इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः । यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ॥
इ॒माः । रु॒द्राय॑ । त॒वसे॑ । क॒प॒र्दिने॑ । क्ष॒यत्ऽवी॑राय । प्र । भ॒रा॒म॒हे॒ । म॒तीः । यथा॑ । शम् । अस॑त् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे॑ । विश्व॑म् । पु॒ष्टम् । ग्रामे॑ । अ॒स्मिन् । अ॒ना॒तु॒रम् ॥
रुद्राय । रोदयति सर्वमन्तकाले इति रुद्रः । यद्वा । रुत् संसारख्यं दुःखम् । तत् द्रावयति अपगमयति विनाशयतीति रुद्रः । यद्वा । रुतः शब्दरूपाः उपनिषदः । ताभिर्द्रूयते गम्यते प्रतिपाद्यते इति रुद्रः । यद्वा । रुत् शब्दात्मिका वाणी तत्प्रतिपाद्या आत्मविद्या वा । तामुपासकेभ्यो राति ददातीति रुद्रः । यद्वा । रुणद्धि आवृणोति इति रुत् अन्धकारादि । तत् दृणाति विदारयतीति रुद्रः । यद्वा । कदाचित् देवासुरसंग्रामे अग्न्यात्मको रुद्रो देवैर्निक्षिप्तं धनमपहृत्य निरगात् । असुरान् जित्वा देवा एनमन्विष्य दृष्ट्वा धनमपाहरन्। तदानीमरुदत् । तस्मात् रुद्र इत्याख्यायते। तथा च तैत्तिरीयकं-- सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् ' ( तै. सं. १. ५. १. १) इति । तस्मै रुद्राय मतीः मननीयाः इमाः स्तुतीः प्र भरामहे प्रकर्षेण निष्पादयामः। कीदृशाय। तवसे प्रवृद्धाय कपर्दिने जटिलाय क्षयद्वीराय क्षयन्तो विनश्यन्तो वीरा यस्मिन् तादृशाय । यद्वा । क्षयतिरैश्वर्यकर्मा । क्षयन्तः प्राप्तैश्वर्या वीरा मरुद्गणाः पुत्रा यस्य तस्मै । यथा येन प्रकारेण शं शमनीयानां रोगाणामुपशमनं द्विपदे अस्मदीयाय मनुष्याय चतुष्पदे गवाश्वप्रभृतये च असत् भवेत् । तेन प्रकारेण स्तुतीः कुर्मः इत्यर्थः । अतः अस्मिन् अस्मदीये ग्रामे वर्तमानं विश्वं सर्वं प्राणिजातम् अनातुरम् । आतुरा रुग्णाः तैः रहितं सत् पुष्टं प्रवृद्धं भवतु ॥ रुद्राय। ‘रोदेर्णिलुक् च' (उ. सू. २. १७९ ) इति रक् । तवसे । तवतिर्वृद्ध्यर्थः सौत्रो धातुः । औणादिकोऽसिप्रत्ययः । क्षयद्वीराय । क्षि क्षये ॥ लटः शतृ । 'छन्दस्युभयथा' इति शतुः आर्धधातुकत्वेन अदुपदेशात् लसार्वधातुकानुदात्तत्वाभावात् तस्यैव स्वरः शिष्यते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । असत् । अस भुवि '। लेटि अडागमः । ‘ इतश्च लोपः' इति इकारलोपः। द्विपदे । द्वौ पादावस्य । ‘ संख्यासुपूर्वस्य' इति पादशब्दस्य अन्त्यलोपः समासान्तः । चतुर्थ्येकवचने भसंज्ञायां ‘पादः पत्' इति पद्भावः । एकदेशविकृतस्य अनन्यत्वात् (परिभा. ३७) द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ' इति उत्तरपदाद्युदात्तत्वम् । चतुष्पदे । स्वरवर्जं पूर्ववत् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदं च त्रः संख्यायाः' (फि. सू. २८ ) इत्याद्युदात्तम् ॥
“We offer these praises to the mighty Rudra, with the braided hair, the destroyer of heroes, in order that health may be enjoyed by bipeds and quadrupeds, and that all being sin this villag may be (well) nourished and exempt from disease.”
To the strong Rudra bring we these our songs of praise, to him the Lord of Heroes with the braided hair,
That it be well with all our cattle and our men, that in this village all be healthy and well-fed.
These poetic thoughts do we proffer to Rudra, the powerful one with braided hair who rules over heroes,
so that he will be luck for our two-footed and four-footed, so that
everything in this settlement will be flourishing, free of affliction.
Dem starken Rudra bringen diese Lieder wir, dem Männerherrscher mit dem aufgewundnen Haar, Dass Heil sei dem, was zwei und was vier Füsse hat, und alles blühe unversehrt in diesem Dorf.
Diese frommen Gedanken tragen wir dem starken Rudra vor, dem Männerbeherrscher mit aufgewundenem Haar, auf daß es Zweifüßlern und Vierfüßlern wohl ergehe und alle Aufzucht in diesem Dorfe gesund sei.
Эти молитвы мы приносим Рудре,
Сильному, с заплетенной косой, властвующему над мужами,
Чтоб было счастье двуногому и четвероногому,
Чтоб в этой деревне все процветало без болезни.
