चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥
चि॒त्रम् । दे॒वाना॑म् । उत् । अ॒गा॒त् । अनी॑कम् । चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । अ॒ग्नेः । आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ॥
देवानाम् । दीव्यन्तीति देवा रश्मयः तेषाम् । देवजनानामेव वा । अनीकं समूह रूपं चित्रम् आश्चर्यकरं सूर्यस्य मण्डलम् उदगात् उदयाचलं प्राप्तमासीत्। कीदृशम् । मित्रस्य वरुणस्य अग्नेः च । उपलक्षणमेतत् । तदुपलक्षितानां जगतां चक्षुः प्रकाशकं चक्षुरिन्द्रियस्थानीयं वा । उदयं प्राप्य च द्यावापृथिवी दिवं पृथिवीमन्तरिक्षं च अप्राः । स्वकीयेन तेजसा आ समन्तात् अपूरयत् । ईदृग्भूतमण्डलान्तर्वर्ती सूर्यः अन्तर्यामितया सर्वस्य प्रेरकः परमात्मा जगतः जङ्गमस्य तस्थुषः स्थावरस्य च आत्मा स्वरूपभूतः । स हि सर्वस्य स्थावरजङ्गमात्मकस्य कार्यवर्गस्य कारणम् । कारणाच्च कार्यं नातिरिच्यते । तथा च पारमर्षं सूत्र - ‘ तदनन्यत्वमारम्भणशब्दादिभ्यः ( ब्र. सू. २. १. १४) इति । यद्वा । स्थावरजङ्गमात्मकस्य सर्वस्य प्राणिजातस्य जीवात्मा । उदिते हि सूर्ये मृतप्रायं सर्वं जगत् पुनश्चेतनयुक्तं सदुपलभ्यते । तथा च श्रूयते - योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति ' ( तै. आ. १. १४. १ ) इति ॥ आप्राः । ‘ प्रा पूरणे'। लडिः पुरुषव्यत्ययः । अदादित्वात् शपो लुक् । जगतः । ‘ गमेर्द्वे च ' ( पा. सू. ३. २. १७८.३) इति क्विप् द्विर्वचनम् । गमः क्वौ ' इति अनुनासिकलोपः । तस्थुषः । तिष्ठतेर्लिटः क्वसुः । द्विर्वचने० ‘ शर्पूर्वाः खयः । षष्ठ्येकवचने ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । अतो लोप इटि च । इति आकारलोपः । ‘ शासिवसि° ' इति षत्वम् ॥
“Thewonderful hostof rays has risen; th eye of Mitra, Varuṇa and Agni; the sun, the soul of all that moves or is immoveable, has filled (with his glory) the heaven, the earth, and the firmament.”
THE brilliant presence of the Gods hath risen, the eye of Mitra, Varuna and Agni.
The soul of all that moveth not or moveth, the Sun hath filled the air and earth and heaven.
The gods' refulgent countenance has risen, The eye of Mitra, Varuṇa and Agni. He has pervaded air, and earth, and heaven: The soul of all that moves and stands is Sūrya.
The radiant countenance of the gods hath risen,
The eye of Mitra, Varuna, Agni;
He hath filled the sky and earth and atmosphere;
The sun is the self of all that moveth and standeth.
The brilliant face of the gods has arisen, the eye of Mitra, Varuṇa, and Agni;
he has filled heaven, earth, and the space between: the Sun is the
life-breath of both the moving and the still.
Es stieg empor der Götter lichtes Antlitz, das Auge Mitra's, Varuna's und Agni's; Es füllte Himmel, Erde, Luft die Sonne, der Lebenshauch des stehenden und gehnden.
Prangend ist das Antlitz der Götter aufgegangen, das Auge von Mitra, Varuna, Agni. Er hat Himmel und Erde und die Luft erfüllt; Surya ist die Seele von allem was geht und steht.
Взошел яркий лик богов,
Глаз Митры, Варуны, Агни.
Он заполнил собой небо и землю, воздушное пространство.
Сурья – дыхание жизни движущегося и неподвижного (мира).
सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात् । यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥
सूर्यः॑ । दे॒वीम् । उ॒षसम् । रोच॑मानाम् । मर्यः॑ । न । योषा॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् । यत्र॑ । नरः॑ । दे॒व॒ऽयन्तः॑ । यु॒गानि॑ । वि॒ऽत॒न्व॒ते । प्रति॑ । भ॒द्राय॑ । भ॒द्रम् ॥
सूर्यः देवीं दानादिगुणयुक्तां रोचमानां दीप्यमानाम् उषसं पश्चात् अभ्येति उषसः प्रादुर्भावानन्तरं तामभिलक्ष्य गच्छति । तत्र दृष्टान्तः । मर्यो न योषाम् । यथा कश्चिन्मनुष्यः शोभनावयवां गच्छन्तीं युवतिं स्त्रियं सततमनुगच्छति तद्वत् । यत्र यस्यामुषसि जातायां देवयन्तः देवं द्योतमानं सूर्यं यष्टुमिच्छन्तः नरः यज्ञस्य नेतारो यजमानाः युगानि । युगशब्दः कालवाची । तेन च तत्र कर्तव्यानि कर्माणि लक्ष्यन्ते यथा दर्शपूर्णमासौ इति । अग्निहोत्रादीनि कर्माणि वितन्वते विस्तारयन्ति । यद्वा । देवयन्तो देवयागार्थं धनमात्मन इच्छन्तो यजमानपुरुषा युगानि हलावयवभूतानि कर्षणाय वितन्वते प्रसारयन्ति । तामुषसमनुगच्छतीत्यर्थः । एवंविधं भद्रं कल्याणं सूर्यं प्रति भद्राय कल्याणरूपाय कर्मफलाय' स्तुमः इति शेषः । यद्वा । देवयन्तः देवकामा यजमाना युगानि युग्मानि भूत्वा पत्नीभिः सहिताः सन्तो भद्रं कल्याणम् अग्निहोत्रादिकं कर्म भद्राय तत्फलार्थं प्रति प्रत्येकं यस्यामुषसि प्रवृत्तायां वितन्वते विस्तारयन्ति ॥ मर्यः । ‘मृङ् प्राणत्यागे'। छन्दसि निष्टर्क्य इत्यादौ यत्प्रत्ययान्तो निपात्यते । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । युगानि । युजेः कर्मणि घञ् । युगशब्दः कालविशेषे रथाद्युपकरणे च ( का. ६. १. १६०) इति उञ्छादिषु पाठात् गुणाभावः अन्तोदात्तत्वं च । वितन्वते । ‘ तनु विस्तारे । ‘ तनादिकृञ्भ्य उः । सहेति योगविभागात तिङोपसर्गस्य समासे सति ‘ समासस्य ' इत्यन्तोदात्तत्वम् ॥
“The sun follows the divine and brilliant Uṣā, as a man (follows a young and elegant) woman; at which season, pious men perform (the ceremonies established for) ages, worshipping the auspicious (sun), for the sake of good (reward).”
Like as a young man followeth a maiden, so doth the Sun the Dawn, refulgent Goddess:
Where pious men extend their generations, before the Auspicious One for happy fortune.
The Sun pursues the Dawn, the gleaming goddess. As a young man a maiden, to the region Where god-devoted men lay on the harness Of brilliant offerings for the brilliant godhead.
The Sun approaches the gleaming goddess Dawn from behind, like a dashing youth a maiden,
when the men seeking the gods stretch their yokes across, in response to the auspicious (god) for the sake of an auspicious (thing).
Der Sonnengott, er folgt der Morgengöttin, der strahlenden, so wie der Braut der Freier; Dort wo die Frommen ihre Wagen schirren, von einer Seligkeit zur andern fahrend.
Surya geht hinter der leuchtenden Göttin Usas her wie der Jüngling hinter einer Maid, während die gottergebenen Männer die Joche aufstecken, je ein glückbringendes zu glücklichem Tun.
Сурья наступает сзади на сверкающую
Богиню Ушас, как юноша на женщину,
В то время как мужи, преданные богам,
Натягивают на себя ярмо, благодатное для благодатного.
