अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥
अ॒ग्निम् । दू॒तम् । वृ॒णी॒म॒हे॒ । होता॑रम् । वि॒श्वऽवे॑दसम् । अ॒स्य । य॒ज्ञस्य॑ । सु॒ऽक्रतु॑म् ॥
अग्नेर्दूतत्वम् एतन्मन्त्रव्याख्याने तैत्तिरीयब्राह्मणे समाम्नायते- अग्निर्देवानां दूत आसीदुशनाः काव्योऽसुराणाम् ' ( तै. सं. २. ५. ८. ५) इति । तादृशं देवदूतम् अग्निम् अस्मिन् कर्मणि वृणीमहे संभजामः । कीदृशम् । होतारं देवानामाह्वातारं विश्ववेदसं सर्वधनोपेतम् अस्य प्रवर्तमानस्य यज्ञस्य निष्पादकत्वेन सुक्रतुं शोभनकर्माणं शोभनप्रज्ञं वा । ' मघम्' इत्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु वेदस् शब्दः (नि. २. १०. ४) पठितः । होतारम् । ह्वेञ् स्पर्धायां शब्दे च'। ताच्छील्यादिषु तृन् । 'बहुलं छन्दसि ' ( पा. सू. ६. १. ३४ ) इति संप्रसारणे परपूर्वत्वे गुणः । नित्त्वादाद्युदात्तः। विश्ववेदसम्। ‘बहुव्रीहौ विश्वं संज्ञायाम् ' ( पा. सू. ६. २. १०६ ) इति पूर्वपदान्तोदात्तत्वम् । अस्य । ‘ ऊडिदम् ' ( पा. सू. ६. १. १७१ ) इत्यादिना विभक्तेरुदात्तत्वम् । सुक्रतुम् । ‘क्रत्वादयश्च' (पा. सू. ६. २. ११८) इत्याद्युदात्तत्वम् ॥
“We select Agni, the messenger of the gods, their invoker, the possessor of all riches, the perfecter of this rite.”
अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् ।
अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥
We choose Agni as our messenger, the all-possessor, as the Hotri of this sacrifice, the highly wise.
Agni we choose as messenger, the Hotar affording all possessions, very effective for this sacrifice.104 I.13
Agni ersehn als Boten wir, als Priester ihn, der alles weiss, Der dieses Opfer schön vollbringt.
Agni erküren wir zum Boten, zum Hotri dieses Opfer, den Allwissenden, den Klugsinnigen.
Агни мы выбираем вестником,
Хотаром этой жертвы,
Всезнающего, очень умного.
अ॒ग्निम॑ग्निं॒ हवी॑मभि॒: सदा॑ हवन्त वि॒श्पति॑म् । ह॒व्य॒वाहं॑ पुरुप्रि॒यम् ॥
अ॒ग्निम्ऽअ॑ग्निम् । हवी॑मऽभिः । सदा॑ । ह॒व॒न्त॒ । वि॒श्पति॑म् । ह॒व्य॒ऽवाह॑म् । पु॒रु॒ऽप्रि॒यम् ॥
यद्यप्यग्निः स्वरूपेणैक एव तथापि प्रयोगभेदात् आहवनीयादिस्थानभेदात् पावकादिविशेषणभेदाद्वा बहुविधत्वमभिप्रेत्य ‘अग्निमग्निम्' इति वीप्सा । तं हवीमभिः आह्वानकरणैर्मन्त्रैः सदा हवन्त निरन्तरमनुष्ठातार आह्वयन्ति। कीदृशम् । विश्पतिं विशां प्रजानां होत्रादीनां पालकं हव्यवाहं यजमानसमर्पितस्य हविषो देवान् प्रति वोढारम् । अत एव पुरुप्रियं बहूनां प्रीत्यास्पदम् ॥ अग्निमग्निम् । नित्यवीप्सयोः' (पा. सू. ८. १. ४ ) इति वीप्सायां द्विर्भावः । तस्य परमाम्रेडितम् ' ( पा. सू. ८. १. २ ) इत्युत्तरस्य आम्रेडितसंज्ञायाम् ‘ अनुदात्तं च ' ( पा. सू. ८. १. ३) इत्यनुदात्तत्वम् । हवीमभिः । ‘ह्वेञ् स्पर्धायां शब्दे च । आह्वानकरणभूतेषु मन्त्रेषु स्वव्यापारस्वातन्त्र्यात् कर्तृत्वविवक्षया “ अन्येभ्योऽपि दृश्यन्ते ' ( पा. सू. ३. २. ७५) इति कर्तरि मनिन् । तस्य छान्दस ईडगमः । ‘ बहुलं छन्दसि ' ( पा. सू. ६. १. ३४) इति धातोः संप्रसारणं परपूर्वत्वं गुणावादेशौ । नित्त्वादाद्युदात्तत्वम् । सदा । सर्वैकान्य' (पा. सू. ५. ३. १५) इत्यादिना सर्वशब्दात् दाप्रत्ययः । ‘सर्वस्य सोऽन्यतरस्यां दि ' ( पा. सू. ५, ३. ६) इति सभावः । व्यत्ययेनाद्युदात्तत्वम् । हवन्त । ह्वेञो लट् । झस्य अन्तादेशः । टेः एत्वाभावश्छान्दसः । शपि ' बहुलं छन्दसि' इति संप्रसारणम् । ‘ तिङ्ङतिङः' इति निघातः । विश्पतिम् । ‘ पत्यावैश्वर्ये ' ( पा. सू. ६. २. १८) इति पूर्वपदप्रकृतिस्वरे प्राप्ते ‘परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । हव्यवाहम् । “ वह प्रापणे'। ‘ वहश्च ' (पा. सू. ३. २. ६४ ) इति ण्विप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । पुरुप्रियम् । पुरूणां प्रियम् । समासान्तोदात्तत्वम् ॥
“(The offerers of oblations) invoke with their invocations, Agni, Agni, the lord of men, the bearer of offerings, the beloved of many.”
With callings ever they invoke Agni, Agni, Lord of the House,
Oblation-bearer, much beloved.
Agni and Agni again they constantly invoked with their invocations, the lord of the clans, the bearer of oblations, the beloved of many.
Agni after Agni they always invoke with invocations as the clanlord, conveyor of the oblations, dear to many.
Den Agni, Agni rufen sie, des Hauses Herrn mit Bitten stets, Der vielgeliebt die Opfer fährt.
Agni und Agni rufen sie stets mit Anrufungen, den Clanherren, den vielliebenden Opferführer.
Агни и Агни призывами
Постоянно призывают они, господина племен,
Отвозящего жертву, приятного многим.
अग्ने॑ दे॒वाँ इ॒हा व॑ह जज्ञा॒नो वृ॒क्तब॑र्हिषे । असि॒ होता॑ न॒ ईड्य॑: ॥
अग्ने॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ । ज॒ज्ञा॒नः । वृ॒क्तऽब॑र्हिषे । असि॑ । होता॑ । नः॒ । ईड्यः॑ ॥
हे अग्ने जज्ञानः अरण्योरुत्पन्नस्त्वं वृक्तबर्हिषे अस्तरणार्थं छिन्नेन बर्हिषा युक्ताय तं यजमानमनुग्रहीतुम् इह कर्मणि हविर्भुजः देवान् आ वह । नः अस्मदर्थं होता देवानामाह्वाता त्वम् ईड्यः स्तुत्यः असि ॥ देवान् इत्यत्र संहितायां ' दीर्घादटि समानपादे' (पा. सू. ८. ३. ९) इति रुत्वम् । आतोऽटि नित्यम् ' ( पा. सू. ८. ३. ३) इत्यनुनासिकभावः । जज्ञानः । ‘ जनी प्रादुर्भावे । लिटः कानच् । ‘ गमहन° ' ( पा. सू. ६. ४.९८ ) इत्युपधालोपः। ‘ द्विर्वचनेऽचि' (पा. सू. १. १. ५९ ) इति तस्य स्थानिवद्भावात् द्विर्वचनम् । चित्त्वादन्तोदात्तः । वृक्तबर्हिषे । ‘ ओव्रश्चू छेदने'। 'निष्ठा' (पा. सू. ३. २. १०२ ) इति क्तप्रत्ययः । ‘ यस्य विभाषा ' ( पा. सू. ७. २. १५) इति इट्प्रतिषेधः । वृक्तं बर्हिर्यस्मै यजमानाय येन वा ऋत्विजा । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । असि । अस्तेः सिप् । अदिप्रभृतिभ्यः शपः' इति शपो लुक् । ' तासस्त्योर्लोपः ' ( पा. सू. ७. ४. ५० ) इति सकारस्य लोपः। पादादित्वात् न निघातः । होता । ह्वयतेस्ताच्छील्यादिषु तृन्। ‘ बहुलं छन्दसि ' ( पा. सू. ६. १. ३४ ) इति संप्रसारणम् । नित्त्वादाद्युदात्तः । ईड्यः । ‘ईड स्तुतौ । ‘ ऋहलोर्ण्यत् ' ( पा. सू. ३. १. १२४ )। तित्स्वरिते प्राप्ते ईडवन्दवृशंसदुहां ण्यतः ' ( पा. सू. ६. १. २१४ ) इत्याद्युदात्तत्वम् ॥
“Agni, genitive rated (by attrition), bring hither the gods to the clipped sacred grass; you are their invoker for us, and are to be adored.”