मृ॒ळा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते । यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तिषु ॥
मृ॒ळ । नः॒ । रु॒द्र॒ । उ॒त । नः॒ । मयः॑ । कृ॒धि॒ । क्ष॒यत्ऽवी॑राय । नम॑सा । वि॒धे॒म॒ । ते॒ । यत् । शम् । च॒ । योः । च॒ । मनुः॑ । आ॒ऽये॒जे । पि॒ता । तत् । अ॒श्या॒म॒ । तव॑ । रु॒द्र॒ । प्रऽनी॑तिषु ॥
हे रुद्र नः अस्मभ्यमस्मदर्थं मृळ त्वं सुखयिता भव। उत अपि च तदनन्तरं नः अस्माकं मयः सुखं कृधि कुरु । वयं च क्षयद्वीराय क्षपितसर्ववीरं प्राप्तैश्वर्यैर्मरुद्भिर्युक्तं वा । ते त्वां नमसा हविर्लक्षणेनान्नेन नमस्कारेण वा विधेम परिचरेम । विधतिः परिचरणकर्मा । अपि च पिता उत्पादकः मनुः स्वकीयाभ्यः प्रजाभ्यः शं रोगाणां शमनं योश्च भयानां यावनं च यत् एतत् द्वयं आयेजे देवेभ्यः सकाशात् प्राप्य दत्तवान् हे रुद्र तव प्रणीतिषु प्रकृष्टनयनेषु सत्सु तत् वयम् अश्याम व्याप्नुयाम ॥ मृळ । मृड सुखने '। तौदादिकः । द्वयचोऽतस्तिङः' इति संहितायां दीर्घः । कृधि । करोतेर्लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ श्रुशृणुपॄकृवृभ्यछन्दसि ' इति हेर्धि । अतः कृकमि इति मयसो विसर्जनीयस्य सत्वम् । क्षयद्वीराय । ‘ क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानत्वात् चतुर्थी। विधेम । 'विध विधाने '। तौदादिकः । आयेजे । 'यज देवपूजासंगतिकरणदानेषु'। लिटि संज्ञापूर्वकस्य विधेरनित्यत्वात् संप्रसारणाभावे एत्वाभ्यासलोपौ । अश्याम। ‘ अशू व्याप्तौ'। व्यत्ययेन परस्मैपदम्।' बहुलं छन्दसि' इति विकरणस्य लुक् ॥
“Be gracious to us, Rudra; grant us happiness, for we worship the destroyer of heroes with oblations; and, by your directions, Rudra, may we obtain that freedom from disease and exemption from dangers which our progenitor, Manu, bestowed upon us, (having obtained them form the gods).”
Be gracious unto us, O Rudra, bring us joy: thee, Lord of Heroes, thee with reverence will we serve.
Whatever health and strength our father Manu won by sacrifice may we, under thy guidance, gain.
Be merciful to us, Rudra, and create joy for us. To you who rule over heroes we would do honor with reverence.
Whatever luck and lifetime Father Manu won through sacrifice, that may we attain under your guidance, Rudra.
Sei hold, o Rudra, und verschaffe Freude uns, dir Männerherrscher dienen mit Verehrung wir; Welch Heil und Glück sich Vater Manus opfernd schuf, das lass erlangen, Rudra, uns durch deine Gunst.
Hab mit uns Erbarmen, Rudra, und mach uns Freude! Wir wollen dir, dem Männerbeherrscher, in Demut dienen. Welch Wohl und Heil Vater Manu durch Opfer erlangt hat, das möchten wir unter deiner Führung erreichen, Rudra.
Помилуй нас, о Рудра, и сотвори нам радость!
Поклонением хотим мы почтить тебя, властвующего над мужами.
То счастье и благо, что добыл себе жертвой Ману-отец, -
Мы хотим достигнуть его под твоим предводительством, о Рудра!
अ॒श्याम॑ ते सुम॒तिं दे॑वय॒ज्यया॑ क्ष॒यद्वी॑रस्य॒ तव॑ रुद्र मीढ्वः । सु॒म्ना॒यन्निद्विशो॑ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ॥
अ॒श्याम॑ । ते॒ । सु॒ऽम॒तिम् । दे॒व॒ऽय॒ज्यया॑ । क्ष॒यत्ऽवी॑रस्य । तव॑ । रु॒द्र॒ । मी॒ढ्वः॒ । सु॒म्न॒ऽयन् । इत् । विशः॑ । अ॒स्माक॑म् । आ । च॒र॒ । अरि॑ष्टऽवीराः । जु॒ह॒वा॒म॒ । ते॒ । ह॒विः ॥
हे मीढ्वः सेक्तः कामाभिवर्षक नित्यतरुण वा रुद्र क्षयद्वीरस्य क्षपितप्रतिपक्षस्य मरुद्भिर्युक्तस्य वा तव सुमतिं शोभनां कल्याणीमनुग्रहात्मिकां बुद्धिं ते त्वत्संबन्धिनो वयं देवयज्यया देवयागेन त्वद्देवत्येन यज्ञेन अश्याम प्राप्नवाम। त्वं च अस्माकं विशः प्रजाः अभिलक्ष्य आ चर आगच्छ। किं कुर्वन् । सुम्नायन्नित् । सुम्नमिति सुखनाम । तासां प्रजानां सुखमिच्छन्नेव सुखप्रद एव भवेत्यर्थः । ततो वयम् अरिष्टवीराः । वीर्याज्जायन्ते इति वीराः प्रजाः । अरिष्टा अहिंसिता वीरा येषां तथाभूताः सन्तः ते तुभ्यं हविः चरुपुरोडाशादिकं जुहवाम चोदिते आधारे प्रक्षिपाम ॥ सुमतिम् । मतिर्मननम् । शोभनं मननं यस्यां बुद्धौ सा सुमतिः । ‘ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । देवयज्यया । ‘ छन्दसि निष्टर्क्य' इत्यादौ यजेः यप्रत्ययो निपात्यते स्त्रीलिङ्गता च । मीढ्वः । मिह सेचने'। ‘दाश्वान्साह्वान्मीढ्वान्°२' इति क्वसुप्रत्ययान्तो निपातितः । संबुद्धौ ‘ मतुवसो रुः' इति रुत्वम् । सुम्नायन् । सुम्नं परेषामिच्छति । छन्दसि परेच्छायामपि ' इति क्यच् । न च्छन्दस्यपुत्रस्य ' इति ईत्वदीर्घयोर्निषेधः । ‘ देवसुम्नयोर्यजुषि काठके ' ( पा. सू. ७. ४. ३८) इति विधीयमानम् आत्वं व्यत्ययेन अत्रापि द्रष्टव्यम् ॥
“Rudra, showerer (of benefits), may we obtain, through our worship of the gods, the favour of you, who are the destroyer of heroes;come to our posterity, purposing to promote their happiness, while we, having our sons in safety, offer you oblations.”
