नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृ॑ञ्जे॒ स्तोमाँ॑ इयर्म्य॒भ्रिये॑व॒ वात॑: । यावर्भ॑गाय विम॒दाय॑ जा॒यां से॑ना॒जुवा॑ न्यू॒हतू॒ रथे॑न ॥
नास॑त्याभ्याम् । ब॒र्हिःऽइ॑व । प्र । वृ॒ञ्जे॒ । स्तोमा॑न् । इ॒य॒र्मि॒ । अ॒भ्रिया॑ऽइव । वातः॑ । यौ । अर्भ॑गाय । वि॒ऽम॒दाय॑ । जा॒याम् । से॒ना॒ऽजुवा॑ । नि॒ऽऊ॒हतुः॑ । रथे॑न ॥
बर्हिरिव यथा कश्चिद्यजमानो यागार्थ बर्हिः प्र वृञ्जे प्रकर्षेण अन्यूनानतिरिक्तं यागाय पर्याप्तं दर्भ वृङ्क्ते छिनत्ति संपादयतीति यावत् । एवमहं नासत्याभ्याम् अश्विभ्यां स्तोमान् स्तुतीः इयर्मि संपादयामि । एतदेव विशदीक्रियते । अभ्रियेव । यथा अभ्रियाणि अभ्रेषु मेघेष्ववस्थितान्युदकानि वातः वायुः वर्षणार्थं बहुशः प्रेरयति एवमहम् अश्विभ्यां स्तोत्राणि इयर्मि बहुशः प्रेरयामि । कीदृशावश्विनौ । अर्भगाय बालाय स्वयंवरलब्धभार्याय विमदाय एतत्संज्ञाय राजर्षये मध्येमार्गं स्वयंवरार्थमागतैः ताम् अलभमानैरन्यैर्नृपैः सह योद्धमशक्नुवतेऽपि तस्मै सेनाजुवा शत्रुसेनायाः प्रेरकेण शत्रुभिः दुष्प्रापेण रथेन यौ अश्विनौ जायां भार्यां परैरनुक्रान्तां न्यूहतुः शत्रून्निहत्य तदीयं गृहं प्रापयामासतुः । ताभ्यामित्यर्थः ॥ नासत्याभ्याम् । सत्सु भवौ सत्यौ । न सत्यौ असत्यौ । न असत्यौ नासत्यौ । ‘नभ्राण्नपात्' इत्यादिना नञः प्रकृतिभावः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । वृञ्जे ।' वृजी वर्जने'। आदादिकः । इदित्वात् नुम् । लोपस्त आत्मनेपदेषु ' इति तलोपः । इयर्मि। ‘‘ऋ गतौ । जौहोत्यादिकः ।' अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् । ‘अभ्यासस्यासवर्णे ' इति इयङ् । अभ्रियेव"। समुद्राभ्राद्धः' इति भवार्थे घः। घस्य इयादेशः । ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । अर्भगाय । अर्तिगॄभ्यां भन्' (उ. सू. ३. ४३२) इति अर्तेर्भन्। अर्भः एवार्भकः । ‘संज्ञायां कन्' (पा. सू. ५. ३. ८७) । छन्दसो गकारः । अपर आह । अर्भमल्पं गायति शब्दयतीत्यर्भगः । ‘कै गै शब्दे'। ‘गापोष्टक्' (पा. सू ३. २. ८ ) । आतो लोप इटि च ' इति आकारलोपः । तदेतत् पदकृतः शाकल्यस्य अभिमतम् । सेनाजुवा । जु इति सौत्रो धातुर्गत्यर्थः । अस्मादन्तर्भावितण्यर्थात् ‘क्विब्वचिप्रच्छि। इत्यादिना क्विब्दीर्घौ । तन्वादित्वादुवङ् (पा. सू. ६. ४, ७७. १ ) । न्यूहतुः । ‘वह प्रापणे' लिटि अतुसि यजादित्वात् संप्रसारणम् । ‘यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः ॥
“In like manner as a worshipper strews the sacred grass for the Nāsatyas, so do I urge on their laudations, as the wind drives on the clouds; they, who gave a bride to the youthful Vimada, and bore her away in their car, outstripping the rival host.”
I TRIM like grass my song for the Nasatyas and send their lauds forth as the wind drives rain-clouds,
Who, in a chariot rapid as an arrow, brought to the youthful Vimada a consort.
I twist (the milk-pot) as (one twists) the ritual grass and I stir up the praise songs, like winds the rain clouds, for the Nāsatyas,
who have carried a wife down to our little Vimada with their chariot that is swift as a weapon,
Den Treuen treib' ich wie der Wind die Wolken die Lieder zu und schmück' wie eine Streu sie; Die einst dem Jüngling Vimada die Gattin auf pfeilgeschwinden Wagen heimwärts fuhren.
Für die Nasatyas setze ich den Milchtrank ans Feuer wie das Barhis. Loblieder lasse ich aufsteigen wie der Wind die Regenwolken, für sie, die dem jungen Vimada auf pfeilschnellem Wagen das Weib zuführten:
Как (разбрасывают) жертвенную солому (для обряда), так для
Насатьев я ставлю на огонь (молоко).
Хвалы я привожу в движение, словно ветер – тучи,
(Для тех), которые для юного Вимады привезли
Жену на колеснице, быстрой, как стрела,
वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभि॒: शाश॑दाना । तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥
वी॒ळु॒पत्म॑ऽभिः । आ॒शु॒हेम॑ऽभिः । वा॒ । दे॒वाना॑म् । वा॒ । जू॒तिऽभिः॑ । शाश॑दाना । तत् । रास॑भः । ना॒स॒त्या॒ । स॒हस्र॑म् । आ॒जा । य॒मस्य॑ । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥
वीळुपत्मभिः । वीड्वित बलनाम। बलवदुत्पतनैः आशुहेमभिः शीघ्रगमनैः । वाशब्दः समुच्चये । हे नासत्या अश्विनौ एवंभूतैरश्वैश्च देवानाम् इन्द्रादीनां जूतिभिः प्रेरणैश्च शाशदाना शाशद्यमानयोः अत्यर्थं प्रेर्यमाणयोर्युवयोर्वाहनभूतो यः रासभः प्रजापतिना दत्तः सः यमस्य वैवस्वतस्य प्रीतिकरे प्रधने प्रकीर्णधनोपेते आजा आजौ संग्रामे तत् शत्रूणां सहस्रं जिगाय जितवान्। वैवस्वतो हि बहूनां मरणहेतुना संग्रामेण तुष्टो भवति । यद्वा । जेतव्यत्वेन प्रजापतिना निहितं ऋक्सहस्रं शीघ्रगमनयुक्तो रासभो जिगाय जयेनालभत । अन्येभ्यः देवेभ्यः पूर्वमेवाजिं प्राप्य युवां जयं प्रापयामास । तथा चास्मिन्नर्थे ‘प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रयच्छत् ' (ऐ. ब्रा, ४. ७ ) इत्यादिकं ब्राह्मणमनुसंधेयम् ॥ वीळुपत्मभिः। वीळु बलवत्पतन्तीति वीळुपत्मानः । आशुहेमभिः । आशु शीघ्रं हिन्वन्ति गच्छन्तीति आशुहेमानः । तैः। ‘हि गतौ वृद्धौ च'। अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । कृदुत्तरपदप्रकृतिस्वरत्वम्। जूतिभिः । ऊतियूतिजूति' इत्यादिना क्तिन उदात्तत्वम् । शाशदाना । ‘शद्लृ शातने' । अत्र गत्यर्थों धातूनामनेकार्थत्वात् । अस्मात् यङन्तात् लटः शानच् । तस्य ‘ छन्दस्युभयथा ' इति अर्धधातुकत्वात् शबभावः । अतोलोपयलोपौ । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । ‘सुपां सुलुक्' इति षष्ठ्याः पूर्वसवर्णदीर्घः। आजा । तेनैव सूत्रेण डादेशः । जिगाय ।' जि जये'। 'सन्लिटोर्जेः' इति अभ्यासादुत्तरस्य कुत्वं गकारः ॥
“Nāsatyas,borne by strong and rapid (steeds), and (urged) by the encouragements of the gods, the ass of you, thus instrumental gated, overcame a thousand (enemies) in conflict, in the war grateful to Yama.”
Borne on by rapid steeds of mighty pinion, or proudly trusting in the Gods' incitements.
That stallion ass of yours won, O Nasatyas, that thousand in the race, in Yama's contest.
As they were exulting in their firm-winged, swiftly speeding (steeds) or in the gods’ spur.
Then, o Nāsatyas, a donkey [=Vimada?] conquered the thousand at stake in the contest of Yama.
Die ihr vertraut auf starke Flügelrosse, auf rasche Renner, auf der Götter Eile, Dies tausendfache hat im Kampf, o Treue, der Eselhengst in Jama's Schlacht erbeutet.
Die durch die starkflügeligen, schnellfahrenden Rosse oder durch den Ansporn der Götter zuversichtlich geworden waren - Der Esel gewann das Tausend im Wettkampf des Yama um den hohen Preis, ihr Nasatya´s.
Которые торжествуют благодаря мощным полетам,
Быстрым стремлениям или благодаря поощрениям богов -
Осел, о Насатьи, выиграл ту тысячу
В состязании с Ямой за высокую награду.
तुग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि॑न्ममृ॒वाँ अवा॑हाः । तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिरन्तरिक्ष॒प्रुद्भि॒रपो॑दकाभिः ॥
तुग्रः॑ । ह॒ । भु॒ज्युम् । अ॒श्वि॒ना॒ । उ॒द॒ऽमे॒घे । र॒यिम् । न । कः । चि॒त् । म॒मृ॒ऽवाम् । अव॑ । अ॒हाः॒ । तम् । ऊ॒ह॒थुः॒ । नौ॒भिः । आ॒त्म॒न्ऽवती॑भिः । अ॒न्त॒रि॒क्ष॒प्रुत्ऽभिः॑ । अप॑ऽउदकाभिः ॥
अत्रेयमाख्यायिका । तुग्रो नाम अश्विनोः प्रियः कश्चिद्राजर्षिः । स च द्वीपान्तरवर्तिभिः शत्रुभिरत्यन्तमुपद्रुतः सन् तेषां जयाय स्वपुत्रं भुज्युं सेनया सह नावा प्रहैषीत् । सा च नौः मध्येसमुद्रमतिदूरं गता वायुवशेन भिन्ना आसीत् । तदानीं सः भुज्युः शीघ्रम् अश्विनौ तुष्टाव । तौ च स्तुतौ सेनया सहितम् आत्मीयासु नौषु आरोप्य पितुस्तुग्रस्य समीपं त्रिभिरहोरात्रैः प्रापयामासतुरिति । अयमर्थः इदमादिकेन तृचेन प्रतिपाद्यते । हशब्दः प्रसिद्धौ । तुग्रः खलु पूर्वं शत्रुभिः पीडितः सन् तज्जयार्थम् उदमेघे । उदकैर्मिह्यते सिच्यते इति उदमेघः समुद्रः तस्मिन् भुज्युम् एतत्संज्ञं प्रियं पुत्रम् अवाहाः । नावा गन्तुं पर्यत्याक्षीत् । तत्र दृष्टान्तः । ममृवान् म्रियमाणः सन् धनलोभी कश्चित् मनुष्यः रयिं न यथा धनं परित्यजति तद्वत् । हे अश्विनौ तं च भुज्यं मध्येसमुद्रं निमग्नं नौभिः पितृसमीपम् ऊहथुः युवां प्रापितवन्तौ । कीदृशीभिः । आत्मन्वतीभिः आत्मीयाभिः युवयोः स्वभूताभिरित्यर्थः । यद्वा । धृतिरात्मा धारणवतीभिरित्यर्थः । अन्तरिक्षप्रुद्भिः अतिस्वच्छत्वादन्तरिक्षे जलस्य उपरिष्टादेव गन्त्रीभिः अपोदकाभिः सुश्लिष्टत्वात् अपगतोदकाभिः अप्रविष्टोदकाभिरित्यर्थः ॥ उदमेघे । मिह सेचने '। कर्मणि घञ् । 'न्यङ्क्वादीनां च ' (पा. सू. ७. ३. ५३ ) इति कुत्वम् । ‘उदकस्योदः संज्ञायाम् ' ( पा. सू. ६. ३. ५७ )। थाथादिना उत्तरपदान्तोदात्तत्वम् । ममृवान् ।' मृङ् प्राणत्यागे । लिटः क्वसुः । क्रादिनियमात् प्राप्तस्य इटः ‘वस्वेकाजाद्धसाम्' इति नियमात् अभावः । अहाः। ओहाक् त्यागे'। लुङि तिपि च्लेः सिच् । आगमानुशासनस्यानित्यत्वात् सगिटौ न क्रियेते । बहुलं छन्दसि' इति इडभावः। 'हल्ङ्याब्भ्यः इति तिलोपः। रुत्वविसर्गौ । यद्वा ।' मन्त्रे घस ' इति च्लेर्लुक् । च्लेर्लुप्तत्वात् इण् न क्रियते । नौभिः । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । आत्मन्वतीभिः । आत्मनो मतुप् । मादुपधायाः' इति वत्वम् ।' अनो नुट्' (पा. सू. ८. २. १६ ) इति नुट् । नलोपः । हस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । अन्तरिक्षप्रुद्भिः । प्रुङ् गतौ ।' क्विप् च' इति क्विप् ॥
“Tugra, verily, Aśvins, sent (his son) Bhujyu to sea, as a dying man parts with his riches; but you brought him back in vessels of your own, floating over the ocean, and keeping out the waters.”
