आ वां॒ रथो॑ अश्विना श्ये॒नप॑त्वा सुमृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् । यो मर्त्य॑स्य॒ मन॑सो॒ जवी॑यान्त्रिवन्धु॒रो वृ॑षणा॒ वात॑रंहाः ॥
आ । वा॒म् । रथः॑ । अ॒श्वि॒ना॒ । श्ये॒नऽप॑त्वा । सु॒ऽमृ॒ळी॒कः । स्वऽवा॑न् । या॒तु॒ । अ॒र्वाङ् । यः । मर्त्य॑स्य । मन॑सः । जवी॑यान् । त्रि॒ऽव॒न्धु॒रः । वृ॒ष॒णा॒ । वात॑ऽरंहाः ॥
हे अश्विनौ वां युवयोः स्वभूतः रथः अर्वाङ् अस्मदभिमुखम् आ यातु आगच्छतु । कीदृशो रथः । श्येनपत्वा । श्येनाः' इत्यश्वनाम । शंसनीयगमनैरश्वैः पतन् गच्छन् । यद्वा । श्येनः पक्षी । स इव शीघ्रं पतन् । सुमृळीकः शोभनसुखयुक्तः स्ववान् धनवान् । हे वृषणौ कामानां वर्षितारावश्विनौ यः युष्मदीयो रथः मर्त्यस्य मनुष्यस्य मनसो जवीयान् अतिशयेन वेगवान् । तद्यथा वेगेन कृत्स्नं जगत् व्याप्नोति ततोऽप्यतिशयेन क्षणमात्रादेव सर्वं जगत् पर्यटतीत्यर्थः । त्रिवन्धुरः । वन्धुरं वेष्टितं सारथेः स्थानम् । त्रिप्रकारेण वन्धुरेण युक्तः वातरंहाः वातस्य वायोः रंहो वेग इव वेगो यस्य स तथोक्तः । अनेन अप्रतिहतगतित्वमुच्यते । स रथ इति पूर्वत्रान्वयः ॥ श्येनपत्वा । ‘पत्लृ गतौ । ‘अन्येभ्योऽपि दृश्यन्ते' इति वनिप् । दासीभारादिः । यद्वा । दृशिग्रहणस्य विध्यन्तरोपसंग्रहार्थत्वात् भावे वनिप् । ततो बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । जवीयान् । जवोऽस्यास्तीति जववान् । अतिशयेन जववान् । आतिशायनिक ईयसुन् । विन्मतोर्लुक् । टेः ' इति टिलोपः ॥
“May your elegant and rich car, swift as a hawk, come, Aśvins, to our presence, fo rit as quick as the mind of man, surmounted, showerers (of benefits) by three columns, and rapid as the wind.”
FLYING, with falcons, may your chariot, Asvins, most gracious, bringing friendly
help, come hither,--
Your chariot, swifter than the mind of mortal, fleet as the wind, three-seated O ye Mighty.
Aśvins, let your falcon-winged chariot journey here toward us—filled with compassion, filled with help—
which is swifter than a mortal’s thought, which has three chariot boxes and the speed of the wind, o bulls.
Es komme her, o Ritter, euer Wagen mit Adlern fahrend, huldverleihend, hülfreich, Der schneller ist als menschliche Gedanken, mit drei Gefässen, windesschnell, o Stiere.
Euer Wagen, ihr Asvin, soll herankommen, mit Adlern liegend, mildtätig, huldreich, der schneller als der Sterblichen Gedanke, dreisitzig windschnell, ihr Bullen.
Ваша колесница, о Ашвины, влекомая летящими орлами,
Столь милосердная, богатая помощью, пусть приедет сюда,
(Та,) что стремительнее, чем мысль смертного,
Трехместная, быстрая, как ветер, о два быка!