Bring the Gods hither, Agni, born for him who strews the sacred grass:
Thou art our herald, meet for praise.
Agni, when born, conduct the gods hither for him who has strewn the Barhis (sacrificial grass) 1; thou art our Hotri, worthy of being magnified 2.
Agni, convey the gods here, as soon as you are born, for the man who has twisted the ritual grass.
You are the Hotar, to be reverently invoked by us.
Die Götter fahr, o Agni, her zum Streubereiter, neuerzeugt, Du bist als Priester anzuflehn.
Agni! Fahr eben geboren die Götter zu dem, der Barhis umgelegt hat! Du bist unser berufener Hotri.
О Агни, привези сюда богов –
(Едва) родившись – к разложившему жертвенную солому!
Ты хотар, почитаемый у нас.
ताँ उ॑श॒तो वि बो॑धय॒ यद॑ग्ने॒ यासि॑ दू॒त्य॑म् । दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥
तान् । उ॒श॒तः । वि । बो॒ध॒य॒ । यत् । अ॒ग्ने॒ । यासि॑ । दू॒त्य॑म् । दे॒वैः । आ । स॒त्सि॒ । ब॒र्हिषि॑ ॥
हे अग्ने यत् यस्मात् कारणात् दूत्यं यासि देवानां दूतकर्म प्राप्नोषि तस्मात् कारणात् उशतः हविः कामयमानान तान् देवान् हविःस्वीकारार्थं वि बोधय । विबोध्य च बर्हिषि अस्मिन् कर्मणि तैः देवैः सह आ सत्सि आसीद आगत्योपविश ॥ तान् ।' दीर्घादटि समानपादे ' इति संहितायां रुत्वम् । आतोऽटि नित्यम्' इत्यनुनासिकभावः । उशतः । ‘ वश कान्तौ । लटः शतृ । ‘अदिप्रभृतिभ्यः शपः' इति शपो लुक् । ‘ ग्रहिज्या° ' (पा. सू. ६. १. १६ ) इत्यादिना संप्रसारणम् । ‘ शतुरनुमो नद्यजादी ' (पा. सू. ६. १. १७३) इति विभक्तेरुदात्तत्वम् । यासि । ‘ यद्वृत्तान्नित्यम् ' ( पा. सू. ८. १. ६६ ) इति निघातप्रतिषेधः । दूतस्य भागः कर्म वा दूत्यम् । दूतस्य भागकर्मणी ' ( पा. सू. ४. ४. १२० ) इति यत् । तस्य तित्स्वरितापवादत्वेन यतोऽनावः ' इति प्राप्तमाद्युदात्तत्वं सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति निवर्तते । अतः ‘तित्स्वरितम् ' (पा. सू. ६. १. १८५) इत्येव भवति । शेषनिघातः । सत्सि सीदसि । षद्लृ विशरणगत्यवसादनेषु'। लटः सिपि शपो ‘बहुलं छन्दसि' इति लुक् । न लुमताङ्गस्य ' (पा. सू. १. १. ६३) इति प्रत्ययलक्षणप्रतिषेधात् ‘पाघ्रा' (पा. सू. ७. ३. ७८ ) इत्यादिना सीदादेशो न भवति । बर्हिषि। ‘ बृह बृहि वृद्धौ'। बृंहेर्नलोपश्च' ( उ. सू. २. २६६ ) इति इसिप्रत्ययः । प्रत्ययस्वरेण इकार उदात्तः ॥
“As you discharge the duty of messenger, arouse them desirous of the oblation; sit down with them on the sacred grass.”
