान्तौ'। अस्मान् यङ्लुगन्तात् ताच्छीलिकः चानश् । प्रदीध्याना ।' दीधीङ् दीप्तिदेवनयोः '। लटः शानच् । अदादित्वात् शपो लुक् । ‘जक्षित्यादयः षट्' इति अभ्यस्तसंज्ञायाम् ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ ॥ २ ॥
“For how long a period is it that the dawns have risen? for how long a period will they rise? still desirous to bring us light, Uṣās pursues the functions of those that have gone before, and, shining brightly, proceeds with the others (that are to follow).”
How long a time, and they shall be together,--Dawns that have shone and Dawns to shine hereafter?
She yearns for former Dawns with eager longing, and goes forth gladly shining with the others.
How distant is the time when she comes midway Between the past and those to shine in future? The earlier dawns right willingly she follows. Expected, she fulfils the later's wishes.
How long (will it be) until she will be together with those who (previously) dawned forth and those who will dawn forth now?
Bellowing, she yearns after the early ones; thinking ahead, she goes at pleasure with the others.
Wie lange währt's, dass sie mit denen eins wird, die früher strahlten und noch strahlen werden? Sie sehnt verlangend hin sich nach den frühern, und geht ausschauend auf die Lust mit spätern.
Wie lange währt es, daß sie in der Mitte sein wird zwischen denen die aufgegangen sind und die künftig aufgehen werden? Voll Verlangen fühlt sie sich zu den früheren hingezogen; von den anderen erwartet sie es gern.
В каком (месте) она будет посредине
Тех, что зажглись (раньше), и что сейчас зажгутся?
С готовностью она равняется на прежние (зори),
Размышляя, идет радостно с другими.
ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन्व्यु॒च्छन्ती॑मु॒षसं॒ मर्त्या॑सः । अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑भू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्या॑न् ॥
ई॒युः । ते । ये । पूर्व॑ऽतराम् । अप॑श्यन् । वि॒ऽउ॒च्छन्ती॑म् । उ॒षस॑म् । मर्त्या॑सः । अ॒स्माभिः॑ । ऊँ॒ इति॑ । नु । प्र॒ति॒ऽचक्ष्या॑ । अ॒भू॒त् । ओ इति॑ । ते । य॒न्ति॒ । ये । अ॒प॒रीषु॑ । पश्या॑न् ॥
ये मर्त्यासः मरणधर्माणो मनुष्याः व्युच्छन्तीं विवासयन्तीं पूर्वतराम् अतिशयेन पूर्वां विप्रकृष्टाम् उषसम् अपश्यन् दृष्टवन्तः ते मनुष्याः ईयुः गताः। तथा अस्माभिः अपि नु इदानीं प्रतिचक्ष्या प्रकर्षेण द्रष्टव्या अभूत् जाता । तथा अपरीषु भाविनीषु रात्रिषु ये मनुष्याः एतामुषसं पश्यान् पश्यन्ति ते । आ उ इति निपातद्वयसमुदायः । तत्र उ इत्येतदवधारणे । एव यन्ति आगच्छन्त्येव । कालत्रयेऽप्येषा व्याप्य वर्तते इत्यर्थः ॥
ईयुः । ‘ इण् गतौ '। 'लिटि उसि इणो यण्' इति यणादेशः । ‘द्विर्वचनेऽचि' इति तस्य स्थानिवद्भावात् द्विर्भावे 'दीर्घ इणः किति' (पा. सू. . ७. ४. ६९ ) इति अभ्यासस्य दीर्घत्वम् ।
ते । ‘ युष्मत्-तत्-ततक्षुःष्वन्तःपादम्' इति सकारस्य षत्वं ष्टुत्वं च ।
मर्त्यासः । ‘ आज्जसेरसुक्' ॥
“Those mortals who beheld the pristine Uṣās dawning have passed away; to us she is now visible, and they approach who may behold her in after times.”
Gone are the men who in the days before us looked on the rising of the earlier Morning.
We, we the living, now behold her brightness and they come nigh who shall hereafter see her.
Gone are those mortals who in former ages Beheld the flushing of the early morning; We living men now look upon her shining: Those will be born who shall hereafter see her.
Departed are those mortals who in days gone by behold
An earlier dawn of morning;
Dawn now hath become visible to us;
They come who shall behold her in days to come.
They have gone, the mortals who saw the earlier dawn dawning forth. (This dawn) has now come to be gazed upon by us. And there are those coming hither who will see (the dawn) in the future.
Verschwunden sind die Menschen, welche schauten die Morgenröthe, die da früher strahlte; Jetzt hat sie sich von uns erblicken lassen, es kommen noch, die sie in Zukunft schauen.
Vergangen sind die Sterblichen, welche die früheren Usas´ aufgehen sahen, jetzt hat sie sich von uns beschauen lassen; es kommen die, welche sie in Zukunft sehen werden.
Ушли те смертные, что видели,
Как зажигается более древняя Ушас.
Это нам теперь она явилась воочию.
Идут и те, кто увидит ее в будущие времена.