त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॑न त्रिच॒क्रेण॑ सु॒वृता या॑तम॒र्वाक् । पिन्व॑तं॒ गा जिन्व॑त॒मर्व॑तो नो व॒र्धय॑तमश्विना वी॒रम॒स्मे ॥
त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृत॑ । रथे॑न । त्रि॒ऽच॒क्रेण॑ । सु॒ऽवृता॑ । आ । या॒त॒म् । अ॒र्वाक् । पिन्व॑तम् । गाः । जिन्व॑तम् । अर्व॑तः । नः॒ । व॒र्धय॑तम् । अ॒श्वि॒ना॒ । वी॒रम् । अ॒स्मे इति॑ ॥
त्रिवन्धुरेण । वन्धुरं सारथिस्थानम् । त्रिप्रकारवन्धुरोपेतेन त्रिवृता त्रिधा वर्तमानेन त्रिचक्रेण चक्रत्रयोपेतेन सुवृता शोभनं गच्छता रथेन अर्वाक् अस्मदभिमुखम् आ यातम् आगच्छतम् । आगत्य च अस्मदीयाः गाः पिन्वतं पयसा पूरयतम् । नः अस्माकम् अर्वतः अश्वान् जिन्वतं प्रीणयतम् । अपि च हे अश्विनौ अस्मे अस्माकं वीरं पुत्रादिकं वर्धयतं प्रवृद्धं कुरुतम् ॥ त्रिचक्रेण । त्रीणि चक्राणि यस्य स तथोक्तः । ‘त्रिचक्रादीनां छन्दस्युपसंख्यानम् । (पा. सू. ६. २. १९९. १ ) इत्युत्तरपदान्तोदात्तत्वम् ॥
“Come to us with your tri-columnar, triangular, three-wheeled, and well-constructed car; replenish our cows (with milk), give spirit to our horses, and augment, Aśvins, our posterity.”
Come to us with your chariot triple seated, three-wheeled, of triple form, that rolleth lightly.
Fill full our cows, give mettle to our horses, and make each hero son grow strong, O Asvins.
Journey toward us by your smooth-turning chariot with its three chariot boxes, with its three wheels, and three turnings.
Swell the cattle (with milk), quicken the chargers, and strengthen the hero for us, o Aśvins.
Kommt her mit eurem Wagen, der drei Sitze, drei Theile hat, drei Räder, schnell dahinrollt, Macht fett die Kühe, eilend unsre Rosse, und unsre Helden machet stark, o Ritter.
Kommet heran auf dem dreisitzigen, dreiteiligen Wagen, dem dreirädrigen, leichtrollenden! Machet unsere Kühe milchstrotzend, die Streitrosse feurig, lasst unsere Mannschaft gedeihen, o Asvin!
На трехместной, трехчастной колеснице,
Трехколесной, быстроходной приезжайте сюда!
Сделайте наших коров набухшими (от молока), скакунов - резвыми!
Увеличьте мужское население среди нас!
प्र॒वद्या॑मना सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रे॑: । किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥
प्र॒वत्ऽया॑मना । सु॒ऽवृता॑ । रथे॑न । द॒स्रौ॒ । इ॒मम् । शृ॒णु॒त॒म् । श्लोक॑म् । अद्रेः॑ । किम् । अ॒ङ्ग । वा॒म् । प्रति॑ । अव॑र्तिम् । गमि॑ष्ठा । आ॒हुः । विप्रा॑सः । अ॒श्वि॒ना॒ । पु॒रा॒ऽजाः ॥
हे दस्रौ दर्शनीयावश्विनौ प्रवद्यामना प्रकृष्टगमनेन शीघ्रगामिना सुवृता शोभनवर्तनेन रथेन आगत्य अद्रेः आदरं कुर्वतः स्तोतुः इमं श्लोकं स्तुतिलक्षणाम् इमां वाचं शृणुतम् । अङ्ग अश्विना हे अश्विनौ पुराजाः पूर्वजाताः चिरंतनाः विप्रासः मेधाविनः वां युवाम् अवर्तिं स्तोतॄणां दारिद्र्यं प्रति तत्परिहर्तुं गमिष्ठा गन्तृतमौ 'आहुः कथयन्ति । किंशब्दः प्रदर्शनफलप्रश्ने वर्तते । किं न कथयन्ति । कथयन्त्येव सर्वे । तथा सति आगन्तव्यमिति ॥ प्रवद्यामना । स्वोपसृष्टे धात्वर्थे वर्तमानात् प्रशब्दात् ' उपसर्गाच्छन्दसि धात्वर्थे ' ( पा. सू. ५. १. ११८) इति वतिः । ‘या प्रापणे '।' आतो मनिन् ' इति बहुलवचनात् भावे मनिन् । ततो बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अद्रेः । ‘दृङ् आदरे ' । आङ्पूर्वात् अस्मादौणादिकः किप्रत्ययः आङो ह्रस्वश्च । गमिष्ठा । गन्तृशब्दात् “ तुश्छन्दसि ' इति इष्ठन् । ‘तुरिष्ठेमेयःसु ' इति तृलोपः । ‘सुपां सुलुक् ।' इति विभक्तेः आकारः । आहुः । प्रत्ययस्वरः । पादादित्वात् निघाताभावः ॥
“Dasras (having come) with your quick-moving well-constructed car, hear this hymn, (recited by one) who reveres you; do not the ancient sages say that you are most prompt, Aśvins, (to avert) poverty from the worshipper?”