Wake up the willing Gods, since thou, Agni, performest embassage:
Sit on the sacred grass with Gods.
Awaken them, the willing ones, when thou goest as messenger, O Agni. Sit down with the gods on the Barhis.
Awaken the eager ones, when you travel on your mission, o Agni. With the gods sit here on the ritual grass.
Erwecke sie, die willigen, wenn, Agni, du als Bote gehst, Sitz mit den Göttern auf der Streu.
Ermuntere die verlangenden Götter, wenn du, Agni, den Botengang gehst! Mit den Göttern setz dich auf das Barhis!
Пробуди тех жаждущих (богов),
Когда, о Агни, ты идешь вестником!
С богами сядь на жертвенную солому!
घृता॑हवन दीदिव॒: प्रति॑ ष्म॒ रिष॑तो दह । अग्ने॒ त्वं र॑क्ष॒स्विन॑: ॥
घृत॑ऽआहवन । दी॒दि॒ऽवः॒ । प्रति॑ । स्म॒ । रिष॑तः । द॒ह॒ । अग्ने॑ । त्वम् । र॒क्ष॒स्विनः॑ ॥
हे घृताहवन घृतेनाहूयमान दीदिवः दीप्यमान अग्ने त्वं रक्षस्विनः रक्षोयुक्तान रिषतः हिंसकान् शत्रून् प्रति अस्माकं प्रतिकूलान् दह स्म सर्वथा भस्मीकुरु ॥ घृतेनाहूयतेऽस्मिन्निति ‘ करणाधिकरणयोश्च ' ( पा. सू. ३. ३. ११७ ) इत्यधिकरणे ल्युट् । अत्र जुहोतेः अविवक्षितकर्मत्वेन अकर्मकत्वात् घृतस्य करणत्वमेव न तु कर्मत्वम् । अतो नैषा तृतीया च होश्छन्दसि ' ( पा. सू. २. ३. ३) इति कर्मणि तृतीया । किंतु ' कर्तृकरणयोस्तृतीया ' ( पा. सू. २. ३. १८) इति करणवाचिन्येव । अतः ‘ कर्तृकरणे कृता बहुलम् ' ( पा. सू. २. १. ३२ ) इति समासः । तत्र पूर्वपदप्रकृतिस्वरापवादे कृदुत्तरपदप्रकृतिस्वरे प्रातिपदिकावस्थायामेव कृते सति पश्चात् विभक्तावुत्पन्नायाम् ' आमन्त्रितस्य च ' ( पा. सू. ६. १. १९८) इत्याद्युदात्तत्वम् । दीदिवः । दीव्यतेर्लिटः क्वसुः । तस्य ' वस्वेकाजाद्धसाम्' ( पा. सू. ७. २. ६७ ) इति नियमात् इडभावः । द्विर्वचनम्। हलादिशेषः । उत्तरवकारस्य लोपो व्योर्वलि ' ( पा. सू. ६. १. ६६) इति लोपः । क्वसुः । कित्त्वात् गुणाभावः । ‘ तुजादीनां दीर्घोऽभ्यासस्य ' ( पा. सू. ६. १. ७ ) इति दीर्घत्वमभ्यासस्य । संबुद्धौ ‘उगिदचाम्° ' ( पा. सू. ७. १. ७० ) इति नुम् । संयोगान्तस्य लोपः ' ( पा. सू. ८. २. २३ ) इति सकारलोपे नकारस्य मतुवसो रु संबुद्धौ छन्दसि ' (पा. सू. ८. ३. १ ) इति रुत्वम् । विसर्गः । पदात् परत्वात् आमन्त्रितनिघातः । ननु पूर्वामन्त्रितस्य अविद्यमानवत्त्वात् पादादित्वेन न निघातोपपत्तिः । न च ' नामन्त्रिते समानाधिकरणे सामान्यवचनम् ' ( पा. सू. ८. १. ७३ ) इत्यविद्यमानवत्त्वप्रतिषेधः; उभयोरग्निपदविशेषणत्वेन विशेषवचनत्वात् । अत एव परस्परमनन्वयेन असामर्थ्यात् ‘ समर्थः पदविधिः ' ( पा. सू. २. १. १ ) इति च नियमात् पूर्वस्य न पराङ्गवद्भावो येन ऐकपद्येन निघातः स्यात् । अत एव हि ‘ इडे रन्तेऽदिते सरस्वति' (तै. सं. ७. १. ६. ८) इत्यादौ पृथक् पृथक् आद्युदात्तत्वमिति । उच्यते–अत्र ' दीदिवः' इति नाग्निपदस्य विशेषणं किंतु घृताहवनपदस्यैव द्योतनार्थम्; घृताहवन इति विशेष्यत्वेन विवक्षितत्वात् । विशिष्टस्य तु पश्चादग्निविशेषणता । तत्र दीदिवःपदं प्रति घृताहवनपदस्य विशेष्यत्वात् नामन्त्रिते समानाधिकरणे! ( पा. सू. ८. १.