मध्व॒: सोम॑स्याश्विना॒ मदा॑य प्र॒त्नो होता वि॑वासते वाम् । ब॒र्हिष्म॑ती रा॒तिर्विश्रि॑ता॒ गीरि॒षा या॑तं नास॒त्योप॒ वाजै॑: ॥
मध्वः॑ । सोम॑स्य । अ॒श्वि॒ना॒ । मदा॑य । प्र॒त्नः । होता॑ । आ । वि॒वा॒स॒ते॒ । वा॒म् । ब॒र्हिष्म॑ती । रा॒तिः । विऽश्रि॑ता । गीः । इ॒षा । या॒त॒म् । ना॒स॒त्या॒ । उप॑ । वाजैः॑ ॥
हे अश्विनौ मध्वः मधुना माधुर्योपेतेन सोमस्य सोमेन मदाय युवयोर्मदार्थं प्रत्नः चिरंतनः होता होमनिष्पादको यजमानः वां युवाम् आ विवासते । विवासतिः परिचरणकर्मा । आङ् मर्यादायाम् । यथाशास्त्रं परिचरति । अपि च रातिः दातव्यं हविः बर्हिष्मती आस्तीर्णेन बर्हिषा युक्तम् । युष्मदर्थं बर्हिषि आसादितमित्यर्थः । तथा गीः स्तुतिलक्षणा वाक् च विश्रिता ऋत्विक्षु समवेता । तैः स्तुतिरपि क्रियते इत्यर्थः । अतो हे नासत्यावश्विनौ इषा अस्मभ्यं दातव्येनान्नेन वाजैः बलैश्च सह युवाम् उप यातम् अस्मत्समीपं प्राप्नुतम् ॥ मध्वः । ‘सुपा सुपो भवन्ति । इति तृतीयार्थे षष्ठी ।' जसादिषु च्छन्दसि वावचनम् ' इति • घेर्ङिति' इति गुणाभावे यणादेशः । मदाय । ‘मदी हर्षे ' । “ मदोऽनुपसर्गे ' इति अप् । रातिः । ‘रा दाने ' । कर्मणि क्तिन् । ‘मन्त्रे वृषेष ' इत्यादिना तस्योदात्तत्वम् । विश्रिता । ‘श्रिञ् सेवायाम् ' । कर्मणि निष्ठा ।' गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम् ॥
“Aśvins for your gratification by the plural asant Soma, your ancient worshipper adores you; the offering is poured upon the sacred gras, thehymn is ready (for repetition); come, Nāsatyas, with food and with vigour.”
ASVINS, your ancient priest invites you hither to gladden you with draughts of meath of Soma.
Our gift is on the grass, our song apportioned: with food and strength come hither, O Nasatyas.
The age-old Hotar [=Agni] seeks to win you in order for you to be exhilarated on the honeyed soma, o Aśvins.
The gift accompanied by the ritual grass is laid out, (as is) my song. With refreshment, with prizes of victory, journey here, o Nāsatyas.
Zum Trunk des süssen Soma's euch zum Rausche, o Ritter, lockt euch her der alte Priester, Die Gab' ist aufgestellt, das Lied erklungen, o Treue, kommet her mit Trank und Speise.
Zum Rausche des süßen Soma bittet euch, Asvin, der alte Hotri her. Für die Darbringung ist das Barhis hergerichtet, die Rede ist verteilt. Kommet herbei mit Labsal, mit Belohnungen, ihr Nasatya´s!
Для опьянения сладким сомой, о Ашвины,
Хочет привлечь вас древний хотар.
Разложена солома для принесения (жертв). Распределена речь.
О Насатьи, приезжайте с усладой, с наградами!
यो वा॑मश्विना॒ मन॑सो॒ जवी॑या॒न्रथ॒: स्वश्वो॒ विश॑ आ॒जिगा॑ति । येन॒ गच्छ॑थः सु॒कृतो॑ दुरो॒णं तेन॑ नरा व॒र्तिर॒स्मभ्यं॑ यातम् ॥
यः । वा॒म् । अ॒श्वि॒ना॒ । मन॑सः । जवी॑यान् । रथः॑ । सु॒ऽअश्वः॑ । विशः॑ । आ॒ऽजिगा॑ति । येन॑ । गच्छ॑थः । सु॒ऽकृतः॑ । दु॒रो॒णम् । तेन॑ । न॒रा॒ । व॒र्तिः । अ॒स्मभ्य॑म् । या॒त॒म् ॥
हे अश्विनौ वां युवयोः स्वभूतः मनसो जवीयान् मनसोऽप्यतिशयेन वेगवान् स्वश्वः शोभनाश्वः एवंभूतः यः रथः विशः प्रजाः आजिगाति अभिमुख्येन गच्छति । येन रथेन सुकृतः शोभनं यागं कुर्वतो यजमानस्य दुरोणं देवयजनलक्षणं गृहं गच्छथः । हे नरा नेतारावश्विनौ तेन रथेन अस्मभ्यम् अस्माकं वर्तिः वर्तनाधिकरणं गृहं यातम् आगच्छतम् ॥ जवीयान् । जवोऽस्यास्तीति जववान् । तदस्यास्ति' इति मतुप् । ततः आतिशायनिकः ईयसुन् । विन्मतोर्लुक् । ‘टेः' इति टिलोपः । जिगाति । गा स्तुतौ । जौहोत्यादिकः । गतिकर्मसु पाठादत्र गत्यर्थः ।, ‘बहुलं छन्दसि' इति अभ्यासस्य इत्वम् ॥
“With that car, Aśvins, which, rapid as thought, drawn by good horses, appears before men, and withwhich you repair to the dwelling of the virtuous, come, leaders of (sacrifice), to our abode.”
That car of yours, swifter than thought, O Asvins, which drawn by brave steeds cometh to the people,
Whereon ye seek the dwelling of the pious,--come ye thereon to our abode, O Heroes.
Your chariot, o Aśvins, swifter than mind, drawn by good horses, comes to the clans.
By which (chariot) you go to the home of the good ritual performer, by that, o men, travel your course to us.
Eur Wagen, Ritter, schneller als Gedanken, der zu den Stämmen fährt mit schönen Rossen, Auf dem ihr kommet zu dem Haus des Frommen, mit dem, o Männer, fahrt zu unsrer Stätte.
Euer Wagen, ihr Asvin, der schneller als der Gedanke, mit guten Rossen bespannt. Die Clane besucht, mit dem ihr zum Hause des Frommen kommet, auf den machet die Umfahrt zu uns, ihr Herren!
Ваша колесница, о Ашвины, что быстрее мысли,
С прекрасными конями, что посещает (наши) племена,
На которой вы отправляетесь в дом благочестивого, -
Совершите на ней (свой) объезд к нам, о два мужа!
ऋषिं॑ नरा॒वंह॑स॒: पाञ्च॑जन्यमृ॒बीसा॒दत्रिं॑ मुञ्चथो ग॒णेन॑ । मि॒नन्ता॒ दस्यो॒रशि॑वस्य मा॒या अ॑नुपू॒र्वं वृ॑षणा चो॒दय॑न्ता ॥
ऋषि॑म् । न॒रौ॒ । अंह॑सः । पाञ्च॑ऽजन्यम् । ऋ॒बीसा॑त् । अत्रि॑म् । मु॒ञ्च॒थः॒ । ग॒णेन॑ । मि॒नन्ता॑ । दस्योः॑ । अशि॑वस्य । मा॒याः । अ॒नु॒ऽपू॒र्वम् । वृ॒ष॒णा॒ । चो॒दय॑न्ता ॥
‘हिमेनाग्निम् ' ( ऋ. सं. १. ११६. ८) इत्यनयोक्त एवार्थः पुनः प्रकारान्तरेण अनया प्रतिपाद्यते । अतस्तत्रोक्तं सर्वमत्रापि द्रष्टव्यम् । अक्षरार्थस्तु । हे नरौ नेतारौ वृषणा कामानां वर्षितारौ अश्विनौ पाञ्चजन्यम् । निषादपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः । तेषु भवम् । स्वर्भानुना गृहीतममुं सूर्यं मोचयन अत्रिः सर्वेषां हिताचरणात् तत्रभवः इत्युच्यते । तादृशम् ऋषिम् अंहसः पापरूपात ऋबीसात् शतद्वारे यन्त्रगृहे अत्रेः पीडार्थम् असुरैः प्रक्षिप्तात् तुषाग्नेः सकाशात् गणेन इन्द्रियवर्गेण पुत्रपौत्रादिगणेन वा सह मुञ्चथः अमोचयतम् । किं कुर्वन्तौ । मिनन्ता शत्रून् हिंसन्तौ दस्योः उपक्षपयितुः अशिवस्य दुःखकारिणः असुरस्य संबन्धिनीः तस्मिन् अत्रौ प्रयुक्ताः मायाः च अनुपूर्वम् अनुपूर्व्येण चोदयन्ता प्रेरयन्तौ निवारयन्तौ ॥ पाञ्चजन्यम् । ‘बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम् (का. ४. ३. ५८. १) इति भवार्थे ञ्यः । मिनन्ता । 'मीञ् हिंसायाम् । क्रैयादिकः। लटः शतृ । ‘मीनातेर्निगमे ' इति ह्रस्वत्वम् ॥
“You liberated, leaders (of rites), the sage Atri, who was venerated by the five classes of men from the wicked prison, together with his troop (of children), destroying his enemies and baffling, showerers (of benefits), the devices of the malignant Dasyus.”
Ye freed sage Atri, whom the Five Tribes honoured, from the strait pit, ye Heroes with his people,
Baffling the guiles of the malignant Dasyu, repelling them, ye Mighty in succession.
You free Atri, the seer of the five peoples, from narrow straits, from the earth cleft along with his band, o men—
confounding the wiles of the merciless Dasyu, driving them out, one after another, o bulls.
Den Seher Atri der fünf Stämme löstet sammt seiner Schar aus enger Kluft ihr Helden, Des unheilvollen Dämons Zauber tilgend, und jenen vorwärtstreibend, o ihr Stiere.
Den unter den fünf Stämmen bekannten Rishi Atri befreit ihr Herren aus Drangsal, mit seinem Gefolge aus dem glühenden Ofen, indem ihr die Listen des feindseligen Dasyu vereitelt habt, einen nach dem anderen zur Eile treibend, ihr Bullen.
Известного пяти родам риши Атри, о два мужа,
Вы спасли из узости, из раскаленной печи, вместе со свитою,
Уменьшая колдовские чары враждебного дасью,
Вдохновляя одного за другим, о два быка.
अश्वं॒ न गू॒ळ्हम॑श्विना दु॒रेवै॒ॠषिं॑ नरा वृषणा रे॒भम॒प्सु । सं तं रि॑णीथो॒ विप्रु॑तं॒ दंसो॑भि॒र्न वां॑ जूर्यन्ति पू॒र्व्या कृ॒तानि॑ ॥
अश्व॑म् । न । गू॒ळ्हम् । अ॒श्वि॒ना॒ । दुः॒ऽएवैः॑ । ऋषि॑म् । न॒रा॒ । वृ॒ष॒णा॒ । रे॒भम् । अ॒प्ऽसु । सम् । तम् । रि॒णी॒थः॒ । विऽप्रु॑तम् । दंसः॑ऽभिः । न । वा॒म् । जू॒र्य॒न्ति॒ । पू॒र्व्या । कृ॒तानि॑ ॥
नरा नेतारौ वृषणा कामानां वर्षकौ हे अश्विनौ दुरेवैः दुष्प्रापैरसुरैः अप्सु कूपस्थेषूदकेषु गूळ्हं निगूढं निखातं रेभम् ऋषिं कूपादुन्नीय विप्रुतं विश्लिष्टावयवं तम् अश्वं न व्याधितमश्वमिव दंसोभिः आत्मीयैः भैषज्यरूपैः कर्मभिः सं रिणीथः समधत्तम् । सर्वैरवयवैरुपेतमकुरुतमित्यर्थः । वां युवयोः संबन्धीनि पूर्व्या चिरंतनानि कृतानि कर्माणि न जूर्यन्ति न हि जीर्णानि भवन्ति ॥ दुरेवैः । दुरुपसृष्टात् एतेः “ ईषज्जुःसुषु' इति खल् । रिणीथः । ‘री गतिरेषणयोः । क्रैयादिकः । ‘प्वादीनां ह्रस्वः'। जूर्यन्ति। ‘जॄष् वयोहानौ' । दैवादिकत्वात् श्यन्! ‘बहुलं छन्दसि' इति उत्वम् । हलि च' इति दीर्घः
“Leaders (of sacrifice), showerers (of benefits), you restored Rebha, cast by unassailable (enemies) into the water, and wounded, like a (sick) horse, by your (healing) skill; your ancient exploits do not fade (from recollection).”