With your well-rolling car, descending swiftly, hear this the press-stone's song, ye Wonder-Workers.
How then have ancient sages said, O Asvins, that ye most swiftly come to stay affliction?
Racing headlong by your smooth-turning chariot, wondrous ones, hear this signal-call of the stone.
Have not the inspired poets born long ago said that you are the first to respond to trouble, Aśvins?
Auf schnellem Wagen, der im Schuss herabkommt, vernehmt, o thät'ge, diesen Schall des Presssteins; Warum sonst nennen euch die alten Sänger die besten Helfer in der Noth, o Ritter?
Auf dem in gestrecktem Laufe fahrenden leichtrollenden Wagen höret das Geklapper des Preßsteines, ihr Meister! Warum haben gerade euch, Asvin, die frühgeborenen Redner als die genannt, die am meisten dem Mangel begegnen?
(Мчась) на быстроходной колеснице, чей путь отлог,
Услышьте, о удивительные, этот стук давильного камня!
Не вас ли, о Ашвины, назвали прежде рожденные мудрецы
Скорее всех приходящими (на помощь) в беде?
आ वां॑ श्ये॒नासो॑ अश्विना वहन्तु॒ रथे॑ यु॒क्तास॑ आ॒शव॑: पतं॒गाः । ये अ॒प्तुरो॑ दि॒व्यासो॒ न गृध्रा॑ अ॒भि प्रयो॑ नासत्या॒ वह॑न्ति ॥
आ । वा॒म् । श्ये॒नासः॑ । अ॒श्वि॒ना॒ । व॒ह॒न्तु॒ । रथे॑ । यु॒क्तासः॑ । आ॒शवः॑ । प॒त॒ङ्गाः । ये । अ॒प्ऽतुरः॑ । दि॒व्यासः॑ । न । गृध्राः॑ । अ॒भि । प्रयः॑ । ना॒स॒त्या॒ । वह॑न्ति ॥
हे अश्विनौ रथे युक्तासः सारथिना वहनप्रदेशे योजिताः आशवः व्याप्नुवन्तः पतङ्गाः पतनसमर्थाः श्येनासः शंसनीयगमनाः अश्वाः वां युवाम् आ वहन्तु अस्मत्समीपमानयन्तु । ये अश्वाः अप्तुरः आप इव त्वरोपेताः दिव्यासो न गृध्राः अन्तरिक्षे वर्तमानाः गृध्राख्याः पक्षिण इव शीघ्रं गच्छन्तो हे नासत्यौ युवां प्रयः हविर्लक्षणमन्नम् अभिलक्ष्य वहन्ति प्रापयन्ति । तादृशाः इति पूर्वत्र संबन्धः । अप्तुरः । ‘तुर त्वरणे' । अप्शब्दोपपदात् अस्मात् ‘क्विप् च ' इति क्विप् ॥
“May your quick-moving, prancing steeds, rapid as hawks, yoked to your car, bear you, Aśvins, (hither), who, quick as (falling) water, like vultures flying through the air, convey you, Nāsatyas, to the sacrifice.”
O Asvins, let your falcons bear you hither, yoked to your chariot, swift, with flying pinions,
Which, ever active, like the airy eagles, carry you, O Nasatyas, to the banquet.
Aśvins, let the swift, soaring falcons harnessed to your chariot carry you here—
those that, crossing the waters high in the heavens like vultures, carry you to (our offered) enjoyment.
Euch Ritter mögen her die Adler fahren, die raschen Vögel, die den Wagen ziehen, Und die geschäftig, wie des Himmels Geier euch Treue zum Genuss des Opfers fahren.
Euch, Asvin, sollen die Adler herfahren, die an den Wagen geschirrten, schnellen, fliegenden, die gleich den himmlischen Geiern die Gewässer überholend, euch, Nasatya´s, zum Opfergenuß fahren.
Да привезут вас, о Ашвины, орлы,
Запряженные в колесницу быстрые птицы,
Которые, пересекая воды, словно небесные коршуны,
Привозят вас, о Насатьи, к жертвенной пище!