७३ ) इत्यविद्यमानवत्वप्रतिषेधात् निघातोपपत्तिः । अत एव परस्परविशेषणविशेष्यभावेन सामर्थ्यात् “ सुबामन्त्रिते (पा. सू. २. १. २) इति पराङ्गवद्भावे शेषनिघातेनापि स्वरोपपत्तिरिति । इडे रन्ते' इत्यादौ तु नैवं परस्परान्वय इति वैषम्यम् । रिषतः । ‘ रुष रिष हिंसार्थाः ' इति । भौवादिकस्य लटः शत्रादेशे शपि छान्दसो गुणाभावः। तौदादिकस्य वा “ रुश रिश हिंसायाम् । इत्यस्य छान्दसं षत्वम् । विकरणस्य शस्य ङित्वाद्गुणाभावः । रक्षस्शब्दात् ' अस्मायामेधास्रजो विनिः' ( पा. सू. ५. २. १२१ ) इति मत्वर्थीयो विनिः । तस्य प्रत्ययाद्युदात्तत्वम् ॥
“Resplendent Agni, invoked by oblations of clarified butter, consume our adversaries, who are defended by evil spirits.”
O Agni, radiant One, to whom the holy oil is poured, burn up
Our enemies whom fiends protect.
O thou to whom Ghnta oblations are poured out, resplendent (god), burn against the mischievous, O Agni, against the sorcerers.
O shining one whose oblation is ghee, burn against those who do harm, o Agni, against demonic beings.
Du heller, fettbeträufelter, verbrenne alle Schädiger, Die Zauberer, o Agni, du.
Schmalzbegossener, Leuchtender, versenge doch ja die Schädiger, du Agni, die Unholde!
О жиром поливаемый, светящийся,
Сожги до тла ты тех, кто вредит,
О Агни, (и) обладает силой ракшасов!
अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑ । ह॒व्य॒वाड्जु॒ह्वा॑स्यः ॥
अ॒ग्निना॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । क॒विः । गृ॒हऽप॑तिः । युवा॑ । ह॒व्य॒ऽवाट् । जु॒हुऽआ॑स्यः ॥
अग्निः आहवनीयाख्यः तस्मिन् प्रक्षिप्यमाणेन अग्निना निर्मथ्येन प्रणीतेन वा सह समिध्यते सम्यक् दीप्यते । कीदृशोऽग्निः । कविः मेधावी गृहपतिः यजमानगृहस्य पालकः युवा नित्यतरुणः हव्यवाट् हविषो वोढा जुह्वास्यः जुहूरूपेण मुखेन युक्तः ॥ गृहपतिः ।' पत्यावैश्वर्ये' (पा. सू. ६. २. १८) इति पूर्वपदप्रकृतिस्वरत्वम् । युवा । ‘ यु मिश्रणे । ‘ कनिन्युवृषितक्षिराजधन्विद्युप्रतिदिवः ' ( उ. सू. १. १५४ ) इति कनिन् । नित्त्वादाद्युदात्तः । हव्यं वहतीति हव्यवाट् । वहश्च (पा. सू. ३. २. ६४) इति ण्विप्रत्ययः। णित्वादुपधावृद्धिः । गतिकारकोपपदात् कृदुत्तरपदप्रकृतिस्वरत्वम् । जुह्वास्यः । हूयतेऽनयेति जुहूः । ‘ हुवः श्लुवच्च' (उ. सू. २. २१८) इति क्विप् । तत्संनियोगात् दीर्घः । श्लुवद्भावात् द्विर्भावः । चुत्वजश्त्वे । प्रातिपदिकस्वरेणान्तोदात्तः । जुहूः आस्यं यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव शिष्यते । शेषनिघातः । यणादेशे ‘ उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ' ( पा. सू. ८. २. ४ ) इति आकारः स्वरितः ॥ ॥ २२ ॥
“Agni, the ever young and wise, the guardian of the dwelling (of the sacrificer), the bearer of offerings, whose mouth is (the vehicle) of oblations, is kindled by Agni.”