By worship of the Gods may we, O Bounteous One, O Rudra, gain thy grace, Ruler of valiant men.
Come to our families, bringing them bliss: may we, whose heroes are uninjured, bring thee sacred gifts,
May we attain your benevolence though sacrifice to the gods, the benevolence of you who rule over heroes, o reward-granting Rudra.
Bestowing only favor, come roaming toward our clans: possessing heroes who cannot be harmed, we will pour you an oblation.
Lass deine Gunst erlangen, gnäd'ger Rudra, uns, des Männerherrschers durch die Götterhuldigung, Zu unsern Häusern komme her recht hold gesinnt, lass unverletzt an Männern uns das Opfer weihn.
Wir möchten durch Gottesdienst deine, des Männerbeherrschers, Huld erlangen, o belohnender Rudra. Wohlwollend komme zu unseren Niederlassungen. Mit heilen Männern möchten wir dir Opfer darbringen.
Благодаря жертве богам мы хотим оказаться в милости
У тебя, властвующего над мужами, о щедрый Рудра!
Только в милостивом расположении духа приходи к нашим племенам!
С невредимыми мужами мы хотим возлить тебе жертвенное возлияние.
त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं॑ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे । आ॒रे अ॒स्मद्दैव्यं॒ हेळो॑ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ॥
त्वे॒षम् । व॒यम् । रु॒द्रम् । य॒ज्ञ॒ऽसाध॑म् । व॒ङ्कुम् । क॒विम् । अव॑से । नि । ह्व॒या॒म॒हे॒ । आ॒रे । अ॒स्मत् । दैव्य॑म् । हेळः॑ । अ॒स्य॒तु॒ । सु॒ऽम॒तिम् । इत् । व॒यम् । अ॒स्य॒ । आ । वृ॒णी॒म॒हे॒ ॥
अवसे रक्षणाय रुद्रं महादेवं नि ह्वयामहे नितरामाह्वयामः । कीदृशम् । त्वेषं दीप्तं यज्ञसाधं यज्ञस्य साधयितारम् । एष हि यज्ञं स्विष्टं करोति । तथा च तैत्तिरीयके - देवा वै यज्ञाद्रुद्रमन्तरायन्' इत्युपक्रम्याम्नातं - स्विष्टं वै न इदं भविष्यति यदिमं राधयिष्याम इति तत्स्विष्टकृतः स्विष्टकृत्त्वम् ' ( तै. सं. २. ६. ८. ३) इति । वङ्कुं कुटिलगन्तारं कविं क्रान्तदर्शिनम् । स च रुद्रो दैव्यं देवस्य द्योतमानस्य संबन्धिनं हेळः क्रोधं अस्मत् आरे अस्मत्तो दूरदेशे अस्यतु प्रेरयतु । अस्य महादेवस्य सुमतिमित् शोभनामनुग्रहरूपां बुद्धिमेव वयम् आ वृणीमहे आभिमुख्येन संभजामहे ॥ यज्ञसाधम् । यज्ञं साधयतीति यज्ञसात् । ‘ षिधू संराद्धौ ।' सिध्यतेरपारलौकिके' इति आत्वम् । यद्वा । ‘ राध साध संसिद्धौ । अस्मात् ण्यन्तात् क्विप् । वङ्कुम् । ‘ वकि कौटिल्ये '। औणादिक उप्रत्ययः । नि ह्वयामहे । ‘ निसमुपविभ्यो ह्वः' इत्यात्मनेपदम् । दैव्यम् । ‘ देवाद्यञञौ ' ( पा. सू. ४. १. ८५. ३ ) इति प्राग्दीव्यतीयो यञ् । अस्यतु । ' असु क्षेपणे '। दैवादिकः । वृणीमहे । 'वृङ् संभक्तौ ' । क्रैयादिकः ॥
“We invoke for our preservation the illustrious Rudra, the accomplisher of sacrifices, the tortuous, the wise; may he remove far from us his celestial wrath, for we earnestly solicit his favour.”