आ वां॒ रथं॑ युव॒तिस्ति॑ष्ठ॒दत्र॑ जु॒ष्ट्वी न॑रा दुहि॒ता सूर्य॑स्य । परि॑ वा॒मश्वा॒ वपु॑षः पतं॒गा वयो॑ वहन्त्वरु॒षा अ॒भीके॑ ॥
आ । वा॒म् । रथ॑म् । यु॒व॒तिः । ति॒ष्ठ॒त् । अत्र॑ । जु॒ष्ट्वी । न॒रा॒ । दु॒हि॒ता । सूर्य॑स्य । परि॑ । वा॒म् । अश्वाः॑ । वपु॑षः । प॒त॒ङ्गाः । वयः॑ । व॒ह॒न्तु॒ । अ॒रु॒षाः । अ॒भीके॑ ॥
हे नरा नेतारावश्विनौ युवतिः तरुणी सूर्यस्य दुहिता जुष्ट्वी प्रीता सती वां युवयोः अत्र इमं रथम् आ तिष्ठत् आरूढवती । तया सहितौ वां युवाम् अश्वाः अभीके गृहसमीपे तं रथं परि वहन्तु परिप्रापयन्तु । कीदृशा अश्वाः । वपुषः । वपुरिति रूपस्य शरीरस्य वा नामधेयम् । तद्वन्तः । छान्दसो मत्वर्थीयस्य लोपः। पतङ्गाः उत्पतनसमर्थाः वयः गच्छन्तः अरुषाः आरोचमाना हिंसकरहिता वा ॥ अत्र । ‘इतराभ्योऽपि दृश्यन्ते ' ( पा. सू. ५. ३. १४ ) इति दृशिग्रहणात् भवदाद्ययोगेऽपि इदंशब्दात् विभक्त्यर्थे त्रल्प्रत्ययः । जुष्ट्वी । ‘जुषी प्रीतिसेवनयोः । औणादिकः क्तुप्रत्ययः । वोतो गुणवचनात् ' इति ङीष् ॥ ॥ १८ ॥
“Leaders (of sacrifice), the youthful daughter of Sūrya ascended, delighted, this your car; may your strong-bodied prancing, fleet, and shining horses, bring you near uṣ ”
The youthful Daughter of the Sun, delighting in you, ascended there your chariot, Heroes.
Borne on their swift wings let your beauteous horses, your birds of ruddy hue, convey you near us.
Having become pleased, the young girl, the Daughter of the Sun, has now mounted your chariot, o men.
Let the soaring horses of your wonder [=your chariot], let your ruddy birds, carry you at the critical moment.
Auf euern Wagen stieg der Sonne Tochter, die Jungfrau dort, o Helden, voller Freude; Euch mögen nah herbei die Flügelrosse, die wunderschönen rothen Vögel fahren.
Euren Wagen, ihr Herren, bestieg die jugendliche Frau, die Tochter des Surya, da sie daran Gefallen fand. Eure prächtigen fliegenden Rosse, die rötlichen Vögel sollen im rechten Augenblick herumfahren.
Вот на вашу колесницу взошла юница,
Радостно – дочь солнца, о два мужа.
Ваши великолепные летающие кони –
Красноватые птицы да повезут вас кругом в решающую минуту!
उद्वन्द॑नमैरतं दं॒सना॑भि॒रुद्रे॒भं द॑स्रा वृषणा॒ शची॑भिः । निष्टौ॒ग्र्यं पा॑रयथः समु॒द्रात्पुन॒श्च्यवा॑नं चक्रथु॒र्युवा॑नम् ॥
उत् । वन्द॑नम् । ऐ॒र॒त॒म् । दं॒सना॑भिः । उत् । रे॒भम् । द॒स्रा॒ । वृ॒ष॒णा॒ । शची॑भिः । निः । तौ॒ग्र्यम् । पा॒र॒य॒थः॒ । स॒मु॒द्रात् । पुन॒रिति॑ । च्यवा॑नम् । च॒क्र॒थुः॒ । युवा॑नम् ॥
हे अश्विनौ वन्दनम् एतत्संज्ञमृर्षि दंसनाभिः आत्मीयैः कर्मभिः कूपात् उत् ऐरतम् उदैरयतम् उदगमयतम् । हे दस्रा दर्शनीयौ वृषणा कामानां वर्षितारावश्विनौ शचीभिः कर्मभिः रेभम् एतत्संज्ञम् ऋषिं दश रात्रीः नवाहानि च कूपे निवसन्तं तस्मात् उदैरयतम् उदतारयतम् । तथा तौग्र्यं तुग्रस्य पुत्रं भुज्युं समुद्रे निमग्नम् आत्मीयाभिः नौभिः अश्वैश्च समुद्रात् निः पारयथः तीरदेशं प्रापितवन्तौ । तथा च्यवानं च्यवनमृषिं जीर्णं पुनः युवानं यौवनोपेतं चक्रथुः कृतवन्तौ ॥ ऐरतम् । ‘ईर गतौ कम्पने च । ण्यन्तात् लङि ‘छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ‘णेरनिटि ' इति णिलोपः ॥
“By your deeds, Dasras, you raised up Vandanā, and, showerers (of benefits), Rebha; you bore the son of Tugra over the sea, and made Cyavana young.”
