आ वां॒ रथं॑ पुरुमा॒यं म॑नो॒जुवं॑ जी॒राश्वं॑ य॒ज्ञियं॑ जी॒वसे॑ हुवे । स॒हस्र॑केतुं व॒निनं॑ श॒तद्व॑सुं श्रुष्टी॒वानं॑ वरिवो॒धाम॒भि प्रय॑: ॥
आ । वा॒म् । रथ॑म् । पु॒रु॒ऽमा॒यम् । म॒नः॒ऽजुव॑म् । जी॒रऽअ॑श्वम् । य॒ज्ञिय॑म् । जी॒वसे॑ । हु॒वे॒ । स॒हस्र॑ऽकेतुम् । व॒निन॑म् । श॒तत्ऽव॑सुम् । श्रु॒ष्टी॒ऽवान॑म् । व॒रि॒वः॒ऽधाम् । अ॒भि । प्रयः॑ ॥
हे अश्विनौ वां युवयोः रथं जीवसे जीवनार्थं प्रयः हविर्लक्षणमन्नमभिलक्ष्य आ हुवे आह्वयामि । कीदृशम् । पुरुमायं बहुविधाश्चर्यं बहुविधकर्माणं वा मनोजुवं मन इव शीघ्रं गच्छन्तं जीराश्वं जववदश्वोपेतं यज्ञियं यज्ञेष्वाह्वातुमर्हं सहस्रकेतुम् अनेकध्वजं सहस्रस्य धनस्य केतयितारं ज्ञापयितारं वा वनिनम् । वनमित्युदकनाम । तद्वन्तम् । शतद्वसुं शतसंख्याकैर्धनैर्युक्तं श्रुष्टीवानम् । श्रुष्टीति क्षिप्रनाम । क्षिप्रं संभजमानं यद्वा सुखवन्तम् । वरिवोधाम् । वरिव इति धननाम । वरिवसो धनस्य दातारम् ॥ पुरुमायम् । बहुव्रीहौ त्रिचक्रादित्वादन्तोदात्तत्वम् । यद्वा । तत्पूर्वात् अर्शआदित्वात् अच् । जीराश्वम् । जु इति गत्यर्थः सौत्रो धातुः ।' जोरी च ' ( उ. सू. २. १८१ ) इति रक् ईकारान्तादेशश्च । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यज्ञियम् । “ यज्ञर्त्विग्भ्यां घखञौ ' इति अर्हार्थे घप्रत्ययः । हुवे । ह्वेञो लटि ' बहुलं छन्दसि ' इति संप्रसारणम् । ‘लुक्' इत्यनुवृत्तौ छन्दसि ' इति शपो लुक् । उवङ् । शतद्वसुम् । शतवसुम् । छान्दसस्तकारोपजनः ॥
“Desiringfood, I invoke, (Aśvins), to support my life, your wonderful car, swift as thought, drawn by fleet horses, worthy of veneration, many-bannered, bringing rain, containing wealth, abundantly yielding delight, and conferring riches.”
HITHER, that I may live, I call unto the feast your wondrous car, thought-swift, borne on by rapid steeds.
With thousand banners, hundred treasures, pouring gifts, promptly obedient, bestowing ample room.
I summon your chariot with its many wiles, swift as thought, with speeding horses, and worthy of the sacrifice, in order for us
to live—
the winning (chariot) of a thousand banners, bringing hundreds of good things, obedient to command, and creating wide space—toward (our offered) enjoyment.
Zum Heile ruf' ich euern heil'gen Wagen her, dess Rosse rasch, der zauberreich, gedankenschnell, Mit tausend Strahlen, hundert Gütern, gabenreich zum Mahle kommt, willfährig, reichen Segen schafft.
Euren verwandlungsreichen Wagen, den gedankenschnellen mit raschen Rossen, den verehrungswürdigen rufe ich zum Leben, den mit tausend Bannern, den sieggewohnten mit hundert Gütern, den gehorchenden, heilbringenden, zum Opfergenuß.
Вашу колесницу со многими чудесными превращениями, стремительную, как мысль,
С быстрыми конями, достойную жертв, я зову для жизни,
С тысячью знамен, щедрую (?), несущую сотню благ,
Послушную, дающую простор, – для жертвенной пищи.