Hither we call for aid the wise, the wanderer, impetuous Rudra, perfecter of sacrifice.
May he repel from us the anger of the Gods: verily we desire his favourable grace.
We call down turbulent Rudra for help, the wandering poet who brings the sacrifice to success.
In the distance from us let him shoot his divine anger. It is just his
benevolence we choose.
Den prächt'gen Rudra rufen wir zur Hülfe her, den raschen Seher, der des Opfers Segner ist, Er treibe weit von uns hinweg der Götter Zorn, vor allem wünschen wir uns seine Huld herbei.
Wir rufen den funkelnden Rudra, den Opferfüller, den fliegenden Seher zur Gnade herab. Weit weg von uns soll er den göttlichen Zorn senden; seine Gunst nur erbitten wir.
Буйного Рудру, приводящего жертву к цели,
Идущего окольными путями поэта мы призываем на помощь.
Пусть отведет он далеко от нас божественный гнев!
Только милость его мы испрашиваем себе.
दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं॑ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे । हस्ते॒ बिभ्र॑द्भेष॒जा वार्या॑णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं॑ यंसत् ॥
दि॒वः । व॒रा॒हम् । अ॒रु॒षम् । क॒प॒र्दिन॑म् । त्वे॒षम् । रू॒पम् । नम॑सा । नि । ह्व॒या॒म॒हे॒ । हस्ते॑ । बिभ्र॑त् । भे॒ष॒जा । वार्या॑णि । शर्म॑ । वर्म॑ । छ॒र्दिः । अ॒स्मभ्य॑म् । यं॒स॒त् ॥
वराहं वराहारम् उत्कृष्टभोजनम् । यद्वा । वराहवत् दृढाङ्गम् । अरुषम् आरोचमानं कपर्दिनं जटाभिर्युक्तं त्वेष तेजसा दीप्यमानं रूपं निरूपणीयं वेदान्तैरधिगम्यम् एवंभूतं रुद्रं नमसा हविर्लक्षणेनान्नेन नमस्कारेण वा दिवः द्युलोकसकाशात् नि 'ह्वयामहे नितरामाह्वयामः । सः आहूतो रुद्र: हस्ते स्वकीये बाहौ वार्याणि सर्वैः वरणीयानि भेषजा भैषज्यानि रोगशमनहेतुभूतानि बिभ्रत् धारयन् अस्मभ्यं स्तोतृभ्यः शर्म आरोग्यलक्षणं सुखं वर्म आयुधानां निवारकं कवचं छर्दिः । गृहनामैतत् । गृहं च यंसत् प्रयच्छतु ॥ बिभ्रत् । ‘डुभृञ् धारणपोषणयोः' । जौहोत्यादिकः । लटः शतृ । ‘ भृञामित्' इति अभ्यासस्य इत्वम् । भेषजा । ‘भिषज् चिकित्सायाम् ' । कण्ड्वादिः । पचाद्यच् । अतोलोपयलोपौ । ‘ °सुमङ्गलभेषजाच्च ' ( पा. सू. ४. १. ३० ) इति निपातनात् रूपसिद्धिः । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । वार्याणि । ' वृङ् संभक्तौ '। ‘ ऋहलोर्ण्यत् । ईडवन्द ' इत्याद्युदात्तत्वम् । छर्दिः । ‘ उछृदिर् दीप्तिदेवनयोः '। छृद्यते दीप्यते सुवर्णादिभिर्धनैः प्रकाश्यते इति छर्दिर्गृहम् । ‘ अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः' ( उ. सू. २. २६५ ) । यंसत् ।' यम उपरमे'। लेटि अडागमः । ‘सिब्बहुलं लेटि' इति सिप् । ' इतश्च लोपः०' इति इकारलोपः॥ ॥ ५ ॥
“We invoke, from heaven, with reverence, him who has excellent food, who is radiant, and has braided hair, who is brilliant, and is to be ascertained (by sacred study), holding in his hands excellent medicaments; mayhe grant us health, defensive armour, and a (secure) dwelling.”
Him with the braided hair we call with reverence down, the wild-boar of the sky, the red, the dazzling shape.
May he, his hand filled full of sovran medicines, grant us protection, shelter, and a home secure.
We call down with reverence the boar of heaven, flame-red, with braided hair, turbulent in form.
Bearing in his hand desirable healing remedies, he will extend shelter, covering, and protection to us.
Des Himmels rothen Eber mit geflochtnem Haar, sein funkelnd Aussehn rufen wir in Demuth her; Der in der Hand die schönsten Arzeneien trägt, er mög' uns reichen festen Schutz und Schirm und Schild.
Das Himmels rötlicher Eber, mit dem aufgewundenen Haar, die funkelnde Erscheinung rufen wir unter Verbeugung herab. Er, der die erwünschten Arzeneien in der Hand hält, gewähre uns Schutz, Schirm, Zuflucht.
Рыжего кабана неба, с заплетенной косой,
Буйный облик мы призываем с поклоном.
Держа в руке желанные целебные средства,
Пусть дарует он нам укрытие, щит, прибежище.