Yea, Asvins, as a dead man leaves his riches, Tugra left Bhujyu in the cloud of waters.
Ye brought him back in animated vessels, traversing air, unwetted by the billows.
Tugra left Bhujyu behind in a cloud of water, Aśvins, as one who has died (leaves behind) his wealth.
You carried him with your breathing ships [=winged steeds] that bob in the midspace far from water.
Den Bhudschju liess zurück, o Ritter, Tugra in Wasserfluten wie sein Gut ein Todter; Den fuhrt heraus ihr mit beseelten Schiffen, die fern vom Wasser durch die Lüfte schwebten.
Tugra hatte den Bhujyu in der Wassermasse zurückgelassen, ihr Asvin, wie irgend ein Verstorbener sein Vermögen. Ihn entführet ihr auf beseelten, durch die Luft schwimmenden, wasserdichten Schiffen.
Это Тугра покинул Бхуджью, о Ашвины, в потоке воды,
Как какой-нибудь умерший – (свое) богатство.
Вы вывезли его на одушевленных,
Плывущих по воздуху, водонепроницаемых ладьях.
ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू॑हथुः पतं॒गैः । स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथै॑: श॒तप॑द्भि॒: षळ॑श्वैः ॥
ति॒स्रः । क्षपः॑ । त्रिः । अहा॑ । अ॒ति॒व्रज॑त्ऽभिः । नास॑त्या । भु॒ज्युम् । ऊ॒ह॒थुः॒ । प॒त॒ङ्गैः । स॒मु॒द्रस्य॑ । धन्व॑न् । आ॒र्द्रस्य॑ । पा॒रे । त्रि॒ऽभिः । रथैः॑ । श॒तप॑त्ऽभिः । षट्ऽअ॑श्वैः ॥
हे नासत्यौ सेनया सह उदके निमग्नं भुज्युं तिस्रः क्षपः त्रिसंख्याका रात्रीः त्रिरहा त्रिवारमावृत्तान्यहानि च अतिव्रजद्भिः अतिक्रम्य गच्छद्भिरेतावन्तं कालमतिव्याप्य वर्तमानैः पतङ्गैः पतद्भिः त्रिभिः त्रिसंख्याकैः रथैः ऊहथुः युवामूढवन्तौ । क्वेति चेत् उच्यते । समुद्रस्य अम्बुराशेर्मध्ये धन्वन् धन्वनि जलवर्जिते प्रदेशे आर्द्रस्य उदकेनार्द्रीभूतस्य समुद्रस्य पारे तीरदेशे च । कथंभूतै रथैः । शतपद्भिः शतसंख्याकैश्चक्रलक्षणैः पादैरुपेतैः षळश्वैः षड्भिरश्वैर्युक्तैः ॥ तिस्रः । ‘त्रिचतुरोः स्त्रियाम्' इति त्रिशब्दस्य तिस्रादेशः । स चान्तोदात्तः। ' अचि र ऋतः' इति रेफादेशे ‘उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् । क्षपः । विभक्त्यन्तस्य छान्दसं ह्रस्वत्वम् । यद्वा । शसि आतः' इति योगविभागादधातोरपि आकारलापः । अहा। ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । पतङ्गैः। ‘पत्लृ गती'। ‘पतेरङ्गच् ' ( उ. सू. १. ११६ )। धन्वन् । ‘धविर्गत्यर्थः । इदित्त्वात् नुम् ।' कनिन्युवृषि इत्यादिना कनिन् । ‘सुपां सुलुक्' इति सप्तम्या लुक् । शतपद्भिः । शतं पादा येषाम् । ‘संख्यासुपूर्वस्य ' इति पादशब्दस्यान्त्यलोपः समासान्तः । अयस्मयादित्वेन भत्वात् ‘ पादः पत् ' इति पद्मावः । यद्वा । पादसमानार्थः पच्छब्दः प्रकृत्यन्तरं द्रष्टव्यम् ॥
“Threenights, and three days, Nāsatyas, have you conveyed Bhujyu in three rapid, revolving cars, having a hundred wheels, and drawn by six horses, along the dry bed of the ocean to the short of the sea.”
Bhujyu ye bore with winged things, Nasatyas, which for three nights, three days full swiftly travelled,
To the sea's farther shore, the strand of ocean, in three cars, hundred-footed, with six horses.
Through three nights and through three days, o Nāsatyas, you carried Bhujyu with your winged ones that wander far beyond:
(you carried him) on the wasteland of the sea, at the far shore of the watery (sea), with your three chariots with their hundred feet and six horses.
Ihr Treuen fuhrt drei Tage und drei Nächte den Bhudschju hin zum Strand des feuchten Meeres Auf drei beschwingten Wagen, die hinüber mit hundert Füssen und sechs Rossen flogen.
Mit den über drei Nächte, über drei Tage ausdauernden Vögeln entführtet ihr Nasatya´s den Bhujyu an den Strand des Meeres, an das Ufer des Nasses, mit drei hundertfüßigen, sechsrossigen Wagen.
Вы вывезли Бхуджью, о Насатьи, на птицах,
Способных пролететь три ночи, три дня,
На берег моря, на ту сторону хляби,
На трех колесницах о сотне ног, о шести конях.
अ॒ना॒र॒म्भ॒णे तद॑वीरयेथामनास्था॒ने अ॑ग्रभ॒णे स॑मु॒द्रे । यद॑श्विना ऊ॒हथु॑र्भु॒ज्युमस्तं॑ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांस॑म् ॥
अ॒ना॒र॒म्भ॒णे । तत् । अ॒वी॒र॒ये॒था॒म् । अ॒ना॒स्था॒ने । अ॒ग्र॒भ॒णे । स॒मु॒द्रे । यत् । अ॒श्वि॒ना॒ । ऊ॒हथुः॑ । भु॒ज्युम् । अस्त॑म् । श॒तऽअ॑रित्रान् । नाव॑म् । आ॒त॒स्थि॒वांस॑म् ॥
हे अश्विनौ अनारम्भणे आलम्बनरहिते समुद्रे तत् कर्म अवीरयेथाम् । विक्रान्तं कृतवन्तौ युवाम् । अनारम्भणत्वमेव स्पष्टीकरोति । अनास्थाने। आस्थीयते अस्मिन् इति आस्थानो भूप्रदेशः। तद्रहिते स्थातुमशक्ये जले इत्यर्थः । अग्रभणे अग्रहणे । हस्तेन ग्राह्यं शाखादिकमपि यत्र नास्ति तस्मिन् इत्यर्थः । किं पुनस्तत्कर्म । भुज्युं समुद्रे मग्नं शतारित्रां बह्वरित्राम् । यैः काष्ठैः पार्श्वतो बद्धैर्जलालोडने सति नौः शीघ्रं गच्छति तानि अरित्राणि । ईदृशीं नावम् आतस्थिवांसम् आस्थितवन्तमारूढवन्तं कृत्वा अस्तम् । गृहनामैतत् । पितुस्तुग्रस्य गृहं प्रति यत् ऊहथुः । तत्प्रापणमन्यैर्दुःशकं युवां समुद्रमध्ये कृतवन्तावित्यर्थः ॥ अनारम्भणे । आरभ्यते इत्यारम्भणम् । ‘कृत्यल्युटो बहुलम् ' इति कर्मणि ल्युट् ।' नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अवीरयेथाम् । शूर वीर विक्रान्तौ । चुरादिरात्मनेपदी । अनास्थानाग्रभणयोः पूर्ववत् ल्युट्स्वरौ । अयं तु विशेषः। 'हृग्रहोर्भः' इति भत्वम् । अस्तम् । अस्यते अस्मिन् सर्वमित्यस्तं गृहम् ।' असिहसि ' इत्यादिना तन्प्रत्ययः । शतारित्राम् । ‘ऋ गतौ'। ‘अतिलूधूसू ' (पा. सू. ३. २. १८४ ) इति करणे इत्रप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ८ ॥
“this exploit you achieved, Aśvins, in the ocean, where there is nothing to give support, nothing to rest upon,nothing to cling to, that you brought Bhujyu, sailing in a hundred-oared ship, to his father's house.”
Ye wrought that hero exploit in the ocean which giveth no support, or hold or station,
What time ye carried Bhujyu to his dwelling, borne in a ship with hundred oars, O Asvins.
Then you two acted as heroes upon the unsupporting sea, which has no place to stand and nothing to grasp,
when, Aśvins, you carried Bhujyu home after he mounted your ship of a hundred oars.
Dies Heldenwerk vollzogt ihr auf dem Meere, das keine Stütze, keinen Stand noch Halt halt, Dass, Ritter, ihr den Bhudschju heimwärts fuhret, der sich gestellt aufs Schiff mit hundert Rudern.
Als Helden zeiget ihr euch da im Meer, das ohne Anhalt, ohne festen Grund, ohne Handhabe ist, als ihr Asvin den Bhujyu nach Hause fuhret, der euer Schiff mit hundert Rudern bestiegen hatte.
Вы вели себя как герои в море,
Где не опереться, не встать, не ухватиться,
Когда, о Ашвины, вы везли Бхуджью домой,
Взошедшего на стовесельную ладью.
यम॑श्विना द॒दथु॑: श्वे॒तमश्व॑म॒घाश्वा॑य॒ शश्व॒दित्स्व॒स्ति । तद्वां॑ दा॒त्रं महि॑ की॒र्तेन्यं॑ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो॑ अ॒र्यः ॥
यम् । अ॒श्वि॒ना॒ । द॒दथुः॑ । श्वे॒तम् । अश्व॑म् । अ॒घऽअ॑श्वाय । शश्व॑त् । इत् । स्व॒स्ति । तत् । वा॒म् । दा॒त्रम् । महि॑ । की॒र्तेन्य॑म् । भू॒त् । पै॒द्वः । वा॒जी । सद॑म् । इत् । हव्यः॑ । अ॒र्यः ॥
अत्रेदमाख्यायते । पेदुर्नाम कश्चित् स चाश्विनौ तुष्टाव । तस्मै प्रीतौ कंचिच्छ्वेतवर्णमश्वं दत्तवन्तौ । स चाश्वस्तस्य प्रौढं जयं चकारेति । एतदत्र प्रतिपाद्यते । हे अश्विनौ युवाम् अघाश्वाय अहन्तव्याश्वाय' । पेदुनाम्ने राजर्षये यं श्वेतवर्णम् अश्वं ददथुः दत्तवन्तौ सोऽश्वस्तस्मै स्वस्ति जयलक्षणं मङ्गलं शश्वत् इत् नित्यमेव चकार । वां युवयोः तत् दात्रं दानं महि महदतिगम्भीरम् अत एव कीर्तेन्यं सर्वैः कीर्तनीयं प्रशस्यं भूत् अभूत् । तस्मात् पैद्वः पेदोः संबन्धी पतनशीलः शीघ्रगामी वा अर्यः शत्रूणां प्रेरयिता युद्धेषु प्रेरयितव्यो वा वाजी वेजनवान् सोऽश्वः सदमित् सदैव हव्यः अस्माभिरप्याह्वातव्यः ॥ दात्रम् । ददातेर्भावे औणादिकः त्रप्रत्ययः । महि । ‘मह पूजायाम् । ‘इन्सर्वधातुभ्यः' इति इन्। कीर्तेन्यम् । ‘कॄत संशब्दने '। ‘कृत्यार्थे तवैकेन्केन्यत्वनः' इति केन्यप्रत्ययः । ‘ऋत इद्धातोः' इति इत्वम् । भूत् । ‘बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । पैद्वः । पेदोः संबन्धी । तस्येदम्' इति अण् । छान्दसो वर्णलोपः। हव्यः । ह्वयतेः ‘अचो यत्' इति यत् । ‘बहुलं छन्दसि ' इति संप्रसारणम् । गुणः । ‘धातोस्तन्निमित्तस्यैव ' इति अवादेशः । अर्यः । ‘ ऋ गतौ । अघ्न्यादयश्च' (उ. सू. ४. ५५१) इति औणादिको यत् । व्यत्ययेनान्तोदात्तत्वम् ॥
“Aśvins, the white horse you gave to Pedu, whose horses were indestrucible, was ever to him success; that, your precious gift, is always to be celebrated; the horse of Pedu, the scatterer (of enemies), is always to be invoked.”
The white horse which of old ye gave Aghasva, Asvins, a gift to be his wealth for ever,--
Still to be praised is that your glorious present, still to be famed is the brave horse of Pedu.
O Aśvins, the white horse that you gave to (Pedu), whose horse was bad, to be everlasting well-being (for him)—
that great gift of yours is to be famed. The racehorse of Pedu is ever to be called upon by the stranger.
Dass, Ritter, ihr dem schlechtberittnen schenktet das weisse Ross, das ewig dient zum Heile; Dies euer gross Geschenk ist hoch zu rühmen, des Pedu treues Ross das stets erwünschte.