ऊ॒र्ध्वा धी॒तिः प्रत्य॑स्य॒ प्रया॑म॒न्यधा॑यि॒ शस्म॒न्त्सम॑यन्त॒ आ दिश॑: । स्वदा॑मि घ॒र्मं प्रति॑ यन्त्यू॒तय॒ आ वा॑मू॒र्जानी॒ रथ॑मश्विनारुहत् ॥
ऊ॒र्ध्वा । धी॒तिः । प्रति॑ । अ॒स्य॒ । प्रऽया॑मनि । अधा॑यि । शस्म॑न् । सम् । अ॒य॒न्ते॒ । आ । दिशः॑ । स्वदा॑मि । घ॒र्मम् । प्रति॑ । य॒न्ति॒ । ऊ॒तयः॑ । आ । वा॒म् । ऊ॒र्जानी॑ । रथ॑म् । अ॒श्वि॒ना॒ । अ॒रु॒ह॒त् ॥
अस्य रथस्य प्रयामनि प्रयाणे प्रगमने सति शस्मन् अश्विनोः शंसने स्तवने धीतिः अस्मदीया बुद्धिः ऊर्ध्वा उन्मुखा प्रति अधायि प्रत्यस्थायि । तदनन्तरं दिशः देष्टव्याः स्तुतयोऽपि समयन्ते अश्विभ्यां संगच्छन्ते । आकारः समुच्चये । अहं च स्तोता घर्मं महावीरस्थं यद्वा क्षरणशीलाज्यादिकं हविः स्वदामि स्वादूकरोमि । ऊतयः अवितारः रक्षका ऋत्विजश्च प्रति यन्ति । घर्मं प्रति गच्छन्ति संस्कारार्थम् । अपि च हे अश्विनौ वां युवयोः रथम् ऊर्जानी सूर्यस्य दुहिता आ अरुहत् आरूढवती ॥ प्रयामनि ।' या प्रपणे'। आतो मनिन् ' इति ‘कृत्यल्युटो बहुलम् ' इति बहुलवचनात् भावे मनिन् । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । शस्मन् । 'शंसु स्तुतौ '। ‘अन्येभ्योऽपि दृश्यन्ते' इति मनिन्। दृशिग्रहणस्य विध्यन्तरोपसंग्रहार्थत्वात् उपधानकारलोपः। ‘सुपां सुलुक् ' इति सप्तम्या लुक् । अयन्ते । ‘अय पय गतौ ' । भौवादिकः अनुदात्तेत् । ऊतयः । ‘क्तिच्क्तौ च संज्ञायाम् ' इति अवतेः कर्तरि क्तिच् । ज्वरत्वर' इत्यादिना वकारोपधयोः ऊठ । अरुहत् ।' कृमृदृरुहिभ्यः' इति च्लेः अङादेशः ॥
“Upon its moving, our minds have been raised on high in praise; our hymns reach (the Aśvins). I sweeten the oblation; the assistants come nigh; Ūrjāni, (the daughter of the sun), has ascended, Aśvins, your car.”
Even as it moveth near my hymn is lifted up, and all the regions come together to sing praise.
I sweeten the oblations; now the helpers come. Urjani hath, O Asvins, mounted on your car.
At its journey our lofty insight has been aimed at your praise. (Our praises, going) in (all) directions, converge (upon you).
I sweeten the hot milk; your help comes in return. Ūrjānī [=Sūryā] has mounted your chariot, Aśvins.
Bei seiner Ankunft ragt die Andacht hoch empor auf des Gesanges Sitz, und alles strömt herbei; Ich mache süss den warmen Trank, Genüsse nahn, auf euerm Wagen, Ritter, nahm die Stärkung Platz.
Das emporgerichtete Nachdenken ist bei seiner Ausfahrt auf euern Preis gerichtet. Nach allen Seiten gehen meine Gedanken. Ich bereite euch heißen Milchtrank. Die Schutzgeister stellen sich ein, die Urjani hat euren Wagen bestiegen, ihr Asvin.
Поэтическая мысль, устремленная вверх при выезде ее,
Направлена на восхваление. (Все) стороны света сошлись, (прославляя вас).
Я делаю вкусным горячее молоко. Приходят подкрепления.
Питательная сила, о Ашвины, поднялась на вашу колесницу.