इ॒दं पि॒त्रे म॒रुता॑मुच्यते॒ वच॑: स्वा॒दोः स्वादी॑यो रु॒द्राय॒ वर्ध॑नम् । रास्वा॑ च नो अमृत मर्त॒भोज॑नं॒ त्मने॑ तो॒काय॒ तन॑याय मृळ ॥
इ॒दम् । पि॒त्रे । म॒रुता॑म् । उ॒च्य॒ते॒ । वचः॑ । स्वा॒दोः । स्वादी॑यः । रु॒द्राय॑ । वर्ध॑नम् । रास्व॑ । च॒ । नः॒ । अ॒मृ॒त॒ । म॒र्त॒ऽभोज॑नम् । त्मने॑ । तो॒काय । तन॑याय । मृ॒ळ॒ ॥
इदं स्तुतिलक्षणं वचः मरुताम् एकोनपञ्चाशसंख्याकानां देवविशेषाणां पित्रे जनकाय रुद्राय ईश्वराय उच्यते उच्चार्यते । कीदृशम् । स्वादोः स्वादीयः रसवतो मधुघृतादेरपि स्वादुतरम् । अतिशयेन हर्षजनकमित्यर्थः । वर्धनं स्तुत्यस्य प्रवर्धकम् । स्तोत्रेण हि देवता हृष्टा सती प्रवर्धते । रुद्रस्य च मरुतां पितृत्वम् एवम् आख्यायते । पुरा कदाचिदिन्द्रः असुराञ्जिगाय । तदानीं दितिः असुरमाता इन्द्रहननसमर्थं पुत्रं कामयमाना तपसा भर्तुः सकाशाद्गर्भं लेभे । इमं वृत्तान्तमवगच्छन्निन्द्रो वज्रहस्तः सन् सूक्ष्मरूपो भूत्वा तस्या उदरं प्रविश्य तं गर्भं सप्तधा बिभेद । पुनरप्येकैकं सप्तखण्डमकरोत् । ते सर्वे गर्भैकदेशा योनेर्निर्गत्य अरुदन् । एतस्मिन्नवसरे लीलार्थं गच्छन्तौ पार्वतीपरमेश्वरौ इमान् ददृशतुः । महेशं प्रति पार्वती एवमवोचत् । इमे मांसखण्डा यथा प्रत्येकं पुत्राः संपद्यन्तामेवं त्वया कार्यं मयि चेत्प्रीतिरस्तीति । स च महेश्वर: तान् समानरूपान् समानवयसः समानालंकारान् पुत्रान् कृत्वा गौर्यै प्रददौ तवेमे पुत्राः सन्तु इति । अतः सर्वेषु मारुतेषु सूक्तेषु मरुतो रुद्रपुत्रा इति स्तूयन्ते । रौद्रेषु च मरुतां पिता रुद्र इति । अपि च हे अमृत मरणरहित रुद्र मर्तभोजनं मर्तानां मनुष्याणां भोगपर्याप्तमन्नं नः अस्मभ्यं रास्व प्रयच्छ। तथा त्मने आत्मने। द्वितीयार्थे चतुर्थी । मां तोकाय तोकं पुत्रं तनयाय तनयं तत्पुत्रं च मृळ सुखय ॥ पित्रे । उदात्तयणः' इति विभक्तेरुदात्तत्वम् । रास्व । ‘ रा दाने' । व्यत्ययेनात्मनेपदम् । त्मने । मन्त्रेष्वाड्यादेरात्मनः' इत्यत्र ‘आङोऽन्यत्रापि छन्दसि दृश्यते ' ( का. ६. ४. १४१. १ ) इति वचनादात्मनः आकारलोपः ॥
“This praise, the sweetest of the sweet, and cause of increase (to the reciter), is addressed to Rudra, the father of the Maruts; immortal Rudra, grant us food sufficient for mortals, and bestow happiness on me, my son, and my grandson.”
To him the Maruts' Father is this hymn addressed, to strengthen Rudra's might, a song more sweet than sweet.
Grant us, Immortal One, the food which mortals eat: be gracious unto me, my seed, my progeny.
This speech here is spoken to the father of the Maruts—speech sweeter than sweet, strengthening to Rudra.
Both grant us, immortal one, what nourishes mortals, and be merciful to our selves, to our progeny and posterity.
Dem Marutvater wird gesungen dieses Lied, den Rudra labend, süsser noch als Honigseim; Unsterblicher, verleihe Menschennahrung uns; sei hold uns selbst, den Kindern und der Enkelschar.
Diese Rede wird für den Vater der Marut gesprochen, die süßer als süß, eine Erbauung für Rudra ist. Und gönn uns, du Unsterblicher, die Menschenzehrung; hab mit uns selbst, mit dem leiblichen Samen Erbarmen!
Эта речь, что слаще сладкого,
Произносится для отца Марутов, для усиления Рудры,
И даруй нам, о бессмертный, пищу смертных!
Смилуйся над нами, над детьми и внуками (нашими)!