Rebha the sage, ye mighty Heroes, Asvins! whom, like a horse, vile men had sunk in water,--
Him, wounded, with your wondrous power ye rescued: your exploits of old time endure for ever.
O Aśvins—you men, you bulls—by your wondrous powers you draw back together the seer Rebha, who bobbed away in the waters,
like a horse hidden by those of evil ways. Your ancient deeds do not grow old.
Den Dichter Rebha, Ritter, starke Helden, den Böse bargen wie ein Pferd im Wasser, Den fortgeschwemmten stellt ihr her durch Wunder, denn nie ermatten eure alten Thaten.
Den Rishi Rebha, der von Bösewichten wie ein Roß versteckt im Wasser lag, o bullengleiche Herren Asvin, den füget ihr mit Meisterkünsten wieder zusammen, da er schon auseinander gegangen war. Nicht veralten eure früheren Taten.
Как коня, спрятанного (ворами), о Ашвины,
Риши Ребху, (спрятанного) в водах злодеями, о два мужа-быка,
(Своими) чудесными силами вы восстановили, (уже) разложившегося.
Не стареют ваши прежние деяния!
सु॒षु॒प्वांसं॒ न निॠ॑तेरु॒पस्थे॒ सूर्यं॒ न द॑स्रा॒ तम॑सि क्षि॒यन्त॑म् । शु॒भे रु॒क्मं न द॑र्श॒तं निखा॑त॒मुदू॑पथुरश्विना॒ वन्द॑नाय ॥
सु॒षु॒प्वांस॑म् । न । निःऽऋ॑तेः । उ॒पऽस्थे॑ । सूर्य॑म् । न । द॒स्रा॒ । तम॑सि । क्षि॒यन्त॑म् । शु॒भे । रु॒क्मम् । न । द॒र्श॒तम् । निऽखा॑तम् । उत् । ऊ॒प॒थुः॒ । अ॒श्वि॒ना॒ । वन्द॑नाय ॥
निर्ऋतिरिति भूनाम । निर्ऋतेः पृथिव्याः उपस्थे उत्सङ्गे सुषुप्वांसं सुप्तवन्तं पुरुषमिव कूपमध्ये शयानं सूर्यं न सूर्यमिव तमसि कूपान्तर्गतान्धकारे क्षियन्तं निवसन्तं सूर्यमिव तेजस्विनमित्यर्थः ६ । शुभे शोभार्थं निर्मितं रुक्मं न रोचमानं सुवर्णमयाभरणमिव दर्शतं दर्शनीयम् एवंगुणविशिष्टं कूपे असुरैः निखातं वन्दनाय वन्दनमृषिं हे दस्रा दर्शनीयावश्विनौ युवाम् उदूपथुः उद्धृतवन्तौ ॥ सुषुप्वांसम् ।' ञिष्वप् शये '। लिटः क्वसुः । ‘वचिस्वपि ' इत्यादिना संप्रसारणम् । द्विर्वचनादि । उपस्थे । उपपूर्वात् तिष्ठतेः ‘घञर्थे कविधानम् ' इत्यधिकरणे कप्रत्ययः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । वन्दनाय । ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी ॥ ॥ १३ ॥
“You extricated, Dasras, the sage (Vandanā) cast into a well, like a handsome and splendid ornament designed for embellishment, and (lying) Aśvins, like one sleepin gon the lap of the earth or like the sun disappearing in darkness.”
Ye brought forth Vandana, ye Wonder-Workers, for triumph, like fair gold that hath been buried,
Like one who slumbered in destruction's bosom, or like the Sun when dwelling in the darkness.
Like one who has gone to sleep in the lap of destruction, like the sun dwelling in darkness, o wondrous ones,
like a buried gem, lovely to see, (dug out) for beauty, you dug him
[=Vandana] out for Vandana [/for our celebration of you], o Aśvins.
Wie den, der schlummert in dem Schooss des Grabes, und wie die Sonne, die noch ruht im Dunkel Wie schönes Gold, o Ritter, holt zum Glanze dem Vandana heraus ihr das Vergrabne.
Den Vandana, der wie ein Schoß der Todesgöttin Entschlafener, wie die Sonne im Dunklen ruhte, ihr Meister, den vergrabenen, habt ihr wie einen vergrabenen Goldschmuck ausgegraben, schön zu schauen, euch zum Lobe, ihr Asvin.
(Вандану,) словно заснувшего в лоне Небытия,
Как солнце, покоящееся во мраке, о удивительные,
Зарытого, как прекрасное (золотое) украшение,
Вы откопали, о Ашвины, для блеска, для восхваления!
तद्वां॑ नरा॒ शंस्यं॑ पज्रि॒येण॑ क॒क्षीव॑ता नासत्या॒ परि॑ज्मन् । श॒फादश्व॑स्य वा॒जिनो॒ जना॑य श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ मधू॑नाम् ॥
तत् । वा॒म् । न॒रा॒ । शंस्य॑म् । प॒ज्रि॒येण॑ । क॒क्षीव॑ता । ना॒स॒त्या॒ । परि॑ज्मन् । श॒फात् । अश्व॑स्य । वा॒जिनः॑ । जना॑य । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । मधू॑नाम् ॥
हे नरा नेतारौ नासत्यावश्विनौ परिज्मन् परिगमने अभीष्टस्य प्रापणे निमित्तभूते सति पज्रियेण पज्राणाम् अङ्गिरसां कुले जातेन कक्षीवता मया वां युवयोः संबन्धि तत् कर्म शंस्यम् प्रकर्षेण शंसनीयम् । तच्छब्दश्रुतेः यच्छब्दाध्याहारः । यत् जनाय अपेक्षमाणाय पुरुषाय वाजिनः वेगवतः तदीयस्य अश्वस्य शफात्' निर्गतैः मधूनां मधुभिः शतसंख्याकान् कुम्भान् असिञ्चतम् अपूरयतम् । सिञ्चतिरत्र पूरणार्थः । यदेतन्मधुना पूरणं तत् शंस्यम्' इत्यर्थः ॥
“That (exploit) of yours, leaders (of sacrifice), is to be celebrated, Nāsatyas, by Kakṣīvat, of the race of Pajra, when you filled for the (expectant) man a hundred vases of sweet (liquors) from the hoof of your fleet horse.”
Kaksivan, Pajra's son, must laud that exploit of yours, Nasatyas, Heroes, ye who wander!
When from the hoof of your strong horse ye showered a hundred jars of honey for the people.
This (deed) of yours in your earth-encircling course, o men, deserves to be praised by Kakṣīvant, the son of Pajra, o Nāsatyas:
from the hoof of your prizewinning horse, you poured a hundred pots of honey for the people.
Dies Werk, o treue Männer, ist zu rühmen vom Padschrasohn Kakschivat aller Orten; Dass aus des schnellen Rosses Huf den Menschen ihr hundert Kübel süssen Tranks ergosset.
Diese Tat von euch muß Kaksivat Krisniya laut verkünden auf seiner Fahrt, ihr Herren Nasatya´s: Aus dem Hufe des preisgewinnenden Rosses schenket ihr seinen Leuten hundert Krüge der süßen Getränke ein.
Это ваше (деяние), о два мужа, должно быть прославлено
Паджрия Какшивантом, о Насатьи. Во время (вашего) кругового странствия
Из копыта коня, приносящего награды, для народа
Вы налили сто кувшинов сладких напитков.
यु॒वं न॑रा स्तुव॒ते कृ॑ष्णि॒याय॑ विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय । घोषा॑यै चित्पितृ॒षदे॑ दुरो॒णे पतिं॒ जूर्य॑न्त्या अश्विनावदत्तम् ॥
यु॒वम् । न॒रा॒ । स्तु॒व॒ते । कृ॒ष्णि॒याय॑ । वि॒ष्णा॒प्व॑म् । द॒द॒थुः॒ । विश्व॑काय । घोषा॑यै । चि॒त् । पि॒तृ॒ऽसदे॑ । दु॒रो॒णे । पति॑म् । जूर्य॑न्त्यै । अ॒श्वि॒नौ॒ । अ॒द॒त्त॒म् ॥
हे नरा नेतारौ अश्विनौ युवं युवां स्तुवते स्तोत्रं कुर्वते कृष्णियाय कृष्णाख्यस्य पुत्राय विश्वकाय विष्णाप्वं ददथुः । विष्णाप्वं नाम विनष्टं पुत्रं दत्तवन्तौ । घोषानाम ब्रह्मवादिनी कक्षीवतो दुहिता । सा कुष्ठिनी सती कस्मैचिद्वराय अदत्ता पितृगृहे निषण्णा जीर्णा आसीत् । सो अश्विनोरनुग्रहात नष्टकुष्ठा सती पतिं लेभे। तदेतदाह । हे अश्विनौ पित्रा संबद्धे दुरोणे स्वकीयजनकगृहे कुष्ठरोगेण भर्तारमप्राप्य पितृषदे पितृसमीपे निषण्णायै जूर्यन्त्यै जरां प्राप्नुवत्यै घोषायै चित् एतत्संज्ञायै ब्रह्मवादिन्यै अपि रोगोपशमनेन पतिं भर्तारम् अदत्तं युवां दत्तवन्तौ ॥ पितृषदे । *षद्लृ विशरणादिषुः । क्विप् च ' इति क्विम्। जूर्यन्त्यै। ‘जॄष् वयोहानौ' । लटः शतृ । दिवादित्वात् श्यन् ।' बहुलं छन्दसि' इति उत्वम् ।' हलि च' इति दीर्घः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् ॥
“You restored, leaders (of sacrifices), Viṣṇāpu (his lost son) to Viśvaka, the son of Kṛṣṇa, when he praised you; you bestowed, Aśvins, a husband upon Ghoṣā, growing old and tarrying inher father's dwelling.”
To Krsna's son, to Visvaka who praised you, O Heroes, ye restored his son Visnapu.
To Ghosa, living in her father's dwelling, stricken in years, ye gave a husband, Asvins.
You two, o men, gave Viṣṇāpū to Viśvaka Kr̥ṣṇiya, who was
praising you.
Even to Ghoṣā, living at home with her father, you gave a husband, though she was growing old, Aśvins.
Dem Viçvaka, dem Krischnaspross, o Männer, dem Sänger habt Vischnapu ihr gegeben; Der Ghoscha auch, die in des Vaters Hauss sass, gabt, als sie alt war, Ritter, ihr den Gatten.
Ihr Herren gabt dem lobpreisenden Visvaka Krisniya den Visnapu wieder. Auch der Ghosa, die zu Hause bei den Eltern sitzen geblieben, gabet ihr Asvin noch im Alter einen Gemahl.
Вы, о два мужа, Кришния Вишваке,
Прославляющему (вас), дали Вишнапу.