सं यन्मि॒थः प॑स्पृधा॒नासो॒ अग्म॑त शु॒भे म॒खा अमि॑ता जा॒यवो॒ रणे॑ । यु॒वोरह॑ प्रव॒णे चे॑किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वर॑म् ॥
सम् । यत् । मि॒थः । प॒स्पृ॒धा॒नासः॑ । अग्म॑त । शु॒भे । म॒खाः । अमि॑ताः । जा॒यवः॑ । रणे॑ । यु॒वोः । अह॑ । प्र॒व॒णे । चे॒कि॒ते॒ । रथः॑ । यत् । अ॒श्वि॒ना॒ । वह॑थः । सू॒रिम् । आ । वर॑म् ॥
मखाः मखवन्तो यज्ञोपेताः अमिताः अपरिमिताः जायवः जयशीलाः मनुष्याः रणे संग्रामे शुभे शोभनाय धनाय तदर्थं मिथः पस्पृधानासः अन्योन्यं स्पर्धमानाः यत् यदा सम् अग्मत संगच्छन्ते तदानीं हे अश्विना अश्विनौ युवोरह युवयोरेव रथः प्रवणे प्रकर्षेण संभजनीये भूतले चेकिते ज्ञायते । देवेषु मध्ये युवामेव रक्षणार्थं शीघ्रं रथेनागच्छथः इत्यर्थः । यत् येन रथेन सूरिं स्तोतारं प्रति वरं श्रेष्ठं धनम् आ वहथः प्रापयथः स रथः इत्यर्थः ॥ पस्पृधानासः ।' स्पर्ध संघर्षे '। छान्दसो लिट् । तस्य लिटः कानजादेशः । छान्दसं रेफस्य संप्रसारणमकारलोपश्च । अग्मत । गमेश्छान्दसो लङ्। समो गम्यृच्छि” ' इत्यादिना आत्मनेपदम् । ‘बहुलं छन्दसि ' इति शपो लुक् । झस्य अदादेशः । ‘गमहन ' इति उपधालोपः । मखाः । मखो यज्ञः । अर्शआदित्वात् अच् । जायवः । ‘जि जये। कृवापाजि ' इत्यादिना उण् । चेकिते। ‘कित ज्ञाने' । अस्मात् यङन्तात् छान्दसो वर्तमाने लिट् । अतोलोपयलोपौ । यत् । ‘सुपां सुलुक्' इति तृतीयाया लुक् ॥
“When devout and unnumbered (men), victorious in battle, mutually contending for wealth, come together, your car, Aśvins, is perceived on its downward course, in which you bear excellent (treasure) to the worshipper.”
When striving man with man for glory they have met, brisk, measureless, eager for victory in fight,
Then verily your car is seen upon the slope when ye, O Asvins, bring some choice boon to the prince.
When, contending with each another, they have clashed with one another for beauty—(those) innumerable combatants, victorious in battle—
then your chariot appears ever brighter in its steep descent, when you convey the patron according to his will, Aśvins.
Wenn Helden unermesslich, siegreich in der Schlacht zum Glanze eilen um die Wette eifervoll, Dann zeigt sich euer Wagen auf der jähen Bahn, wenn ihr, o Ritter, Güter zu dem Fürsten fahrt.
Als im gegenseitigen Wettstreit die reichen Herren um zu prunken in unermeßlicher Zahl zusammengekommen waren, die im Kampfe siegreichen, da tat sich euer Wagen in rascher Fahrt hervor, da ihr Asvin die Herrin nach Wunsch fahret.
Когда сошлись, состязаясь друг с другом
Для блеска, бесчисленные соперники, победоносные в битве,
Показалась движущаяся под уклон ваша колесница,
Когда, о Ашвины, вы катаете госпожу для развлечения.
यु॒वं भु॒ज्युं भु॒रमा॑णं॒ विभि॑र्ग॒तं स्वयु॑क्तिभिर्नि॒वह॑न्ता पि॒तृभ्य॒ आ । या॒सि॒ष्टं व॒र्तिर्वृ॑षणा विजे॒न्यं१॒॑ दिवो॑दासाय॒ महि॑ चेति वा॒मव॑: ॥
यु॒वम् । भु॒ज्युम् । भु॒रमा॑णम् । विऽभिः॑ । ग॒तम् । स्वयु॑क्तिऽभिः । नि॒ऽवह॑न्ता । पि॒तृऽभ्यः॑ । आ । या॒सि॒ष्टम् । व॒र्तिः । वृ॒ष॒णा॒ । वि॒ऽजे॒न्य॑म् । दिवः॑ऽदासाय । महि॑ । चे॒ति॒ । वा॒म् । अवः॑ ॥
वृषणा कामानां वर्षितारौ हे अश्विनौ युवं युवां भुरमाणं विभिः अश्वैः भ्रियमाणं गतं समुद्रे निमग्नं भुज्युं तुग्रपुत्रं स्वयुक्तिभिः स्वयमेव युज्यमानैः अश्वैः नौविशेषैश्च निवहन्ता नितरां वहन्तौ पितृभ्य आ ।' आङ् मर्यादायाम् । यत्र पितरस्तुग्रादय असते तावत्पर्यन्तम्' इत्यर्थः । विजेन्यम् इति दूरस्थं ब्रुवते । दूरे वर्तमानं वर्तिः तुग्रस्य गृहं प्रति यासिष्टम् अगच्छतम् । अपि च दिवोदासाय राज्ञे कृतं युवयोः संबन्धि अवः रक्षणं शम्बरहननरूपं महि महत् गम्भीरं चेति अस्माभिर्जायते ॥ भुरमाणम् ।' डुभृञ् धारणपोषणयोः । कर्मणि लटः शानच् । व्यत्ययेन शः । ‘बहुलं छन्दसि ' इति उत्वम् । पितृभ्य आ । मर्यादायाम् आङः कर्मप्रवचनीयसंज्ञा (पा. सू. १. ४. ८९ )। पञ्चम्यपाङ्परिभिः ' ( पा. सू. २. ३. १०) इति पञ्चमी । यासिष्टम् । ' या प्रापणे '। ‘यमरमनमातां सक्च' ( पा. सू. ७. २. ७३ ) इति सगागमः । सिच इडागमः । विजेन्यम् । विजनो दूरदेशः । तत्र भवं विजेन्यम् । “ भवे छन्दसि ' इति यत् । तित्स्वरितम्' इति स्वरितत्वम् ॥
“You brought back to his ancestor (Bhujyu, who, borne by his own steeds, had perished), (but that you rescued him) with your self-harnessed horses, and sent showerers (o fbenefits), to his distant dwellign; and great was the succour whichit is know you rendered to Divodāsa.”