By AgniAgni is inflamed, Lord of the House, wise, young, who bears
The gift: the ladle is his mouth.
By Agni Agni is kindled (or, by fire fire is kindled), the sage, the master of the house, the young one, the bearer of oblations, whose mouth is the sacrificial spoon.
By Agni is Agni kindled—poet, houselord, youth,
conveying the oblation, with the sacrificial ladle in his mouth.
Der Glut-Gott wird durch Glut entflammt, der weise Jüngling, Hauses Herr, Der Opfer fährt, aus Löffeln trinkt.
Agni wird an Agni entzündet, der weise junge Hausherr, der Opferführer, dessen Mund seine Zunge ist.
Агни зажигается с помощью Агни,
Поэт, хозяин дома, юноша,
Увозящий жертву, чей рот – языки (пламени).
क॒विम॒ग्निमुप॑ स्तुहि स॒त्यध॑र्माणमध्व॒रे । दे॒वम॑मीव॒चात॑नम् ॥
क॒विम् । अ॒ग्निम् । उप॑ । स्तु॒हि॒ । स॒त्यऽध॑र्माणम् । अ॒ध्व॒रे । दे॒वम् । अ॒मी॒व॒ऽचात॑नम् ॥
हे स्तोतृसंघ अध्वरे क्रतौ अग्निम् उप स्तुहि उपेत्य स्तुतिं कुरु । कीदृशम् । कविं मेधाविनं सत्यधर्मार्ण सत्यवदनरूपेण धर्मेणोपेतं देवं द्योतमानम् अमीवचातनम् अमीवानां हिंसकानां शत्रूणां रोगाणां वा घातकम् ॥ सत्यं धर्मो यस्येति सत्यधर्मा । ‘ धर्मादनिच् केवलात् ' ( पा. सू. ५. ४. १२४) इति अनिच् समासान्तः । अन्तःपदेन तस्य समासत्वाभिधानात् बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे
शेषनिघातेनानुदात्तत्वम् । अमीवशब्दः ‘ अम रोगे' इत्यस्मात् ‘शेवयह्वजिह्वाग्रीवाप्वामीवाः' (उ. सू. १. १५२ ) इति वन्प्रत्यये ईडागमे च निपातितः । नित्त्वादाद्युदात्तः । ‘चते चदे याचने च ' इत्यस्मात् हिंसार्थात् णिजन्तात् नन्द्यादित्वात् ल्युः ( पा. सू. ३. १. १३४ ) । योरनादेशः (पा. सू. ७. १. १ )। ‘णेरनिटि' (पा. ६. ४. ५१ ) इति णेर्लोपः । ‘लिति' (पा. सू. ६. १. १९३) इति धातोः अकारस्योदात्तत्वम् । न च स्वरे कर्तव्ये णिलोपस्य स्थानिवद्भावः; ‘न पदान्तद्विर्वचन (पा. सू. १. १. ५८) इत्यादिना प्रतिषेधात् । अमीवानां चातनः इति समासे कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते ॥
“Praise in the sacrifice, Agni, be the protector of that offerr of oblations who worships you, the messenger of the gods.”
Praise Agni in the sacrifice, the Sage whose ways are ever true,
The God who driveth grief away.