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा न॑: प्रि॒यास्त॒न्वो॑ रुद्र रीरिषः ॥
मा । नः॒ । म॒हान्त॑म् । उ॒त । मा । नः॒ । अ॒र्भ॒कम् । मा । नः॒ । उक्ष॑न्तम् । उ॒त । मा । नः॒ । उ॒क्षि॒तम् । मा । नः॒ । व॒धीः॒ । पि॒तर॑म् । मा । उ॒त । मा॒तर॑म् । मा । नः॒ । प्रि॒याः । त॒न्वः॑ । रु॒द्र॒ । रि॒रि॒षः॒ ॥
हे रुद्र नः अस्माकं मध्ये महान्तं वृद्धं मा वधीः मा हिंसीः । उत अपि च नः अस्माकम् अर्भकं बालं मा हिंसीः । तथा नः अस्माकं मध्ये उक्षन्तं सेक्तारं मध्यवयस्कं युवानं मा वधीः। उत अपि च नः अस्माकम् उक्षितं गर्भरूपेण स्त्रीषु निषिक्तमपत्यं मा वधीः । तथा नः अस्माकं पितरं जनकं मा वधीः। उत अपि च मातरं जननीं मा वधीः । तथा नः अस्माकं प्रियाः स्नेहविषयाः तन्वः शरीराणि तनूषु भवाः प्रजा वा हे रुद्र मा रिरिषः मा हिंसीः ॥ वधीः । हन्तेर्माङि • लुङि च ' इति वधादेशः । स चादन्तः । सिच इट् । अतो लोपस्य स्थानिवद्भावात् वृद्ध्यभावः । रिरिषः । ‘ रिष हिंसायाम्' । ण्यन्तात् लुङि चङि णिलोपोपधाह्रस्वत्वादीनि । छान्दसः पदकालीनोऽभ्यासह्रस्वः ॥
“Injure not, Rudra, those amongst us who are old or young, who are capable of begetting, or who are begotten, nor a father, nor a mother, nor afflict our precious person ns.”
O Rudra, harm not either great or small of us, harm not the growing boy, harm not the full-grown man.
Slay not a sire among us, slay no mother here, and to our own dear bodies, Rudra, do not harm.
Not the great one among us nor the wee little one, not the growing one among us nor the grown—
don’t smite our father nor our mother. Don’t harm our own dear
bodies, Rudra.
Verletze nicht den grossen, noch den kleinen uns, nicht den erwachsnen, noch auch den, der uns erwächst, Verwunde unsern Vater, unsre Mutter nicht, noch füge unsern lieben Leibern Schaden zu.
Weder den Großen noch den Kleinen unter uns, weder den Heranwachsenden noch den Erwachsenen unter uns, nicht unseren Vater noch die Mutter sollst du töten, noch unsere lieben Leiber schädigen, o Rudra!
Ни великого среди нас, ни малого среди нас,
Ни растущего среди нас, ни выросшего среди нас,
Ни отца нашего, ни матери не убивай!
Не причини вреда нашим милым телам, о Рудра!
मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्त॒: सद॒मित्त्वा॑ हवामहे ॥
मा । नः॒ । तो॒के । तन॑ये । मा । नः॒ । आ॒यौ । मा । नः॒ । गोषु॑ । मा । नः॒ । अश्वे॑षु । रि॒रि॒षः॒ । वी॒रान् । मा । नः॒ । रु॒द्र॒ । भा॒मि॒तः । व॒धीः॒ । ह॒विष्म॑न्तः । सद॑म् । इत् । त्वा॒ । ह॒वा॒म॒हे॒ ॥
हे रुद्र नः अस्माकं तोकादिविषये मा रिरिषः मा हिंसीः । तोकशब्दः पुत्रवाची । तनयस्तत्पुत्रः । आयुः इति अन्तोदात्त: मनुष्यनाम । पुत्रपौत्रव्यतिरिक्तो योऽस्मदीयः मनुष्यस्तस्मिन् गोषु पश्वादिषु अश्वेषु च मा रिरिषः हिंसां मा कृथाः। तथा हे रुद्र वीरान् विक्रान्तान् शौर्योपेतान् अस्मदीयान् भामितः क्रुद्धः सन् मा वधीः मा हिंसीः । वयं च हविष्मन्तः हविभिर्युक्ताः सन्तः सदमित् सर्वदैव त्वां हवामहे आह्वयामहे ॥ आयौ । ‘ इण् गतौ । ‘ छन्दसीणः' इति उण्प्रत्ययः । भामितः । ‘ भाम क्रोधे । क्तोऽधिकरणे च० " इति कर्तरि क्तः । हवामहे । ह्वेञो लटि ‘ बहुलं छन्दसि ' इति संप्रसारणम् ॥
“Harm us not, Rudra, in our sons or grandsons, or other male descendants, nor in our cattle, nor in our horses; inflamed with anger, kill not our valiant men, for we, presenting clarified butter perpetually invoke you. ”
Harm us not, Rudra, in our seed and progeny, harm us not in the living, nor in cows or steeds,
Slay not our heroes in the fury of thy wrath. Bringing oblations evermore we call to thee.
Don’t do harm to our progeny and posterity nor to our (own) lifespan, not to our cows nor to our horses.
Don’t smite our heroes, Rudra, when enraged. We, with our oblations, will always invoke you.
Nicht füge uns an Kind und Enkeln Schaden zu, an Leuten nicht, an Rindern nicht, an Rossen nicht; O Rudra, tödte unsre Helden nicht im Zorn, Dir Opfer bringend rufen immer wir dich an.
Nicht sollst du uns den leiblichen Samen, nicht an unserem eigenen Leben, nicht an unseren Kühen und Pferden schädigen. Nicht sollst du im Grimm unsere Mannen töten, o Rudra. Mit Opferspenden rufen wir dich immerdar an.
Ни детям нашим (или) внукам, ни нашему сроку жизни,
Ни нашим коровам, ни коням не причини вреда!
Не убей, о Рудра, рассвирепев, наших мужей!
С жертвенными возлияниями мы всегда призываем тебя.