Ye raised up Vandana, strong Wonder-Workers! with great might, and with power ye rescued Rebha.
From out the sea ye saved the son of Tugra, and gave his youth again unto Cyavana.
You raised up Vandana through your wondrous powers; o wondrous bulls, (you raised) up Rebha by your powers.
You rescue the son of Tugra from the ocean, and you made Cyavāna youthful again.
Ihr hobt heraus den Vandana durch Wunder, mit Kraft den Rebha, wunderbare Helden! Den Sohn des Tugra fuhrt ihr aus dem Meere und gabt die Jugend dem Tschjavana wieder.
Den Vandana holtet ihr mit Meisterkunst, den Rebha mit Geschick heraus, ihr Meister, ihr Bullen. Den Tugrasohn errettet ihr aus dem Meer, den Cyavana habt ihr wieder jung gemacht.
Вы выручили Вандану (своими) чудесными силами,
Вы(ручили) Ребху, о два удивительных быка, проявлениями могущества.
Вы спасаете из моря сына Тугры.
Вы сделали вновь юным Чьявану.
यु॒वमत्र॒येऽव॑नीताय त॒प्तमूर्ज॑मो॒मान॑मश्विनावधत्तम् । यु॒वं कण्वा॒यापि॑रिप्ताय॒ चक्षु॒: प्रत्य॑धत्तं सुष्टु॒तिं जु॑जुषा॒णा ॥
यु॒वम् । अत्र॑ये । अव॑ऽनीताय । त॒प्तम् । ऊर्ज॑म् । ओ॒मान॑म् । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् । यु॒वम् । कण्वा॑य । अपि॑ऽरिप्ताय । चक्षुः॑ । प्रति॑ । अ॒ध॒त्त॒म् । सु॒ऽष्टु॒तिम् । जु॒जु॒षा॒णा ॥
हे अश्विनौ युवं युवाम् अवनीताय शतद्वारे पीडायन्त्रगृहे अवस्तान्नीताय अत्रये तप्तं पीडार्थं प्रक्षिप्तं तुषाग्निं शीतेनोदकेन अवारयेथाम् । अपि च अस्मै अत्रये ओमानं सुखकरम् ऊर्जं रसवदन्नम् अधत्तं प्रायच्छतम् । तथा सुष्टुतिं शोभनां स्तुतिं जुजुषाणा सेवमानौ युवाम् अपिरिप्ताय असुरैः ब्राह्मण्यपरीक्षार्थम् इहासीनः सन् व्युष्टामुषसं जानीहि इति अन्धकारवति गृहे प्रवेशिताय कण्वाय ऋषये चक्षुः व्युष्टायाः उषसः प्रकाशकं वीणाशब्दं प्रत्यधत्तं कृतवन्तौ । यद्वा । अपिरिप्ताय अपिलिप्ताय पटलेन पिहितदृष्ट्ये एवंविधाय कण्वाय चक्षुरिन्द्रियं प्रत्यधत्तं प्रत्यस्थापयतम् ॥ ओमानम्। अवतेरौणादिको मनिः । ‘ज्वरत्वर' ' इत्यादिना वकारस्य उपधायाश्च ऊठ् । गुणः । अपिरिप्ताय । ‘लिप उपदेहे ' । अस्मात् कर्मणि निष्ठा । कपिलकादित्वात् लत्वविकल्पः । ‘गतिरतन्तरः' इति गतेः प्रकृतिस्वरत्वम् । जुजुषाणा । जुषी प्रीतिसेवनयोः '। छान्दसो लिट् ।' लिटः कानज्वा । ‘सुपा सुलुक्° ' इति विभक्तेः आकारः ॥
“You (gave relief) to the imprisoned Atri, (quenching the) scorching heat, and fed him with grateful food; solicitous of worthy praise, you gave sight of Kaṇva, blinded (by darkness).”
To Atri, cast down to the fire that scorched him, ye gave, O Asvins, strengthening food and favour.
Accepting his fair praises with approval, ye gave his eyes again to blinded Kanva.
You granted nourishment and relief to Atri, who was led down into the scorching (earth cleft).
Having found pleasure in his good praise, in return you granted sight to Kaṇva, whose eyes were pasted shut.
Dem Atri, der in Feuersglut versenkt war, gabt ihr, o Ritter, Stärkung und Erquickung, Dem Kanva, der geblendet, gabt ihr wieder das Auge, seinen Lobgesang vernehmend.