Das weiße Roß, daß ihr Asvin dem Schlechtberittenen gabt - ein dauerndes Glück - dies euer großes Geschenk ist zu rühmen, das Peduroß ist für einen hohen Herrn stets anzurufen.
Белый конь – это длящееся счастье –
(Что вы) подарили тому, у кого плохой конь,
Да будет воспет этот ваш великий дар,
Конь Педу, завоеватель наград, кого чужой всегда должен звать (на помощь)!
यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते अरदतं॒ पुरं॑धिम् । का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्ण॑: श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ सुरा॑याः ॥
यु॒वम् । न॒रा॒ । स्तु॒व॒ते । प॒ज्रि॒याय॑ । क॒क्षीव॑ते । अ॒र॒द॒त॒म् । पुर॑म्ऽधिम् । का॒रो॒त॒रात् । श॒फात् । अश्व॑स्य । वृष्णः॑ । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । सुरा॑याः ॥
अत्रेयमाख्यायिका । कक्षीवानृषिः पुरा तमसा तिरोहितज्ञानः सन् ज्ञानार्थमश्विनौ तुष्टाव । तस्मै अश्विनौ प्रभूतां धियं दत्तवन्ताविति । तदाह । हे नरा नेतारावश्विनौ युवं युवां पज्रियाय । पज्रा इत्यङ्गिरसाम् आख्या ‘पज्रा वा अङ्गिरसः' इत्याम्नातत्वात्। तेषां कुले जाताय कक्षीवते। कक्ष्या रज्जुरश्वस्य । तद्वते तत्संज्ञाय स्तुवते युवयोः स्तुतिं कुर्वते मह्यं पुरंधिं प्रभूतां धियं बुद्धिम् अरदतं व्यलिखतम् । यथा सर्वार्थगोचरा भवति तथा कृतवन्तावित्यर्थः । अपि च कारोतरात् । कारोतरो नाम वैदलश्चर्मवेष्टितो भाजनविशेषो यस्मिन् सुरायाः स्रावणं क्रियते । लुप्तोपममेतत् । कारोतरात् यथा सुरायाः संपादकाः तां स्रावयन्ति एवमेव युवां वृष्णः सेचनसमर्थस्य युष्मदीयस्य अश्वस्य शफात् खुरात् सुरायाः शतं कुम्भान् असंख्यातान् सुराघटान् असिञ्चतम् अक्षारयतम् । यद्वा । सिञ्चतिः पूरणार्थः । कारोतरस्थानीयात् युष्मदीयाश्वखुरात् या सुरा प्रवहति तया असंख्यातान् घटान् असिञ्चतम् अपूरयतम् । ये जनाः सौत्रामण्यादिकर्मणि युष्मद्यागाय सुरां याचन्ते तेषामित्यर्थः ॥ स्तुवते । स्तौतेलंटः शतृ । अदादित्वात् शपो लुक् । ‘शतुरनुस:०' इति विभक्तेरुदात्तत्वम् । पज्रियाय । पज्रशब्दात् शैक्षिको घच् । कक्षीवते । आसन्दीवदष्ठीवञ्चक्रीवत्कक्षीवत्' इति निपातनात् कक्ष्याशब्दस्य संप्रसारण वत्वं च । अरदतम् ।' रद विलेखने '। पुरंधिम् । 'पुरंधिर्बहुधीः ' (निरु. ६. १३) इति यास्कः । पृषोदरादित्वात् पुरंधिभावः । यद्वा । पुरं पूरयितव्यं सर्वविषयजातमस्यां धीयते अवस्थाप्यते इति पुरंधिर्बुद्धिः । कर्मण्यधिकरणे च ' इति दधातेः किप्रत्ययः । ‘तत्पुरुषे कृति बहुलम् ' इति बहुलवचनात् अलुक् । इदं तु व्युत्पत्तिमात्रं वस्तुतः पृषोदरादिरेव । असिञ्चतम् । ‘षिचिर् क्षरणे' । तौदादिकः । ‘शे मुचादीनाम्' इति नुम् ॥
“You gave, leaders (of sacrifice), to Kakṣīvat, of the race of Pajra, various knowledge; you filled from the hoof of your vigorous steed, as if from a cask, a hundred jars of wine.”
O Heroes, ye gave wisdom to Kaksivan who sprang from Pajra's line, who sang your praises.
Ye poured forth from the hoof of your strong charger a hundred jars of wine as from a strainer.
O men, you two dug out plentifulness for Pajra’s son, Kakṣīvant, who was praising you.
You poured from the filter, the hoof of the bull-like horse, a hundred pots of liquor.
Ihr habt, o Männer, reiches Gut erschlossen dem Padschrasohn, dem preisenden Kakschivat, Ihr gosset hundert Kübel Suratrankes dort aus dem Born, dem Huf des starken Hengstes.
Ihr Herren gewähret dem preisenden Pajriya Kaksivat Wunscherfüllung: Ihr schenktet aus dem Hufe des Hengstes wie durch eine Seihe hundert Krüge Branntwein ein.
Вы, о два мужа, славящему (вас) Паджрие
Какшиванту исполнили желание:
Из копыта жеребца, (словно) через цедилку,
Налили сто кувшинов хмельного напитка.
हि॒मेना॒ग्निं घ्रं॒सम॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा अधत्तम् । ऋ॒बीसे॒ अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि॑न्यथु॒: सर्व॑गणं स्व॒स्ति ॥
हि॒मेन॑ । अ॒ग्निम् । घ्रं॒सम् । अ॒वा॒र॒ये॒था॒म् । पि॒तु॒ऽमती॒म् । ऊर्ज॑म् । अ॒स्मै॒ । अ॒ध॒त्त॒म् । ऋ॒बीसे॑ । अत्रि॑म् । अ॒श्वि॒ना॒ । अव॑ऽनीतम् । उत् । नि॒न्य॒थुः॒ । सर्व॑ऽगणम् । स्व॒स्ति ॥
अत्रेदम् आख्यानम् ।
अत्रिम् ऋषिम् असुराः शतद्वारे पीडा-यन्त्र-गृहे प्रवेश्य तुषाग्निनाबाधिषत । तदानीं तेन ऋषिणा स्तुताव् अश्विनाव् अग्निम् उदकेनोपशमय्य तस्मात् पीडा-गृहाद् अविकलेन्द्रिय-वर्गं सन्तं निरगमयताम् इति । तद् एतत् प्रतिपाद्यते ।
हे अश्विनौ हिमेन हिमवच्छीतेनोदकेन घ्रंसं दीप्यमानम् अत्रेर् बाधनार्थम् असुरैः । प्रक्षिप्तं तुषाग्निम् अवारयेथाम् । युवां निवारितवन्तौ । शीतीकृतवन्ताव् इत्यर्थः ।
अपि चास्मा असुर-पीडया कार्श्यं प्राप्तायात्रये पितुमतीम् = पितुर् इत्य् अन्न-नाम , अन्न-युक्तम् ऊर्जं बलप्रदं रसात्मकं क्षीरादिकम् अधत्तम् - पुष्ट्यर्थं प्रायच्छतम् ।
ऋबीसे ऽपगत-प्रकाशे पीडायन्त्र-गृहे ऽवनीतम् अवाङ्-मुखतया ऽसुरैः प्रापितम्
अत्रिं सर्वगणम् - गणः समूहः, सर्वेषाम् इन्द्रियाणां पुत्रादीनां वा गणेनोपेतं स्वस्ति अविनाशो यथा भवति तथोन्निन्यथुः ।
तस्माद् गृहाद् उद्गमय्य युवां स्वगृहं प्रापितवन्तौ ।
यद्वा -
हिमेन शीतेन वृष्ट्य्-उदकेनाग्निवत् तीक्ष्णं घ्रंसम् - अहर् नामैतत् , सामर्थ्यान् निदाघ-कालीनम् अहर् अवारयेथाम् । तस्याह्नस् तैक्ष्ण्यं निवारितवन्तौ ।
अपि चास्मा अग्नये पितुमतीं चरु-पुरोडाशादि-लक्षणान्नोपेतम् ऊर्जं बलकरं रसात्मकम् उपस्तरणाभिघारणात्मकं घृतम् अधत्तम् । वृष्ट्य् -उत्पादनेनाग्नेर् यागार्थं हवींषि निष्पादितवन्ताव् इत्य् अर्थः ।
ऋबीसे ऽपगत-तेजस्के पृथिवी-द्रव्ये ऽवनीतम् ओषधीनाम् उत्पादनायावस्तान् नीतम्, पार्थिवाग्निना परिपक्वा उदकेन क्लिन्ना ह्य् ओषधि-वनस्पतयो विरोहन्ति । अत्रिं हविषाम् अत्तारम् ओषधि-वनस्पत्य्-आदीनां वा एवं-विधम् अग्निं सर्वगणं व्रीह्याद्योषधि-गणोपेतं हे अश्विनौ युवां स्वस्ति अविनाशो यथा भवति तथोन्निन्यथुः । व्रीह्याद्य्-ओषधि-वनस्पति-रूपेण भूमेर् उपरिष्ठान् नीतवन्तौ । कारणात्मना पार्थिवाग्नौ वर्तमानं सर्वमोषधिवनस्पत्यादिकमश्विनौ प्रवर्षणेन व्यक्तीकृतवन्तावित्यर्थः । अयं पक्षो यास्केन हिमेनोदकेनेत्यादिनोक्तः । नि ६-३६ ॥
पितुमतीम् । ह्रस्वनुड्भ्यां मतुब् इति मतुप उदात्तत्वम् ।
ऋबीसे । अत्र यास्कः । ऋबीसम् अपगत-भासम् अपचित-भासम् अपहृत-भासं गत-भासं वेति (नि ६-३५) पृषोदरादित्वादभिमतरूपस्वरसिद्धिः ।
अत्रिम् । अद भक्षणे । अदेस्त्रिनि चेति चशब्दात्त्रिः । अवनीतम् । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । स्वस्ति । अस भुवि । भावे क्तिन् । छन्दस्युभयथेति सार्वधातु कत्वादस्तेर्भूभावाभावः ॥ ८ ॥
“You quenched with cold (water) the blazing flames (that encompassed Atri), and supplied him with food-supported strength; you extricated him, Aśvins, from the dark (cavern) into which he had been thrown headlong and restored him to every kind of welfare.”
Ye warded off with cold the fire's fierce burning; food very rich in nourishment ye furnished.
Atri, cast downward in the cavern, Asvins ye brought, with all his people, forth to comfort.
With snow you two kept away fire and scorching heat.
You placed the nourishment of solid food for him.
You brought Atri up to well-being, who had been brought down into the earth cleft together with his whole band.
Der Feuerglut habt ihr gewehrt durch Kühlung und habt dem Atri Speis' und Trank gegeben, Ihr Ritter habt den in die Kluft gestossnen herausgeführt mit ganzer Schar zum Heile.
Durch Schnee wehrtet ihr der Feuersglut; ihr brachtet ihm nahrhafte Stärkung. Den in einen Glutofen gesteckten Atri holtet ihr mit ganzem Gefolge heil heraus, ihr Asvin.
Снегом вы задержали пылающий огонь,
(А) ему дали подкрепляющую пищу.
Атри, сброшенного в раскаленную печь, о Ашвины,
Вы извлекли благополучно вместе со всей свитой.
परा॑व॒तं ना॑सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मबा॑रम् । क्षर॒न्नापो॒ न पा॒यना॑य रा॒ये स॒हस्रा॑य॒ तृष्य॑ते॒ गोत॑मस्य ॥
परा॑ । अ॒व॒तम् । ना॒स॒त्या॒ । अ॒नु॒दे॒था॒म् । उ॒च्चाऽबु॑ध्नम् । च॒क्र॒थुः॒ । जि॒ह्मऽबा॑रम् । क्षर॑न् । आपः॑ । न । पा॒यना॑य । रा॒ये । स॒हस्रा॑य । तृष्य॑ते । गोत॑मस्य ॥
अत्रेदमाख्यानम् । कदाचिन्मरुभूमौ वर्तमानस्य स्तोतुः गोतमस्य ऋषेः समीपं देशान्तरे वर्तमानं कूपमुत्खायाश्विनौ प्रापयेताम् । प्रापय्य च तं कूपं स्नानपानादिसौकर्याय उपरिमूलमधोबिलमवास्थापयतामिति । तदेतदाह । हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ नासिकाप्रभवौ वा एतत्संज्ञावश्विनौ युवाम् अवतम् । कूपनामैतत् । अवस्तात्ततं कूपं परा अनुदेथां गोतमस्य ऋषेः समीपे प्रैरिषाथाम् । तदनन्तरं तं कूपम् उच्चाबुध्नम् उच्चैरुपरिष्टात् बुध्नो मूलं यस्य स तथोक्तः । जिह्मबारं जिह्ममधस्ताद्वर्तमानतया वक्रं बारं द्वारं यस्य स तथोक्तः । एवंगुणविशिष्टं चक्रथुः युवामकृषाथाम् । तस्मात् कूपात् तृष्यते पिपासतः गोतमस्य पायनाय पानार्थम् आपो न आपश्च । अयं नशब्दश्चार्थे । क्षरन् प्रवाहरूपेण निरगमन् । कीदृशस्य । राये हवींषि दत्तवतः सहस्राय सहनशीलाय । यद्वा सहस्रसंख्याकाय राये धनाय एतत्संख्यधनलाभार्थं च अक्षरन् ॥ अनुदेथाम् । णुद प्रेरणे'। तौदादिकः । जिह्मबारम् । द्वारशब्दस्य पृषोदरादित्वात्.बारादेशः । क्षरन् । ‘क्षर संचलने '।' बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । शपः पित्त्वादनुदात्तत्वम् । तिङो लसार्वधातुकस्वरेण धातुस्वरः । पायनाय" । हेतुमति णिच् । ‘शाच्छासाह्वा' इति युक्। भावे ल्युट्। राये । रा दाने '। राति ददातीति राः । ‘रातेर्डै: ' ( उ. सू. २. २२४ )। ऊडिदम्' इति विभक्तेरुदात्तत्वम् । तृष्यते । ञितृषा पिपासायाम् । श्यन् । लटः शतृ । श्यनो नित्त्वादाद्युदात्तत्वम् ॥ ‘षष्ठ्यर्थे चतुर्थी वक्तव्या' (पा. म. २. ३. ६२. १ ) इति चतुथीं ॥
“Nāsatyas, you raised up the well, and made th ebase, which had been turned upwards, the curved mouth, so that the water issued for the beverage of the thirsty Gotama, the offerer.”