या॒व॒यद्द्वे॑षा ऋत॒पा ऋ॑ते॒जाः सु॑म्ना॒वरी॑ सू॒नृता॑ ई॒रय॑न्ती । सु॒म॒ङ्ग॒लीर्बिभ्र॑ती दे॒ववी॑तिमि॒हाद्योष॒: श्रेष्ठ॑तमा॒ व्यु॑च्छ ॥
या॒व॒यत्ऽद्वे॑षाः । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः । सु॒म्न॒ऽवरी॑ । सू॒नृताः॑ । ई॒रय॑न्ती । सु॒ऽम॒ङ्ग॒लीः । बिभ्र॑ती । दे॒वऽवी॑तिम् । इ॒ह । अ॒द्य । उ॒षः॒ । श्रेष्ठ॑ऽतमा । वि । उ॒च्छ॒ ॥
यावयद्द्वेषाः । यावयन्ति अस्मत्तः पृथक्तकृतानि द्वेषांसि द्वेष्टॄणि राक्षसादीनि यया सा तथोक्ता । न ह्युष्यसि जातायां राक्षसादयोऽवतिष्ठन्ते यतस्ते निशाचराः । ऋतपाः ऋतस्य सत्यस्य यज्ञस्य वा पालयित्री ऋतेजाः यज्ञार्थं प्रादुर्भूता । सत्यामुषसि अहनि यागा अनुष्ठीयन्ते अतो यज्ञार्थं जातेत्युच्यते। सुम्नावरी । सुम्नमिति सुखनाम तद्वती । सूनृताः । वाङ्नामैतत् । पशुपक्षिमृगादीनां वचांसि ईरयन्ती प्रेरयन्त्युत्पादयन्ती । सुमङ्गलीः सौमङ्गल्योपेता । पत्या कदाचिदपि न वियुक्तेत्यर्थः । देववीतिं देवैः काम्यमानं यज्ञं बिभ्रती धारयन्ती हे उषः श्रेष्ठतमा उक्तेन प्रकारेणातिप्रशस्ता त्वम् इह अस्मिन् देवयजनदेशे अद्य अस्मिन् यागसमये व्युच्छ विवासय ॥ यावयद्द्वेषाः। ‘यु मिश्रणामिश्रणयोः' । अस्मात् ण्यन्तात् लटः शतृ । तस्य छन्दस्युभयथा ' इति आर्धधातुकत्वात् अदुपदेशात् लसार्वधातुकानुदात्तत्वाभावात् प्रत्ययस्वर एव शिष्यते । पुनर्बहुव्रीहौ स एव स्वरः । छान्दसः पदकालीनो ह्रस्वः । ऋतपाः । ऋतं पाति रक्षतीति ऋतपाः। ‘पा रक्षणे'। विच् । ऋतेजाः ।ऋते निमित्तभूते जायते इति ऋतेजाः । जनी प्रादुर्भावे ' । जनसनखनक्रमगमो विट् । ‘ विड्वनोरनुनासिकस्यात् ' इति आत्वम् । तत्पुरुषे कृति बहुलम्' इति अलुक्। सुम्नावरी । ‘ छन्दसीवनिपौ । इति मत्वर्थीयो वनिप् । 'वनो र च ' इति ङीप् नकारस्य रेफादेशश्च । अन्येषामपि दृश्यते ' इति दीर्घः । व्यत्ययेन प्रत्ययाद्युदात्तत्वम्। सुमङ्गलीः। ‘सुमङ्गलात् संज्ञायाम्' (पा. सू. ४.१.४१. ग.) इति गौरादिषु पाठात् ङीष् । सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति 'हल्ङ्याब्भ्यः' इति सुलोपस्य विकल्पितत्वात् अभावे रुत्वविसर्गौ । देववीतिम् । ‘ वी गतिप्रजनकान्त्यशनखादनेषु । देवैर्वीयते काम्यते इति देववीतिर्यज्ञः । कर्मणि क्तिन् । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् ॥
“The beings hostile (to acts of devotion) now withdraw, for she is the protectress of sacred rites, who is manifested for their performance; she is the giver of happiness, the awakener of plural asant voices, the enjoyer of felicity, and provider of food for the gods; most excellent Uṣās dawn today on this (sacrificial hall).”
Foe-chaser, born of Law, the Law's protectress, joy-giver, waker of all pleasant voices,
Auspicious, bringing food for Gods' enjoyment, shine on us here, most bright, O Dawn, this morning.
Dispelling foes, observer of world order, Born in due season, giver of enjoyment, Wafting oblations, bringing wealth and fortune, Shine brightly here to-day, O Dawn, upon us.
Keeping away hatred, guardian of truth, born in truth, gracious, arousing liberalities,
of good omen, bringing to birth (our ritual) pursuit of the gods—here today, Dawn, as the most fairest, dawn forth.
Feindscheuchend, treu dem Recht und Recht beschirmend, voll Güte, alle Herrlichkeit erweckend, An Segen reich, zum Göttermahle führend, erstrahle hier aufs schönste, Morgenröthe!
Anfeindungen wehrend, die rechte Ordnung hütend, zu rechter Zeit geboren, gnadenreich, die Schenkungen in Bewegung setzend, von guter Vorbedeutung, die Götterladung bringend gehe heute hier als die Allerschönste auf!