Ihr Asvin habt dem Atri, der in die heiße Glut hinabgeführt war, Stärkung und ein Schutzmittel gebracht. Ihr gabt dem verklebten Kanva das Augenlicht wieder, an seinem Loblied gefallen findend.
Атри, совлеченному вниз в пылающее (пекло),
Вы, о Ашвины, доставили подкрепление (и) помощь.
Канве, ослепленному, вы вновь вернули
Зрение, наслаждаясь (его) хвалебной песнью.
यु॒वं धे॒नुं श॒यवे॑ नाधि॒तायापि॑न्वतमश्विना पू॒र्व्याय॑ । अमु॑ञ्चतं॒ वर्ति॑का॒मंह॑सो॒ निः प्रति॒ जङ्घां॑ वि॒श्पला॑या अधत्तम् ॥
यु॒वम् । धे॒नुम् । श॒यवे॑ । ना॒धि॒ताय॑ । अपि॑न्वतम् । अ॒श्वि॒ना॒ । पू॒र्व्याय॑ । अमु॑ञ्चतम् । वर्ति॑काम् । अंह॑सः । निः । प्रति॑ । जङ्घा॑म् । वि॒श्पला॑याः । अ॒ध॒त्त॒म् ॥
अश्विना हे अश्विनौ युवं युवां पूर्व्याय पुरातनाय नाधिताय याचमानाय शयवे एतत्संज्ञाय ऋषये धेनुं निवृत्तप्रसवाम् अदोग्ध्रीम् अपिन्वतं पयसा असिञ्चतम् । सर्वदा पयस्विनीमकुरुतमित्यर्थः । अपि च वर्तिकां वृकेण ग्रस्तां चटकसदृशीं शकुनिम् अंहसः वृकास्यलक्षणात् पापात् निः अमुञ्चतं निरमोचयतम् । यद्वा । पुनःपुनर्वर्तते इति वर्तिका उषाः । तामादित्येनाभिग्रस्तां युवाममोचयतम् । तथा विश्पलायै संग्रामे छिन्नजङ्घायै अगस्त्यपुरोहितस्य खेलस्य संबन्धिन्यै एतत्संज्ञायै स्त्रियै आयसीं जङ्घां प्रति अधत्तं प्रत्यस्थापयतं समयोजयतमित्यर्थः ॥
“You filled his cow with milk, Aśvins, for the ancient Śayu, when imploring (yoru aid); you liberated the quail from danger; you gave a leg to Viśpalā.”
For ancient Sayu in his sore affliction ye caused his cow to swell with milk, O Asvins.
The quail from her great misery ye delivered, and a new leg for Vispala provided.
You swelled the cow (with milk) for Śayu of long ago, who needed help, o Aśvins.
You released the quail-hen from tight straits, and you inserted a shank for Viśpalā.
Ihr Ritter habt dem Çaju, als er flehte, die Kuh mit Milch gefüllt in alten Zeiten; Die Wachtel habt ihr aus der Noth erlöset, ein neues Bein der Viçpala gegeben.
Ihr Asvin habt ehedem dem in Not geratenen Sayu die Kuh milchstrotzend gemacht. Die Wachtel habt ihr aus Drangsal befreit. Der Vispala setztet ihr das Bein wieder an.
Для Шаю, некогда впавшего в нужду,
Вы сделали корову набухшей (от молока), о Ашвины.
Вы освободили перепелку из беды.
Вишпале вы приделали ногу.