И Гхоше, оставшейся сидеть в доме родителей,
Стареющей, вы дали мужа, о Ашвины.
यु॒वं श्यावा॑य॒ रुश॑तीमदत्तं म॒हः क्षो॒णस्या॑श्विना॒ कण्वा॑य । प्र॒वाच्यं॒ तद्वृ॑षणा कृ॒तं वां॒ यन्ना॑र्ष॒दाय॒ श्रवो॑ अ॒ध्यध॑त्तम् ॥
यु॒वम् । श्यावा॑य । रुश॑तीम् । अ॒द॒त्त॒म् । म॒हः । क्षो॒णस्य॑ । अ॒श्वि॒ना॒ । कण्वा॑य । प्र॒ऽवाच्य॑म् । तत् । वृ॒ष॒णा॒ । कृ॒तम् । वाम् । यत् । ना॒र्स॒दाय॑ । श्रवः॑ । अ॒धि॒ऽअध॑त्तम् ॥
हे अश्विनौ युवं युवां श्यावाय कुष्ठरोगेण श्यामवर्णाय ऋषये रुशतीं दीप्तत्वचं स्त्रियम् अदत्तम् प्रयच्छतम् । अपि च क्षोणस्य क्षोणाय यः दृष्टिराहित्येन गन्तुमशक्तः सन् एकस्मिन्नेव स्थाने निवसति तस्मै कण्वाय ऋषये महः तेजः तैजसं चक्षुरिन्द्रियम् अदत्तमिति शेषः । तथा हे वृषणा कामानां वर्षितारौ वां युवयोः तत् कृतं कर्म प्रवाच्यं प्रकर्षेण वाचनीयं शंसनीयम् । नार्षदाय नृषदः पुत्राय बधिराय ऋषये श्रवः श्रवणेन्द्रियं यत् अध्यधत्तं दत्तवन्तौ स्थः इति यत् तदित्यर्थः । अपर आह । ब्राह्मण्यस्य परीक्षार्थमसुराः कण्वमृषिं गूढे तमसि निदधुः । अत्रैव स्थितः सन् व्युष्टामुषसं विजानीहि यदि त्वं ब्राह्मणोऽसीति । तमश्विनौ आगत्योचतुः । व्युष्टायां हर्म्यस्य उपरि वीणां वादयन्तौ आवाम् आगमिष्यावः । तं शब्दं श्रुत्वा व्युष्टामुषसं ब्रूहि । तदेतत्प्रतिपाद्यते । हे वृषणा कामानां वर्षितारावश्विनौ वां युवयोः तत्कृतं कर्म प्रवाच्यं प्रशंसनीयं यन्नार्षदाय नृषदः पुत्राय कण्वाय क्षोणस्य । क्षोणः शब्दकारी वीणाविशेषः । महः महतः क्षोणस्य श्रवः शब्दम् अध्यधत्तम् उषसो विज्ञानार्थम् अधिकम् अकुरुतम् ॥ महः । ‘मह पूजायाम्' । अस्मादौणादिकः असिप्रत्ययः । पक्षान्तरे तु महच्छब्दात् षष्येस्कवचने छान्दसः अल्लोप:।' बृहन्महतोरुपसंख्यानम्' इति विभक्तेरुदात्तत्वम्। यद्वा । क्विबन्तात् षष्ठ्येकवचनम् । क्षोणस्य । ‘क्षि निवासगत्योः '।' कृत्यल्युटो बहुलम्' इति कर्तरि ल्युट्। पृषोदरादित्वात् क्षोणभावः । तदुक्तं यास्केन- क्षोणस्य क्षयणस्य ' ( निरु. ६. ६) इति । पक्षान्तरे तु ' टुक्षु शब्दे ' इत्यस्मादौणादिकः नप्रत्ययः । नार्षदाय । 'ऋष्यन्धक ' इति अण् ॥
“You gave, Aśvins, a lovely bride to Śyāvā; you gave sight to Kaṇva, unable to see his way; showerers (of benefits), the deed is to be glorified by which you gave hearing to the son of Nṛṣad.”
Rusati, of the mighty people, Asvins, ye gave to Syava of the line of Kanva.
This deed of yours, ye Strong Ones should be published, that ye gave glory to the son of Nrsad.
You two gave a bright (body) to Śyāva Kaṇva [/Kaṇva, the Dark One] of the great flood [?], Aśvins.
That deed of yours is to be proclaimed, o bulls: that you bestowed fame upon the son of Nr̥ṣad [=Kaṇva].
Dem dunkeln gabt die lichte ihr, o Ritter, dem Kanva die aus grosser Flut entsprossne, Dies euer Werk, o Helden, ist zu preisen, dass ihr dem Spross des Nrischad Ruhm verliehen.
Ihr gabet dem Syava Kanva die weiße Kuh des großen Ksona, ihr Asvin, laut zu verkünden ist diese Tat von euch, ihr Bullen, daß ihr dem Sohn des Nrisad Ruhm verliehet.
Вы Шьяве Канве дали белую (корову)
Из великого стада (?), о Ашвины.
Провозглашено должно быть то ваше деяние, о быки,
Что сына Нришада вы покрыли славой.
पु॒रू वर्पां॑स्यश्विना॒ दधा॑ना॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व॑म् । स॒ह॒स्र॒सां वा॒जिन॒मप्र॑तीतमहि॒हनं॑ श्रव॒स्यं१॒॑ तरु॑त्रम् ॥
पु॒रु । वर्पां॑सि । अ॒श्वि॒ना॒ । दधा॑ना । नि । पे॒दवे॑ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व॑म् । स॒ह॒स्र॒ऽसाम् । वा॒जिन॑म् । अप्र॑तिऽइतम् । अ॒हि॒ऽहन॑म् । श्र॒व॒स्य॑म् । तरु॑त्रम् ॥
हे अश्विनौ पुरु पुरूणि बहूनि वर्पांसि । रूपनामैतत् । आत्मीयैः कर्मभिः कृतानि रूपाणि दधाना धारयन्तौ युवाम् आशुं शीघ्रगामिनम् अश्वं पेदवे पेदुनाम्ने स्तुवते नि ऊहथुः नितरां प्रापितवन्तौ दत्तवन्तावित्यर्थः । कीदृशमश्वम् । सहस्रसां सहस्रसंख्याकस्य धनस्य सनितारं दातारं वाजिनं बलवन्तम् अत एव अप्रतीतं शत्रुभिरप्रतिगतम् अहिहनम् अहीनाम् आगत्य हन्तॄणां शत्रूणां शत्रून्वा हन्तारम् । श्रवस्यम् । श्रवः श्रवणीयं स्तोत्रम् । तत्र भवम् । स्तुतिविषयमित्यर्थः । तरुत्रं तरितारम् ॥ वर्पाँसि । वृञ् वरणे'। 'वृञ्शीभ्यांरूपस्वाङ्गयोः पुक्च' ( उ. सू. ४. ६४० ) इत्यसुन् पुगागमश्च । दधाना । दधातेर्लटः शानच् । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । सहस्रसाम् ।' षणु दाने '। ‘जनसनखन ' इति विट् । ‘विड्वनोरनुनासिकस्यात्' इति आत्वम् । श्रवस्यम् । श्रवःशब्दात् ‘ भवे छन्दसि ' इति यत् । तित्स्वरितः । तरुत्रम् । ‘तॄ प्लवनतरणयोः'।' अशित्रादिभ्य इत्रोत्रौ ' ( उ. सू. ४. ६१२ ) इति उत्रप्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । ' ग्रसितस्कभित° ' इत्यादौ निपातनात् तृनन्तात् तरुतृशब्दात् अमि संज्ञापूर्वकस्य विधेः अनित्यत्वात् गुणाभावे यण् । नित्स्वरेणाद्युदात्तत्वम् ॥ .
“Aśvins, who assume many forms, you gave to Pedu a swift horse, the bringer of a thousand (treasures), powerful, irresistible, the destroyer of foes, the object of praise, the bearer (over dangers).”
O Asvins, wearing many forms at pleasure, on Pedu ye bestowed a fleet-foot courser,
Strong, winner of a thousand spoils, resistless the serpent slayer, glorious, triumphant.
Assuming many forms, Aśvins, you carried down a swift horse to Pedu, an unstoppable prizewinning horse that gains a thousand (cows), a
smasher of serpents, deserving to be famed as the surpassing one.
Euch viele Frommen schaffend, habt ihr Ritter das rasche Ross dem Pedu zugeführet, Das siegende, berühmte, unbezwungne, das Schlangen tödtet, tausend Schätz' erbeutet.
Die ihr viele Gestalten annehmet, ihr Asvin führet dem Pedu das schnelle Roß zu, das Tausende gewinnt, den Preis erringt, unwiderstehlich ist, das schlangentötende, rühmliche, Feinde überwindende.
Принимая многие облики, о Ашвины,
Вы привели для Педу быстрого коня,
Завоевывающего тысячи, приносящего награды, неотразимого,
Убивающего змей, достойного славы, победителя.
ए॒तानि॑ वां श्रव॒स्या॑ सुदानू॒ ब्रह्मा॑ङ्गू॒षं सद॑नं॒ रोद॑स्योः । यद्वां॑ प॒ज्रासो॑ अश्विना॒ हव॑न्ते या॒तमि॒षा च॑ वि॒दुषे॑ च॒ वाज॑म् ॥
ए॒तानि॑ । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । ब्रह्म॑ । आ॒ङ्गू॒षम् । सद॑नम् । रोद॑स्योः । यत् । वा॒म् । प॒ज्रासः॑ । अ॒श्वि॒ना॒ । हव॑न्ते । य॒तम् । इ॒षा । च॒ । वि॒दुषे॑ । च॒ । वाज॑म् ॥
हे सुदानू शोभनदानौ अश्विनौ वां युवयोः संबन्धीनि एतानि समनन्तरोक्तानि वीर्याणि श्रवस्या श्रवणीयानि सर्वैर्ज्ञातव्यानि भवन्ति । तदर्थं रोदस्योः द्यावापृथिव्यात्मना वर्तमानयोः युवयोः । उक्तं च यास्केन -- तत्कावश्विनौ द्यावापृथिव्यावित्येके ' ( निरु. १२. १ ) इति । तथा च तैत्तिरीयकम्- इमे अश्विना संवत्सरोऽग्निर्वैश्वानरः ' ( तै. सं. ५, ६, ४. १) इति । तयोः युवयोः सदनं स्तोतृसमीपे निवेशनं प्रसादनहेतुभूतं वा आङगूषम् आघोषणीयं ब्रह्म मन्त्ररूपं स्तोत्रं निष्पन्नमिति शेषः । यत् यदा पज्रासः अङ्गिरसां गोत्रोत्पन्ना यजमाना हे अश्विनौ वां युवां हवन्ते स्तुतिभिः आत्मरक्षणार्थम् आह्वयन्ति तदानीम् इषा दातव्येनान्नेन सह आ यातम् आगच्छतं च विदुषे युष्मद्विषयं स्तोत्रं जानते मह्यं च वाजम् अन्नं बलं वा प्रयच्छतमिति शेषः॥ यातम् । चवायोगे प्रथमा ' इति निघातप्रतिषेधः । विदुषे ।' विद ज्ञाने '। ‘विदेः शतुर्वसुः ॥ ‘वसोः संप्रसारणम्' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् ॥ ॥ १४ ॥
“Liberal givers, these your exploits are to be celebrated, and the resounding prayer propitiates you while abiding in heaven and earth; when the descendants of Pajra invite you, Aśvins, come with food, and grant strength to the sage (who worships you).”
These glorious things are yours, ye Bounteous Givers; prayer, praise in both worlds are your habitation.