Отвращающая враждебность, охраняющая закон, рожденная в законе,
Благосклонная, вызывающая богатые дары,
Несущая добрые предзнаменования, приглашающая богов:
Здесь, Ушас, сегодня зажгись, о самая лучшая!
शश्व॑त्पु॒रोषा व्यु॑वास दे॒व्यथो॑ अ॒द्येदं व्या॑वो म॒घोनी॑ । अथो॒ व्यु॑च्छा॒दुत्त॑राँ॒ अनु॒ द्यून॒जरा॒मृता॑ चरति स्व॒धाभि॑: ॥
शश्व॑त् । पु॒रा । उ॒षाः । वि । उ॒वा॒स॒ । दे॒वी । अथो॒ इति॑ । अ॒द्य । इ॒दम् । वि । आ॒वः॒ । म॒घोनी॑ । अथो॒ इति॑ । वि । उ॒च्छा॒त् । उत्ऽत॑रान् । अनु॑ । द्यून् । अ॒जरा॑ । अ॒मृता॑ । च॒र॒ति॒ । स्व॒धाभिः॑ ॥
देवी देवनशीला उषाः पुरा पूर्वस्मिन्काले शश्वत् नित्यं संततं व्युवास व्यौच्छत् । अथो अनन्तरम् अद्य अस्मिन् काले मघोनी धनवती उषाः तमसा तिरोहितम् इदं सर्वं जगत् व्यावः विवासितं प्रकाशनेन तमसा वियुक्तमकरोत् । अथो अनन्तरम् उत्तरान् ऊर्ध्वंतरान् भाविनः द्यून् दिवसान् अनुलक्ष्य आगामिष्वपि दिवसेषु व्युच्छात् व्युच्छति विवासयति । अतः कालत्रयव्यापिनी सोषाः अजरा जरारहिता सर्वदैकरूपा अमृता मरणरहिता च सती स्वधाभिः आत्मीयैस्तेजोभिः सह चरति वर्तते ॥ उवास। ‘वस निवासे '।‘लिट्यभ्यासस्योभयेषाम् ' इति अभ्यासस्य संप्रसारणम् । आवः । तस्मादेव धातोर्लंङि बहुलं छन्दसि' इति विकरणस्य लुक्। 'हल्ङ्याब्भ्यः' इति तिलोपः। 'छन्दस्यपि दृश्यते ' इति आडागमः । उच्छात् । लेटि आडागमः । उत्तरान् । ' दीर्घादटि समानपदे ' इति नकारस्य रुत्वम् । आतोऽटि नित्यम्' इति सानुनासिकः आकारः। अनु। 'अनुर्लक्षणे' (पा. सू. १. ४. ८४ ) इति अनोः कर्मप्रवचनीयत्वम्। अजरा अमृता । तत्र बहुव्रीहौ ‘नञो जरमरमित्रमृताः ' इति उत्तरपदाद्युदात्तत्वम् ॥
“The divine Uṣās dawned continually in former times; the source of wealth, she still rises on this (world); so will she give light hereafter, through future days, for, exempt from decay or death, she goes on in her splendour.”
From days eternal hath Dawn shone, the Goddess, and shows this light to-day, endowed with riches.
So will she shine on days to come immortal she moves on in her own strength, undecaying.
The goddess Dawn has flushed in former ages, And here to-day the bounteous maiden flushes: So also may she flush in days hereafter. With powers her own she fares, immortal, ageless.
Over and over in the past the goddess Dawn dawned forth. And today she has dawned forth here, the bounteous one.
And she will dawn forth through later days. Unaging, immortal, she proceeds according to her own customs.
Stets schien zuvor die Göttin Morgenröthe, auch jetzt hat diesen Raum enthüllt die reiche, Nun wird sie leuchten auch in spätern Tagen, geht, wie sie will, nicht alternd, nimmer sterbend.
Immer wieder ist früher die Göttin Usas aufgeleuchtet und auch für heute ist sie jetzt hell aufgeleuchtet, die Gabenreiche. Und sie wird alle späteren Tage aufgehen; nie alternd, unsterblich wandelt sie nach eigenem Ermessen.
Бесконечно зажигалась раньше божественная Ушас,
И сейчас здесь зажглась щедрая,
И будет зажигаться она (все) последующие дни.
Нестареющая, бессмертная, странствует она по своим законам.