Ye came to Bhujyu while he struggled in the flood, with flying birds, self-yoked, ye bore him to his sires.
Ye went to the far-distant home, O Mighty Ones; and famed is your great aid to Divodisa given.
You came to Bhujyu, tossing (in the sea), with your self-harnessed birds, conveying him back from his ancestors [=from the dead].
You traveled your most noble track, o bulls, and your great help became manifest to Divodāsa.
Zum Bhudschju kamt ihr, der im Wasser zappelte, mit selbstgeschirrten Vögeln fuhrt ihr heimwärts ihn; Ihr Helden ginget in sein ferngelegnes Haus; dem Divodasa auch erwiest ihr grosse Huld.
Ihr kamt mit den selbstgeschirrten Vögeln zu dem im Meer treibenden Bhujyu, ihn zu seinen Eltern heimbringend. Ihr Bullen machtet die Umfahrt in die Fremde; für Divodasa zeigte sich eure große Hilfe.
К Бхуджью, барахтающемуся (в море), вы отправились на самозапрягающихся
Птицах, везя его домой от отцов.
Вы совершили неблизкий объезд, о два быка.
Для Диводасы проявилась великая ваша помощь.
यु॒वोर॑श्विना॒ वपु॑षे युवा॒युजं॒ रथं॒ वाणी॑ येमतुरस्य॒ शर्ध्य॑म् । आ वां॑ पति॒त्वं स॒ख्याय॑ ज॒ग्मुषी॒ योषा॑वृणीत॒ जेन्या॑ यु॒वां पती॑ ॥
यु॒वोः । अ॒श्वि॒ना॒ । वपु॑षे । यु॒वा॒ऽयुज॑म् । रथ॑म् । वानी॒ इति॑ । ये॒म॒तुः॒ । अ॒स्य॒ । शर्ध्य॑म् । आ । वा॒म् । प॒ति॒ऽत्वम् । स॒ख्याय॑ । ज॒ग्मुषी॑ । योषा॑ । अ॒वृण॒ी॒त॒ । जेन्या॑ । यु॒वाम् । पती॒ इति॑ ॥
अश्विना हे अश्विनौ युवोः युवयोः वाणी वननीयौ प्रशस्यौ अश्वौ युवायुजं युवाभ्यां युज्यमानं रथम् आजिधावनसमये अस्य रथस्य यत् शर्ध्यं प्राप्यम् आदित्याख्यम् अवधिभूतं लक्ष्यं वपुषे शोभार्थं तत् येमतुः । सर्वेभ्यो देवेभ्यः पूर्वं प्रापयामासतुः । तदनन्तरं च आ जग्मुषी आगतवती जेन्या आजिधावनेन जीयमाना योषा सूर्या सख्याय सखित्वाय युवां युवयोः पतित्वम् अवृणीत । कथमिति । मम युवाम् एव पती भर्तारौ इति ॥ युवोः । षष्ठीद्विवचने ‘योऽचि' इति यत्वस्य सर्वविधीनां छन्दसि विकल्पितत्वादभावे ‘शेषे लोपः' इति दकारलोपः । ‘अतो गुणे' इति पररूपत्वम् । युवायुजम् । युवावौ द्विवचने' इति द्व्यर्थाभिधायकस्य युष्मच्छब्दस्य अविभक्तावपि व्यत्ययेन युवादेशः । शर्ध्यम् ।' शृधु प्रसहने । अस्मात् ण्यन्तात् ' अचो यत्' इति यत् ।' यतोऽनावः' इत्याद्युदात्तत्वम् । जग्मुषी । गमेर्लिटः क्वसुः । उगितश्च ' इति ङीप् । ‘वसोः संप्रसारणम्' इति संप्रसारणम् ।' गमहन' ' इति उपधालोपः । जेन्या ।' जि जये' । औणादिक एन्यप्रत्ययः टिलोपश्च ॥ ॥ २० ॥
“Aśvins, your admirable (horses) bore the car which you had carnessed, (first) to the goal, for the sake of honour, and the damsel, who was the prize, came through affection, to you, and acknowledged your (husbandship), saying, "you are (my) lords".”