Praise Agni the sage, whose ordinances for the sacrifice are true, the god who drives away sickness.
Praise Agni, the poet whose ordinances hold true at the ceremony, the god who banishes afflictions.
Den weisen Agni preise laut, der wahrt den Brauch beim Opferfest, Den Gott, der alles Leid verscheucht.
Preise Agni, den Seher, dessen Vorschriften gültig sind beim Opfer, den Gott, der die Krankheit vertreibt!
Славь поэта Агни,
Чьи законы непреложны во время обряда,
Бога, прогоняющего болезни!
यस्त्वाम॑ग्ने ह॒विष्प॑तिर्दू॒तं दे॑व सप॒र्यति॑ । तस्य॑ स्म प्रावि॒ता भ॑व ॥
यः । त्वाम् । अ॒ग्ने॒ । ह॒विःऽप॑तिः । दू॒तम् । दे॒व॒ । स॒प॒र्यति॑ । तस्य॑ । स्म॒ । प्र॒ऽअ॒वि॒ता । भ॒व॒ ॥
हे अग्ने देव यः हविष्पतिः यजमानः देवदूतं त्वां सपर्यति परिचरति तस्य यजमानस्य प्राविता भव स्म अवश्यं रक्षको भव ॥ हूयते इति हविः । ‘ अर्चिशुचि' (उ. सू. २. २६५) इत्यादिना इसिः । प्रत्ययस्वरेण इकार उदात्तः । हविषः पतिर्ह विष्पतिः । ‘ नित्यं समासेऽनुत्तरपदस्थस्य ' (पा. सू. ८. ३. ४५) इति षत्वम् । “ पत्यावैश्वर्ये' (पा. सू. ६. २. १८) इति पूर्वपदप्रकृतिस्वरत्वम् । सपरशब्दात् ‘कण्ड्वादिभ्यो यक्' ( पा. सू. ३. १. २७) इति यक् । धातुप्रकरणात् गुणप्रतिषेधाद्यर्थात् यकः कित्वाच्च सपरशब्दस्य धातुत्वात् ततो विहितस्य यकः आर्धधातुकत्वे सति अतो लोपः' (पा. सू. ६. ४. ४८) इति लोपः। ‘सनाद्यन्ता धातवः' (पा. सू. ३. १. ३२) इति धातुसंज्ञायां तिप् । कर्तरि शप् । तस्मिन् पूर्वस्य ‘ अतो गुणे' (पा. सू. ६. १. ९७) इति परपूर्वत्वम् । यकः प्रत्ययस्वरेणोदात्तत्वम् । शपा सह एकादेशरय एकादेश उदात्तेनोदात्तः' (पा. सू. ८. २. ५) इत्युदात्तत्वम् । तिङ्ङतिङः' इति निघातो न भवति । यद्वृत्तान्नित्यम्' (पा. सू. ८. १. ६६ ) इति प्रतिषेधात् ॥
“Resplendent Agni, be the protector of that offerr of oblations who worships you, the messenger of the gods.”
God, Agni, be his strong defence who lord of sacrificial gifts,
Worshippeth thee the messenger.
Be the protector, O Agni, of a master of sacrificial food who worships thee, O god, as his messenger.
The lord of the oblation who honors you as his messenger, o god Agni, for him become a helper.
Dem Opferherrn, der, Agni, dich, o Gott, als seinen Boten ehrt, Dem mögest stets du Helfer sein.
Welcher Opferherr dich, Gott Agni, den Boten in Ehren hält, dessen Förderer sei du!
(Если) какой-нибудь устроитель жертвы тебя, о Агни
Как вестника, о бог, почитает,
Стань его покровителем!