व्य१॒॑ञ्जिभि॑र्दि॒व आता॑स्वद्यौ॒दप॑ कृ॒ष्णां नि॒र्णिजं॑ दे॒व्या॑वः । प्र॒बो॒धय॑न्त्यरु॒णेभि॒रश्वै॒रोषा या॑ति सु॒युजा॒ रथे॑न ॥
वि । अ॒ञ्जिऽभिः॑ । दि॒वः । आता॑सु । अ॒द्यौ॒त् । अप॑ । कृ॒ष्णाम् । निः॒ऽनिज॑म् । दे॒वी । आ॒व॒रित्या॑वः । प्र॒ऽबो॒धय॑न्ती । अ॒रु॒णेभिः॑ । अश्वैः॑ । आ । उ॒षाः । या॒ति॒ । सु॒ऽयुजा॑ । रथे॑न ॥
दिवः नभसः संबन्धिनीषु आतासु । दिङ्नामैतत् । आततासु विस्तीर्णासु दिक्षु उषाः अञ्जिभिः व्यञ्जकैः प्रकाशकैः तेजोभिः वि अद्यौत् विद्योतते प्रकाशते । सैषा देवी देवनशीला कृष्णां निर्णिजम् । निर्णिगिति रूपनाम। रात्रिकृतं कृष्णं रूपम् अप आवः अपावृणोत् । प्रकाशेन तिरस्कृतवती । अपि च अरुणेभिः अरुणैः लोहितवर्णैः अश्वैः व्यापनशीलैः स्वकीयैः किरणैस्तुरगैर्वा सुयुजा सम्यग्युक्तेन रथेन उषाः आ याति आगच्छति । किं कुर्वती । प्रबोधयन्ती सुप्तान् प्राणिनः प्रबुद्धान् कुर्वती ॥ अद्यौत् ।' द्युत दीप्तौ । लुङ्। ‘ द्युद्भ्यो लुङि' (पा. सू. १. ३. ९१) इति परस्मैपदम् । व्यत्ययेन च्लेर्लुक् । गुणे प्राप्ते वृद्धिश्छान्दसी। यद्वा। ‘द्यु अभिगमने'। आदादिकः। ‘ उतो वृद्धिर्लुकि हलि ' ( पा. सू. ७. ३. ८९ ) इति वृद्धिः ॥
“The divine Uṣās lights up with her beams the quarters of the heavens; she has thrown off her gloomy form, and, awaking (those who sleep), comes in her car, drawn by purple steeds.”
In the sky's borders hath she shone in splendour: the Goddess hath thrown off the veil of darkness.
Awakening the world with purple horses, on her well-harnessed chariot Dawn approaches.
In the sky's framework she has gleamed with brightness; The goddess has cast off the robe of darkness. Rousing the world from sleep, with ruddy horses. Dawn in her well-yoked chariot is arriving.
She has flashed forth with her ornaments at the doorposts of heaven. The goddess has removed the black raiment.
Awakening (the world), with her ruddy horses, Dawn drives hither with a well-yoked chariot.
Im Schmucke strahlt sie an des Himmels Rändern, die schwarze Hülle deckte ab die Göttin, Aufweckend fährt auf schönbespanntem Wagen mit rothen Rossen her die Morgenröthe.
Mit aufgeschminkten Farben ist sie in den Torpfosten des Himmels aufgeblitzt; die Göttin hat das schwarze Gewand abgedeckt. Als Weckerin kommt Usas mit rötlichen Rossen auf wohlgeschirrtem Wagen her.
Она засверкала украшениями на пороге неба.
Богиня сняла черный наряд.
Пробуждая (все существа), на алых конях
Приезжает богиня на колеснице, в которую легко запрягать (коней).
आ॒वह॑न्ती॒ पोष्या॒ वार्या॑णि चि॒त्रं के॒तुं कृ॑णुते॒ चेकि॑ताना । ई॒युषी॑णामुप॒मा शश्व॑तीनां विभाती॒नां प्र॑थ॒मोषा व्य॑श्वैत् ॥
आ॒ऽवह॑न्ती । पोष्या॑ । वार्या॑णि । चि॒त्रम् । के॒तुम् । कृ॒णु॒ते॒ । चेकि॑ताना । ई॒युषी॑णाम् । उ॒प॒ऽमा । शश्व॑तीनाम् । वि॒ऽभा॒ती॒नाम् । प्र॒थ॒मा । उ॒षाः । वि । अ॒श्वै॒त् ॥
पोष्या यावज्जीवं पोषणसमर्थानि वार्याणि वरणीयानि धनानि आवहन्ती अस्मभ्यमानयन्ती चेकिताना सर्वं जनं प्रज्ञापयन्ती उषाः चित्रं विचित्रमाश्चर्यभूतं चायनीयं वा केतुं प्रज्ञापकं रश्मिं कृत्स्नजगत्प्रकाशनसमर्थं कृणुते स्वात्मनः प्रकाशात् कुरुते। सैषा ईयुषीणां गमनवतीनां पूर्वनिष्पन्नानां शश्वतीनां बह्वीनामुषसाम् उपमा उप समीपे निर्मितोपमानभूता वा विभातीनां विशेषेण प्रकाशमानानामागामिनीनाम् उषसां प्रथमा आद्या एवंभूतोषाः व्यश्वैत् तेजसा प्रवृद्धासीत् ॥ पोष्या । ‘ पुष पुष्टौ ' । पोषणं पोषः। भावे घञ् । तत्र भवानि। ‘भवे छन्दसि ' इति यत् । यतोऽनावः इत्याद्युदात्तत्वम् । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । वार्याणि । ' वृङ् संभक्तौ । ‘ ऋहलोर्ण्यत् '। ' ईडवन्दवृशंसदुहां ण्यतः' इत्याद्युदात्तत्वम् । चेकिताना । ‘ कित ज्ञाने'। अस्मात् यङन्तात् लटः शानच् । 'छन्दस्युभयथा' इति तस्य आर्धधातुकत्वात् अतोलोपयलोपौ । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । ईयुषीणाम् । • इण् गतौ ' । लिटः क्वसुः । द्विर्भावादि । ‘ उगितश्च ' इति ङीप् । वसोः संप्रसारणम् । ‘ इणो यण्' इति यणादेशः । ‘ दीर्घ इणः किति ' इति अभ्यासस्य दीर्घत्वम् । शासिवसिघसीनां च' इति षत्वम् । ङीप्सुपौ पित्त्वादनुदात्तौ। विभातीनाम्। ‘ भा दीप्तौ । अस्मात् शत्रन्तात् पूर्ववत् ङीप् । ‘ङ्याश्छन्दसि बहुलम्' इति नाम उदात्तत्वम् । अश्वैत् । टुओश्वि गतिवृद्धयोः'। लङि • बहुलं छन्दसि' इति विकरणस्य लुक्। गुणे कृते व्यत्ययेन ऐत्वम् ॥ ॥ ३ ॥
“Bringing with her life-sustaining blessings, and giving consciousness (to the unconscious), she imparts (to the world) her wonderful radiance. The similitude of numerous dawns that have gone by, the first of the billiant (dawns that are to come), Uṣās has today appeared.”