O Asvins, when the sons of Pajra call you, send strength with nourishment to him who knoweth.
These things deserving to be famed are for you, o you who give good gifts: the formulation, the song, the seat within the two world-halves. When the Pajras call you, Aśvins, travel with refreshment and toward victory’s prize for the knowing one!
Dies rühmliche, ist euch, o gabenreiche, Gebet und Preis und Sitz, in Erd' und Himmel, Wenn Ritter euch die Padschrasöhne rufen, so kommt mit Trank dem Weisen und zur Speise.
Diese sind eure rühmlichen Vorrechte, ihr Gabenschöne: die feierliche Rede, der Lobgesang, der Wohnsitz in beiden Welten. Wenn euch, Asvin, die Pajra´s rufen, so kommet mit Labsal und bringet dem Kundigen Gewinn!
Эти ваши (особенности) достойны славы, о щедродающие:
Молитва, громкая хвала, местопребывание в обоих мирах.
Когда, о Ашвины, вас зовут Паджры,
Приезжайте с усладой и (привозите) награду знатоку!
सू॒नोर्माने॑नाश्विना गृणा॒ना वाजं॒ विप्रा॑य भुरणा॒ रद॑न्ता । अ॒गस्त्ये॒ ब्रह्म॑णा वावृधा॒ना सं वि॒श्पलां॑ नासत्यारिणीतम् ॥
सू॒नोः । माने॑न । अ॒श्वि॒ना॒ । गृ॒णा॒ना । वाज॑म् । विप्रा॑य । भु॒र॒णा॒ । रद॑न्ता । अ॒गस्त्ये॑ । ब्रह्म॑णा । व॒वृ॒धा॒ना । सम् । वि॒श्पला॑म् । ना॒स॒त्या॒ । अ॒र्ण्त्म् ॥
भुरणा भर्तारौ पोषकौ नासत्या सत्यस्वभावौ हे अश्विनौ सूनोः कुम्भात् प्रसूतस्य अगस्त्यस्य खेलपुरोहितस्य संबन्धिना मानेन स्तुत्यस्य परिच्छेदकेन स्तोत्रेण गृणाना स्तूयमानौ विप्राय मेधावने भरद्वाजाय ऋषये वाजम् अन्नं रदन्ता विलिखन्तौ निष्पादयन्तौ युवां विश्पलां संग्रामे छिन्नजङ्घां खेलस्य संबन्धिनीं स्त्रियं सम् अरिणीतं पुनः आयस्या जङ्या समयोजयतम् । तृतीयेन पादेन प्रथमपादोक्तोऽर्थो विव्रियते । अगस्त्ये ऋषौ ब्रह्मणा मन्त्ररूपेण स्तोत्रेण ववृधाना प्रवर्धितौ इति ॥ गृणाना । गॄ शब्दे'। व्यत्ययेन कर्मणि कर्तृप्रत्ययः । प्वादीनां ह्रस्वः । भुरणा । ‘भुरण धारणपोषणयोः '। कण्ड्वादिः । पचाद्यच् । अतोलोपयलोपौ । ‘सुपां सुलुक्' इति विभक्तेराकारः। आमन्त्रितनिघातः । विप्राय' इत्यस्य भुरणेत्यनेन असामर्थ्यात् न पराङ्गवत्वम् । ववृधाना । वृधेर्लिटः कानच् । संहितायां छान्दसमभ्यासस्य दीर्घत्वम् । तुजादित्वे हि तूतुजान इतिवत् पदकालेऽपि स्यात् । अरिणीतम् । “ री गतिरेषणयोः'। क्रैयादिकः । प्वादीनां ह्रस्वः ॥
“Aśvins, glorified by the praises of the son (of the jar), and giving food, nourishers (of men), to the sage (Bharadvāja), exalted by Agastya withprayer, you restored Nāsatyas, Viṣpalā.”
Hymned with the reverence of a son, O Asvins ye Swift Ones giving booty to the singer,
Glorified by Agastya with devotion, established Vispala again, Nasatyas.
Being sung by Sūnor Māna [=Agastya], o energetic Aśvins, digging out victory’s prize for the inspired poet,
and growing strong alongside Agastya through his poetic formulation, you draw Viśpalā back together, Nāsatyas.
Gepriesen bei des Mana Sohn Agastja, o schnelle Ritter, Gut dem Sänger spendend, Verherrlichet durch seine Andachtslieder habt Viçpalā ihr hergestellt, o Treue.
Von Sunor Mana gepriesen, brachtet ihr Asvin dem Redegewaltigen den Siegerpreis, ihr Eilige; bei Agastya durch feierliche Rede erbaut, machtet ihr Nasatya´s die Vispali heil.
Воспетые, о Ашвины, Сунор Маной,
Вырывающие награду для вдохновенного, о подвижные,
Подкрепленные молитвой у Агастьи,
Вы восстановили Випшалу, о Насатьи.
कुह॒ यान्ता॑ सुष्टु॒तिं का॒व्यस्य॒ दिवो॑ नपाता वृषणा शयु॒त्रा । हिर॑ण्यस्येव क॒लशं॒ निखा॑त॒मुदू॑पथुर्दश॒मे अ॑श्वि॒नाह॑न् ॥
कुह॑ । यान्ता॑ । सु॒ऽस्तु॒तिम् । का॒व्यस्य॑ । दिवः॑ । न॒पा॒ता॒ । वृ॒ष॒णा॒ । श॒यु॒ऽत्रा । हिर॑ण्यस्यऽइव । क॒लश॑म् । निऽखा॑तम् । उत् । ऊ॒प॒थुः॒ । द॒श॒मे । अ॒श्वि॒ना॒ । अह॑न् ॥
पुरा खलु उषनसः स्तुति गच्छन्तावश्विनौ मार्गमध्ये कूपे पतितं रेभं दृष्ट्वा तं कूपादुदतारयताम् । तदानीम् अश्विभ्यां गन्तव्यं काव्यस्य निवासस्थानम् अजानन् ऋषिः अश्विनौ पृच्छति। हे दिवो नपाता द्योतमानस्य सूर्यस्य पुत्रौ वृषणा कामाभिवर्षकौ अश्विनौ कुह कुत्र शयुत्रा शयने निवासस्थाने वर्तमानस्य काव्यस्य भार्गवस्य सुष्टुतिं शोभनां स्तुतिं श्रोतुं यान्ता गच्छन्तौ । यद्वा । शयुत्रा इत्येतत् अश्विनोर्विशेषणम् । शयुनाम्नस्त्रायकौ युवाम् । हिरण्यस्येव कलशं यथा हिरण्यपूरितं कलशं भूम्यां निक्षिप्तं सर्वैः दुर्ज्ञातं कश्चिदभिज्ञः उद्धरति एवमसुरैः कूपे निखातं दश रात्रीः नवाहानि च तत्रैव निवसन्तं रेभमवगत्य दशमे अहन् अहनि उदूपथुः कूपात उन्नीतवन्तौ । किं तन्निवासस्थानमिति प्रश्नः । रेभस्य अनुक्तावपि ' दश रात्रीरशिवेन ' ( ऋ. सं. १. ११६. २४ ) इति मन्त्रान्तरसामर्थ्यात् प्रतीतिः । यद्वा । काव्यस्य स्तुतिं प्रति गच्छन्तौ युवां कुह कस्मिन् स्थाने रेभं युवाम् उन्निन्यथुः इति प्रश्नः ॥ कुह ।' वा ह च च्छन्दसि ' इति सप्तम्यर्थे हप्रत्ययः । दिवो नपाता । ‘सुबामन्त्रिते पराङ्गवत्स्वरे' इति पराङ्गवद्भावेन षष्य्यन्तस्य आमन्त्रितानुप्रवेशात् ‘आमन्त्रितस्य च' इति पदद्वयसमुदायस्य षाष्ठिकमाद्युदात्तत्वम् । पादादित्वात् आष्टमिकनिघाताभावः । नपात् इति अपत्यनाम । न पातयतीति नपात् । नभ्राण्नपात्' इति नञः प्रकृतिभावः । ‘सुपां सुलुक्' इति विभक्तेराकारः । शयुत्रा । अशित्रादिभ्य इत्रोत्रौ ' इति शीङ उत्रः । यदि अन्तोदात्तता न स्यात् तर्हि एवम् ॥ शयुं त्रायेते इति शयुत्रौ । ‘त्रैङ् पालने'।' आदेचः' इति आत्वम् । अतोऽनुपसर्गे कः । अत एव व्युत्पत्त्यनवधारणात् अनवग्रहः । निखातम् । खनु अवदारणे । अस्मात्कर्मणि निष्ठा । ‘यस्य विभाषा ' इति इट्प्रतिषेधः । ‘जनसनखनां सञ्झलोः' इति आत्वम् ।' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अहन् । ‘सुपां सुलुक्' इति सप्तम्या लुक्। 'न ङिसंबुद्धयोः' इति नलोपप्रतिषेधः॥
“Wither were you going, sons of heaven, showerers (of benefits), when, on your way to the dwellingof Kāvya, (to receive his) adoration, you raised up (Rebha), Aśvins, on the tenth day, like a buried vessel full of gold?”
Ye Sons of Heaven, ye Mighty, whither went ye, sought ye, for his fair praise the home of Kavya.
When, like a pitcher full of gold, O Asvins, on the tenth day ye lifted up the buried?
Journeying where?—Toward the good praise of (Uśanā) Kāvya? To a bed, o sons of heaven, o bulls?—
you dug out the one who was buried like a tub of gold on the tenth day, Aśvins.274 I.117
Wohin doch gehend zu dem Lob des Dichters, den Çaju schützend, mächt'ge Himmelssöhne, Habt ihr wie einen Topf voll Gold, o Ritter, am zehnten Tag erhoben den vergrabnen.
Wohin gehend? - zu des Kavya Preislied, ihr bullengleichen Himmelsenkel, oder zu Bett? - habt ihr den wie einen Topf mit Gold Vergrabenen am zehnten Tag ausgegraben, o Asvin.
Направляясь (неизвестно) куда: на восхваление Кавьи,
О внуки неба, о быки, (или) на покой –
Вы откопали, о Ашвины, на десятый день
Зарытого, словно кубышка с золотом.
यु॒वं च्यवा॑नमश्विना॒ जर॑न्तं॒ पुन॒र्युवा॑नं चक्रथु॒: शची॑भिः । यु॒वो रथं॑ दुहि॒ता सूर्य॑स्य स॒ह श्रि॒या ना॑सत्यावृणीत ॥
यु॒वम् । च्यवा॑नम् । अ॒श्वि॒ना॒ । जर॑न्तम् । पुनः॑ । युवा॑नम् । च॒क्र॒थुः॒ । शची॑भिः । यु॒वोः । रथ॑म् । दु॒हि॒ता । सूर्य॑स्य । स॒ह । श्रि॒या । ना॒स॒त्या॒ । अ॒वृ॒णी॒त॒ ॥
हे अश्विनौ युवं युवां शचीभिः आत्मीयैः भैषज्यलक्षणैः कर्मभिः जरन्तं जीर्यन्तं च्यवानं स्तुतीनां च्यावयितारम् एतत्संज्ञं ऋषिं युवानं पुनर्यौवनोपेतं चक्रथुः कृतवन्तौ । अपि च हे नासत्यौ अश्विनौ युवोः युवयोः रथं सूर्यस्य दुहिता सूर्याख्या श्रिया सह ऋक्सहस्ररूपया' संपदा कान्त्या वा सह अवृणीत समभजत आगत्यारूढवतीत्यर्थः । ‘आ वां रथं दुहिता ' ( ऋ. सं. १. ११६. १७ ) इत्यत्र लिखितमाख्यानम् अत्रापि द्रष्टव्यम् ॥ जरन्तम् । “ जॄष् वयोहानौ' । व्यत्ययेन शप् । युवोः । युष्मच्छब्दात् षष्ठीद्विवचने व्यत्ययेन ' योऽचि' इति यत्वाभावे सति ‘शेषे लोपः' इति दकारलोपः। अतो गुणे' इति पररूपत्वम् । ‘एकादेश उदात्तेनोदात्तः'। अवृणीत । ‘वृङ् संभक्तौ ' । क्रैयादिकः ॥
“You rendered, by your power, Aśvins, the aged Cyavana again young; the daughter of the sun, Nāsatyas, invested your chariot with beauty.”