Ye lifted up the well, O ye Nasatyas, and set the base on high to open downward.
Streams flowed for folk of Gotama who thirsted, like rain to bring forth thousandfold abundance.
You pushed the well far away, Nāsatyas; you put it bottom up, with its banks [=rim] aslant.
Like waters for drinking they [=inspirations] flowed, for wealth to the thirsting thousand (descendants [?]) of Gotama.
Ihr Treuen stiesset um den Born und hieltet den Boden oben und die Oeffnung schräge; Wie durstige zu tränken, rannen Ströme dem Gotama zu tausendfachem Reichthum.
Ihr Nasatya´s stürztet den Brunnen um; ihr machtet, daß der Boden oben und der Rand geneigt war. Wie Wasser zum Tränken flossen die Wasser zum Reichtum für die durstigen tausend Leute des Gotama.
Вы сдвинули колодец, о Насатьи:
Сделали его кверху дном, с отверстием насторону.
Как воды стремятся для питья, (так потекли они) для богатства,
Для жаждущей тысячи (людей) Готамы.
जु॒जु॒रुषो॑ नासत्यो॒त व॒व्रिं प्रामु॑ञ्चतं द्रा॒पिमि॑व॒ च्यवा॑नात् । प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित्पति॑मकृणुतं क॒नीना॑म् ॥
जु॒जु॒रुषः॑ । ना॒स॒त्या॒ । उ॒त । व॒व्रिम् । प्र । अ॒मु॒ञ्च॒त॒म् । द्रा॒पिम्ऽइ॑व । च्यवा॑नात् । प्र । अ॒ति॒र॒त॒म् । ज॒हि॒तस्य॑ । आयुः॑ । द॒स्रा॒ । आत् । इत् । पति॑म् । अ॒कृ॒णु॒त॒म् । क॒नीना॑म् ॥
अत्रेदमाख्यानम् । वलीपलितादिभिरुपेतो जीर्णाङ्गः पुत्रादिभिः परित्यक्तश्चवनाख्यः ऋषिरश्विनौ तुष्टाव । स्तुतावश्विनौ तस्मै ऋषये जरामपगमय्य पुनर्यौवनमकुरुतामिति । तदेतदाह । हे नासत्या अश्विनौ जुजुरुषः जीर्णात् च्यवानात् च्यवनाख्यादृषेः सकाशात् 'वव्रिं कृत्स्नं शरीरमावृत्यावस्थितां जरा प्रामुञ्चतं प्रकर्षेणामोचयतम् । तत्र दृष्टान्तः । द्रापिमिव । द्वापिरिति कवचस्याख्या । यथा कश्चित् कवचं कृत्स्नशरीरव्यापकं धृत्वा पश्चात् शरीरात् पृथक्करोति तद्वत् । उत अपि च हे दस्रा एतत्संज्ञौ दर्शनीयौ वा अश्विनौ जहितस्य पुत्रादिभिः परित्यक्तस्य ऋषेः आयुः जीवन प्रातिरतं प्रावर्धयतम् । प्रपूर्वस्तिरतिर्वधनार्थः । आत् इत् अनन्तरमेव युवानं सन्तं कनीनां कन्यानां पतिं भर्तारम् अकृणुतम् अकुरुतम् ॥ जुजुरुषः । जॄष् वयोहानौ '। लिटः क्वसुः । ‘बहुलं छन्दसि ' इति उत्वम् । द्विर्भावः । पञ्चम्येकवचने वसोः संप्रसारणम्' इति संप्रसारणम् । शासिवसिघसीनां च' इति षत्वम् । वव्रिम् । वृञ् वरणे'। ' आदृगमहन' इति किप्रत्ययः । जहितस्य । ओहाक् त्यागे'। कर्मणि निष्ठा । तस्य ‘छन्दस्युभयथा ' इति सार्वधातुकत्वात् यक् । तस्य ‘बहुलं छन्दसि '
इति श्लुः । जहातेश्च' (पा. सू. ६. ४. ११६ ) इति इत्वम् । कनीनाम् । ‘रयेर्मतौ बहुलम् इति बहुलवचनात् कन्याशब्दस्य अत्र संप्रसारणम् ॥ ॥ ९ ॥
“Nāsatyas, you stripped off from the aged Cyavana his entire skin, as if it had been a coat of mail; you reversed, Dasras, the life of the sage who was without kindred, and constituted him the husband of many maidens.”
Ye from the old Cyavana, O Nasatyas, stripped, as 'twere mail, the skin upon
his body,
Lengthened his life when all had left him helpless, Dasras! and made him lord of youthful maidens.
And, Nāsatyas, from Cyavāna, who had become old, you removed his covering [=aged skin] like a garment.
You extended the lifetime of him who was left behind, wondrous ones, and thereby you made him the husband of young women.
Von dem Tschjavana, als er alt war, löstet wie ein Gewand, o Treue, ihr den Leib ab, Verlängertet das Leben des Verlassnen, vermähltet hülfreich ihn mit jungen Mädchen.
Auch nahmet ihr Nasatya´s die Körperhülle dem gealterten Cyavana wie ein Gewand ab. Ihr Meister verlängertet das Verlassenen Leben und dann machtet ihr ihn noch zum Gatten der Jungfrauen.
О Насатьи, состарившийся покров тела
Вы сняли с Чьяваны, как одежду.
Вы продлили срок жизни покинутому (всеми), о удивительные.
И даже сделали (его) мужем юных жен.
तद्वां॑ नरा॒ शंस्यं॒ राध्यं॑ चाभिष्टि॒मन्ना॑सत्या॒ वरू॑थम् । यद्वि॒द्वांसा॑ नि॒धिमि॒वाप॑गूळ्ह॒मुद्द॑र्श॒तादू॒पथु॒र्वन्द॑नाय ॥
तत् । वा॒म् । न॒रा॒ । शंस्य॑म् । राध्य॑म् । च॒ । अ॒भि॒ष्टि॒ऽमत् । ना॒स॒त्या॒ । वरू॑थम् । यत् । वि॒द्वांसा॑ । नि॒धिम्ऽइ॑व । अप॑ऽगूळ्हम् । उत् । द॒र्श॒तात् । ऊ॒पथुः॑ । वन्द॑नाय ॥
अत्रेदमाख्यानम् । वन्दनो नाम कश्चिदृषिः । स चासुरैः कूपे निखातः उत्तरीतुमशक्नुवन्नश्विनावस्तौत् । तमश्विनौ कूपादुन्निन्यतुरिति । तदाह। नरा आरोग्यस्य नेतारौ हे नासत्यौ अश्विनौ वां युवयोः संबन्धि अभिष्टिमत् अभ्येषणयुक्तमाभिमुख्येन प्राप्तव्यं तथा वरूथं वरणीयं कामयितव्यं तत् कर्म शंस्यम् अस्माभिः प्रशंसनीयं राध्यम् आराधनीयं च । किं पुनस्तत्कर्म । विद्वांसा जानन्तौ युवां निधिमिव निक्षिप्तं धनमिव अपगूळ्हम् अरण्ये निर्जने देशे कूपमध्ये असुरैः निगूढं वन्दनाय वन्दनमृषिं दर्शतात् अध्वगैः पिपासुभिर्द्रष्टव्यात् कूपात् उत् ऊपथुः उदहार्ष्टम् । एवं यत् एतत् कूपादुद्धरणं तदित्यर्थः ॥ शंस्यम् । 'शंसु स्तुतौ । अस्मात् ण्यन्तात् ' अचो यत्' इति यत् ।' यतोऽनावः' इत्याद्युदात्तत्वम् । अभिष्टिमत् । अभिपूर्वात् इष गतौ' इत्यस्माद्भावे क्तिन् ।' मन्त्रे वृष ' इति क्तिन उदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । शकन्ध्वादित्वात् पररूपत्वम् । तादौ च ' इति तु गतिस्वरस्य सर्व विधीनां छन्दसि विकल्पितत्वादप्रवृत्तिः । ततो मतुप् । अन्तोदात्तादुत्तरस्य तस्य ‘ह्रस्वनुड्भ्याम्' इत्युदात्तत्वम् । वरूथम् । ‘जॄवृञ्भ्यामूथन् । विद्वांसा। ‘सुपां सुलुक्' इति विभक्तेराकारः। अपगूळ्हम् । ‘गुहू संवरणे ' । कर्मणि निष्ठा ।' यस्य विभाषा' इति इट्प्रतिषेधः । ढत्वधत्वष्टुत्वढलोपदीर्घाः । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । दर्शतात् । ‘भृमृदृशि° ' इत्यादिना अतच्। ऊपथुः। ‘डुवप् बीजतन्तुसंताने'। लिटि अथुसि यजादित्वात् संप्रसारणम् । द्विर्वचनादि। वन्दनाय । ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी ॥
“Nāsatyas, leaders, glorious was that exploit of yours, one to be celebrated, to be adored, to be desired by us, when, becoming aware (of the circumstance), you extricated Vandanā, (hidden), like a concealed treasure, from the (well) that was visible (to travellers).”
Worthy of praise and worth the winning, Heroes, is that your favouring succour O Nasatyas,
What time ye, knowing well his case, delivered Vandana from the pit like hidden treasure.
O men, that is your protective cover to be praised and brought to realization, o Nāsatyas,
when you knowing ones dug (him) [=Vandana] out because he was beautiful, like a treasure that had been hidden away, for the sake of Vandana [/for you to be celebrated].
Des Preisens und des Strebens werth, o Männer, ist euer Schutz und Beistand, o ihr treuen, Als kundig ihr wie Schätze das Verborgne dem Vandana hervorhobt aus der Grube.
Das war euer preislicher und trefflicher, hilfsbereiter Schutz, ihr Nasatya´s, als ihr Erfahrene den wie einen Schatz versteckten dem Vandana aus dem......ausgrubet.
О два мужа, то (была) ваша защита, достойная восхваления,
Достигающая цели, несущая помощь,
Что вы, знатоки, спрятанного, как сокровище,
Вытащили из ямы для Ванданы.