यु॒वं श्वे॒तं पे॒दव॒ इन्द्र॑जूतमहि॒हन॑मश्विनादत्त॒मश्व॑म् । जो॒हूत्र॑म॒र्यो अ॒भिभू॑तिमु॒ग्रं स॑हस्र॒सां वृष॑णं वी॒ड्व॑ङ्गम् ॥
यु॒वम् । श्वे॒तम् । पे॒दवे॑ । इन्द्र॑ऽजूतम् । अ॒हि॒ऽहन॑म् । अ॒श्वि॒ना॒ । अ॒द॒त्त॒म् । अश्व॑म् । जो॒हूत्र॑म् । अ॒र्यः । अ॒भिऽभू॑तिम् । उ॒ग्रम् । स॒ह॒स्र॒ऽसाम् । वृष॑णम् । वी॒ळुऽअ॑ङ्गम् ॥
अश्विना हे अश्विनौ पेदवे पेदुनाम्ने राज्ञे युवं युवां श्वेतवर्ण कंचित् अश्वम् अदत्तं प्रयच्छतम् । कीदृशम् । इन्द्रजूतम् इन्द्रेण युवाभ्यां गमितं दत्तमित्यर्थः । अहिहनम् शत्रूणां हन्तारं 'जोहूत्रम् अतिशयेन संग्रामेष्वाह्वातारम् अर्यः अरेः शत्रोः अभिभूतिम् अभिभावुकम् उग्रम् उद्गूर्णम् वीर्यवन्तमित्यर्थः। सहस्रसां सहस्रसंख्याकस्य धनस्य संभक्तारं दातारं वा वृषणं सेक्तारं युवानमित्यर्थः। वीडङ्गं दृढाङ्गम् ॥ इन्द्रजूतम् । जु इति सौत्रो धातुर्गत्यर्थः । अस्मादन्तर्भावितण्यर्थात् कर्मणि निष्ठा । ‘तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । जोहूत्रम् । ह्वयतेर्यङ्लुगन्तात् औणादिकः त्रप्प्रत्ययः। प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । अर्यः । अरिशब्दात् षष्ठ्येकवचने ‘ जसादिषु च्छन्दसि वावचनम् ' इति ‘घेर्ङिति' इति गुणस्य विकल्पितत्वादभावे यणादेशः । ‘उदात्तयण:०' इति विभक्तेरुदात्तस्वम् । अभिभूतिम् । अभिभूयतेऽनेनेत्यभिभूतिः । करणे क्तिन् । ‘तादौ च ' इति गतेः प्रकृतिस्वरत्वम् । सहस्रसाम् । सनोतेः सनतेर्वा जनसनखन ' इति विट् । विड्वनोरनुनासिकस्यात्' इति आत्वम् ॥
“You gave to Pedu, Aśvins, the white and foe-trampling steed which you had received from Indra, loud-neighing (in battle), defying enemies, high-spirited, the acquirer of a thousand tresures, vigorous, and firm in body.”
A white horse, Asvins, ye bestowed on Pedu, a serpent-slaying steed sent down by Indra,
Loud-neighing, conquering the foe, high-mettled, firm-limbed and vigorous, winning thousand treasures.
You gave to Pedu the serpent-smashing white horse, sped by Indra, o Aśvins—
the overwhelming, powerful (horse), repeatedly called upon by
the stranger, the strong-limbed bull that wins a thousand
(cattle).
Ihr Ritter gabt das weisse Ross dem Pedu das Schlangen tödtet, angespornt von Indra, Das wiehernde, den mächt'gen Feindbezwinger, den gliederstarken Hengst, den beutereichen.
Ihr Asvin habt dem Pedu das von Indra befeuerte schlangentötende weiße Roß geschenkt, das von dem hohen Herrn anzurufen ist, das überlegene, gewaltige, tausendgewinnende, bullengleiche mit festen Gliedern.
Вы подарили Педу белого коня,
Погоняемого Индрой, убивающего змей, о Ашвины,
Достойного призывов (даже) чужого, превосходящего (всех), грозного,
Завоевывающего тысячи, быка с крепкими членами.
ता वां॑ नरा॒ स्वव॑से सुजा॒ता हवा॑महे अश्विना॒ नाध॑मानाः । आ न॒ उप॒ वसु॑मता॒ रथे॑न॒ गिरो॑ जुषा॒णा सु॑वि॒ताय॑ यातम् ॥
ता । वा॒म् । न॒रा॒ । सु । अव॑से । सु॒ऽजा॒ता । हवा॑महे । अ॒श्वि॒ना॒ । नाध॑मानाः । आ । नः॒ । उप॑ । वसु॑ऽमता । रथे॑न । गिरः॑ । जु॒षा॒णा । सु॒वि॒ताय॑ । यातम् ॥
नरा नेतारौ हे अश्विनौ सुजाता शोभनजन्मानौ ता वां तौ युवां नाधमानाः धनं याचमानाः वयं स्तोतारः अवसे रक्षणार्थं सु हवामहे शोभनमाहृयामहे । गिरः स्तुतीः जुषाणा सेवमानौ युवां वसुमता धनयुक्तेन रथेन नः अस्मान् उप आ यातम् उपागच्छतम् । किमर्थम् । सुविताय सुष्ठु प्राप्तव्याय धनाय सुखाय वा ॥ सुजाता । शोभनं जातं जन्म ययोस्तौ सुजातौ । ‘सुपां सुलुक् ' इति विभक्तेराकारः । ऩञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । नाधमानाः । नाधृ याञ्चायाम् । जुषाणा । जुषी प्रीतिसेवनयोः '। ताच्छीलिकः चानश् । तुदादित्वात् शः । पूर्ववद्विभक्तेराकारः । सुविताय । सुपूर्वात् एतेः कर्मणि निष्ठा । तन्वादित्वात् उवङ्। ‘सूपमानात् क्तः' इत्युत्तरपदान्तोदात्तत्वम् ॥
“Earnestly we call you, leaders (of the sacrifice), such (as you have been described), and who are well born, to our succour, soliciting, Aśvins, wealth; contented with our laudations, come to us with your wealthy car, to brign us felicity.”