उप॑ ते॒ स्तोमा॑न्पशु॒पा इ॒वाक॑रं॒ रास्वा॑ पितर्मरुतां सु॒म्नम॒स्मे । भ॒द्रा हि ते॑ सुम॒तिर्मृ॑ळ॒यत्त॒माथा॑ व॒यमव॒ इत्ते॑ वृणीमहे ॥
उप॑ । ते॒ । स्तोमा॑न् । प॒शु॒पाःऽइ॑व । आ । अ॒क॒र॒म् । रास्व॑ । पि॒तः॒ । म॒रु॒ता॒म् । सु॒म्नम् । अ॒स्मे इति॑ । भ॒द्रा । हि । ते॒ । सु॒ऽमतिः । मृ॒ळ॒यत्ऽत॑मा । अथ॑ । व॒यम् । अव॑ । इत् । ते॒ । वृ॒णी॒म॒हे॒ ॥
हे रुद्र स्तोमान् स्तुतिरूपान्मन्त्रान् ते तुभ्यम् “उप आ अकरम् । उपाकरोमि समर्पयामि । तत्र दृष्टान्तः । पशुपाइव । यथा पशूनां पालयिता गोपः प्रातःकाले स्वस्मै समर्पितान् पशून् सायंकाले स्वामिभ्यः प्रत्यर्पयति एवं त्वत्सकाशाल्लब्धान् स्तुतिरूपान्मन्त्रान् स्तुतिसाधनतया तुभ्यं प्रत्यर्पयामीत्यर्थः । हे मरुतां पितः मरुत्संज्ञानां देवानाम् उत्पादक रुद्र नोऽस्मभ्यं सुम्नं सुखं रास्व देहि । अपि च ते त्वदीया सुमतिः कल्याणी बुद्धिः मृळयत्तमा अतिशयेन सुखयितृतमा । अत एव भद्रा भजनीया हि । यस्मादेवं तस्मात् अथ अनन्तरं वयं ते त्वदीयम् अवः रक्षणं वृणीमहे संभजामहे ॥ अकरम् । छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लुङ् । ‘ कृमृदृरुहिभ्य:०' इति च्लेरङादेशः । ‘ ऋदृशोऽङि गुणः' । पितर्मरुताम् । परमपि च्छन्दसि ' इति परस्याः षष्ठ्याः पूर्वामन्त्रितानुप्रवेशे सति ‘ आमन्त्रितस्य च ' इति पदद्वयमप्यनुदात्तम् । अस्मे । सुपां सुलुक्°? इति चतुर्थीबहुवचनस्य शेआदेशः । मृळयत्तमा । मृड सुखने '। अस्मात् ण्यन्तात् लटः शतृ । तस्य ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् लसार्वधातुकानुदात्तत्वाभावे प्रत्ययस्वरः शिष्यते ॥
“I restore to you the praises (derived from you), as a shepherd (returns his sheep to their owner); father of the Maruts, bestow happiness upon me; your auspicious benignityis the cause of successive delight, therefore we especially solicit your protection.”
Even as a herdsman I have brought thee hymns of praise: O Father of the Maruts, give us happiness,
Blessed is thy most favouring benevolence, so, verily, do we desire thy saving help.
Like a cowherd, I have driven these praises close to you. Grant your favor to us, father of the Maruts,
for your benevolence is auspicious, most merciful. It is just your aid
that we choose.
Zu dir hin trieb ich Lieder wie der Hirt das Vieh; O Vater du der Maruts, schenk uns deine Huld; Denn deine Gunst ist heilsam, höchster Gnade voll, drum flehen wir so recht um deinen Schutz dich an.
Ich habe dir Loblieder zugetrieben wie der Hirt die Herde heimtreibt. Schenk uns, du Vater der Marut, deine Huld! Denn segensreich ist dein Wohlwollen, sehr barmherzig. Darum bitten wir uns nur deine Gunst aus.
Я пригнал к тебе восхваления, как пастух (стадо).
Окажи нам милость, о отец Марутов!
Ведь благословенна твоя милость самая снисходительная:
Вот мы и испрашиваем себе помощь твою.