Asvins, the car which you had yoked for glorious show your own two voices urged directed to its goal.
Then she who came for friendship, Maid of noble birth, elected you as Husbands, you to be her Lords.
For the sake of your marvel [=your chariot], Aśvins, two voices guided the chariot harnessed by you and its (cargo?) belonging to the warrior band [? =the Aśvins].
Having come to marriage to you for a partnership with you, the noble young girl chose you two as her husbands.
O Ritter, euern Wagen, den ihr selbst geschirrt, den starken lenkten seine Stränge wundersam; Die edle Jungfrau, als sie zur Vermählung kam, erwählte euch als Gatten zur Genossenschaft.
Für eure Schönheit lenkten den von euch geschirrten Wagen die beiden Stimmen, der es mit dieser aufnahm. Die befreundete Maid, die mit euch zur Kameradschaft die Ehe einging, hatte euch zu ihren Gatten erwählt.
Колесницу, запряженную вами, о Ашвины, для вашего чудесного появления,
Два голоса направляют к ее цели.
Молодая благородная женщина для дружбы
Вступившая с вами в брак, выбрала вас в мужья.
यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये । यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वन्द॑नस्ता॒र्यायु॑षा ॥
यु॒वम् । रे॒भम् । परि॑ऽसूतेः । उ॒रु॒ष्य॒थः॒ । हि॒मेन॑ । घ॒र्मम् । परि॑ऽतप्तम् । अत्र॑ये । यु॒वम् । श॒योः । अ॒व॒सम् । पि॒प्य॒थुः॒ । गवि॑ । प्र । दी॒र्घेण॑ । वन्द॑नः । ता॒रि॒ । आयु॑षा ॥
हे अश्विनौ युवं युवां रेभम् ऋषिं परिषूतेः परितः प्रेरकादुपद्रवात् कूपपतनाद्वा उरुष्यथः रक्षथः । ‘उरुष्यती रक्षाकर्मा' (निरु. ५.२३) इति यास्कः । तथा अत्रये ऋषये परितप्तं परितस्तप्तं घर्मम् असुरैः पीडार्थं प्रक्षिप्तं दीप्यमानं तुषाग्निं हिमेन शीतेनोदकेन अवारयेथाम् । यद्वा । हविषामत्रये भक्षयित्रे अग्नये परितप्तं सूर्यकिरणैः संतप्तं घर्मम् । अहर्नामैतत् । अहर्हिमेन वृष्ट्युदकेन हविःसंपादकव्रीह्याद्युत्पत्त्यर्थम् अवारयेथाम् । अपि च शयोः एतत्संज्ञस्य ऋषेः गवि निवृत्तप्रसवायां धेनौ अवसं रक्षकं पयः युवं युवां पिप्यथुः प्रवर्धितवन्तौ । तथा जीर्णाङ्गः वन्दनः ऋषिः दीर्घेण आयुषा प्र तारि युवाभ्यां प्रवर्धितः। प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ अवसम् । अवतेरौणादिकः असच् । पिप्यथुः। ‘प्यायी वृद्धौ'। व्यत्ययेन परस्मैपदम्। 'लिड्यङोश्च' (पा. सू. ६. १. २९) इति पीभावः ॥
“You preserved Rebha from the violence around him; you quenched with snow, for Atri, the scorching heat; you genitive rated milk in the cow of Śayu; and (by you) was Vandanā endowed with prolonged life.”
Rebha ye saved from tyranny; for Atri's sake ye quenched with cold the fiery pit that compassed him.
Ye made the cow of Sayu stream refreshing milk, and Vandana was holpen to extended life.
You give Rebha space from being besieged, (and you cool) the intensely heated, hot (vessel) with snow for Atri.
You swelled nourishment in Śayu’s cow. Vandana was extended through a long lifetime.
Dem Rebha halft ihr aus Bedrängniss, lindertet durch Kühlung rings dem Atri die entflammte Glut; In Çaju's Kuh erzeugtet fette Nahrung ihr, und dehntet weit dem Vandana das Leben aus.
Ihr befreiet den Rebha aus der Umschnürung; mit Schnee wehret ihr dem Atri die ringsum brennende Glut. Ihr ließt des Sayu Zehrung in seiner Kuh strotzen. Dem Vandana wurde das Leben mit langer Dauer verlängert.
Ребху вы освобождаете от угнетенности.
Для Атри снегом (остановили) жар, жгущий со всех сторон.
В корове Шаю вы делаете набухшим питание.
Вандана был наделен долгим сроком жизни.