भ॒द्रा अश्वा॑ ह॒रित॒: सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या॑सः । न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थु॒: परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ॥
भ॒द्राः । अश्वाः॑ । ह॒रितः॑ । सूर्य॑स्य । चि॒त्राः । एत॑ऽग्वाः । अ॒नु॒ऽमाद्या॑सः । न॒म॒स्यन्तः॑ । दि॒वः । आ । पृ॒ष्ठम् । अ॒स्थुः॒ । परि॑ । द्यावा॑पृथि॒वी । य॒न्ति॒ । स॒द्यः ॥
भद्राः कल्याणाः । अश्वाः एतग्वाः इत्येतदुभयम् अश्वनाम। तत्रैकं क्रियापरं योजनीयम् । अश्वाः तुरगा व्यापनशीला वा हरितः हर्तारः चित्राः विचित्रावयवाः अनुमाद्यासः अनुक्रमेण सर्वे स्तुत्या मादनीया एवंभूताः सूर्यस्य एतग्वाः अश्वाः । यद्वा । एतं गन्तव्यं मार्गं गन्तारोऽश्वाः। एतं शबलवर्णं वा प्राप्नुवन्तोऽश्वाः । नमस्यन्तः अस्माभिः नमस्यमानाः सन्तः दिवः अन्तरिक्षस्य पृष्ठम् उपरिप्रदेशं पूर्वभागलक्षणम् आ अस्थुः आतिष्ठन्ति प्राप्नुवन्ति। यद्वा । हरितो रसहरणशीला: रश्मयः भद्रादिलक्षणविशिष्टाः दिवः पृष्ठं नभःस्थलमातिष्ठन्ति । आस्थाय च द्यावापृथिवी द्यावापृथिव्यौ सद्यः तदानीमेव एकेनाह्ना परि यन्ति परितो गच्छन्ति व्याप्नुवन्तीत्यर्थः ॥ अश्वाः । ‘ अशू व्याप्तौ ' । ‘ अशिप्रुषि° ' इत्यादिना क्वन् । एतग्वाः । ‘ इण् गतौ । ‘ असिहसि । इत्यादिना कर्मणि तन्प्रत्ययः । गमेरौणादिको भावे ड्वप्रत्ययः । एतमेतव्यं प्रति ग्वो गमनं येषां ते तथोक्ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अनुमाद्यासः । मदि स्तुतौ । अस्मात् ण्यन्तात् ‘अचो यत्' । यतोऽनावः' इत्याद्युदात्तत्वम् । नमस्यन्तः । ‘ नमोवरिवः० ' इति पूजार्थे क्यच् । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । अस्थुः । तिष्ठतेश्छन्दसो वर्तमाने लुङ् । गातिस्था° ' इति सिचो लुक् । ‘ आतः । इति झेः जुस् ॥
“The auspicious, swift horses of the sun, well-limbed, road-traversing, who merit to be plural ased with praise, revernced byus, have ascended to the summit of the sky, and quickly circumambulate earth and heaven.”
Auspicious are the Sun's Bay-coloured Horses, bright, changing hues, meet for our shouts of triumph.
Bearing our prayers, the sky's ridge have they mounted, and in a moment speed round earth and heaven.
The brilliant steeds, bay coursers of the sun-god. Refulgent, dappled, meet for joyful praises, Wafting our worship, heaven's ridge have mounted, And in one day round earth and sky they travel.
The auspicious tawny horses of the Sun—the brilliant ones, worth cheering on, that win dappled cows—
bringing reverence, they have mounted the back of heaven. They circle around heaven and earth in a single day.
Die schönen, goldnen, lichten Sonnenrosse, die schimmernden, begrüsst von Jubelliedern, Sie stiegen andachtsvoll zur Himmelshöhe und gehn in einem Tag' um Erd' und Himmel.
Die glückbringenden falben Stuten des Surya, die prangenden Etagva´s haben von Jubel begrüßt, sich beugend den Rücken des Himmels erstiegen. In einem Tag umwandeln sie Himmel und Erde.
Благодатные рыжие кобылицы Сурьи,
Яркие, пестрые, вызывающие восторг,
Достойные поклонения, поднялись на спину неба.
В один день они объезжают небо и землю.
तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार । य॒देदयु॑क्त ह॒रित॑: स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥
तत् । सूर्य॑स्य । दे॒व॒ऽत्वम् । तत् । म॒हि॒ऽत्वम् । म॒ध्या । कर्तोः॑ । विऽत॑तम् । सम् । ज॒भा॒र॒ । य॒दा । इत् । अयु॑क्त । ह॒रितः॑ । स॒धऽस्था॑य् । आत् । रात्री॑ । वासः॑ । त॒नु॒ते॒ । सि॒मस्मै॑ ॥
सूर्यस्य सर्वप्रेरकस्य आदित्यस्य तत् देवत्वम् ईश्वरत्वम् । स्वातन्त्र्यमिति यावत्। महित्वं महत्त्वं माहात्म्यं च तत् एव । तच्छब्दश्रुतेः यच्छब्दाध्याहारः । यत् कर्तोः । कर्मनामैतत् । प्रारब्धापरिसमाप्तस्य कृष्यादिलक्षणस्य कर्मणः मध्या मध्ये अपरिसमाप्ते एव तस्मिन् कर्मणि विततं विस्तीर्णं स्वकीयं रश्मिजालम् अस्तं गच्छन् सूर्यः सं जभार अस्माल्लोकात् स्वात्मन्युपसंहरति । कर्मकरश्च प्रवृत्तमपरिसमाप्तमेव विसृजति अस्तं यन्तं सूर्यं दृष्ट्वा । ईदृशं स्वातन्त्र्यं महिमा च सूर्यव्यतिरिक्तस्य कस्यास्ति । न कस्यापि । सूर्य एवेदृशं स्वातन्त्र्यं महिमानं चावगाहते। अपि च इत् इत्यवधारणे । यदेत् यस्मिन्नेव काले हरितः रसहरणशीलान् स्वरश्मीन् हरिद्वर्णानश्वान् वा सधस्थात् सहस्थानात् अस्मात् पार्थिवाल्लोकादादाय अयुक्त अन्यत्र संयुक्तान् करोति । यद्वा । युजिः केवलोऽपि विपूर्वः द्रष्टव्यः। यदैवासौ स्वरश्मीनश्वान् वा सधस्थात् सह तिष्ठन्त्यस्मिन्निति सधस्थो रथः । तस्मात् अयुक्त अमुञ्चत् । आत् अनन्तरमेव रात्री निशा वासः आच्छादयितृतमः सिमस्मै । सिमशब्दः सर्वशब्दपर्यायः। सप्तम्यर्थे चतुर्थी। सर्वस्मिन् लोके तनुते विस्तारयति । यद्वा । वासो वासरम् अहः । तत् सर्वस्मात् अस्माल्लोकादपनीय रात्री तमस्तनुते । अत्र निरुक्तं - तत्सूर्यस्य देवत्वं तन्महित्वं मध्ये यत्कर्मणां क्रियमाणानां विततं संह्रियते यदासौ अयुक्त हरणानादित्यरश्मीन हरितोऽश्वानिति वाथ रात्री वासस्तनुते सिमस्मै वासरमहरवयुवती सर्वस्मात् ' (निरु. ४. ११) इति । महित्वम् । ‘मह पूजायाम्। औणादिक इन्प्रत्ययः । ‘ तस्य भावस्त्वतलौ ' ( पा. सू. ५. १. ११९ )। मध्या। मध्यशब्दात् सप्तम्येकवचनस्य ‘ सुपां सुलुक् । इति डादेशः । कर्तोः । करोतेरौणादिकः तुन्प्रत्ययः । विततम् । विपूर्वात्तनोतेः कर्मणि निष्ठा । उदित्त्वेन क्त्वाप्रत्यये इटो विकल्पनात् ' यस्य विभाषा ' इति इट्प्रतिषेधः । ‘ गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । जभार । ‘ हृग्रहोर्भः० ' इति भत्वम् । अयुक्त । युजेर्लुङि 'झलो झलि' इति सिचो लोपः । सधस्थात्। घञर्थे कविधानम्' इति अधिकरणे कप्रत्ययः। सध मादस्थयोश्छन्दसि' इति सधादेशः । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । रात्री । ‘ रात्रेश्चाजसौ ' इति ङीप् ॥
“Such is the divinity, such is the majesty of the sun, that when he has set, he has withdrawn (into himself) the diffused (light which had been shed) upon the unfinished task; when he has unyoked his coursers from his car, then night extends the veiling darkness over all.”
This is the Godhead, this might of Surya: he hath withdrawn what spread o'er work unfinished.
When he hath loosed his Horses from their station, straight over all Night spreadeth out her garment.
This is the Sun's divinity, his greatness: In midst of action he withdraws the daylight. When from their stand he has withdrawn his coursers, Then straightway night for him spreads out her garment.
This is the Sun’s divinity, this his greatness: in the middle of (her) work (Night?) has gathered together what was stretched out.
When he has yoked his tawny horses from their seat, just after that Night stretches her garment for him.
Das ist des Sonnengottes Macht und Gottheit, im Wirken rollt den Aufzug er zusammen; Hat er vom Wagen losgeschirrt die Stuten, so streckt die Nacht den Schleier über alles.