आ॒रे ते॑ गो॒घ्नमु॒त पू॑रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु । मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च न॒: शर्म॑ यच्छ द्वि॒बर्हा॑: ॥
आ॒रे । ते॒ । गो॒ऽघ्नम् । उ॒त । पु॒रु॒ष॒ऽघ्नम् । क्षय॑त्ऽवीर । सु॒म्नम् । अ॒स्मे इति॑ । ते॒ । अ॒स्तु॒ । मृ॒ळ । च॒ । नः॒ । अधि॑ । च॒ । ब्रू॒हि॒ । दे॒व॒ । अध॑ । च॒ । नः॒ । शर्म॑ । य॒च्छ॒ । द्वि॒ऽबर्हाः॑ ॥
हे क्षयद्वीर क्षपितसर्वशत्रुजन रुद्र ते त्वदीयं गोघ्नं यद्गोहननं यद्वा गोहननसाधनमायुधम् उत अपि च पुरुषघ्नं पुरुषहननं तत्साधनमायुधं वा तदुभयम् आरे दूरे अस्मत्तो विप्रकृष्टदेशे भवतु । अस्मे अस्मासु ते त्वदीयं सुम्नं सुखम् अस्तु भवतु । अपि च नः अस्माकं मृळ सुखसिद्ध्यर्थं प्रसन्नो भव । हे देव द्योतमान रुद्र नः अस्मान् अधि ब्रूहि च । अधिवचनं पक्षपातेन वचनं ‘ ब्राह्मणायाधि ब्रूयात् ' ( तै. सं. २. ५. ११. ९) इति यथा । अध च अथ अनन्तरं च द्विबर्हाः द्वयोः स्थानयोः पृथिव्यामन्तरिक्षे च परिवृढः । यद्वा । द्वयोर्दक्षिणोत्तरमार्गयोः ज्ञानकर्मणोर्वा परिवृढ़: स्वामी । स त्वं नः अस्मभ्यं शर्म सुखं यच्छ देहि ॥ गोघ्नम्। 'हन हिंसागत्योः' । अस्मात् ‘ घञर्थे कविधानम् ' इति भावे करणे वा कप्रत्ययः । ‘ गमहन° ' इत्युपधालोपः । हो हन्तेः । इति कुत्वम् । द्विबर्हाः । ‘ बृह बृहि वृद्धौ' । द्वयोः स्थानयोः बर्हते प्रवर्धते इति द्विबर्हाः । असुन्। कृदुत्तरपदप्रकृतिस्वरत्वम् । ।
“Destroyer of heroes, may your cow-killing or man-slaying (weapon) be far away, and let the felicity granted by you be ours; favour us; speak, brilliant hero, in our behalf, and grant us, you who are mighty over the two (realms of heaven and earth), prosperity.”
Far be thy dart that killeth men or cattle: thy bliss be with us, O thou Lord of Heroes.
Be gracious unto us, O God, and bless us, and then vouchsafe us doubly-strong protection.
In the distance be your cow-smiting and men-smiting (anger). You who rule over heroes, let your favor be on us.
Both be merciful to us and speak on our behalf, o god, and then extend double-lofty shelter to us.
Lass fern sein, was den Rindern und Menschen verderblich ist; o Männerherrscher, bei uns sei dein Wohlwollen; sei uns gnädig und sprich uns freundlich zu, o Gott, und reiche uns nun Schutz, der du zwiefache Stärke besitzest.
Fern sei deine Rinder und Männer mordende Waffe; du Männerbeherrscher, bei uns soll deine Gnade sein. Erbarme dich unser und sei unser Fürsprecher, o Gott, und gewähre uns doppelten Schirm!
Далеко (отбрось) свое (оружие,) убивающее коров и убивающее людей!
О властвующий над мужами, да будет с нами твоя благосклонность!
Помилуй и вступись за нас, о бог,
А также дай нам укрытие двойной прочности!
अवो॑चाम॒ नमो॑ अस्मा अव॒स्यव॑: शृ॒णोतु॑ नो॒ हवं॑ रु॒द्रो म॒रुत्वा॑न् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
अवो॑चाम । नमः॑ । अ॒स्मै॒ । अ॒व॒स्यवः॑ । शृ॒णोतु॑ । नः॒ । हव॑म् । रु॒द्रः । म॒रुत्वा॑न् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
अवस्यवः अवः अन्नं रक्षणं वा इच्छन्तो वयम् अवोचाम एतत्सूक्तरूपं स्तोत्रमवादिष्म । अस्मै रुद्राय नमः नमस्कारोऽस्तु । मरुत्वान् मरुद्भिः स्वकीयैः पुत्रैर्युक्तः रुद्रः च नः अस्माकं हवम् आह्वानं शृणोतु स्वीकरोतु । यदस्माभिरुक्तं नः अस्मदीयं तत् सर्वं मित्रादयः षड्देवताः ममहन्तां पूजयन्तु । उतशब्दोऽप्यर्थे ॥ अवोचाम । ‘ब्रूञ् व्यक्तायां वाचि । लुङि • ब्रुवो वचिः । ‘ अस्यतिवक्ति' इत्यादिना च्लेरङादेशः । ‘ वच उम्' इति उमागमः । अवस्यवः । अव रक्षणे । भावे असुन्। ‘सुप आत्मनः क्यच्'। 'क्याच्छन्दसि' इति उप्रत्ययः। हवम् । भावेऽनुपसर्गस्य ' इति अप् संप्रसारणं च । मरुत्वान् । ‘झयः' इति मतुपो वत्वम् । ‘ तसौ मत्वर्थे ' इति भत्वेन पदत्वाभावाज्जश्त्वाभावः ॥ ॥ ६ ॥
“Desirous of protection, we have said: reverence be to him; may Rudra, with the Maruts, hear our invocation; and may Mitra, Varuṇa, Aditi--ocean, earth and heaven, be favourable to this (our prayer).”
We, seeking help, have spoken and adored him: may Rudra, girt by Maruts, hear our calling.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
We have spoken reverence to him, seeking his aid. Let Rudra,
accompanied by the Maruts, hear our call.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
Wir haben ihm hülfsbegierig Anbetung ausgesprochen; es höre Rudra mit den Maruts unsern Ruf. Das möge uns Mitra Varuna gewähren und Aditi, das Meer und Erde und Himmel.
Wir haben ihm gunstsuchend eine Huldigung ausgesprochen. Rudra in Begleitung der Marut soll unseren Ruf hören. Das sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
Жаждая помощи, мы выразили ему почтение.
Да услышит наш зов Рудра с Марутами!
Пусть нам это щедро даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!