तद्वां॑ नरा स॒नये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिम् । द॒ध्यङ्ह॒ यन्मध्वा॑थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी॑मु॒वाच॑ ॥
तत् । वा॒म् । न॒रा॒ । स॒नये॑ । दंसः॑ । उ॒ग्रम् । आ॒विः । कृ॒णो॒मि॒ । तन्य॒तुः । न । वृ॒ष्टिम् । द॒ध्यङ् । ह॒ । यत् । मधु॑ । आ॒थ॒र्व॒णः । वा॒म् । अश्व॑स्य । सी॒र्ष्णा । प्र । यत् । ई॒म् । उ॒वाच॑ ॥
अत्रेयमाख्यायिका । इन्द्रो दधीचे प्रवर्ग्यविद्यां मधुविद्यां चोपदिश्य यदि इमाम् अन्यस्मै वक्ष्यसि शिरस्ते छेत्स्यामीत्युवाच । ततोऽश्विनौ अश्वस्य शिरश्छित्वा दधीचः शिरः प्रच्छिद्यान्यत्र निधाय तत्राश्व्यं शिरः प्रत्यधत्ताम् । तेन च दध्यङ् ऋचः सामानि यजूंषि च प्रवर्ग्यविषयाणि मधुविद्याप्रतिपादकं ब्राह्मणं चाश्विनावध्यापयामास । तदिन्द्रो ज्ञात्वा वज्रेण तच्छिरोऽच्छिनत् । अथाश्विनौ तस्य स्वकीयं मानुषं शिरः प्रत्यधत्तामिति शाट्यायनवाजसनेययोः प्रपञ्चेनोक्तम् । तदेतत्प्रतिपाद्यते । हे नरा नरौ अश्विनौ वां युवयोः संबन्धि उग्रम् उद्गूर्णमन्यैर्दुःशकं दंसः । कर्मनामैतत् । युवाभ्यां पुरा कृतं तत् कर्म सनये धनलाभार्थम् आविष्कृणोमि प्रकटीकरोमि । तत्र दृष्टान्तः। तन्यतुः न यथा मेघस्थः शब्दः वृष्टिं मेघान्तर्वर्तमानमुदकं प्रवर्षणेन सर्वत्र प्रकटयति तद्वत् । किं तत्कर्म । अथर्वणः पुत्रः दध्यङ् एतत्संज्ञः ऋषिः अश्वस्य शीर्ष्णा युष्मत्सामर्थ्येन प्रतिहितेन शिरसा वां युवाभ्याम् ईम् इमां मधुविद्यां यत् ह यदा खलु प्र उवाच प्रोक्तवान् । तदानीमाश्वस्य शिरसः संधानलक्षणं पुनर्मानुषस्य शिरसः प्रतिसंधानलक्षणं च यत् भवदीयं कर्म तत् आविष्कृणोमीत्यर्थः ॥ सनये ।' षणु दाने ' । ‘खनिकषिकस्यञ्जसिवसिध्वनिस्तनिवनिसनिग्रन्थिचरिभ्यश्च' ( उ. सू. ४. ५७९ ) इति इप्रत्ययः । तन्यतुः । ‘तनु विस्तारे'। ऋतन्यञ्जि०' ( उ. सू. ४. ४४२ ) इत्यादिना यतुच्। यद्वा । स्तन शब्दे'। बाहुलकात् यतुच् । छान्दसः सलोपः। वृष्टिम् । वृष्यते सिच्यते अनेनेति वृष्टिः । ‘मन्त्रे वृष०' इत्यादिना क्तिन उदात्तत्वम् । आथर्वणः । अपत्यार्थे अणि 'अन्' (पा. सू. ६. ४. १६७) इति प्रकृतिभावात् टिलोपाभावः । शीर्ष्णा ।' शीर्षश्छन्दसि' (पा. सू. ६, १. ६० ) इति शिरःशब्दपर्यायः शीर्षञ्शब्दोऽन्तोदात्तो निपात्यते। अल्लोपे सति उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥
“I proclaim, leadeers (of sacriifce), for the skae of acquiring wealth, that inimitable deed which you performed, as the thunder (announces) rain, when provided by you with the head of a horse. Dadhyañc, the son of Atharvan, taught you the mystic science.”
That mighty deed of yours, for gain, O Heroes, as thunder heraldeth the rain, I publish,
When, by the horse's head, Atharvan's offspring Dadhyac made known to you the Soma's sweetness.
O men, I disclose that powerful, wondrous might of yours, like thunder the rain, in order to win it,
as when Dadhyañc son of Atharvan (disclosed) the honey to you by means of the head of a horse when he proclaimed it.
Ich künde laut, o Männer, uns zum Segen die mächt'ge That, wie Donnerton den Regen, Als Dadhiank, Atharvans Spross, euch kund that den süssen Soma durch den Kopf des Pferdes.
Das war euere gewaltige Meistertat, ihr Herren, künde ich, um belohnt zu werden, an wie der Donner den Regen, das Dadhyac, des Atharvan Sohn, durch einen Pferdekopf euch verriet, was die Süßigkeit ist.
О два мужа, об этом вашем грозном чуде я оповещаю,
Как гром о дожде, чтобы получить награду:
Что Дадхьянч, сын Атхарвана, с помощью головы коня
Вам выдал, что такое мед.
अजो॑हवीन्नासत्या क॒रा वां॑ म॒हे याम॑न्पुरुभुजा॒ पुरं॑धिः । श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर॑ण्यहस्तमश्विनावदत्तम् ॥
अजो॑हवीत् । ना॒स॒त्या॒ । क॒रा । वा॒म् । म॒हे । याम॑न् । पु॒रु॒ऽभु॒जा॒ । पुर॑म्ऽधिः । श्रु॒तम् । तत् । शासुः॑ऽइव । व॒ध्र॒िऽम॒त्याः । हिर॑ण्यऽहस्तम् । अ॒श्वि॒नौ॒ । अ॒द॒त्त॒म् ॥
वध्रिमती नाम कस्यचिद्राजर्षेः पुत्री नपुंसकभर्तृका । सा पुत्रलाभार्थमश्विनावाजुहाव । तदाह्वानं श्रुत्वाश्विनावागत्य तस्यै हिरण्यहस्ताख्यं पुत्रं ददतुः । तदेतदाह । पुरुभुजा बहूनां पालकौ प्रभूतहस्तौ वा हे नासत्यावश्विनौ महे महनीये पूजनीये यामन् यामनि । याति गच्छतीति याम स्तोत्रम् । तस्मिन्सति करा अभिमतफलस्य कर्तारौ वां युवां पुरंधिः बहुधीः वध्रिमती । वध्रिः पुत्रोत्पादनाशक्तः पण्डकः । तद्वती एतत्संज्ञा राजपुत्री अजोहवीत् । पुनः पुनः स्तुत्या पुत्रलाभार्थम् आहूतवती । युवां च वध्रिमत्याः तत् आह्वानं श्रुतम् अशृणुतम् । तत्र दृष्टान्तः। शासुरिव । यथा शासुः आचार्यस्य वचनं शिष्योऽवहितः सन् ऐकाग्र्येण शृणोति तद्वत् ।श्रुत्वा च हे अश्विनौ तस्यै हिरण्यहस्तं सुवर्णमयपाणिं हितरमणीयपाणिं वा एतत्संज्ञं पुत्रम् अदत्तं प्रयच्छतम् ॥ अजोहवीत् । ह्वयतेर्यङ्लुगन्तात् लङ्। यङो वा' इति तिप ईडागमः । करा । करोतेः पचाद्यच् । ‘सुपां सुलुक्°' इति विभक्तेः आकारः । यामन् । ‘अतो मनिन्क्वनिब्वनिपश्च' इति मनिन् ।' सुपां सुलुक्' इति सप्तम्या लुक् । श्रुतम् । लङि ‘बहुलं छन्दसि' इति विकरणस्य लुक् । ‘बहुलं छन्दस्यमाङ्योगेऽपि' इति अडभावः । शासुः । शास्तुः । ‘शासु अनुशिष्टौ । ‘शंसिशसिशासि° '(उ. सू. २. २५० ) इत्यादिना संज्ञायां तृन् । इडभावः । छान्दसस्तलोपः ॥
“The intelligent (Vadhrimati) invoked you. Nāsatyas, who are the accom;ishers (of desires) and the protectors of many, with a sacred hymn; her prayer was heard, like (the instrumental uction of) a teacher, and you, Aśvins, gave to the wife of an impotent husband, Hiraṇyahasta, her son.”
In the great rite the wise dame called, Nasatyas, you, Lords of many treasures, to assist her.
Ye heard the weakling's wife, as 'twere an order, and gave to her a son Hiranyahasta.
Puraṃdhi has called upon your two hands again and again, o Nāsatyas, you of many delights [/of many arms], for what is great on your journey.
You two heard (the call) of Vadhrimatī like a command. You gave (her a son) with golden hands.
Euch, Treue, rief als Helfer an Purandhi bei grossem Fest, o güterreiche Ritter, Der Frau des Schwächlings hörtet wie aufs Wort ihr, und gabt zum Sohn ihr den Hiranjahasta.
Eure Hände, ihr Nasatya´s, rief während eurer Ausfahrt zu großem Beistand Purandhi an, ihr Vielnützende. Ihr Asvin hörtet auf diesen Ruf der Vadhrimati, als wäre es ein Befehl und schenket ihr den Hiranyahasta.
Вас призвал как помощников, о Насатьи,
Пурамдхи во время (вашего) выезда для великого (свершения), о многополезные.
Это было услышано как приказ от Вадхримати,
И Ашвины даровали (ей) Хираньяхасту.
आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके॑ यु॒वं न॑रा नासत्यामुमुक्तम् । उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे॑ ॥
आ॒स्नः । वृक॑स्य । वर्ति॑काम् । अ॒भीके॑ । यु॒वम् । न॒रा॒ । ना॒स॒त्या॒ । अ॒मु॒मु॒क्त॒म् । उ॒तो इति॑ । क॒विम् । पु॒रु॒ऽभु॒जा॒ । यु॒वम् । ह॒ । कृप॑माणम् । अ॒कृ॒णु॒त॒म् । वि॒ऽचक्षे॑ ॥
वर्तिका चटकसदृशस्य पक्षिणः स्त्री । तामरण्ये वर्तमानेन शुना ग्रस्तां पुरा किल अश्विनौ अमोचयताम् । तदेतदाह । हे नरा नेतारौ नासत्यावश्विनौ युवं युवाम् अभीके अभिगते वृकवर्तिकयोः संग्रामे वृकस्य विकर्तकस्य शुनः आस्नः आस्यात् वर्तिकां चटकसदृशीम् अमुमुक्तम् अमोचयतम्। यास्कस्त्वाह । पुनःपुनर्वर्तते प्रतिदिवसमावर्तते इति वर्तिका उषाः। तां वृकेण आवरकेण सर्वजगत्प्रकाशेनाच्छादयित्रा सूर्येण ग्रस्तां तदीयमुखादश्विनावमुञ्चतामिति । उतो अपि च पुरुभुजा महाबाहू प्रभूतहस्तौ वा युवं ह युवां खलु कृपमाणं स्तुवन्तं कविम् एतत्संज्ञमन्धमृषिं विचक्षे विशेषेण द्रष्टुं समर्थम् अकृणुतम् अकुरुतम् ॥ आस्नः। ‘पद्दन्' इत्यादिना आस्यस्य" आसन्नादेशः । ‘अल्लोपोऽनः इति अकारलोपे उदात्तनिवृत्तिस्वरेण ‘ऊडिदम्' इति विभक्तेरुदात्तत्वम् । अमुमुक्तम् । मुचेरन्तर्भावितण्यर्थात् लङि ‘बहुलं छन्दसि' इति विकरणस्य श्लुः। कृपमाणम् । कृपिः स्तुतिकर्मा तुदादिषु द्रष्टव्यः । विकरणस्वरे प्राप्ते 'वृषादीनां च' इत्याद्युदात्तत्वम् । विचक्षे । तुमर्थे सेसेन्' इति सेन्प्रत्ययः । ‘स्कोः संयोगाद्योः' इति सलोपः ॥
“Nāsatyas, leaders, you liberated the quail from the mouth of the dog that had seized her, and you, who are the benefactors of many, have granted to the sage who praises you, to behold (true wisdom).”
Ye from the wolf's jaws, as ye stood together, set free the quail, O Heroes, O Nasatyas.
Ye, Lords of many treasures, gave the poet his perfect vision as he mourned his trouble.
At the critical moment you two freed the quail-hen from the mouth of the wolf, men, Nāsatyas,
and, you two of many delights, you made the lamenting sage poet [=Uśanā Kāvya] to gaze far.
Ihr beide habt, o treugesinnte Männer, erlöst die Wachtel aus des Wolfes Rachen, Und habt gewährt dem Sänger, als er klagte, o güterreiche, dass er fröhlich aufsah.
Unmittelbar aus dem Rachen des Wolfes befreitet ihr Herren Nasatya´s die Wachtel. Auch machtet ihr Vielnützende den jammernden Seher wieder sehend.
Прямо из пасти волка вы, о два мужа,
О Насатьи, спасли перепелку.
А еще вы сделали, о многополезные, (так,)
Что горюющий певец стал (снова) хорошо видеть.
च॒रित्रं॒ हि वेरि॒वाच्छे॑दि प॒र्णमा॒जा खे॒लस्य॒ परि॑तक्म्यायाम् । स॒द्यो जङ्घा॒माय॑सीं वि॒श्पला॑यै॒ धने॑ हि॒ते सर्त॑वे॒ प्रत्य॑धत्तम् ॥
च॒रित्र॑म् । हि । वेःऽइ॑व । अच्छे॑दि । प॒र्णम् । आ॒जा । खे॒लस्य॑ । परि॑ऽतक्म्यायाम् । स॒द्यः । जङ्घा॑म् । आय॑सीम् । वि॒श्पला॑यै । धने॑ । हि॒ते । सर्त॑वे । प्रति॑ । अ॒ध॒त्त॒म् ॥
अगस्त्यपुरोहितः खेलो नाम राजा । तस्य संबन्धिनी विश्पला नाम स्त्री संग्रामे शत्रुभिश्छिन्नपादा आसीत्। पुरोहितेनागस्त्येन स्तुतावश्विनौ रात्रावागत्य अयोमयं पादं समधत्ताम् । तदेतदाह। आजा आजौ संग्रामे अगस्त्यपुरोहितस्य खेलस्य संबन्धिन्याः विश्पलाख्यायाः चरित्रं चरणं वेरिव वेः पक्षिणः पर्णं पतत्रमिव अच्छेदि हि पुरा छिन्नमभूत् खलु । हे अश्विनौ युवामगस्त्येन स्तुतौ सन्तौ परितक्म्यायाम् । परितक्म्या रात्रिः ।' परित एनां तकति ( निरु. ११. २५) इति यास्कः । एनामुभयतः सूर्यों गच्छतीति तस्यार्थः । रात्रावागत्य सद्यः तदानीमेव हिते शत्रुषु निहिते धने जेतव्ये विषयभूते सति सर्तवे सर्तुं गन्तुं विश्पलायै 'आयसीम् अयोमयीं जङ्घां जङ्घोपलक्षितं पादं प्रत्यधत्तम् । संधानमेकीकरणं कृतवन्तावित्यर्थः ॥ चरित्रम् । अर्तिलूधूसूखनसहचर इत्रः' इति करणे इत्रः । आजा । ‘सुपां सुलुक्' इति विभक्तेर्डादेशः । आयसीम् । अयःशब्दाद्विकारार्थे ‘प्राणिरजतादिभ्योऽञ्' (पा. सू. ४. ३. १५४ )। टिड्ढाणञ्” ' इति ङीप्॥ ॥ १० ॥
“The foot of (Vispalā, the wife of) Khela, was cut off, like the wing of a bird, in an engagement by night; immediately you gave her a metallic leg, that she might walk, the hidden treasure (of the enemy being the object of the conflict).”