यु॒वं वन्द॑नं॒ निॠ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि॑न्वथः । क्षेत्रा॒दा विप्रं॑ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना॑ भुवत् ॥
यु॒वम् । वन्द॑नम् । निःऽऋ॑तम् । ज॒र॒ण्यया॑ । रथ॑म् । न । द॒स्रा॒ । क॒र॒णा । सम् । इ॒न्व॒थः॒ । क्षेत्रा॑त् । आ । विप्र॑म् । ज॒न॒थः॒ । वि॒प॒न्यया॑ । प्र । वा॒म् । अत्र॑ । वि॒ध॒ते । दं॒सना॑ । भु॒व॒त् ॥
हे दस्रौ अश्विनौ युवं युवां जरण्यया जरया निर्ऋतं निःशेषेण प्राप्तं वन्दनम् ऋषिं करणा कर्मणां कर्तारौ शिल्पकुशलौ युवां समिन्वथः समधत्तं पुनर्युवानमकुरुतम् । तत्र दृष्टान्तः। रथं न । यथा कश्चिच्छील्पी जीर्णं रथं पुनरप्यभिनवं करोति तद्वत् । अपि च विपन्यया स्तुत्या गर्भस्थेन वामदेवेन स्तुतौ सन्तौ क्षेत्रात् आ॥ । आकारः समुच्चये । मातुरुदरलक्षणात् जन्मस्थानात् विप्रं मेधाविनं तमृषिं जनथः जनयथः च । तथा वां युवयोः दंसना रक्षणात्मकं कर्म अत्र अस्मै विधते परिचरते यजमानाय प्र भुवत् प्रभवतु । रक्षितुं समर्थं भवतु ॥ निर्ऋतम् । ‘ ऋ गतौ ' । कर्मणि निष्ठा । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । जरण्यया । जरणक्रियार्हा जरण्या । अन्त्यावस्था। 'छन्दसि च ' इति यः । करणा। करोतेः ‘अन्येभ्योऽपि दृश्यते ' ( पा. सू. ३. ३. १३०) इति युच् । इन्वथः । ‘इवि व्याप्तौ' । इदित्वात् नुम् । भौवादिकः । जनथः । जनी प्रादुर्भावे'। णिचि उपधावृद्धिः । जनीजॄष्क्नसुरञ्जः' इति मित्त्वात् ‘ मितां ह्रस्वः' इति ह्रस्वत्वम् । छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ‘णेरनिटि ' इति णिलोपः । विपन्यया । ‘पन स्तुतौ । ‘अघ्न्यादयश्च' इति भावे यत् । व्यत्ययेनान्तोदात्तत्वम् । विधते । ‘विध विधाने '। तौदादिकः । लटः शतृ । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् । भुवत् । भवतेर्लेटि अडागमः । ‘बहुलं छन्दसि ' इति शपो लुक् । ‘भूसुवोस्तिङि' इति गुणप्रतिषेधः ॥
“Skillful Dasras, you restored Vandanā, when debilitated by old age, as a (wheelwright repairs a worn-out) car; (moved) by his praises, you brought forth the sage (Vāmadeva) from the womb; may your (glorious) deeds be (displayed) for him who in this plural ce offers you worship.”
Doers of marvels, skilful workers, ye restored Vandana, like a car, worn out with length of days.
From earth ye brought the sage to life in wondrous mode; be your great deeds done here for him who honours you.
You constructed Vandana, who had fallen apart because of age, like workers a chariot, o wondrous ones.
Out of the soil you give birth to the inspired poet [=Vandana?]
amid acclaim. Here (too) your skill will prevail for the one
honoring (you).
Ihr Helfer habt den altersmorschen Vandana wie Künstler einen Wagen neu zurecht gemacht, Gezeugt den Sänger aus dem Boden wundersam, dem Frommen hier sei hülfreich eure Wundermacht.
Ihr Meister füget den aus Altersschwäche zerfallenen Vandana wie Werkmeister einen Wagen zusammen. Aus dem Boden lasset ihr unter Beifall den Redekundigen erstehen. Eure Meisterschaft bewährte sich dabei für den Verehrer.
Вандану, развалившегося от дряхлости,
Вы собираете, о удивительные, как мастера – колесницу.
Под восхваления вы вызываете рождение вдохновенного (певца) из чрева.
Да проявится здесь ваша чудесная сила для почитающего (вас)!
अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा॑धितम् । स्व॑र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा अ॒भीके॑ अभवन्न॒भिष्ट॑यः ॥
अग॑च्छतम् । कृप॑माणम् । प॒रा॒ऽवति॑ । पि॒तुः । स्वस्य॑ । त्यज॑सा । निऽबा॑धितम् । स्वः॑ऽवतीः । इ॒तः । ऊ॒तीः । यु॒वोः । अह॑ । चि॒त्राः । अ॒भीके॑ । अ॒भ॒व॒न् । अ॒भिष्ट॑यः ॥
हे अश्विनौ परावति दूरदेशे समुद्रमध्ये स्वस्य पितुः तुग्रस्य त्यजसा त्यागेन निबाधितं पीडितं भुज्यु कृपमाणं युवां स्तुवन्तम् अगच्छतम् । युवां रक्षणार्थं गतवन्तौ । यस्मादेवं तस्मात् हे अश्विनौ स्वर्वतीः स्वर्वत्यः शोभनगमनयुक्ताः इतः इतोमुखात् 'चित्राः चायनीयाः युवोरह युवयोरेव ऊतीः ऊतयः रक्षाः अभीके समीपे अभिष्टयः सर्वैः प्राणिभिः अभ्येषणीयाः अभवन् भवन्ति ॥ कृपमाणम् । कृपतिः स्तुतिकर्मा । अयं च तुदादिर्द्रष्टव्यः । स्वर्वतीः । सुपूर्वात् अर्तेः भावे विच् । ततो मतुप् । छन्दसीरः' इति मतुपो वत्वम् । अभिष्टयः । ‘इषु इच्छायाम् । भावे क्तिन् । शकन्ध्वादित्वात् पररूपत्वम् ॥
“You repaired to him who, aflicted by the abandonment of his own father, praised you from afar; hence your prompt and wonderful succours have been wished to be at hand (by all).”
Ye went to him who mourned in a far distant place, him who was left forlorn by treachery of his sire.
Rich with the light of heaven was then the help ye gave, and marvellous your succour when ye stood by him.
You went to the one piteously crying in the far distance [=Bhujyu], entrapped by his own father’s abandonment of him.
Your enduring help that brings the sunlight, your brilliant mastery,
arose at the critical moment.
Ihr gingt zu dem, der in der Ferne jammerte, bedrängt durch seines eignen Vaters Frevelthat; Da waren eure Hülfen Licht verleihend ihm, und glänzend wurde euer Beistand ihm zu Theil.
Ihr kamet zu dem in der Ferne jammernden Bhujyu, der durch des eigenen Vaters Feindschaft ins Wasser hinabgestoßen war. Eure lichtbringenden Hilfen waren auf der Stelle, eure wunderbaren Hilfeleistungen unmittelbar da.
Вы отправились к стенающему вдалеке (Бхуджью),
Измученному из-за враждебности отца своего.
Ведь сейчас ваша помощь полна света.
Яркими были в нужный момент (ваши) поддержки.
उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति । यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिर॒: प्रति॑ वा॒मश्व्यं॑ वदत् ॥
उ॒त । स्या । वा॒म् । मधु॑ऽमत् । मक्षि॑का । अ॒र॒प॒त् । मदे॑ । सोम॑स्य । औ॒शि॒जः । हु॒व॒न्य॒ति॒ । यु॒वम् । द॒धी॒चः । मनः॑ । आ । वि॒वा॒स॒थः॒ । अथ॑ । शिरः॑ । प्रति॑ । वा॒म् । अश्व्य॑म् । व॒द॒त् ॥
उत अपि च हे अश्विनौ मधुमत् मधुमन्तौ वां युवां स्या सा मक्षिका सरघा मधुकामा सती अरपत् अस्तौत् । तथा औशिजः उशिजः पुत्रः कक्षीवान् सोमस्य पानेन युवयोः मदे हर्षे निमित्तभूते सति हुवन्यति युवामाह्वयति । युवं युवां च तस्यै मक्षिकायै मधु दातुं मधुविद्यार्थिनौ सन्तौ दधीचः आथर्वणस्य ऋषेः मनः चित्तं शुश्रूषया आ विवासथः पर्यचरतम् । अथ अनन्तरं तस्मिन्प्रीते सति अश्व्यं युवाभ्यां प्रतिहितम् अश्वस्य संबन्धि यत् शिरः तत् वां युवां प्रति मधुविद्यामवदत् । स ऋषिः आश्वेन शिरसा उपदिष्टवानित्यर्थः ॥ मधुमत् । • सुपां सुलुक्° ' इति विभक्तेर्लुक् । अरपत् । ‘रप लप व्यक्तायां वाचि' । मदे । ‘मदी हर्षे '। मदोऽनुपसर्गे ' इति भावे अप् । हुवन्यति । ह्वेञ् स्पर्धायां शब्दे च ' ।' ल्युट् च ' इति भावे ल्युट् ।' बहुलं छन्दसि' इति संप्रसारणम् । हवनमात्मन इच्छति । ‘सुप आत्मनः क्यच् । अन्त्यलोपछान्दसः । वर्णव्यापत्त्या उत्वम् । अश्व्यम् । अश्वे भवम् अश्व्यम्। भवे छन्दसि ' इति यत् ॥
“That honey-seeking bee also murmured your praise; the son of Us;ij invokes you to the exhilaratin of Soma; you conciliated the mind of Dadhyañc, so that, provided with the head of a horse, he taught you (the mystic science).”