Bringing all life-sustaining blessings with her, showing herself she sends forth brilliant lustre.
Last of the countless mornings that have vanished, first of bright morns to come hath Dawn arisen.
She brings upon it many bounteous blessings; Brightly she shines and spreads her brilliant lustre. Last of innumerable morns departed. First of bright morns to come, has Dawn arisen.
Conveying hither flourishing valuables, she makes herself a bright beacon, showing herself ever more brightly.
The last of those who, one by one, have gone, the first of those radiating forth—Dawn has whitened widely.
Herbei nun fahrend nahrungsreiche Güter, erregt sie hellen Glanz, wenn sie erscheinet, Der hingegangnen letzte, und als erste der stets erneuten glänzt die Morgenröthe.
Gedeihliche erwünschte Gaben bringt sie mit; sie steckt das bunte Banner auf, die Augen auf sich ziehend. Als die letzte aller vergangenen, als die erste der Erstrahlenden ist Usas hell geworden.
Привозя желанные дары, дающие процветание,
Она поднимает яркое знамя, давая о себе знать.
Последняя из прошедших непрерывной чередой,
Первая из ярко сверкающих, засияла Ушас.
उदी॑र्ध्वं जी॒वो असु॑र्न॒ आगा॒दप॒ प्रागा॒त्तम॒ आ ज्योति॑रेति । आरै॒क्पन्थां॒ यात॑वे॒ सूर्या॒याग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयु॑: ॥
उत् । ई॒र्ध्व॒म् । जी॒वः । असुः॑ । नः॒ । आ । अ॒गा॒त् । अप॑ । प्र । अ॒गा॒त् । तमः॑ । आ । ज्योतिः॑ । ए॒ति॒ । अरै॑क् । पन्था॑म् । यात॑वे । सूर्या॑य । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयुः॑ ॥
हे मनुष्याः उदीर्ध्वं शयनं परित्यज्य उद्गच्छत। नः अस्माकम् असुः शरीरस्य प्रेरयिता जीवः जीवात्मा आगात् आगतवान्। तम: अप प्रागात् अपक्रान्तम्। उषसः प्रकाशे सति सर्वजीवनव्यापारयोगः। तस्मात् परमात्मरूपतया स च जीवस्तदेव ज्योतिः आ एति आगच्छति। सूर्याय सूर्यस्य पन्थां मार्गम् आरैक् विविक्तीकरोति । यातवे गमनाय । तस्मिन् देशे अगन्म गच्छामः यत्र यस्मिन् देशे आयुः । अन्ननामैतत् । अन्नं प्रतिरन्ते । प्रपूर्वस्तिरतिर्वर्धनार्थः । उदारा दानेन प्रवर्धयन्ति ॥ ईर्ध्वम् । ‘ ईर गतौ । आदादिकोऽनुदात्तेत् । अरैक् । ‘रिचिर् विरेचने '। लङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । गुणे व्यत्ययेन ऐत्वम् । पन्थाम् । द्वितीयायामपि ‘ पथिमथ्यृभुक्षामात्' इति व्यत्ययेन आत्वम् । अगन्म । गमेर्लङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ' म्वोश्च ' ( पा. सू. ८. २. ६५) इति मकारस्य नकारः ॥
“Arise; inspiring life revives; darkness has departed; light approaches. Uṣās has opened the road for the sun to travel; let us repair to where they distribute food.”
Arise! the breath, the life, again hath reached us: darkness hath passed away and light approacheth.
She for the Sun hath left a path to travel we have arrived where men prolong existence.
Arise! The vital breath again has reached us: Darkness has gone away and light is coming. She leaves a pathway for the sun to travel: We have arrived where men prolong existence.
Raise yourselves up! The living life-force has come here to us. Away, forth has gone the darkness; light comes hither.
She has left a path for the sun to drive on. We have come to where they lengthen lifetime.
Erhebt euch nun, des Lebens Odem kam uns, es wich das Dunkel und das Licht erscheinet, Zum Gehen bahnte sie den Weg der Sonne, wir kamen dahin, wo man lange lebet.
Erhebet euch, der lebendige Geist ist in uns gekommen. Das Dunkel ist vergangen, das Licht naht. Sie hat den Weg freigemacht, daß die Sonne wandele. Wir sind da angelangt, wo man das Leben fortsetzt.