Such as ye are, O nobly born, O Heroes, we in our trouble call on you for succour.
Accepting these our songs, for our wellbeing come to us on your chariot treasure-laden.
Needing help ourselves, o men, we call on you, who are nobly born, for aid, o Aśvins.
Finding pleasure in our songs, journey here to us by your chariot
bearing goods for our safe passage.
Drum rufen wir euch, schöngeborne Helden, um Hülfe an, o Ritter, euch erflehend, O kommt zu uns mit schatzbeladnem Wagen zum Wohlergehn euch unsrer Lieder freuend.
So rufen wir euch beide, die Edlen, schutzbedürftig fein um Beistand an, ihr Herren Asvin. Kommet zu uns auf schätzebeladenem Wagen zum Wohlergehen und freuet euch an den Lobesworten!
Это вас, двоих прекраснорожденных мужей, о Ашвины,
Мы призываем на помощь, нуждаясь в защите.
Приезжайте к нам на полной сокровищ колеснице,
Радуясь хвалебным песням, для (нашего) благополучия!
आ श्ये॒नस्य॒ जव॑सा॒ नूत॑नेना॒स्मे या॑तं नासत्या स॒जोषा॑: । हवे॒ हि वा॑मश्विना रा॒तह॑व्यः शश्वत्त॒माया॑ उ॒षसो॒ व्यु॑ष्टौ ॥
आ । श्ये॒नस्य॑ । जव॑सा । नूत॑नेन । अ॒स्मे इति॑ । य॒त॒म् । ना॒स॒त्या॒ । स॒जोषाः॑ । हवे॑ । हि । वा॒म् । अ॒श्वि॒ना॒ । रा॒तऽह॑व्यः । श॒श्व॒त्ऽत॒मायाः॑ । उ॒षसः॑ । विऽउ॑ष्टौ ॥
हे नासत्यावश्विनौ सजोषाः सजोषसौ समानप्रीतियुक्तौ श्येनस्य शंसनीयं गच्छतः अश्वस्य नूतनेन नवतरेण प्रत्यग्रेण जवसा वेगेन सहितौ युवाम् अस्मे अस्मान् आ यातम् आगच्छतम्। अश्विना हे अश्विनौ रातहव्यः वां युवाभ्यां दातव्येन हविषा युक्तः सन् शश्वत्तमायाः कालात्मकतया नित्यायाः उषसो व्युष्टौ विवासनसमये वां युवां हवे आह्वयामि । हिः हेतौ । हि यस्मादेवं तस्मात् आयातमित्यर्थः ॥ अस्मे । ‘सुपां सुलुक् ' इति शसः शेआदेशः । सजोषाः ॥ तेनैव द्विवचनस्य सुआदेशः। हवे । ह्वेञो लडुत्तमैकवचने ‘बहुलं छन्दसि' इति संप्रसारणम् । शब्गुणावादेशाः । शश्वत्तमायाः। ‘उत्तमशश्वत्तमौ सर्वत्र' (पा. सू. ६. १. १६०. ग. ) इति उञ्छादिषु पाठात् अन्तोदात्तत्वम् ॥ ॥ १९ ॥
“Come to us, auspicious Nāsatyas, with the fresh velocity of a hawk; bearing an oblation, I invoke you, Aśvins, at the rising of the ever constant dawn.”
Come unto us combined in love, Nasatyas come with the fresh swift vigour of the falcon.
Bearing oblations I invoke you, Asvins, at the first break of everlasting morning.
Of one accord, Nāsatyas, journey here to us with the fresh speed of a falcon,
for, as one who has given an oblation, I call upon you, Aśvins, at the break of the newest dawn of all.
O Treue, kommet mit des Adlers Schnelle, der neusten her zu uns, ihr engverbundnen, Denn Opfer bringend ruf' ich euch, ihr Ritter, beim Aufgang jeder neusten Morgenröthe.
Kommet mit der frischen Schnelligkeit des Adlers einträchtig zu uns, ihr Nasatya´s, denn ich rufe euch Asvin an unter Opferspenden bei Aufgang der Morgenröte, die zum vielten Male da ist.
С мгновенной скоростью орла
Приезжайте к нам, о Насатьи, единодушные!
Ведь я зову вас, о Ашвины, совершив жертвенные возлияния
На восходе вновь и вновь наступающей утренней зари.