When in the time of night, in Khela's battle, a leg was severed like a wild bird's pinion,
Straight ye gave Vispala a leg of iron that she might move what time the conflict opened.
Because her foot was cut away like the wing of a bird, in the contest of Khela, at the decisive turn,
right away you inserted a metal shank for Viśpalā to run, when the stake had been set.
Im harten Kampf des Khela war der Fuss ihr, wie eines Vogels Fittig, abgeschnitten, Ihr setztet ihr sogleich ein ehern Bein an, der Viçpala, zum Kampfpreis hinzueilen.
Da ihr im Wettkampf des Khela in der Entscheidung ein Bein abgeschnitten war wie der Flügel eines Vogels, setztet ihr der Vispala sofort ein eisernes Bein an, daß sie um den ausgesetzten Preis laufen konnte.
Так как нога была отрезана, словно крыло у птицы,
В решающий момент в состязании Кхелы,
Вы тут же приделали Вишпале
Железную ногу, чтоб она мчалась к назначенной награде.
श॒तं मे॒षान्वृ॒क्ये॑ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तान्धं च॑कार । तस्मा॑ अ॒क्षी ना॑सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ॥
श॒तम् । मे॒षान् । वृ॒क्ये॑ । च॒क्ष॒दा॒नम् । ऋ॒ज्रऽअ॑श्वम् । तम् । पि॒ता । अ॒न्धम् । च॒का॒र॒ । तस्मै॑ । अ॒क्षी इति॑ । ना॒स॒त्या॒ । वि॒ऽचक्षे॑ । आ । अ॒ध॒त्त॒म् । द॒स्रा॒ । भि॒ष॒जौ॒ । अ॒न॒र्वन् ॥
वृषागिरः पुत्रः ऋज्राश्वो नाम राजर्षिः। तस्य समीपे अश्विनोर्वाहनभूतो रासभो वृकीभूत्वावतस्थे । स च तस्या आहारार्थमेकोत्तरशतसंख्याकान् पौरजनानां स्वभूतान्मेषान्शकलीकृत्य प्रददौ । ऋज्राश्वः शतमेकं च मेषान्' (ऋ. सं. १. ११७. १८) इति मन्त्रान्तरे दर्शनात् । एवं पौराणामहिते प्रवृत्तं पिता शापेन नेत्रहीनमकरोत् । तेन स्तूयमानावश्विनौ अस्मद्वाहननिमित्तम् अस्य आन्ध्यं जातमिति जानन्तौ तस्मै अक्षिणी प्रायच्छतामिति । तदेतदाह । अत्र तच्छब्दश्रुतेर्यच्छब्दाध्याहारः । यः ऋज्राश्वः शतं शतसंख्याकान् मेषान् वृक्ये आत्मना पोषितायै वृकस्त्रियै शकलीकृत्य प्रादात् तं चक्षदानम् । क्षदतिः अत्तिकर्मा अत्र शकलीकरणार्थः । शकलीकृत्य दत्तवन्तम् ऋज्राश्वं पिता शापेन अन्धं दृष्टिहीनं चकार कृतवान् । हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ वा भिषजौ देवानां वैद्यभूतौ । अश्विनौ वै देवानां भिषजौ ' ( ऐ. ब्रा. १. १८; तै. सं. २. ३. ११) इति श्रुतेः । दस्रा दर्शनीयौ एतत्संज्ञौ वा हे अश्विनौ अनर्वन् अनर्वणी द्रष्टव्यं प्रति पितृशापात् गमनरहिते अक्षी चक्षुषी विचक्षे विविधं द्रष्टुं समर्थे तस्मै ऋज्राश्वाय आधत्तम् व्यधत्तम् अकुरुतम् ॥ वृक्ये । वृकोऽरण्यश्वा । तस्य स्त्री वृकी ।“ जातेरस्त्रीविषयात् ' ( पा. सू. ४. १. ६३ ) इति ङीष् । “ जसादिषु च्छन्दसि वावचनम् ' इति चतुर्थ्येकवचनस्य आडभावे यणादेशे ‘उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितत्वम् । चक्षदानम् । क्षदेर्लिटः कानच् । चित्स्वरः । अक्षी । ई च द्विवचने' (पा. सू. ७. १. ७७ ) इति परत्वात् अक्षशब्दस्य ईकारान्तादेशः । स चोदात्तः । तस्मिन्कृते ‘सकृद्गतौ विप्रतिषेधे ' ( परिभा. ४०) इति परिभाषया पुनः नुम् न भवति। विचक्षे । चक्षेः संपदादिलक्षणो भावे क्विप् । अनर्वन् । 'ऋ गतौ । अस्मात् ‘अन्येभ्योऽपि दृश्यन्ते' इति दृशिग्रहणस्य विध्यन्तरोपसंग्रहार्थत्वात् भावे वनिप् । अर्व गमनं विषयं प्रति एनयोः नास्तीति बहुव्रीहौ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ‘सुपां सुलुक्' इति द्विवचनस्य लुक् । छान्दो नलोपाभावः ॥
“When his father caused,Ṛjrāśvā, as he was giving to a she-wolf a hundred sheep cut up in pieces, to become blind, you, Dasras, physicians (of the gods), gave him eyes (that had been) unable to find their way, with which he might see.”
His father robbed Rjrasva of his eyesight who for the she-wolf slew a hundred wethers.
Ye gave him eyes, Nasatyas, Wonder-Workers, Physicians, that he saw with sight uninjured.
R̥jrāśva, who butchered a hundred sheep for the she-wolf—him did his father blind.
You placed two eyes in the unassailable one for him to gaze afar, o Nāsatyas, you wondrous healers.
Ridschraçva, der der Wölfin hundert Widder geschlachtet, diesen blendete der Vater, Dem setztet ihr zum Seher ein die Augen mit sicherm Griff, o treue Wunderärzte.
Den Rijrasva, der der Wölfin hundert Schafböcke auftischte, hatte sein Vater blind gemacht. Ihm verlieht ihr Nasatya´s zwei unvergleichliche Augen zum Sehen, ihr Meister-Ärzte.
Подавшего сто баранов волчице
Риджрашву отец сделал слепым.
Ему, о Насатьи, чтобы он хорошо видел,
Вы прочно вставили два глаза, о удивительные целители.
आ वां॒ रथं॑ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे॑वातिष्ठ॒दर्व॑ता॒ जय॑न्ती । विश्वे॑ दे॒वा अन्व॑मन्यन्त हृ॒द्भिः समु॑ श्रि॒या ना॑सत्या सचेथे ॥
आ । वा॒म् । रथ॑म् । दु॒हि॒ता । सूर्य॑स्य । कार्ष्म॑ऽइव । अ॒ति॒ष्ठ॒त् । अर्व॑ता । जय॑न्ती । विश्वे॑ । दे॒वाः । अनु॑ । अ॒म॒न्य॒न्त॒ । हृ॒त्ऽभिः । सम् । ऊँ॒ इति॑ । श्रि॒या । ना॒स॒त्या॒ । स॒चे॒थे॒ इति॑ ॥
सविता स्वदुहितरं सूर्याख्यां सोमाय राज्ञे प्रदातुमैच्छत् । तां सूर्यां सर्वे देवा वरयामासुः । ते अन्योन्यमूचुः । आदित्यमवधिं कृत्वा आजिं धावाम। योऽस्माकं मध्ये उज्जेष्यति तस्येयं भविष्यतीति । तत्राश्विनावुदजयताम् । सा च सूर्या जितवतोस्तयोः रथमारुरोह। अत्र ‘प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत् ' (ऐ. ब्रा. ४. ७) इत्यादिकं ब्राह्मणम् अनुसंधेयम् । इदं चाख्यानं सूर्याविवाहस्य स्तावकेन 'सत्येनोत्तभिता भूमिः' (ऋ. सं. १०.८५, १ ) इति सूक्तेन विस्पष्टयिष्यते । हे अश्विनौ वां युवयोः रथं कार्ष्मेव । कार्ष्मशब्दः काष्ठवाची । यथा काष्ठम् अजिधावनस्य अवधितया निर्दिष्टं लक्ष्यम् आशुगामी कश्चित् सर्वेभ्यो धावद्भ्यः पूर्वं प्राप्नोति एवमेव सर्वेभ्यो देवेभ्यः पूर्वम् अर्वता शीघ्रमवधिं प्राप्नुवता युष्मदीयेनाश्वेन करणभूतेन युवाभ्यां जयन्ती जीयमाना सूर्यस्य सवितुः दुहिता आ अतिष्ठत् आरूढवती । विश्वे सर्वे इतरे देवाः एतत् आरोहणस्थानं हृद्भिः हृदयैः अन्वमन्यन्त अन्वजानन् । तदानीं हे नासत्यावश्विनौ श्रिया ऋक्सहस्रलाभरूपया संपदा कान्त्या वा युवां सं सचेथे संगच्छेथे ॥ जयन्ती । व्यत्ययेन कर्मणि शतृप्रत्ययः । हृद्भिः। ‘पद्दन्' इत्यादिना हृदयशब्दस्य हृद्भावः । सचेथे । ‘षच समवाये । स्वरितेत्त्वादात्मनेपदम् ॥
“The daughter of the sun ascended your car, (like a runner) to a goal; when you won (the race) with your swift horse, all the gods looked on with (anxious hearts), and you, Nāsatyas, were associated with glory.”
The Daughter of the Sun your car ascended, first reaching as it were the goal with coursers.
All Deities within their hearts assented, and ye, Nasatyas, are close linked with glory.
The Daughter of the Sun mounted your chariot, like one winning the finish-line with her steed.
All the gods approved in their hearts, and, Nāsatyas, you two keep company with her splendor.
Auf euern Wagen stieg der Sonne Tochter, als wie des Wettlaufs Ziel zu Ross ersiegend, Die Götter alle stimmten zu von Herzen, ihr, Treue, seid gepaart mit schönem Glanze.
Euren Wagen bestieg die Tochter des Surya wie eine, die mit dem Renner das Ziel gewinnt. Alle Götter stimmten von Herzen zu. Ihr Nasatya´s gesellt euch der Schönheit zu.
На вашу колесницу взошла дочь солнца,
Словно берущая на скакуне последний барьер.
Все боги одобрили (это) чистосердечно.
О Насатьи, вы соединились с красотой!
यदया॑तं॒ दिवो॑दासाय व॒र्तिर्भ॒रद्वा॑जायाश्विना॒ हय॑न्ता । रे॒वदु॑वाह सच॒नो रथो॑ वां वृष॒भश्च॑ शिंशु॒मार॑श्च यु॒क्ता ॥
यत् । अया॑तम् । दिवः॑ऽदासाय । व॒र्तिः । भ॒रत्ऽवा॑जाय । अ॒श्वि॒ना॒ । हय॑न्ता । रे॒वत् । उ॒वा॒ह॒ । स॒च॒नः । रथः॑ । वा॒म् । वृ॒ष॒भः । च॒ । शिं॒शु॒मारः॑ । च॒ । यु॒क्ता ॥
हे अश्विनौ हयन्ता स्तुतिभिराहूयमानौ युवां भरद्वाजाय संभ्रियमाणहविर्लक्षणान्नाय यजमानाय दिवोदासाय एतत्संज्ञाय राजर्षये अभीष्टं फलं दातुं वर्तिः तदीयं गृहं यत् यदा अयातम् अगच्छतं तदानीं रेवत् धनयुक्तम् अन्नं वां युवयोः सचनः सेवन: रथः उवाह । तस्मै दिवोदासाय प्रापयामास । अपि च तस्मिन् रथे 'वृषभः अनड्वान् शिंशुमारः ग्राहः च परस्परविरुद्धावपि स्वसामर्थ्यप्रकटनाय युक्ता’ वाहनतया संयुक्तावास्ताम् ॥ दिवोदासाय । ‘दिवश्च दासे षष्ठ्या अलुग्वक्तव्यः' ( का. ६. ३. २१.५ ) इत्यलुक् । ‘दिवोदासादीनां छन्दस्युपसंख्यानम् । इति पूर्वपदाद्युदात्तत्वम् । भरद्वाजाय । भृञ् भरणे । अस्माद्व्यत्ययेन कर्मणि शतृप्रत्ययः। शतुः ‘छन्दस्युभयथा ' इति आर्धधातुकत्वेन लसार्वधातुकानुदात्तत्वाभावात् प्रत्ययाद्युदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हयन्ता । ह्वेञः कर्मणि लटो व्यत्ययेन शतृ । ‘बहुलं छन्दसि ' इति संप्रसारणम् । शपि गुणे छान्दसः अयादेशः । रेवत् । रयिशब्दात् मतुप् । ‘रयेर्मतौ बहुलम् ' इति संप्रसारणम् । छन्दसीरः' इति मतुपो वत्वम् । ‘रयिशब्दाच्च ' ( का. ६. १. १७६. १) इति मतुप उदात्तत्वम् । सचनः । षच सेवने '। ‘अनुदात्तेतश्च हलादेः' इति युच् । युक्ता । ‘सुपां सुलु' ' इति विभक्तेः आकारः ॥
“When, Aśvins, being invited, you went to his dwelling (to give due rewards) to Divodāsa, offering oblations, then your helping chariot conveyed (food and) treasure, and the bull and the porpoise were yoked together.”