Ye with the aid of your great powers, O Asvins, restored to youth the ancient man Cyavana.
The Daughter of the Sun with all her glory, O ye Nasatyas, chose your car to bear her.
You, o Aśvins, made the aging Cyavāna a youth again through your powers. Your chariot did the Daughter of the Sun choose, Nāsatyas, together with its splendor.
Durch eure Kräfte machtet ihr, o Ritter, aufs neue jung den alternden Tschavana, Der Sonne Tochter hat sich euren Wagen erwählt und eure Schönheit, o ihr Treuen.
Ihr Asvin habt durch eure Künste den greisen Cyavana wieder jung gemacht. Euren Wagen erkor die Tochter des Surya, ihr Nasatya´s, samt eurer Schönheit.
Вы, о Ашвины, Чьявану стареющего
Снова сделали молодым (своими) силами.
Вашу колесницу дочь солнца
Выбрала себе со (своей) красотой, о Насатьи.
यु॒वं तुग्रा॑य पू॒र्व्येभि॒रेवै॑: पुनर्म॒न्याव॑भवतं युवाना । यु॒वं भु॒ज्युमर्ण॑सो॒ निः स॑मु॒द्राद्विभि॑रूहथुॠ॒ज्रेभि॒रश्वै॑: ॥
यु॒वम् । तुग्रा॑य । पू॒र्व्येभिः॑ । एवैः॑ । पु॒नः॒ऽम॒न्यौ । अ॒भ॒व॒त॒म् । यु॒वा॒ना॒ । यु॒वम् । भु॒ज्युम् । अर्ण॑सः । निः । स॒मु॒द्रात् । विऽभिः॑ । ऊ॒ह॒थुः॒ । ऋ॒ज्रेभिः॑ । अश्वैः॑ ॥
हे युवाना दुःखानां यावयितारौ अश्विनौ युवं युवां पूर्व्येभिः । पुराणनामैतत् । पूर्वकालीनैः चिरंतनैः एवैः स्तुत्यं प्रति गन्तृभिः स्तोत्रैः तुग्राय भुज्योर्जनकस्य संबन्धिभिः पुनर्मन्यौ यथा भुज्योः समुद्रगमनापूर्वं युवां स्तोतव्यौ तथा पुनरपि इदानीं स्तोतव्यौ अभवतम् । यदा युवां समुद्रमध्ये सेनया सह निमग्नं भुज्युं तुग्रस्य पुत्रम् अर्णसः अर्णस्वतः प्रौढोदकयुक्तात् समुद्रात् अम्बुराशेः सकाशात् विभिः गन्तृभिः नौभिः ऋज्रेभिः शीघ्रगतियुक्तैः अश्वैः च निरूहथुः निर्गमय्य पितृसमीपं प्रापितवन्तौ तदानीं पुनरप्यतिशयेन स्तोतव्यौ जातावित्यर्थः । ‘तुग्रो ह भुज्युम्' (ऋ. सं. १.११६. ३) इत्यत्रोक्तमाख्यानम् अत्राप्यनुसंधेयम् ॥ एवैः । इण् गतौ'। ‘इण्शीङ्भ्यां वन्' । पुनर्मन्यौ ।' मन ज्ञाने '। अत्र स्तुत्यर्थः । मन्यते स्तौति इति मना स्तुतिः । पचाद्यच् । ‘छन्दसि च' इति अर्हार्थे यः । युवाना । 'यु मिश्रणामिश्रणयोः '।' कनिन्युवृषि' ' इत्यादिना कनिन् । ‘सुपां सुलुक्' इति विभक्तेराकारः । अर्णसः । अर्णःशब्दादुत्पन्नस्य मत्वर्थीयस्य ‘बहुलं छन्दसि ' इति बहुलग्रहणाल्लोपः । विभिः। सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति विभक्त्युदात्तस्य विकल्पनात् अभावः । ऋज्रेभिः । ऋज गतिस्थानार्जनोपार्जनेषु'। 'ऋज्रेन्द्र' इत्यादौ रन्प्रत्ययान्तो निपातितः । ‘बहुलं छन्दसि ' इति भिस ऐसभावः ॥
“Dissipators of affliction, as you were praised with former praises by Tugra, so were you again adored (by him), when you brought Bhujyu safe from the tossing ocean with swift ships and rapid horses.”
Ye, ever-youthful Ones, again remembered Tugra, according to your ancient manner:
With horses brown of hue that flew with swift wings ye brought back Bhujyu from the sea of billows.
You turned your minds again to Tugra in your ancient ways, o youthful ones.
You carried Bhujyu from the flood, from the sea, with your birds, your silvery horses.
An Tugra habt nach euren alten Weisen, o ewig junge, ihr euch neu erinnert, Ihr fuhrt den Bhudschju aus des Meeres Wogen heraus mit euren rothen Flügelrossen.
Ihr Jünglinge waret dem Tugra mit dem früheren Eifer wieder zugeneigt. Ihr holtet den Bhujyu aus der Meeresflut heraus mit den Vögeln, den Schimmelrossen.
К Тугре согласно прежним обычаям
Вы снова стали расположенными, о двое юношей.
Бхуджью из морской пучины вы
Вывезли на птицах, на рыжих конях.
अजो॑हवीदश्विना तौ॒ग्र्यो वां॒ प्रोळ्ह॑: समु॒द्रम॑व्य॒थिर्ज॑ग॒न्वान् । निष्टमू॑हथुः सु॒युजा॒ रथे॑न॒ मनो॑जवसा वृषणा स्व॒स्ति ॥
अजो॑हवीत् । अ॒श्वि॒ना॒ । तौ॒ग्र्यः । वा॒म् । प्रऽऊ॑ळ्हः । स॒मु॒द्रम् । अ॒व्य॒थिः । ज॒ग॒न्वान् । निः । तम् । ऊ॒ह॒थुः॒ । सु॒ऽयुजा॑ । रथे॑न । मनः॑ऽजवसा । वृ॒ष॒णा॒ । स्व॒स्ति ॥
हे अश्विनौ वां युवां तौग्र्यः तुग्रपुत्रः प्रोळ्हः पित्रा प्रापितः समुद्रम् अब्धिं जगन्वान भुज्युः उदके निमग्नोऽपि अव्यथिः व्यथां पीडाम् अप्राप्त एव सन् अजोहवीत् स्तुतिभिराह्वयत् । तम् आह्वातारं हे मनोजवसा मनोवद्वेगयुक्तौ वृषणा कामाभिवर्षकावश्विनौ सुयुजा सुष्ठ्वैश्वर्ययुक्तेन रथेन स्वस्ति क्षेमं यथा भवति तथा निरूहथुः । जलान्निर्गमय्य युवां पितृगृहं प्रापितवन्तौ ॥ जगन्वान् । गमेर्लिटः क्वसुः । ‘विभाषा गमहनविदविशाम्' इति विकल्पनात् इडभावः । ‘भ्वोश्च' इति मकारस्य नकारः । निष्टम् । ‘युष्मत्तत्ततक्षुःष्वन्तःपादम्' इति मूर्धन्यः । मनोजवसा । मनसो जव इव जवो ययोः तौ तथोक्तौ । ‘सुपां सुलुक्' इति विभक्तेराकारः । पादादित्वात् आमन्त्रितनिघाताभावे षाष्ठिकमाद्युदात्तत्वम् ॥ ॥ १५ ॥
“Th sun of Tugra, brought back by you, Aśvins, (to his father), glorified you whenhe ahd crossed the ocean in safety, and you bore him, showerers (of benefits), with your well-harnessed car, swift as thought, to safety.”
The son of Tugra had invoked you, Asvins; borne on he went uninjured through the ocean.
Ye with your chariot swift as thought, well-harnessed, carried him off, O Mighty Ones, to safety.
Carried forth into the sea, the son of Tugra [=Bhujyu] called upon you again and again, having gone (to you) on an unwavering course, Aśvins. You carried him out with your chariot, swift as mind, with its good team, o bulls, to keep him well.
Euch hat gerufen Tugra's Sohn, ihr Ritter, ins Meer geführt, hineilend ohne Wanken; Ihr fuhrt heraus auf schönbespanntem Wagen gedankenschnellem ihn zum Heil, o Stiere!
Es rief euch, Asvin, laut der Tugrasohn, ins Meer getrieben, keinen Irrweg gegangen. Ihr holtet ihn heil heraus auf wohlgeschirrtem, gedankenschnellem Wagen, ihr Bullengleiche.
Воззвал к вам сын Тугры, о Ашвины,
Завезенный в море, движущийся без колебаний,
Вы благополучно вывезли его на колеснице,
Легко запрягаемой, быстрой, как мысль, о два быка.
अजो॑हवीदश्विना॒ वर्ति॑का वामा॒स्नो यत्सी॒ममु॑ञ्चतं॒ वृक॑स्य । वि ज॒युषा॑ ययथु॒: सान्वद्रे॑र्जा॒तं वि॒ष्वाचो॑ अहतं वि॒षेण॑ ॥
अजो॑हवीत् । अ॒श्वि॒ना॒ । वर्ति॑का । वा॒म् । आ॒स्नः । यत् । सी॒म् । अमु॑ञ्चतम् । वृक॑स्य । वि । ज॒युषा॑ । य॒य॒थुः॒ । सानु॑ । अद्रेः॑ । जा॒तम् । वि॒ष्वाचः॑ । अ॒ह॒त॒म् । वि॒षेण॑ ॥
'आस्नो वृकस्य ' (ऋ. सं. १. ११६. १४ ) इत्यर्धर्चे यदुक्तं तदत्र पूर्वार्धेन प्रतिपाद्यते । वर्तिका चटकसदृशस्य पक्षिणः स्त्री वृकेण अरण्यशुना ग्रस्ता सती हे अश्विनौ वां युवां तदा अजोहवीत् आहूतवती यत्सीं यदा खलु वृकस्य आस्नः आस्यात् अमुञ्चतं वर्तिकाम् अमोचयतम् । अपि च युवां जयुषा जयशीलेन रथेन अद्रेः पर्वतस्य सानु समुच्छ्रिप्रदेशं वि ययथुः शत्रुभिरावेष्टितं जाहुषाख्यं स्तोतारं शत्रुसमूहान्निर्गमय्य तेन सह अन्यैर्गन्तुमशक्यं पर्वताग्रं गन्तवन्तावित्यर्थः । तदुक्तं ' परिविष्टं जाहुषम् ' (ऋ. सं. १. ११६. २०) इत्यत्र । तथा विष्वाचः विविधगतियुक्तस्य एतत्संज्ञस्य असुरस्य जातम् उत्पन्नमपत्यं विषेण क्ष्वेडेन अहतं युवां हतवन्तौ । यद्वा । वर्तते प्रतिदिवसमावर्तते इति वर्तिका उषाः । वृक इति विवृतज्योतिष्कः सूर्य उच्यते । तेन ग्रस्ता सती सा हे अश्विनौ युवाम् अजोहवीत् आह्वयत् । यदा खलु युवां वृकस्य सूर्यस्य आस्नः आस्यस्थानीयान्मण्डलात् अमुञ्चतम् अमोचयतम् । सूर्येण एकीभूतामुषसं पृथक्कृत्य उदयात्पूर्वं रात्रेरपरभागे स्थापितवन्तावित्यर्थः । तथा च यास्कः- “ आदित्योऽपि वृक उच्यते यदावृङ्क्ते । आह्वयदुषा अश्विनावादित्येनाभिग्रस्ता तामश्विनौ प्रमुमुचतुरित्याख्यानम् ' ( निरु. ५. २१ ) इति । अपि च जयुषा जयशीलेन रथेन अद्रेर्मेघस्य सानु समुच्छ्रितप्रदेशं वृष्टिचिकीर्षया विशेषेण ययथुः युवां गतवन्तौ । गत्वा च विष्वाचो विविधगतियुक्तस्य मेघस्य संबन्धिना विषेणोदकेन जातमुत्पन्नं सर्वं भूतजातम् अहतम् अगमयतं वृष्टिं कृतवन्तावित्यर्थः ॥ अजोहवीत् । ह्वयतेर्यङ्लुगन्तात् लङि तिपि ‘यङो वा ' इति ईडागमः । ‘अभ्यस्तस्य च ' इति द्विर्वचनात्पूर्वमेव ह्वयतेः संप्रसारणम् । आस्नः । ‘पद्दन्' इत्यादिना आस्यशब्दस्य आसन्नादेशः । ‘अल्लोपोऽनः' इति अकारलोपः। जयुषा । ‘जि जये । औणादिकः उसिप्रत्ययः । विश्वाचः । विषु नाना आभिमुख्येन अञ्चति इति विग्रहः । ‘ऋत्विक् ' इत्यादिना क्विन् । ' अचः' इत्यकारलोपः । चौ ' इति दीर्घः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वे प्राप्ते ‘चौ ' इत्यन्तोदात्तत्वम् । अहतम् । ‘हन हिंसागत्योः । लङि अदादित्वात् शपो लुक् । अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः ॥
“The quail glorified you, Aśvins, when you saved her from the mouth of the wolf; you carried off (Jāhuṣa) to the top of the mountain in your triumphant chariot; and slew the son of Viṣvāñc with a poisoned (arrow).”