Das ist die Göttlichkeit, das die Macht des Surya: Mitten in der Arbeit hat er ihr ausgespanntes Gewebe zusammengelegt. Sobald er die Falbinnen von ihrem Platze geschirrt hat, spannt die Nacht für ihn selbst ihr Gewand aus.
Такова божественная природа Сурьи, таково величие:
Посреди работы он собирает натянутую (ткань).
Как только он запряг с места рыжих (коней),
Ночь тут же протягивает (свой) наряд для него самого.
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ । अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाज॑: कृ॒ष्णम॒न्यद्ध॒रित॒: सं भ॑रन्ति ॥
तत् । मि॒त्रस्य॑ । वरु॑णस्य । अ॒भि॒ऽचक्षे॑ । सूर्यः॑ । रू॒पम् । कृ॒णु॒ते॒ । द्योः । उ॒पऽस्थे॑ । अ॒न॒न्तम् । अ॒न्यत् । रुश॑त् । अ॒स्य॒ । पाजः॑ । कृ॒ष्णम् । अ॒न्यत् । ह॒रितः॑ । सम् । भ॒र॒न्ति॒ ॥
तत् तदानीम् उदयसमये मित्रस्य वरुणस्य एतदुभयोपलक्षितस्य सर्वस्य जगतः अभिचक्षे आभिमुख्येन प्रकाशनाय द्योः नभसः उपस्थे उपस्थाने मध्ये सूर्यः सर्वस्य प्रेरकः सविता रूपं सर्वस्य निरूपकं प्रकाशकं तेजः कृणुते करोति । अपि च अस्य सूर्यस्य हरितः रसहरणशीला रश्मयः हरिद्वर्णाः अश्वा वा अनन्तम्[१] अवसानरहितं कृत्स्नस्य जगतो व्यापकं रुशत् दीप्यमानं श्वेतवर्णं पाजः । बलनामैतत् । बलयुक्तम् अतिबलस्यापि नैशस्य तमसो निवारणे समर्थम् अन्यत् तमसो विलक्षणं तेजः सं भरन्ति अहनि स्वकीयागमनेन निष्पादयन्ति । तथा कृष्णं कृष्णवर्णम् अन्यत् तमः स्वकीयापगमनेन रात्रौ । अस्य रश्मयोऽप्येवं कुर्वन्ति किमु वक्तव्यं तस्य माहात्म्यमिति सूर्यस्य स्तुतिः ॥ अभिचक्षे । संपदादिलक्षणो भावे क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । द्योः । ‘ ङसिङसोश्च ' ( पा. सू. ६. १. ११० ) इति पूर्वरूपता । उपस्थे । ‘ घञर्थे कविधानम्' इति कप्रत्ययः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । पाजः । पाति रक्षतीति पाजो बलम् । पातेर्बले जुट् च ' ( उ. सू. ४, ६४२) इति असुन् जुडागमश्च । छान्दसो मत्वर्थीयस्य विनो लोपः ॥
“The sun, is the sight of Mitra and Varuṇa, displays his form (of brightness) in the middle of the heavens, and his rays extend, on one hand, his infinite and brilliant power, or, on the other, (by their departure), bring on the blackness of night.”
In the sky's lap the Sun this form assumeth that Varuna and Mitra may behold it.
His Bay Steeds well maintain his power eternal, at one time bright and darksome at another.
This form the Sun takes in the lap of heaven, That Varuṇa and Mitra may regard him. One glow of his appears unending, splendid; His bay steeds roll the other up, the black one.
The Sun takes on his own form in the lap of heaven, for Mitra and Varuṇa to see.
His one surface, gleaming, is unbounded; the tawny (horses) together bring the other, the black one.
Vor Varuna's und Mitra's Aug' entfaltet im Himmelsschooss die Sonne ihre Schönheit; Ohn' Ende führen bald den lichten Schimmer, und bald den dunklen ihre Stuten aufwärts.
Diese Farbe des Mitra, des Varuna lässt Surya im Schoße des Himmels schauen. Endlos weiß ist seine eine Erscheinung; die andere, schwarze legen die falben Stuten zusammen.
Сурья принимает этот цвет Митры (и) Варуны,
Чтобы быть видимым в лоне неба.
Бесконечно светла одна его сторона,
Другую, черную, собирают (его) кобылицы.
अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
अ॒द्य । दे॒वाः॒ । उत्ऽइ॑ता॑ । सूर्य॑स्य । निः । अंह॑सः । पि॒पृ॒त । निः । अ॒व॒द्यात् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
हे देवाः द्योतमानाः सूर्यरश्मयः अद्य अस्मिन्काले सूर्यस्य आदित्यस्य उदिता उदितौ उदये सति इतस्ततः प्रसरन्तो यूयम् अस्मान् अंहसः पापात् निः पिपृत निष्कृष्य पालयत । यदिदमस्माभिरुक्तं नः अस्मदीयं तत् मित्रादयः षड्देवता: ममहन्तां पूजयन्तु अनुमन्यन्ताम् । रक्षन्त्विति यावत् । मित्रः प्रमीतेस्त्रायकः अहरभिमानी देवः । वरुणः अनिष्टानां निवारयिता रात्र्यभिमानी । अदितिः अखण्डनीया अदीना वा देवमाता । सिन्धुः स्यन्दनशीलोदकाभिमानिनी देवता । पृथिवी भूलोकस्याधिष्ठात्री द्यौः द्युलोकस्य । उतशब्दः समुच्चये ॥ अद्य । ‘ निपातस्य च ' इति संहितायां दीर्घत्वम् । उदिता । उत्पूर्वात् एतेर्भावे क्तिन् । सुपां सुलुक्° ' इति डादेशः । ‘ तादौ च° ' इति गतेः प्रकृतिस्वरत्वम् । पिपृत। ‘ पॄ पालनपूरणयोः पृ इत्येके'। लोटि जुहोत्यादित्वात् शपः श्लुः । द्विर्वचनोरदत्वहलादिशेषाः । ‘ अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् । ‘ सार्वधातुकमपित्' इति तशब्दस्य ङित्त्वे सति ‘ ऋचि तुनुघ° ' इत्यादिना संहितायां दीर्घः ॥ ७ ॥ ॥ १६ ॥
“This day, gods, with the rising of the sun, deliver us from heinous sin; and may Mitra, Varuṇa, Aditi--ocean, earth and heaven, be favourable to this (our prayer).”
This day, O Gods, while Surya is ascending, deliver us from trouble and dishonour.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
To-day, O gods, do ye at Sūrya's rising Release us from distress and from dishonour: This boon may Varuṇa and Mitra grant us. And Aditi and Sindhu, Earth and Heaven.
Today, o gods, at the rising of the Sun, deliver us from distress and from disgrace.
– This let Mitra and Varuıa grant to us, and Aditi, River, and Earth and Heaven.
Kakṣīvant Dairghatamasa, the son of Dīrghatamas (poet of I.140–164), is the poet of the next eleven hymns (116–126). As Geldner points out, however, Kakṣīvant refers to himself as pajriyá (I.116.7, 117.6, 120.5) and to his family as the pajrā́ḥ (I.122.8, 126. 4, 5). According to I.121.13 the Pajras are Aṅgirases. Kakṣīvant also
calls himself the son of Uśij in I.119.9 and 122.4; Sāyaṇa identifies Uśij as a dāsī, a servant woman.
Whatever his family affiliations Kakṣīvant has one of the most distinctive poetic personalities in the R̥gveda. He is a very skillful, self-conscious, and tricky artist, setting traps for his unwary hearers and twisting words and phrases into often impenetrable knots, with an exuberance that we have to admire despite our fre
quent frustrations. He also has clear thematic preoccupations. Approximately half of his oeuvre is devoted to the Aśvins (116–120), with important catalogues of their deeds and services. (Much of what we know or surmise about the mythology of the Aśvins comes from these hymns.) He is also particularly interested in women in all their aspects: there are important and high-style treatments of the marriage of Sūryā and the Aśvins’ wooing of her, as well as two lovely Dawn hymns (123–124) sketching a range of female roles, but there is also a nearly obscene celebration of a girl he received as a gift from his patron (126.6–7) that presses the boundaries of R̥gvedic decorum.
Because so much of Kakṣīvant’s artistry is bound up with his manipulation of the Sanskrit language even at the phonological level, the special flavor of his poetry is particularly hard to convey in translation, unfortunately.
Befreiet heute bei der Sonne Aufgang, o Götter, uns von Schmach und von Bedrängniss; Das mög' uns Mitra, Varuna gewähren und Aditi, das Meer und Erd' und Himmel.
Ihr Götter, helfet uns heute bei Aufgang der Sonne von Ungemach und Tadel! Das sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
Сегодня, о боги, на восходе солнца,
Переправьте нас через узость, через бесчестье!
Пусть нам это щедро даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!