Поднимайтесь! Живой жизненный дух нашел на нас.
Прочь ушел мрак, приближается свет.
Она освободила путь, чтобы двигалось солнце.
Мы пришли (туда,) где продлевают срок жизни.
स्यूम॑ना वा॒च उदि॑यर्ति॒ वह्नि॒: स्तवा॑नो रे॒भ उ॒षसो॑ विभा॒तीः । अ॒द्या तदु॑च्छ गृण॒ते म॑घोन्य॒स्मे आयु॒र्नि दि॑दीहि प्र॒जाव॑त् ॥
स्यूम॑ना । वा॒चः । उत् । इ॒य॒र्ति॒ । वह्निः॑ । स्तवा॑नः । रे॒भः । उ॒षसः॑ । वि॒ऽभा॒तीः । अ॒द्य । तत् । उ॒च्छ॒ । गृ॒ण॒ते । म॒घो॒नि॒ । अ॒स्मे इति॑ । आयुः॑ । नि । दि॒दी॒हि॒ । प्र॒जाऽव॑त् ॥
वह्निः स्तोत्राणां वोढा । रेभः । स्तोतृनामैतत् । स्तोता उषसो विभातीः तमसोऽपनोदनेन प्रकाशमाना उषोदेवताः स्तवानः स्तुवन् वाचः वेदरूपायाः संबन्धीनि स्यूमना स्यूमानि अनुस्यूतानि संततानि उक्थानि उदियर्ति उद्गमयति उच्चारयति । अतो हे मघोनि मघवति उषः अद्य अस्मिन् समये गृणते स्तुवते तस्मै पुरुषाय तदुच्छ । दृष्टिनिरोधकतया प्रसिद्धं नैशं तमो विवासय वर्जय । अस्मे अस्मभ्यं च प्रजावत् प्रजाभिः पुत्रपौत्रादिभिर्युक्तम् आयुः अन्नं नि दिदीहि नितरां प्रकाशय। दीदेतिश्छान्दसो दीप्तिकर्मा । प्रयच्छेत्यर्थः ॥ स्यूमना । ‘ षिवु तन्तुसंताने' । अन्येभ्योऽपि दृश्यन्ते' इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात् कर्मणि मनिन् । ‘ च्छ्वोः शूठ्' इति ऊठ्। ‘ आङ्याजयारां चोपसंख्यानम् ' (पा. म. ७. १, ३९. १ ) इति विभक्तेः आङादेशः । यद्वा । औणादिको भावे मक् । पामादिलक्षणो मत्वर्थीयो नः । बन्धनयुक्तानि इत्यर्थः । ‘ शेश्छन्दसि बहुलम् ' इति शेर्लोपः। व्यत्ययेनाद्युदात्तत्वम् । वाचः । ‘ सावेकाचः°? इति ङस उदात्तत्वम् । इयर्ति । ‘ ऋ गतौ ' । जौहोत्यादिकः'। 'अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् । स्तवानः । ष्टुञ् स्तुतौ '। शानिचि अदादित्वात् शपो लुक् । तस्य ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वेन ङित्त्वाभावात् गुणावादेशौ । व्यत्ययेनाद्युदात्तत्वम् । विभातीः।‘शतुरनुमो नद्यजादी' इति ङीप उदात्तत्वम् । गृणते । ‘गॄ शब्दे ' । क्रैयादिकः । ‘ प्वादीनां ह्रस्वः । पूर्वोक्तेन सूत्रेण विभक्तेरुदात्तत्वम् । अस्मे । ‘सुपां सुलुक्' इति चतुर्थ्याः शेआदेशः ॥
“The offerer of praise, the reciter of praise, celebrating the brilliant Uṣas, repeats the well-connected words (of the Veda). Possessor of affluence, dawn today upon him who praise you; bestow upon us food, whence progeny may be obtained.”
Singing the praises of refulgent Mornings with his hymn's web the priest, the poet rises.
Shine then to-day, rich Maid, on him who lauds thee, shine down on us the gift of life and offspring.
The singer lauding the refulgent mornings, Like charioteer with reins, sends forth his message: To-day this grant thy praiser, bounteous goddess: Life rich in offspring shine-thou down upon us.
With reins of speech the conveyor (of oblations), the hoarse-voiced (singer) [=Agni], himself being praised, arouses the radiant dawns.
Today then, o bounteous one, dawn for the one who sings; for us shine down a lifetime full of offspring.
Mit Zügeln lenkend treibet seine Lieder der Dichter vor, die lichten Morgen preisend, So leuchte heut, o reiche, hell dem Sänger und strahl uns zu ein kinderreiches Alter.
Mit dem Leitseil der Rede treibt als Lenker der preisende Sänger die erglänzende Morgenröte aus. So leuchte heute dem Sänger auf, du Gabenreiche; strahle uns kinderreiches Leben hernieder!
Вожжами речи погоняет возница –
Прославляющий певец ярко сверкающие зори.
Зажгись здесь сегодня для воспевающего (тебя), о щедрая!
Воссвети нам срок жизни, богатый потомством!