When to his house ye came, to Divodasa, hasting to Bharadvaja, O ye Asvins,
The car that came with you brought splendid riches: a porpoise and a bull were yoked together.
When you two drove the course for Divodāsa and for Bharadvāja, Aśvins, urging (your steeds) onward,
your accompanying chariot conveyed wealth. A bull and a river dolphin were yoked (to it).
Da als ihr fuhrt zum Hof des Divodasa, dem Bharadvadscha Huld erweisend, Ritter, Da führte Schätze euer holder Wagen, und Stier und Meerschwein zogen ihn vereinigt.
Als ihr Asvin für Divodasa, für Bharadvaja die Umfahrt machtet, die Rosse antreibend, da brachte euer getreuer Wagen reiches Gut. Der Stier und das Krokodil waren daran gespannt.
Когда вы отправились в объезд для Диводасы,
Для Бхарадваджи, погоняя (коней), о Ашвины,
Большое богатство привезла ваша готовая к услугам колесница.
Запряжен был бык и крокодил.
र॒यिं सु॑क्ष॒त्रं स्व॑प॒त्यमायु॑: सु॒वीर्यं॑ नासत्या॒ वह॑न्ता । आ ज॒ह्नावीं॒ सम॑न॒सोप॒ वाजै॒स्त्रिरह्नो॑ भा॒गं दध॑तीमयातम् ॥
र॒यिम् । सु॒ऽक्ष॒त्रम् । सु॒ऽअ॒प॒त्यम् । आयुः॑ । सु॒ऽवीर्य॑म् । ना॒स॒त्या॒ । वह॑न्ता । आ । ज॒ह्नावी॑म् । सऽम॑नसा । उप॑ । वाजैः॑ । त्रिः । अह्नः॑ । भा॒गम् । दध॑तीम् । अ॒या॒त॒म् ॥
हे नासत्यावश्विनौ सुक्षत्रं शोभनबलं रयिं धनं स्वपत्यं शोभनैः पुत्रादिभिरुपेतं सुवीर्यं शोभनवीर्योपेतम् आयुः । अन्ननामैतत् । एवंगुणविशिष्टमन्नं च वहन्ता धारयन्तौ युवां समनसा समानमनस्कौ सन्तौ जह्नावीं जह्नोर्महर्षेः संबन्धिनीं प्रजाम् आ अयातम् अभिमुख्येनागच्छतम् । कीदृशीं वाजैः हविर्लक्षणैरन्नैरुपेताम् । अह्नः । अत्र अहःशब्देन तत्रानुष्ठेयः सोमयागो लक्ष्यते । तस्य प्रातःसवनादिरूपेण त्रिः त्रिधा विभक्तं भागम् अंशं दधतीं बिभ्रतीम् । अनुसवनं हविर्भिर्यजमानामित्यर्थः ॥ सुक्षत्रम् । बहुव्रीहौ ‘नञ्सुभ्याम्' इति उत्तरपदान्तोदात्तत्वम् । सुवीर्यम् । ‘वीरवीर्यौ च' इति बहुव्रीहौ उत्तरपदाद्युदात्तत्वम् । जह्नावीम् । जह्नुशब्दात् तस्येदम्' इत्यर्थे अण् । ‘टिड्ढाणञ्' इति ङीप् । जाह्नवी । ह्रस्वदीर्घयोर्विनिमयः पृषोदरादित्वात् । उक्तं च-- ‘वर्णागमो वर्णविपर्ययश्च ' ( का. ६. ३. १०९ ) इति । अत एव मध्योदात्तत्वम् ॥
“Nāsatyas, bearing strength and wealth with posterity and vigour-sustaining food, you came, with one intention, to the family of Jahnu, (provide) with (sacrificial) viands, and possessing a third portion of the daily (offerings).”
Ye, bringing wealth with rule, and life with offspring, life rich in noble heroes; O Nasatyas,
Accordant came with strength to Jahnu's children who offered you thrice every day your portion.
Conveying wealth with good rule and a full lifetime with good descendants and good men, Nāsatyas,
you two of one mind journeyed here with the prizes of victory to the wife of Jahnu, who was setting your portion three times a day.
Sprossreiches Alter, Macht verleihnden Reichthum und Heldenfülle bringend, o ihr Treuen, Kamt eines Sinns mit Gut ihr zur Dschahnavi, die dreimal euch des Tages Opfer brachte.
Reichtum nebst guter Herrschaft, kindergesegnetes langes Leben, Meisterschaft bringend kamet ihr Nasatya´s eines Sinnes mit Belohnungen zur Jahnavi, die dreimal des Tages euch den Opferanteil darbrachte.
Везя богатство, счастливую власть, (долгий) срок жизни,
Благословленной хорошим потомством, обилие героев, о Насатьи,
Вы приехали, единые мыслью, с наградами к потомству Джахну,
Трижды в день приносившему (вам жертвенную) долю.
परि॑विष्टं जाहु॒षं वि॒श्वत॑: सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो॑भिः । वि॒भि॒न्दुना॑ नासत्या॒ रथे॑न॒ वि पर्व॑ताँ अजर॒यू अ॑यातम् ॥
परि॑ऽविष्टम् । जा॒हु॒षम् । वि॒श्वतः॑ । सी॒म् । सु॒ऽगेभिः॑ । नक्त॑म् । ऊ॒ह॒थुः॒ । रजः॑ऽभिः । वि॒ऽभि॒न्दुना॑ । ना॒स॒त्या॒ । रथे॑न । वि । पर्व॑तान् । अ॒ज॒र॒यू इति॑ । अ॒या॒त॒म् ॥
जाहुषो नाम कश्चिद्राजा । विश्वतः सर्वतः परिविष्टं शत्रुभिः परिवृतं तं राजानं हे नासत्यावश्विनौ अजरयू जरारहितौ नित्यतरुणौ युवां विभिन्दुना विशेषेण सर्वस्य भेदकेनात्मीयेन रथेन नक्तं रात्रौ सुगेभिः सुष्ठु गन्तुं शक्यैः रजोभिः रञ्जकैर्मार्गैः ऊहथुः तस्मात् शत्रुसमूहान्निरगमयतम् । सीम् इत्येतत् पादपूरणम्। निर्गतेन तेन सह पर्वतान् शत्रुभिरारोढुमशक्यान् शिलोच्चयान् वि अयातं विशेषेणागच्छतम् ॥ परिविष्टम् । ‘विश प्रवेशने '। कर्मणि निष्ठा । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सुगेभिः । ‘सुदुरोरधिकरणे ' इति गमेर्डः । विभिन्दुना । भिदिर् विदारणे'। औणादिक उप्रत्ययो नुमागमश्च । अजरयू । न जरा अजरा तामात्मन इच्छतः। सुप आत्मनः क्यच्' । ‘न च्छन्दस्यपुत्रस्य ' इति इत्वदीर्घयोर्निषेधः । ‘क्याच्छन्दसि ' इति उप्रत्ययः ॥ ॥ ११ ॥
“Undecaying Nāsatyas, you bore away by night, in your foe-overwhelming car, Jāhuṣa, surrounded on every side by (enemies), through practicable roads, and went to (inaccessible) mountains.”
Ye bore away at night by easy pathways Jahusa compassed round on every quarter,
And, with your car that cleaves the toe asunder, Nasatyas never decaying! rent the mountains.
At night you conveyed Jāhuṣa, besieged from every direction, through the easily traversed airy spaces.
With your chariot that cuts asunder, o never-aging Nāsatyas, you
journeyed through the mountains.
Den Dschahuscha, als rings er war umschlossen, ihn fuhret Nachts ihr durch die freien Lüfte; Mit eurem Wagen, treue, der hindurchbricht, durchfuhret ihr, nicht alternde, die Berge.
Den ringsum belagerten Jahusa entführtet ihr des Nachts auf gangbaren Wegen durch die Lüfte. Mit dem zerspaltenden Wagen fuhret ihr Nasatya´s durch die Berge, ihr Alterlosen.
Джахушу, окруженного со всех сторон,
Ночью вы вывезли легкими путями по воздуху.
На сокрушительной колеснице, о Насатьи,
Вы, нестареющие проехали через горы.
एक॑स्या॒ वस्तो॑रावतं॒ रणा॑य॒ वश॑मश्विना स॒नये॑ स॒हस्रा॑ । निर॑हतं दु॒च्छुना॒ इन्द्र॑वन्ता पृथु॒श्रव॑सो वृषणा॒वरा॑तीः ॥
एक॑स्याः । वस्तोः॑ । आ॒व॒त॒म् । रणा॑य । वश॑म् । अ॒श्वि॒ना॒ । स॒नये॑ । स॒हस्रा॑ । निः । अ॒ह॒त॒म् । दु॒च्छुनाः॑ । इन्द्र॑ऽवन्ता । पृ॒थु॒ऽश्रव॑सः । वृ॒ष॒णौ॒ । अरा॑तीः ॥
हे अश्विनौ वशम् एतत्संज्ञमृषिम् एकस्याः वस्तोः एकस्याह्नः रणाय रमणीयाय सहस्रा सहस्रसंख्याकाय सनये धनलाभाय आवतम् अरक्षतम् । स ऋषिः प्रत्यहं यथा सहस्रसंख्यं धनं लभते तथा रक्षितवन्तावित्यर्थः । अपि च हे वृषणौ कामानां वर्षितारावश्विनौ इन्द्रवन्ता इन्द्रेण संयुक्तौ युवां दुच्छुनाः दुष्टसुखान् दुःखस्य कर्तॄन् पृथुश्रवसः विस्तीर्णयशसः अरातीः शत्रून् निरहत निःशेषेणावधिष्टम् । यद्वा । कानीनस्य पृथुश्रवःसंज्ञस्य राज्ञः शत्रूनिति योज्यम् ॥ सहस्रा । ‘सुपां सुलुक्' ' इति चतुर्थ्या डादेशः । अहतम् । लङि थसस्तम्। अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । दुच्छुनाः । शुनमिति सुखनाम। दुष्टं सुखं यासां तास्तथोक्ताः । ‘परादिश्छन्दसि बहुलम्
इत्युत्तरपदाद्युदात्तत्वम् ॥
“You preserved Vaśa, Aśvins, (that he might obtain) in a single day a thousand acceptable gifts; showerers (of benefits), associated with Indra, you destroyed the malignant enemies of Pṛthuśravas.”
One morn ye strengthened Vasa for the battle, to gather spoils that might be told in thousands.
With Indra joined ye drove away misfortunes, yea foes of Prthusravas, O ye mighty.
At the dawning of a single (dawn), Aśvins, you gave Vaśa the help (needed) for the battle in order for him to gain thousands (of cattle). Along with Indra you two smashed misfortunes and hostilities away from Pr̥thuśravas, o bulls.
An einem Morgen halft zum Sieg, o Ritter, dem Vaça ihr zu tausendfacher Beute; Vereint mit Indra triebt ihr fort das Unheil, des weitberühmten Feinde, o ihr Stiere.
Ihr Asvin standet dem Vasa zum Kampfe bei, daß er an einem Morgen Tausende gewann. Von Indra begleitet wehret ihr das Unheil, die Feindseligkeiten von Prithusravas ab, ihr Bullen.
Вы помогли Ваше, о Ашвины, сражаться,
Чтобы завоевать тысячи за одно утро.
Сопровождаемые Индрой, вы прогнали несчастья
(И) враждебность от Притхушраваса, о два быка.