To you in praise of sweetness sang the honey-bee: Ausija calleth you in Soma's rapturous joy.
Ye drew unto yourselves the spirit of Dadhyac, and then the horse's head uttered his words to you.
And the little fly whispered honeyed (speech) to you, (and now) in the exhilaration of soma, (Kakṣīvant), the son of Uśij, cries out
(to you):
“You two try to win the thought of Dadhyañc, and then the horse’s
head replies to you.”
Die Süssigkeit verkündete die Fliege euch, zum Rausch des Soma lud euch ein der Uçidsch Sohn; Ihr stimmtet freundlich euch den Sinn des Dadhiank, da kündete den Soma euch des Rosses Haupt.
Und euch verriet jene Fliege die Süßigkeit. In der Begeisterung des Soma sagte es der Ausija laut: Ihr gewinnet des Dadhyac Sinn und der Pferdekopf stand vor euch Rede.
А та пчела прошептала вам связанное с медом.
В опьянении сомой сын Ушидж громко говорит:
Вы хотите расположить мысль Дадхьянча.
Тогда конская голова вам поведала.
यु॒वं पे॒दवे॑ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं॑ दुवस्यथः । शर्यै॑र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं॑ च॒र्कृत्य॒मिन्द्र॑मिव चर्षणी॒सह॑म् ॥
यु॒वम् । पे॒दवे॑ । पु॒रु॒ऽवार॑म् । अ॒श्वि॒ना॒ । स्पृ॒धाम् । श्वे॒तम् । त॒रु॒तार॑म् । दु॒व॒स्य॒थः॒ । शर्यैः॑ । अ॒भिऽद्यु॑म् । पृत॑नासु । दु॒स्तर॑म् । च॒र्कृत्य॑म् । इन्द्र॑म्ऽइव । च॒र्ष॒णि॒ऽसह॑म् ॥
अश्विना हे अश्विनौ पेदवे पेदुनाम्ने राज्ञे पुरुवारं बहुभिर्वरणीयं स्पृधां संग्रामे स्पर्धमानानां शत्रूणां तरुतारं तारकं श्वेतं शुभ्रवर्णम् इन्द्राल्लब्धम् अश्वं युवं युवां दुवस्यथः दत्तवन्तौ । पुनरपि कीदृशम् । शर्यैः। शीर्यन्ते इति शर्याः योद्धारः। तैः पृतनासु संग्रामेषु दुस्तरं तरीतुमशक्यम् अभिद्युम् अभिगतदीप्तिं चर्कृत्यं सर्वेषु कार्येषु पुनःपुनः प्रयोज्यम् इन्द्रमिव चर्षणीसहम् । इन्द्रो यथा शत्रूनभिभवति एवं शत्रुजनानाम् अभिभवितारमित्यर्थः॥ स्पृधाम्। ‘स्पर्ध संघर्षे '। ‘क्विप् च' इति क्विप् । चशब्देन दृशिग्रहणानुकर्षणात् तस्य च विध्यन्तरोपसंग्रहार्थत्वात् अकारस्य लोपो रेफस्य च संप्रसारणम् । “ सावेकाचः ' इति विभक्तेरुदात्तत्वम् । तरुतारम् । ‘तॄ प्लवनतरणयोः । अस्मात् तृचि ‘ग्रसितस्कभितस्तभित° ' इत्यादौ निपातनात् रूपसिद्धिः। चर्कृत्यम् । करोतेः यङ्लुगन्तात् ‘विभाषा कृवृषोः' इति क्यप् । ततस्तुक् ॥ ॥ २१ ॥
“Aśvins, you gave to Pedu the white (horse) desired by many, the breaker-through of combatants, shining, unconquerable by foes in battle, fit for every work; like Indra, the conquerer of men.”
A horse did ye provide for Pedu, excellent, white, O ye Asvins, conqueror of combatants,
Invincible in war by arrows, seeking heaven worthy of fame, like Indra, vanquisher of men.
In friendship you offer to Pedu a white (horse), bringing many boons, overcoming contenders,
the heaven-bound (horse), hard to overcome by arrows in battles, to be celebrated, and conquering the lands, like Indra.
Dem Pedu schenktet, Ritter ihr, das weisse Ross, das langgeschweifte, das die Feindesschar besiegt, Das unverwundbar in der Schlacht zum Himmel strebt, das rühmenswerth wie Indra alle Welt bezwingt.
Ihr Asvin verehret dem Pedu den vielbegehrten Schimmel, den Überwinder der Feinde, von Pfeilen ...., in den Kämpfen schwer zu überwinden, rühmenswert, gleich Indra ein Völkerbezwinger.
Вы почтили Педу, о Ашвины, белым (конем),
Очень желанным, победителем врагов,
Сверкающего (?) стрелами, трудно одолимого в сражениях,
Достойного воспевания, завоевателя народов, как Индра.