The quail had invocated you, O Asvins, when from the wolf's devouring jaws ye freed her.
With conquering car ye cleft the mountain's ridges: the offspring of Visvac ye killed with poison.
The quail-hen called upon you again and again, Aśvins, so that you freed her from the mouth of the wolf.
With your victorious (chariot) you journeyed across the back of the rock. You crushed the (son) of Viṣvāc [=the Double-Talker?], born by poison.
Die Wachtel hatt', o Ritter, euch gerufen, als ihr sie löstet aus des Wolfes Rachen; Ihr schrittet siegreich durch des Berges Rücken und tödtetet mit Gift den Sohn des Vischvak.
Es hatte euch, Asvin, die Wachtel angerufen, als ihr sie aus dem Rachen des Wolfes befreitet. Mit dem siegreichen Wagen fuhrt ihr durch den Rücken des Berges. Die Brut des Visvac habt ihr durch Gift getötet.
Воззвала к вам перепелка, о Ашвины,
Когда вы освободили ее из пасти волка.
На победной (колеснице) вы пронеслись через вершину горы.
Отродье Вишванча вы убили ядом.
श॒तं मे॒षान्वृ॒क्ये॑ मामहा॒नं तम॒: प्रणी॑त॒मशि॑वेन पि॒त्रा । आक्षी ऋ॒ज्राश्वे॑ अश्विनावधत्तं॒ ज्योति॑र॒न्धाय॑ चक्रथुर्वि॒चक्षे॑ ॥
श॒तम् । मे॒षान् । वृ॒क्ये॑ । म॒म॒हा॒नम् । तमः॑ । प्रऽणी॑तम् । अशि॑वेन । पि॒त्रा । आ । अ॒क्षी इति॑ । ऋ॒ज्रऽअ॑श्वे । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् । ज्योतिः॑ । अ॒न्धाय॑ । च॒क्र॒थुः॒ । वि॒ऽचक्षे॑ ॥
‘शतं मेषान्वृक्ये चक्षदानम् ' ( ऋ. सं. १. ११६. १६ ) इत्यत्र यदाख्यानमवादिष्म तदत्राप्यनुसंधेयम् । शतं शतसंख्याकान् मेषान वृक्ये वृकीरूपेणावस्थिताय अश्विनोर्वाहनाय रासभाय ममहानं पूजितवन्तम् आहारार्थं समर्पितवन्तम् अशिवेन असुखकारिणा पित्रा स्वकीयेन जनकेन तमः दृष्टिराहित्येन कृतम् आन्ध्यं प्रणीतं प्रापितम् ऋज्राश्वं चक्षुष्मन्तम् अश्विनावकुरुतामिति शेषः । एतदेव विशदयति । हे अश्विनौ अक्षी पितृशापान्नष्टे चक्षुषी ऋज्राश्वे एतत्संज्ञके राजर्षौ आ अधत्तं पुनर्दर्शनसमर्थे अकुरुतम् । एतदेवाह । अन्धाय दृष्टिहीनाय ज्योतिः प्रकाशकं चक्षुः विचक्षे विविधं जगत् द्रष्टुं चक्रथुः युवां कृतवन्तौ ॥ ममहानम् ।' मह पूजायाम् ' । लिटः कानच् । संहितायां छान्दसमभ्यासस्य दीर्घत्वम् । प्रणीतम् । प्रपूर्वान्नयतेः कर्मणि निष्ठा । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । पित्रा । ‘उदात्तयणः' इति विभक्तेरुदात्तत्वम् । अक्षी । अक्षिशब्दात् द्विवचने नुमागमश्च प्राप्नोति ‘ई च द्विवचने' इति ईकारान्तादेशश्च । परत्वादीकारादेशः । कृते तस्मिन् सकृद्गतपरिभाषया पुनर्नुम् न भवति । ‘उदात्त' इत्युनुवृतेः ईकारस्योदात्तत्वम् ॥
“You restored eyes to Ṛjrāśva, who, on presenting a hundred sheep to the she-wolf, had been condemned to darkness by his indignant father, and gave light to the blind, wherewith to behold all things.”
He whom for furnishing a hundred wethers to the she-wolf, his wicked father blinded,--
To him, Rjrasva, gave ye eyes, O Asvins; light to the blind ye sent for perfect vision.
Him who had readied a hundred sheep for the she-wolf, who was led forth into darkness by his merciless father—
in R̥jrāśva you put eyes; you made light for the blind one to see.
Ihm, der der Wölfin hundert Widder schenkte, und der geblendet ward vom bösen Vater, Ihm, dem Ridschraçva gabt ihr neue Augen, und machtet, Ritter, dass der Blinde Licht sah.
Hundert Widder hatte er der Wölfin gespendet und war durch seinen bösen Vater in die Nacht der Blindheit geführt: Ihr Asvin gabt dem Rijrasva die Augen, ihr machtet dem Blinden Licht zum Sehen.
Пожаловавшему волчице сотню баранов
(И) ввергнутому во мрак немилосердным отцом
Риджрашве вы даровали глаза, о Ашвины.
Вы сделали так, что слепой увидел свет.
शु॒नम॒न्धाय॒ भर॑मह्वय॒त्सा वृ॒कीर॑श्विना वृषणा॒ नरेति॑ । जा॒रः क॒नीन॑ इव चक्षदा॒न ऋ॒ज्राश्व॑: श॒तमेकं॑ च मे॒षान् ॥
शु॒नम् । अ॒न्धाय॑ । भर॑म् । अ॒ह्व॒य॒त् । सा । वृ॒कीः । अ॒श्वि॒ना॒ । वृ॒ष॒णा॒ । नरा॑ । इति॑ । जा॒रः । क॒नीनः॑ऽइव । च॒क्ष॒दा॒नः । ऋ॒ज्रऽअ॑श्वः । श॒तम् । एक॑म् । च॒ । मे॒षान् ॥
शुनम् इति सुखनाम । भरं पोषणहेतुभूतं चक्षुरिन्द्रियेण निष्पाद्यं सुखम् अन्धाय दृष्टिहीनाय तस्मै ऋज्राश्वाय इच्छन्ती सा वृकीः हे अश्विनौ अश्वयुक्तौ कृत्स्नं जगत् व्याप्नुवन्तौ वा वृषणा हे वृषणौ कामानां वर्षितारौ इति एवं संबोध्य नरा नेतारौ अश्विनौ अह्वयत् आहूतवती । आह्वयन्त्यास्तस्याः कोऽभिप्राय इति चेत् तदुच्यते । कनीनइव यथा प्राप्तयौवनः कामुकः जारः पारदारिकः सन् परस्त्रियै सर्वं धनं प्रयच्छति एवम् ऋज्राश्वः मह्यं शतमेकं च एकोत्तरशतसंख्याकान् मेषान् पौरजनानां स्वभूतानपहृत्य चक्षदानः शकलीकुर्वन् प्रादात् । तेन ईदृशीं दुर्दशां प्राप्तः इति ॥ कनीनः । युवशब्दात् इष्टनि “ युवाल्पयोः कनन्यतरस्याम् ' ( पा. सू. ५. ३. ६४ ) इति युवशब्दस्य कन्नादेशः । व्यत्ययेन इष्ठनः खादेशः । यद्वा । ‘कन दीप्तिकान्तिगतिषु'। अस्मादौणादिक ईनप्रत्ययः ॥
“(Desiring) that the enjoyment (arising from the perfection) of the senses (should be restored to the blind), the she-wolf invoked you, (saying), "Aśvins, showerers (of benefits), leaders (of sacrifices), Ṛjrāśva, (lavish) as a youthful gallant, (has given me) a hundred and one sheep, cutting them into fragments".”
To bring the blind man joy thus cried the she-wolf: O Asvins, O ye Mighty Ones, O Heroes,
For me Rjrasva, like a youthful lover, hath. cut piecemeal one and a hundred wethers.
O Aśvins, you bulls, that she-wolf summoned good fortune and the winner’s stake for the blind man, saying, “O men!
Like the lover of a maiden is R̥jrāśva (to me), since he butchered a hundred and one sheep.”
Zum Heil dem Blinden schrie dies Wort die Wölfin: »O Ritter, Stiere, Männer«, also sprach sie, »Ridschraçva hat gleichwie ein junger Buhle geschlachtet hundert Widder mir und einen.«
Heil, Gewinn rief die Wölfin, o Bullen Asvin, dem Blinden zu mit den Worten: " Ihr Herren, Rijrasva ist es, der wie ein jugendlicher Liebhaber hundert und einen Widder aufgetischt hat.
Счастье (и) успех прокричала слепому
Эта волчица, о Ашвины, о два быка, (говоря) так:
О два мужа, как юный любовник, отдавший (возлюбленной все, что есть),
Риджрашва (подал) сто одного барана.