श॒रस्य॑ चिदार्च॒त्कस्या॑व॒तादा नी॒चादु॒च्चा च॑क्रथु॒: पात॑वे॒ वाः । श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्यं॑ पिप्यथु॒र्गाम् ॥
श॒रस्य॑ । चि॒त् । आ॒र्च॒त्ऽकस्य॑ । अ॒व॒तात् । आ । नी॒चात् । उ॒च्चा । च॒क्र॒थुः॒ । पात॑वे । वाः । श॒यवे॑ । चि॒त् । ना॒स॒त्या॒ । शची॑भिः । जसु॑रये । स्त॒र्य॑म् । पि॒प्य॒थुः॒ । गाम् ॥
आर्चत्कस्य ऋचत्कपुत्रस्य शरस्य एतत्संज्ञस्यापि स्तोतुः पिपासितस्य पातवे पानार्थं नीचात् नीचीनात् अवतात् कूपात् उच्चा, उच्चैरुपरिष्टात् वाः उदकं हे अश्विनौ युवाम् आ चक्रथुः आभिमुख्येन कृतवन्तौ । तथा हे नासत्यावश्विनौ शचीभिः युष्मदीयैः कर्मभिः परिचरणैः जसुरये श्रान्ताय शयवे चित् शयुनाम्ने ऋषये स्तर्यं निवृत्तप्रसवां गाम् अग्निहोत्रार्थस्य पयसो दोग्ध्रीं पिप्यथुः पयसा युवामापूरितवन्तौ ॥ पातवे ।' पा पाने '।' तुमर्थे सेसेन्° ' इति तवेन्प्रत्ययः । जसुरये । जसु हिंसायाम्'। जसिसहोरुरिन्' (उ. सू. २. २३१ )। स्तर्यम्। स्तीर्यते आच्छाद्यते प्रसवसामर्थ्याभावेन इति स्तरीः । ‘अवितॄस्तृतन्त्रिभ्य ई: ( उ. सू. ३. ४३८ ) इति ईकारप्रत्ययः । ‘वाच्छन्दसि ' इति अमि पूर्वत्वस्य विकल्पितत्वात् अभावे यणादेशः । ‘उदात्तस्वरितयोर्यणः०' इति परस्यानुदात्तस्य स्वरितत्वम् । पिप्यथुः । ‘प्यायी वृद्धौ'। लिटि व्यत्ययेन परस्मैपदम् । लिड्यङोश्च' (पा. सू. ६. १. २९ ) इति पीभावः ॥
“You raised the water from the bottom to the top of the well, for the drinking of Śara, the son of Ṛcitka, and by your powers, Nāsatyas, you filled, for the sake of the weary Śayu, the barren cow (with milk).”
From the deep well ye raised on high the water, so that Rcatka's son, Sara, should drink it;
And with your might, to help the weary Sayu, ye made the barren cow yield milk, Nasatyas.
From the (dry [?]) well also of Śara, son of R̥catka, you supplied water (flowing) upward from below for him to drink.
Also for starving Śayu, o Nāsatyas, with your powers you made his
sterile cow swell (with milk).
Aus des Artschatka Çara Brunnen zogt ihr zum Trinken Wasser aufwärts aus der Tiefe Und kräftig liesst ihr dem erschöpften Çaju, die unfruchtbare Kuh, o Treue, schwellen.
Für Sara, den Sohn des Ricatka, holtet ihr zum Trinken aus dem Brunnen das Wasser aus der Tiefe nach oben. Für den verschmachtenden Sayu machtet ihr Nasatya´s durch eure Künste die unfruchtbare Kuh milchstrotzend.
А для Шары, сына Ричатки, из колодца
Вы достали воду для питья снизу – вверх.
А для измученного Шаю, о Насатьи,
Вы сделали яловую корову набухшей молоком.
अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः । प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥
अ॒व॒स्य॒ते । स्तु॒व॒ते । कृ॒ष्णि॒याय॑ । ऋ॒जु॒ऽय॒ते । ना॒स॒त्या॒ । शची॑भिः । प॒शुम् । न । न॒ष्टम्ऽइ॑व । दर्श॑नाय । वि॒ष्णा॒प्व॑म् । द॒द॒थुः॒ । विश्व॑काय ॥
अवस्यते अवनं रक्षणमात्मन इच्छते । स्तुवते स्तुतिं कुर्वते कृष्णियाय । कृष्णो नाम कश्चित् । तस्य पुत्राय ऋजूयते आर्जवमिच्छते विश्वकाय एतत्संज्ञाय ऋषये हे नासत्यौ युवां शचीभिः आत्मीयैः कर्मभिः विष्णाप्वं नाम विनष्टं पुत्रं दर्शनाय दर्शनार्थं ददथुः दत्तवन्तौ । तत्र दृष्टान्तः । पशुं न नष्टमिव । एक उपमार्थीयः पूरकः । यथा कश्चिद्विनष्टं पशुं स्वामिनो दृष्टिपथं प्रापयति तद्वत् ॥ अवस्यते । अवःशब्दात् “ सुप आत्मनः क्यच् '। शतुरनुमः' इति विभक्तेरुदात्तत्वम् । कृष्णियाय । कृष्णशब्दादपत्यार्थे छान्दसो घच् ॥
“Nāsatyas, by your acts you restored to Viśvaka, the son of Kṛṣṇa, soliciting your protection, adoring you, and a lover of rectitude, hs son Viṣṇāpu, (welcome) to his sight as an animal that has been lost.”
To Visvaka, Nasatyas! son of Krsna, the righteous man who sought your aid and praised you,
Ye with your powers restored, like some lost creature, his son Visnapu for his eyes to look on.
To Viśvaka Kr̥ṣṇiya, who was seeking your help and singing your praise, who was aiming straight, Nāsatyas, you gave by your powers
Viṣṇāpū to be seen (once more), like a lost animal.
Dem Viçvaka, dem Krischnaspross, o Treue, dem hülfsbegier'gen Sänger, dem gerechten, Habt den Vischnapu ihr gebracht zum Anblick, wie ein verirrtes Vieh, durch eure Kräfte.
Den schutzsuchenden, lobpreisenden Visvaka Krisniya, dem rechtschaffenen, gabet ihr Nasatya´s durch eure Künste den Visnapu, der wie ein Stück Vieh verloren war, zum Wiedersehen.
Ищущему помощи, восхваляющему (вас) Вишваке Кришние
Благочестивому, о Насатьи, (своими) силами
Вы дали (снова) увидеть Вишнапу,
Пропавшего, словно (отбившийся от стада) скот.
दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्व१॒॑न्तः । विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि॑न्यथु॒: सोम॑मिव स्रु॒वेण॑ ॥
दश॑ । रात्रीः॑ । अशि॑वेन । नव॑ । द्यून् । अव॑ऽनद्धम् । श्न॒थि॒तम् अ॒प्ऽसु । अ॒न्तरिति॑ । विऽप्रु॑तम् । रे॒भम् । उ॒दनि॑ । प्रऽवृ॑क्तम् । उत् । नि॒न्य॒थुः॒ । सोम॑म्ऽइव स्रु॒वेण॑ ॥
पुरा खलु रेभमृषिं पाशैर्बद्ध्वा असुराः कूपे कस्यचिद्दिवसस्य सायंकाले प्रचिक्षिपुः । स च अश्विनौ स्तुवन् दश रात्रीः नवाहानि च कूपमध्ये तथैवावतस्थे । दशमेऽहनि प्रातः अश्विनौ तं कूपात उदतारयतामिति । तदाह । अप्सु कूपान्तर्वर्तमानासु अन्तः मध्ये असुरैः पातितम् अशिवेन दुःखहेतुना दाम्ना अवनद्धं बद्धं श्नथितं शत्रुभिर्हिंसितं दश रात्रीः दशसंख्याका निशाः नव द्यून नवसंख्याकान्यहानि च । अत्यन्तसंयोगे द्वितीया । एतावन्तं कालं तत्रैव कूपेऽवस्थितम् अत एव उदनि उदके विप्रुतं विप्लुतं व्याक्षिप्तसर्वाङ्गं प्रवृक्तम् । लुप्तोपममेतत् । प्रवृञ्जनेन संतप्तं घर्ममिव व्यथया संतप्यमानम् एवंभूतं रेभं हे अश्विनौ युवाम् उन्निन्यथुः तस्मात्कूपात् उन्नीतम् उत्तीर्णं कृतवन्तौ । तत्र दृष्टान्तः । सोममिव यथा अग्निहोत्रहोमार्थम् अभिषुतं सोमरसं कूपसदृशे अग्निहोत्रस्थालीमध्ये वर्तमानं स्रुवेण अध्वर्युः उन्नयति ऊर्ध्वं नयति तद्वत् ॥ अवनद्धम्। ‘णह बन्धने' । कर्मणि निष्ठा । नहो धः ' ( पा. सू. ८. २. ३४)। ‘झषस्तथोर्धोऽधः' इति निष्ठातकारस्य धत्वम् । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । श्नथितम् । श्नथ हिंसार्थः'। निष्ठा । विप्रुतम् । ‘प्रुङ् गतौ '। अवनद्धवत् प्रत्ययस्वरौ । कपिलकादित्वात् लत्वविकल्पः । उदनि । ‘पद्दन' इत्यादिना उदकशब्दस्य उदन्भावः ॥
“Aśvins, you raised up, like Soma in a ladle, Rebha, who for ten nights and nine days, had lain (in a well), bound with tight bonds, wounded, immersed, and suffering distress form the water.”
Asvins, ye raised, like Soma in a ladle Rebha, who for ten days and ten nights, fettered.
Had lain in cruel bonds, immersed and wounded, suffering sore affliction, in the waters.
Within the waters through ten nights and nine days, bound and pierced by the malicious one,
Rebha, who bobbed and twisted in the water—him you two brought up, like soma with a ladle.
Den Rebha, der neun Tage und zehn Nächte im Wasser lag, gebunden und verwundet, Umspült vom Meer, versenkt vom Unheilsvollen, nahmt ihr heraus wie Soma mit dem Löffel.
Den Rebha, der zehn Nächte, neun Tage von seinem Feind verschnürt, durchbohrt im Wasser lag, auseinander gegangen, ins Wasser geworfen, den schöpfet ihr heraus wie Soma mit dem Schöpflöffel.
Ребху, брошенного в воду, (пролежавшего) в воде
Десять ночей, девять дней, связанного
Недругом, пронзенного, разложившегося,
Вы вычерпали, как сому – ложкой.
प्र वां॒ दंसां॑स्यश्विनाववोचम॒स्य पति॑: स्यां सु॒गव॑: सु॒वीर॑: । उ॒त पश्य॑न्नश्नु॒वन्दी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं॑ जगम्याम् ॥
प्र । वा॒म् । दंसां॑सि । अ॒स्वि॒नौ॒ । अ॒वो॒च॒म् । अ॒स्य । पतिः॑ । स्या॒म् । सु॒ऽगवः॑ । सु॒ऽवीरः॑ । उ॒त । पश्य॑न् । अ॒श्नु॒वन् । दी॒र्घम् । आयुः॑ । अस्त॑म्ऽइव । इत् । ज॒रि॒माण॑म् । ज॒ग॒म्या॒म् ॥
एवमनेन सूक्तेन अश्विनोर्महिमानं प्रशस्य अधुना मन्त्रद्रष्टा स्वाभीष्टं प्रार्थयते । हे अश्विनौ वां युवयोः दंसांसि पुरा कृतानि कर्माणि प्र अवोचम् इत्थम् उक्तवानस्मि । सोऽहं सुगवः शोभनगोयुक्तः सुवीरः शोभनवीरश्च भूत्वा अस्य राष्ट्रस्य पतिः अधिपतिः स्यां भवेयम् । उत अपि च पश्यन् अक्षिभ्यां पश्यन् । उपलक्षणमेतत् । सर्वैरिन्द्रियैः स्वस्वविषयदर्शनसमर्थैः दीर्घं वर्षशतरूपेण आयतम् आयुः जीवितं च अश्नुवन् प्राप्नुवन्नहम् अस्तमिव यथा गृहं स्वामी निष्कण्टकं प्रविशति एवं जरिमाणं जरां जगम्यां कण्टकराहित्येन प्राप्नुयाम् । वृद्धः सन् चिरकालं निवसेयमित्यर्थः ॥ स्याम् । अस्तेः प्रार्थनायां लिङ् । यासुट् । ‘श्नसोरल्लोपः' इत्यकारलोपः। अश्नुवन् । 'अशू व्याप्तौ । व्यत्ययेन शतृ । जरिमाणम् । ‘जॄष वयोहानौ'। अस्मादौणादिकः इमनिच् । जगम्याम् । गमेः प्रार्थनायां लिङि ‘बहुलं छन्दसि ' इति विकरणस्य श्लुः ॥ ॥ १२ ॥
“Thus, Aśvins, have I declared your exploits; may I become the master (of this plural ce), having abundant cattle and a numerous progeny, and retaining my sight, and enjoying a long life; may I enter into old age, as (a master enters) his house.”
1 have declared your wondrous deeds, O Asvins: may this be mine, and many kine and heroes.
May I, enjoying lengthened life, still seeing, enter old age as 'twere the house I live in.
I have proclaimed your wondrous deeds, Aśvins. Having good cows and good men, might I be the lord of this (wealth).
And both seeing and reaching a long lifetime, might I go to old age as if (going) home.
Ich hab verkündet, Ritter, eure Thaten, drum sei ich Gutsherr reich an Rind und Helden; Zu langem Leben sehnden Aug's gelangend, mög' ich wie in mein Haus ins Alter eingehn.
Eure Meisterstücke habe ich verkündet, o Asvin. Ich möchte Herr über dieses Besitztum sein, im Besitz schöner Rinder und Söhne und sehend und ein langes Leben erreichend ins Alter eingehen wie in das eigene Heim.
Я провозгласил ваши чудесные деяния, о Ашвины.
Да буду я господином этого (богатства) с прекрасными коровами прекрасными сыновьями,
А также (хорошо) видящим (и) исполнившим долгий срок жизни!
Пусть войду я в старость, как в свой собственный дом!