या गोम॑तीरु॒षस॒: सर्व॑वीरा व्यु॒च्छन्ति॑ दा॒शुषे॒ मर्त्या॑य । वा॒योरि॑व सू॒नृता॑नामुद॒र्के ता अ॑श्व॒दा अ॑श्नवत्सोम॒सुत्वा॑ ॥
याः । गोऽम॑तीः । उ॒षसः॑ । सर्व॑ऽवीराः । वि॒ऽउ॒च्छन्ति॑ । दा॒शुषे॑ । मर्त्या॑य । वा॒योःऽइ॑व । सू॒नृता॑नाम् । उ॒त्ऽअ॒र्के । ताः । अ॒श्व॒ऽदाः । अ॒श्न॒व॒त् । सो॒म॒ऽसुत्वा॑ ॥
दाशुषे हवींषि दत्तवते मर्त्याय मनुष्याय यजमानाय गोमतीः गोमत्यो बहुभिर्गोंभिर्युकताः सर्ववीराः सर्वैः सरणसमर्थैः वीरैः शूरैर्युक्ताः याः उषसः व्युच्छन्ति तमो वर्जयन्ति। वायोरिव वायुवच्छीघ्रं प्रवर्तमानानां सूनृतानां स्तुतिरूपाणां वाचाम् उदर्के समाप्तौ अश्वदाः अश्वानां दात्रीः ताः उषसः सोमसुत्वा सोमानामभिषोता यजमानः अश्नवत् व्याप्नोतु ॥ दाशुषे । ‘ दाशृ दाने । ‘ दाश्वान्साह्वान् ' इति क्वसुप्रत्ययान्तो निपात्यते । चतुर्थ्येकवचने ‘वसोः संप्रसारणम्' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् । अश्नवत् । अशू व्याप्तौ '। व्यत्ययेन परस्मैपदम्। लेट अडागमः । ‘ इतश्च लोपः० ' इति इकारलोपः। सोमसुत्वा । ‘ षुञ् अभिषवे'। ‘ अन्येभ्योऽपि दृश्यन्ते' इति क्वनिप् । ह्रस्वस्य पिति' इति तुक्॥
“May he who has offered the libation obtain, upon the conclusion of his praises, (enunciated), life the wind, (with speed), (the favour of) those Uṣasas who are givers of horses, and of cattle, and of progeny, and who shed light upon the mortal presenting to them (offerings).”
Dawns giving sons all heroes, kine and horses, shining upon the man who brings oblations,--
These let the Soma-presser gain when ending his glad songs louder than the voice of Vayu.
The dawns that shine forth for the pious mortal, Bestowing kine and steeds and many heroes: May these be gained by zealous Soma-pressers, When joyous songs break forth like gusty breezes.
The dawns, bringing cows and hale heroes, who dawn forth for the pious mortal
when the litany of liberalities is raised like (the litany) of Vāyu—to
them, the givers of horses, shall the soma-presser attain.
Die Morgen, die dem sterblichen Verehrer mit Rinderschar und allen Helden leuchten, Die finde, wenn im Sturm die Lieder brausen, als rosseschenkend sich der Somapresser.
Solche Morgen, die Rinder und vollzählige Söhne dem opferspendenden Sterblichen bringend aufgehen, die möge der rosseschenkende Somaopferer erleben, wenn die Schenkungen schnell wie der Wind herausgesungen werden.
(Те) зори, богатые коровами, богатые крепкими мужами,
Что ярко сверкают для почитающего (их) смертного –
Пусть тот, кто выжимает сому, достигнет их, дающих коней,
При вызывании песней щедрых даров, как при(призыве) Ваю.
मा॒ता दे॒वाना॒मदि॑ते॒रनी॑कं य॒ज्ञस्य॑ के॒तुर्बृ॑ह॒ती वि भा॑हि । प्र॒श॒स्ति॒कृद्ब्रह्म॑णे नो॒ व्यु१॒॑च्छा नो॒ जने॑ जनय विश्ववारे ॥
मा॒ता । दे॒वाना॑म् । अदि॑तेः । अनी॑कम् । य॒ज्ञस्य॑ । के॒तुः । बृ॒ह॒ती । वि । भा॒हि॒ । प्र॒श॒स्ति॒ऽकृत् । ब्रह्म॑णे । नः॒ । वि । उ॒च्छ॒ । नः॒ । जने॑ । ज॒न॒य॒ । वि॒श्व॒ऽवा॒रे॒ ॥
हे उषस्त्वं देवानां माता जननी । उषसि सर्वे देवाः स्तुत्या प्रबोध्यन्ते अतः सा तज्जननवती इत्युच्यते । अत एव अदितेः देवानां मातुः अनीकं प्रत्यनीकम् । प्रतिस्पर्धिनी त्वमित्यर्थः । यद्वा । दीव्यन्तीति देवा रश्मयः । तेषां निर्मात्री । अदितेरखण्डनीयाया भूमेरनीकं मुखम् । यथेन्द्रियाश्रयत्वात् मुखं प्रकाशकम् एवमुषाः भूमेः प्रकाशयित्रीत्यर्थः । यज्ञस्य केतुः केतयित्री ज्ञापयित्री बृहती महती सती वि भाहि प्रकाशस्व । अपि च प्रशस्तिकृत् सम्यक् स्तुतमिति प्रशंसनं कुर्वती नः अस्मदीयाय ब्रह्मणे मन्त्ररूपाय स्तोत्राय व्युच्छ विवासय। तदनन्तरं हे विश्ववारे सर्वैर्वरणीये उषः नः अस्मान् जने जनपदे आ जनय आभिमुख्येन प्रादुर्भावय अवस्थापयेत्यर्थः ॥ बृहती। बृहन्महतोरुपसंख्यानम् इति ङीप उदात्तत्वम् । प्रशस्तिकृत् । ‘ शंसु स्तुतौ '। भावे क्तिन् । ‘ तितुत्र ' इति इट्प्रतिषेधः। अनिदिताम्' इति नलोपः । तस्मिन्नुपपदे करोतेः ‘क्विप् च' इति क्विप्। जनय। ‘जनी प्रादुर्भावे'। णिचि उपधावृद्धिः । ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च ' इति मित्त्वे ‘ मितां ह्रस्वः' इति ह्रस्वत्वम् ॥
“Mother of the gods, rival of Aditi, illuminator of the sacrificer, mighty Uṣās, shine forth; approving of our prayer, dawn upon us. Do you, who are cherished by all, make us eminent among the people.”