म॒ही वा॑मू॒तिर॑श्विना मयो॒भूरु॒त स्रा॒मं धि॑ष्ण्या॒ सं रि॑णीथः । अथा॑ यु॒वामिद॑ह्वय॒त्पुरं॑धि॒राग॑च्छतं सीं वृषणा॒ववो॑भिः ॥
म॒ही । वा॒म् । ऊ॒तिः । अ॒श्वि॒ना॒ । म॒यः॒ऽभूः । उ॒त । स्रा॒मम् । धि॒ष्ण्या॒ । सम् । रि॒णी॒थः॒ । अथ॑ । यु॒वाम् । इत् । अ॒ह्व॒य॒त् । पुर॑म्ऽधिः । आ । अ॒ग॒च्छ॒त॒म् । सी॒म् । वृ॒ष॒णौ॒ । अवः॑ऽभिः ॥
हे अश्विनौ वां युवयोः मही महती ऊतिः पालनं मयोभूः मयसः सुखस्य भावयित्री । उत अपि च हे धिष्ण्या । धिषणा स्तुतिलक्षणा वाक् । तया स्तोतव्यौ स्रामं व्याधितं पुरुषं विश्लिष्टाङ्गम् अत्र्यादिकं सं रिणीथः संगतावयवं कुरुथः। अथ अपि च युवामित् युवामेव पुरंधिः बहुधीः घोषा विश्पला वा अह्वयत् रोगोपशमनार्थम् आहूतवती । हे वृषणौ कामानां वर्षितारौ अश्विनौ अवोभिः रक्षणैः सह आगच्छतम् आभिमुख्येन सीम् एनां प्राप्तवन्तौ ॥ मही महती । छान्दसो वर्णलोपः । यद्वा । महेरौणादिक इन् । 'कृदिकारादक्तिनः' इति ङीष् । मयोभूः । भवतेरन्तर्भावितण्यर्थात् क्विप् । रिणीथः । ‘री गतिरेषणयोः'। क्रैयादिकः ।' प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् ॥
“Aśvins, your powerful protection is the source of happiness; worthy of laudation, you have made whole the maimed; therefore, has the intelligent (Ghoṣā) called upon you; showerers (of benefits) come hither with your succours.”
Great and weal-giving is your aid, O Asvins, ye, objects of all thought, made whole the cripple.
Purandhi also for this cause invoked you, and ye, O mighty, came to her with succours.
Great is your help, a joy itself, o Aśvins. Even the lame one do you draw back together, o holy ones.
And so Plenty called upon just you two, and you two came to her with your help, o bulls.
Gross, segensreich ist, Ritter, eure Hülfe, auch den verrenkten heilt ihr, holdgesinnte; So hat auch einst Purandhi euch gerufen, da kamt, o Stiere, ihr mit Hülfen zu ihr.
Groß ist euer Beistand,, heilsam, ihr Asvin. Auch den Lahmen machet ihr heil, ihr........Darum rief euch die Purandhi; ihr Bullengleiche kamet zu ihr mit Hilfen.
Велика ваша помощь, о Ашвины, целительна.
Даже хромого, о .., вы восстановили.
Вот вас и призывал Пурамдхи.
Вы приезжали к нему, о два быка, с поддержками.
अधे॑नुं दस्रा स्त॒र्यं१॒॑ विष॑क्ता॒मपि॑न्वतं श॒यवे॑ अश्विना॒ गाम् । यु॒वं शची॑भिर्विम॒दाय॑ जा॒यां न्यू॑हथुः पुरुमि॒त्रस्य॒ योषा॑म् ॥
अधे॑नुम् । द॒स्रा । स्त॒र्य॑म् । विऽस॑क्ताम् । अपि॑न्वतम् । श॒यवे॑ । अ॒श्वि॒ना॒ । गाम् । यु॒वम् । शची॑भिः । वि॒ऽम॒दाय॑ । जा॒याम् । नि । ऊ॒ह॒थुः॒ । पु॒रु॒ऽमि॒त्रस्य॑ । योषा॑म् ॥
हे दस्रा दर्शनीयौ अश्विनौ विषक्तां विशेषेण सक्तावयवां कृशावयवामित्यर्थः। अत एव स्तर्यं निवृत्तप्रसवाम् अत एव अधेनुम् अदोग्ध्रीम् एवंभूतां गां शयवे एतत्संज्ञाय ऋषये अपिन्वतं पयसा अपूरयतम् । अपि च पुरुमित्रस्य । पुरुमित्रो नाम कश्चिद्राजा । तस्य योषां कुमारीं शचीभिः आत्मीयैः कर्मभिः विमदाय एतत्संज्ञाय ऋषये शत्रुभिः सह योद्धुमशक्ताय युवां न्यूहथुः विमदस्य गृहं प्रापितवन्तौ ॥ स्तर्यम् । ‘स्तृञ् आच्छादने '। अवितॄस्तृतन्त्रिभ्य ईः' इति ईकारप्रत्ययः । ‘वा छन्दसि' इति अमि पूर्वस्य विकल्पनादभावे यणादेशः । ‘उदात्तस्वरितयोर्यण:०' इति परस्यानुदात्तस्य स्वरितत्वम् । विषक्ताम् । ‘षञ्ज सङ्गे'। कर्मणि निष्ठा । अनिदिताम् । इति नलोपः । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अपिन्वतम् । ‘पिवि सेचने ' । इदित्त्वात् नुम् । भौवादिकः । पुरुमित्रस्य । पुरूणि मित्राणि यस्य । ' संज्ञायां मित्राजिनयोः । (पा. सू. ६. २. १६५) इति बहुव्रीहौ उत्तरपदान्तोदात्तत्वम् ॥ ॥ १६ ॥
“Dasras, you fille dthe milkless, barren, and emaciated cow of Śayu with milk; you brought, by your powers, the daughter of Purumitra, as a wife, of Vimada.”
Ye, Wonder-Workers, filled with milk for Sayu the milkless cow, emaciated, barren;
And by your powers the child of Purumitra ye brought to Vimada to be his consort.
Wondrous Aśvins, you made the drooping, barren cow, no milk-cow, to swell (with milk) for Śayu.
By your powers you carried down to Vimada a wife, the maiden of Purumitra.
Die Kuh, die milchlos, unfruchtbar und gelt war, habt, Ritter, ihr mit Milch gefüllt dem Çaju; Dem Vimada fuhrt ihr mit euren Kräften als Göttin heim des Purumitra Tochter.
Für Sayu machtet ihr Meister Asvin die Kuh, die keine Milch gab, die unfruchtbare, versiegte milchstrotzend. Ihr führtet durch eure Künste dem Vimada die Frau zu, des Purumitra Maid.
О удивительные, немолочную, яловую, истощенную
Корову, вы сделали для Шаю, о Ашвины, набухшей (молоком).
(Своими) силами Вимаде вы привезли
Жену, девицу Пурумитры.
यवं॒ वृके॑णाश्विना॒ वप॒न्तेषं॑ दु॒हन्ता॒ मनु॑षाय दस्रा । अ॒भि दस्युं॒ बकु॑रेणा॒ धम॑न्तो॒रु ज्योति॑श्चक्रथु॒रार्या॑य ॥
यव॑म् । वृके॑ण । अ॒श्वि॒न॒ । वप॑न्ता । इष॑म् । दु॒हन्ता॑ । मनु॑षाय । द॒स्रा॒ । अ॒भि । दस्यु॑म् । बकु॑रेण । धम॑न्ता । उ॒रु । ज्योतिः॑ । च॒क्र॒थुः॒ । आर्या॑य ॥
आर्याय विदुषे । मनुषशब्दो मनुशब्दपर्यायः। मनुषाय मनवे मनोरर्थं हे दस्रा दर्शनीयावश्विनौ वृकेण लाङ्गलेन कर्षकैः कृष्टदेशे यवं यवाद्युपलक्षितं सर्वं धान्यजातं वपन्ता वापयन्तौ तथा इषम् । अन्ननामैतत् । तत्कारणभूतं वृष्टयुदकं च दुहन्ता मेघात् क्षारयन्तौ तथा दस्युम् उपक्षयकारिणमसुरपिशाचादिकं बकुरेण । बकुरो भासमानो वज्रः । तेन अभि धमन्ता । धमतिर्वधकर्मा। अभिघ्नन्तौ एवं त्रिविधं कर्म कुर्वन्तौ युवाम् उरु विस्तीर्णं ज्योतिः स्वकीयं तेजो माहात्म्यं चक्रथुः कृतवन्तौ दर्शितवन्तावित्यर्थः । यद्वा । त्रिविधकर्माचरणेनार्याय विदुषे मनवे विस्तीर्णं सूर्याख्यं ज्योतिश्चक्रथुः कृतवन्तौ । जीवन् हि सूर्यं पश्यति । तद्धेतुभूतानि त्रीणि कर्माणि युवाभ्यां कृतानि इति भावः । अत्र निरुक्तं-- बकुरो भास्करो भयंकरो भासमानो द्रवतीति वा '। ‘यवमिव वृकेणाश्विनौ निवपन्तौ वृको लाङ्गलं भवति विकर्तनात् '(निरु. ६. २५-२६ ) इत्यादिकमनुसंधेयम् ॥ मनुषाय । मनेरौणादिक उषन्प्रत्ययः ॥
“Aśvins, causing the barley to be sown (in the fields that had been prepared) by the plural ugh; milking (the clouds) for the sake of Manu; destroying the Dasyu with the thunderbolt; you have bestowed brilliant light upon the Ārya.”
Ploughing and sowing barley, O ye Asvins, milking out food for men, ye Wonder-Workers,
Blasting away the Dasyu with your trumpet, ye gave far-spreading light unto the Arya.
O Aśvins, wondrous ones, scattering barley by a “wolf” [=a drill plow?], milking out refreshment for the race of Manu,
blasting sound at the Dasyu with a bagpipe, you made wide light for the Ārya.
Die Gerste säend, Ritter, mit dem Pfluge, und Trank dem Menschen melkend, wunderthät'ge! Hinweg Barbaren blasend mit dem Kriegshorn, habt ihr dem Arjer weiten Glanz geschaffen.
Indem ihr mit dem Wolfe Korn sätet und dem Menschen Nahrung herausmolket, ihr Meister, und mit dem Bakura den Dasyu anblieset, habt ihr weites Licht für den Arier bereitet.
Сея зерно, о Ашвины, вспахивая на волке,
Доя для человека подкрепляющий напиток, о удивительные,
Сдувая дасью с помощью бакуры,
Вы создали широкий свет для ария.
आ॒थ॒र्व॒णाया॑श्विना दधी॒चेऽश्व्यं॒ शिर॒: प्रत्यै॑रयतम् । स वां॒ मधु॒ प्र वो॑चदृता॒यन्त्वा॒ष्ट्रं यद्द॑स्रावपिक॒क्ष्यं॑ वाम् ॥
आ॒थ॒र्व॑णाय । अ॒श्वि॒ना॒ । द॒धी॒चे । अश्व्य॑म् । शिरः॑ । प्रति॑ । ऐ॒र॒य॒त॒म् । सः । वा॒म् । मधु॑ । प्र । वो॒च॒त् । ऋ॒त॒ऽयन् । त्वा॒ष्ट्रम् । यत् । द॒स्रौ॒ । अ॒पि॒ऽक॒क्ष्य॑म् । वा॒म् ॥
‘तद्वां नरा सनये' (ऋ. सं. १. ११६. १२) इत्यत्रोक्तमाख्यानमिहाप्यनुसंधेयम् । हे अश्विनौ आथर्वणाय अथर्वणः पुत्राय दधीचे दध्यङ्नाम्ने महर्षये अश्व्यम् अश्वसंबन्धि शिरः प्रत्यैरयतं प्रत्यधत्तम् । तदीयं मानुषं शिरः प्रच्छिद्य अन्यत्र विधाय' अश्व्येन शिरसा तमृषिं समयोजयतमित्यर्थः । सः च वां युवाभ्यां प्रवर्ग्यविद्यां मधुविद्यां च वक्ष्यामीति पुरा कृतां प्रतिज्ञाम् ऋतायन सत्यामात्मन इच्छन् मधु मधुविद्यां त्वाष्ट्रं त्वष्टुरिन्द्राल्लब्धं प्र वोचत् प्रोक्तवान् । हे दस्रौ दर्शनीयावश्विनौ वां युवयोः संबन्धि यत् अपिकक्ष्यं छिन्नस्य यज्ञशिरसः कक्षप्रदेशेन पुनःसंधानभूतं प्रवर्ग्यविद्याख्यं रहस्यं तदपि वां युवाभ्यां प्रावोचदित्यर्थः ॥ दधीचे । अञ्चतेः ‘ऋत्विक इत्यादिना क्विन् । “ अनिदिताम्' इति नलोपः। चतुर्थ्येकवचने ‘अचः' इति अकारलोपे ‘चौ ' इति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण विभक्त्युदात्तत्वे प्राप्ते तस्यापवादत्वेन ‘चौ' इति विभक्तेः पूर्वस्योदात्तत्वं प्राप्तं तस्याप्ययमपवादः । अञ्चेश्छन्दस्यसर्वनामस्थानम् ' इति विभक्त्युदात्तत्वम्॥
“You replaced, Aśvins, with the head of a horse, (the head of) Dadhyañc, the son of Atharvan, and, true to his promise, he revealed to you the mystic knowledge which he had learned from Tvaṣṭā, and which was as a ligature of the waist to you.”