Mother of Gods, Aditi's form of glory, ensign of sacrifice, shine forth exalted.
Rise up, bestowing praise on our devotion all-bounteous, make us chief among the people.
Mother of gods and Aditi's effulgence, Banner of sacrifice, shine forth exalted. Shine forth and look upon our prayer with favour: Bounteous, cause fruitfulness among the people.
Mother of gods, face of Aditi, beacon of the sacrifice, lofty—shine forth.
As creator of lauds, dawn forth for our sacred formulation. Beget (it) here among our people, o you who bring all valuables.
Der Aditi, der Götter-Mutter, Antlitz, als Opfers Fahne scheine weithin leuchtend; Erstrahle Huld erweisend unsrer Andacht, allreiche, wirke Fruchtbarkeit uns allen.
Du, die Mutter der Götter, das Abbild der Aditi, das Wahrzeichen des Opfers, die Hohe, erglänze! Unserem Segenswort Ehre machend geh auf, bring uns unter die Leute, Allbegehrte!
Мать богов, лик Адити,
Знамя жертвы, высокая (богиня), – воссияй!
Зажгись, оказывая честь нашей молитве!
Укорени нас в роде (людском), о обладающая всем желанным!
यच्चि॒त्रमप्न॑ उ॒षसो॒ वह॑न्तीजा॒नाय॑ शशमा॒नाय॑ भ॒द्रम् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
यत् । चि॒त्रम् । अप्नः॑ । उ॒षसः॑ । वह॑न्ति । ई॒जा॒नाय॑ । श॒श॒मा॒नाय॑ । भ॒द्रम् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
चित्रं चायनीयं अप्नः आप्तव्यं यत् धनम् उषसो वहन्ति आनयन्ति ईजानाय हविर्भिः इष्टवते शशमानाय स्तुतिभिः संभजमानाय पुरुषाय भद्रं भजनीयं तत् भवतीति शेषः । यदनेन सूक्तेनास्माभिः प्रार्थितं तत् मित्रादयः षड्देवताः ममहन्तां पूजितं कुर्वन्तु ॥ अप्नः । ‘ आप्लृ व्याप्तौ'। ‘ आपः कर्माख्यायां ह्रस्वो नुट् च वा' इति बहुलग्रहणात् अकर्माख्यायामपि असुन्; धातोर्ह्रस्वो नुडागमश्च । ईजानाय । यजतेश्छन्दसि लिट्।' लिटः कानज्वा'।' वचिस्वपि° ' इत्यादिना संप्रसारणम् । द्विर्वचनादि । शशमानाय । ‘शश प्लुतगतौ'। ताच्छीलिकश्चानश्। तस्य लसार्वधातुकत्वाभावात् अदुपदेशात् लसार्वधातुकस्वराभावे चित्स्वर एव शिष्यते ॥ ॥ ४ ॥
“Whatever valuable wealth the Uṣās convey is beneficial to the sacrificer and to the praiser. May Mitra, Varuṇa, Aditi--ocean, earth, and heaven, be favourable to this our prayer.”
Whatever splendid wealth the Dawns bring with them to bless the man who offers praise and worship,
Even that may Mitra, Varuna vouchsafe us, and Aditi and Sindhu, Earth and Heaven.
What brilliant wealth the dawns convey, auspicious, To bless the zealous offerer of worship, All that may Varuṇa and Mitra grant us, And Aditi and Sindhu, Earth and Heaven.
The bright profit that the dawns convey to the laboring sacrificer—the auspicious thing—
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
Welch lichtes schönes Werk die Morgenröthen dem eifervollen Opfrer herwärts fahren, Das möge Mitra, Varuna uns segnen und Aditi, das Meer, und Erd' und Himmel.
Welch ansehnlichen löblichen Lohn die Usas´ für den dienstbereiten Opfernden bringen, den sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
То яркое богатство, которое привозят зори,
Благое – для того, кто приносит жертву (и) трудится,
Пусть нам это щедро даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!