Ye brought the horse's head, Asvins, and gave it unto Dadhyac the offspring of Atharvan.
True, he revealed to you, O Wonder-Workers, sweet Soma, Tvastar's secret, as your girdle.
For Dadhyañc, the son of Atharvan, you substituted the head of a horse, Aśvins.
Speaking the truth, he proclaimed to you Tvaṣṭar’s honey, which was hidden from you, o wondrous ones.
Dem Dadhiank, dem Spross Atharvans, habt ihr den Kopf des Pferdes angesetzt, o Ritter, Der redliche hat euch den Meth des Tvaschtar, den, hehre, ihr im Busen bargt, verkündet.
Dem Dadhyac, dem Atharvansohn, gabt ihr einen Pferdekopf zum Ersatz. Er verriet euch wahrheitsgetreu die tvastrische Süßigkeit, die euch verborgen war, ihr Meister.
Дадхьянчу, о Ашвины, сыну Атхарвана,
Вы приделали конскую голову.
Он, благочестивый, выдал вам (тайну про) мед
Тваштара, что был сокрыт от вас, о удивительные.
सदा॑ कवी सुम॒तिमा च॑के वां॒ विश्वा॒ धियो॑ अश्विना॒ प्राव॑तं मे । अ॒स्मे र॒यिं ना॑सत्या बृ॒हन्त॑मपत्य॒साचं॒ श्रुत्यं॑ रराथाम् ॥
सदा॑ । क॒वी॒ इति॑ । सु॒ऽम॒तिम् । आ । च॒के॒ । वा॒म् । विश्वाः॑ । धियः॑ । अ॒श्वि॒ना॒ । प्र । अ॒व॒त॒म् । मे॒ । अ॒स्मे इति॑ । र॒यिम् । ना॒स॒त्या॒ बृ॒हन्त॑म् । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । र॒रा॒था॒म् ॥
हे कवी क्रान्तदर्शिनौ मेधाविनावश्विनौ वां युवयोः सुमतिं कल्याणीम् अनुग्रहात्मिकां बुद्धिं सदा सर्वदा आ चके आभिमुख्येन प्रार्थये । मे मदीयानि विश्वाः धियः सर्वाणि कर्माणि युवां प्रावतं प्रकर्षेण रक्षतम् । अपि च अस्मे अस्मभ्यं हे नासत्यावश्विनौ बृहन्तं महान्तम् अपत्यसाचम् अपत्यैः पुत्रादिभिः समवेतं श्रुत्यं प्रशंसनीयम् उत्कृष्टं रयिं धनं रराथां प्रयच्छतम् ॥ चके। ‘कै गै शब्दे'। व्यत्ययेनात्मनेपदम् । लिटि उत्तमैकवचने रूपम् । अस्मे । ‘सुपां सुलुक्' इति चतुर्थीबहुवचनस्य शेआदेशः । अपत्यसाचम् । अपत्यैः सह सचते संगच्छते इति अपत्यसाच् । छन्दसो ण्विः । श्रुत्यम् । श्रुतिः स्तुतिः । तत्र भवं श्रुत्यम् । ‘ भवे छन्दसि ' इति यत् । यतोऽनावः' इत्याद्युदातत्वम् । रराथाम् । “ रा दाने '। लोटि व्यत्ययेनात्मनेपदम् ।' बहुलं छन्दसि ' इति शपः श्लुः ॥
“Sapient Aśvins, I ever solicit your favour; protect all my religious duties, and grant, Nāsatyas, abundant and excellent wealth, together with offsprings.”
O Sages, evermore I crave your favour: be gracious unto all my prayers, O Asvins.
Grant me, Nasatyas, riches in abundance, wealth famous and accompanied with children.
Always, o poets, I delight in your favor. Help all my insights, Aśvins. Give us lofty wealth bringing descendants and worthy of fame, o Nāsatyas.
Ich buhle stets um eure Gunst, o Seher, begünstigt, Ritter, alle meine Bitten; Beschenkt, o Treue, uns mit grossem Reichthum berühmtem, der mit Kindern sei gesegnet.
Immerdar habe ich eure Huld, ihr Seher, begehrt. Fördert alle meine frommen Gedanken, o Asvin! Schenkt uns, Nasatya´s, großen Reichtum, von Kindern begleiteten, namhaften!
Всегда, о два поэта, я хотел вашей милости.
Содействуйте, о Ашвины, всем моим поэтическим мыслям!
Даруйте нам, о Насатьи, высокое
Богатство, сопровождаемое потомством, знаменитое!
हिर॑ण्यहस्तमश्विना॒ ररा॑णा पु॒त्रं न॑रा वध्रिम॒त्या अ॑दत्तम् । त्रिधा॑ ह॒ श्याव॑मश्विना॒ विक॑स्त॒मुज्जी॒वस॑ ऐरयतं सुदानू ॥
हिर॑ण्यऽहस्तम् । च॒श्वि॒ना॒ । ररा॑णा । पु॒त्रम् । न॒रा॒ । व॒ध्रि॒ऽम॒त्याः । अ॒द॒त्त॒म् । त्रिधा॑ । ह॒ । श्याव॑म् । अ॒श्वि॒ना॒ । विऽक॑स्तम् । उत् । जी॒वसे॑ । ऐ॒र॒य॒त॒म् । सु॒दा॒नू॒ इति॑ सुऽदानू ॥
रराणा रममाणौ दातारौ वा नरा नेतारौ हे अश्विनौ हिरण्यहस्तं नाम पुत्रं वध्रिमत्या: एतत्संज्ञायै ब्रह्मवादिन्यै अदत्तं प्रायच्छतं ह । अपि च हे सुदानू शोभनदानौ अश्विनौ त्रिधा त्रेधा विकस्तं विच्छिन्नं श्यावाख्यमृषिं जीवसे जीवितुम् उत् ऐरयतम् असुरैः त्रेधा खण्डितं शरीरं पुनरेकीकृत्य उदगमयतमित्यर्थः ॥ रराणा । रमतेः शानचि ‘ बहुलं छन्दसि ' इति शपः श्लुः । व्यत्ययेन मकारस्य आत्वम् । रातेर्वा व्यत्ययेन शानच् । पूर्ववत् श्लुः । वध्रिमत्याः । चतुर्थ्यर्थे ' बहुलं छन्दसि ' इति षष्ठी । जीवसे । “ जीव प्राणधारणे'। तुमर्थे सेसेन्' इति असेप्रत्ययः ॥
“Liberal Aśvins, leaders (of sacrifices), you gave to Vadhṛmati her son Hiraṇyahasta; bounteous Aśvins, you restored to life the triply-mutilated Śyāva.”
With liberal bounty to the weakling's consorts ye, Heroes, gave a son Hiranyahasta;
And Syava, cut into three several pieces, ye brought to life again, O bounteous Asvins.
Giving Hiraṇyahasta [the Gold-Handed One], o Aśvins, you granted him as a son to Vadhrimatī [She Who Has a Steer (for a Husband)], o men. Your raised up Śyāva [the Dark One], who had been split apart in three places, so that he might live, o Aśvins, who bring good gifts.
Hiranjahasta gabt der Vadhrimati als Sohn ihr, Ritter, Helden, Huld gewährend; Den Çjava auch, der dreifach war zerschnitten, habt segensreich ihr hergestellt zum Leben.
Ihr Herren Asvin schenket bereitwillig der Vidhrimati einen Sohn, den Hiranyahasta. Den in drei Teile gespaltenen Syava habt ihr gabenschönen Asvin zum Leben erweckt.
Делая подарки, о Ашвины, вы дали
Вадхримати сына Хираньяхасту, о два мужа.
Разрезанного на целых три части Шьяву, о Ашвины,
Вы, о щедро дарящие, подняли к жизни.
ए॒तानि॑ वामश्विना वी॒र्या॑णि॒ प्र पू॒र्व्याण्या॒यवो॑ऽवोचन् । ब्रह्म॑ कृ॒ण्वन्तो॑ वृषणा यु॒वभ्यां॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
ए॒तानि॑ । वा॒म् । अ॒श्वि॒ना॒ । वी॒र्या॑णि । प्र । पू॒र्व्याणि॑ । आ॒यवः॑ । अ॒वो॒च॒न् । ब्रह्म॑ । कृ॒ण्वन्तः॑ । वृ॒ष॒णा॒ । यु॒वऽभ्या॑म् । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥
अश्विना हे अश्विनौ वां युवयोः संबन्धीनि पूर्व्याणि प्रत्नानि एतानि इदानीं मयोक्तानि वीर्याणि वीरकर्माणि आयवः मनुष्याः मदीयाः पित्रादयः प्र अवोचन् उक्तवन्तः । वयं च हे वृषणा कामाभिवर्षकौ अश्विनौ युवाभ्यां ब्रह्म मन्त्रात्मकं स्तोत्रं कृण्वन्तः कुर्वन्तः सुवीरासः सुवीराः शोभनैः वीरैः पुत्रादिभिरुपेताः सन्तः विदथं यज्ञम् आ वदेम आभिमुख्येन स्तुतीः उच्चारयाम' । यद्वा । विदथं वेदयन्तम् अतिथिं तदपेक्षितप्रदानेन आवदेम आभिमुख्येन प्रियपूर्विकां वाचमुच्चारयाम ॥ कृण्वन्तः । ‘कृवि हिंसाकरणयोश्च'। इदित्त्वात् नुम् । लटः शतृ । धिन्विकृण्व्योर च' इति उप्रत्ययः । अकारान्तादेशश्च । अतो लोपे सति स्थानिवद्भावात् लघूपधगुणाभावः । सुवीरासः । शोभना वीरा येषां ते तथोक्ताः । ‘आज्जसेरसुक्' । वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् । विदथम् । “ विद ज्ञाने'। रुविदिभ्यां कित्' इति अथप्रत्ययः ॥ ॥ १७ ॥
“These, your ancient exploits, Aśvins, our forefathers have celebrated, and we offer adoration to you, showerers (of benefits) repeating your praises, accompanied by our dependants.”
These your heroic exploits, O ye Asvins, done in the days. of old, have men related.
May we, addressing prayer to you, ye Mighty, speak with brave sons about us to the synod.
The sons of Āyu have proclaimed these your ancient heroic deeds, o Aśvins,
creating for you a poetic formulation, o bulls. Obtaining good heroes, we would announce the ritual distribution.
O Ritter, diese eure Heldenthaten, die alten haben laut gerühmt die Menschen, Gebet verrichtend euch, o Helden, werden wir reich an Helden zur Versammlung reden.
Diese früheren Heldentaten von euch, Asvin, haben die Ayu´s verkündet. Euch Erbauung bereitend, ihr Bullengleiche, wollen wir als Meister Weisheit verkünden.
Эти ваши, о Ашвины, прежние
Героические деяния провозгласили Аю.
О два быка, творя вам молитву,
Мы хотим провозгласить жертвенную раздачу, (чтобы иметь) прекрасных мужей!