यो अ॒ग्निं दे॒ववी॑तये ह॒विष्माँ॑ आ॒विवा॑सति । तस्मै॑ पावक मृळय ॥
यः । अ॒ग्निम् । दे॒वऽवी॑तये । ह॒विष्मा॑न् । आ॒ऽविवा॑सति । तस्मै॑ । पा॒व॒क॒ । मृ॒ळ॒य॒ ॥
हविष्मान् हविर्युक्तः यः यजमानः देववीतये देवानां हविर्भक्षणहेतुयोगार्थम् अग्निम् आविवासति अग्नेः समीपे विशेषेणागत्य परिचर्यां करोति । हे पावक अग्ने तस्मै मृळय तं यजमानं सुखय । देववीतये। ‘वी गतिप्रजनकान्त्यशनखादनेषु' इत्यस्मात् अशनार्थात् क्तिन् । देवानां वीतिर्यस्मिन् यागे स देववीतिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हविष्मान् । ‘ नब्विषयस्यानिसन्तस्य ' (फि. सू. २६) इति पर्युदासात् हविःशब्दोऽन्तोदात्तः । मतुपः सर्वानुदात्तत्वात् स एव शिष्यते । आविवासति । ‘वा गतिगन्धनयोः' । अस्मात् अन्तर्भावितण्यर्थात् आगमयितुमिच्छतीत्यर्थे सन् । आह्वानेच्छा परिचर्यायां पर्यवस्यतीति विवासतिशब्दः परिचर्यार्थे निघण्टौ (नि.३.५.१०) पठितः। द्विर्भावः । अभ्यासस्य ह्रस्वः। ‘ सन्यतः '(पा. सू. ७.४.७९) इति इत्वम् । ‘नित्यादिर्नित्यम् ( पा. सू. ६. १. १९७ ) इत्याद्युदात्तत्वम् । तिङ्ङतिङः' इति निघातो न भवति ‘यद्वृत्तान्नित्यम् ' (पा. सू. ८, १. ६६ ) इति प्रतिषेधात् । ‘तिङि चोदात्तवति' (पा. सू. ८. १, ७१ ) इति आङो निघातः । ‘सह सुपा' (पा. सू. २. १. ४) इत्यत्र सहेति योगविभागात् आङस्तिङासह समासे समासान्तोदात्तत्वे प्राप्ते परादिश्छन्दसि बहुलम् ' ( पा. सू. ६. २. १९९) इत्युत्तरपदाद्युदात्तत्वम् । तस्मै । ‘ क्रियाग्रहणं कर्तव्यम्' (पा. म. १. ४. ३२. १ ) इति संप्रदाने चतुर्थी ॥
“Be propitious, Pāvaka, to him, who, presenting oblations for the gratification of the celestials, approaches Agni.”
Whoso with sacred gift would fain call Agni to the feast of Gods,
O Purifier, favour him.
Be merciful, O purifier, unto the man who is rich in sacrificial food, and who invites Agni to the feast of the gods.
The possessor of the oblation who seeks to win Agni to pursue the gods, to him be merciful, o pure one.
Wer Agni zu dem Göttermahl, ihm Opfer bringend, zu sich lockt, Sei gnädig dem, o flammender.
Wer mit Opferspenden Agni herbittet zur Götterladung, dem sei gnädig, du Lauterer!
(Если) кто с жертвенным возлиянием
Захочет привлечь к себе Агни для приглашения богов
Будь милостив к нему, о чистый!
स न॑: पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हा व॑ह । उप॑ य॒ज्ञं ह॒विश्च॑ नः ॥
सः । नः॒ । पा॒व॒क॒ । दी॒दि॒ऽवः॒ । अग्ने॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ । उप॑ । य॒ज्ञम् । ह॒विः । च॒ । नः॒ ॥
हे दीदिवः दीप्यमान पावक शोधक अग्ने सः त्वं नः अस्मदर्थम् इह देवयजनदेशे देवान् आ वह । ततः नः अस्मदीयं यज्ञं तत्रत्यं हविश्च उप देवसमीपे प्रापयेति शेषः ॥ दीदिवः । ‘ दिवु क्रीडादौ । छन्दसि लुङ्लङ्लिटः ' ( पा. सू. ३. ४. ६ ) इति वर्तमाने लिट् । क्वसुः ॥ द्विर्भावो हलादिशेषः । ‘ तुजादीनां दीर्घोऽभ्यासस्य ' (पा. सू. ६. १. ७) इत्यभ्यासस्य दीर्घत्वम्। ‘वस्वेकाजाद्धसाम् ' ( पा. सू. ७. २. ६७ ) इति नियमात वसोः इट्प्रतिषेधः । लोपो व्योर्वलि ' ( पा. सू. ६. १. ६६ ) इति वकारलोपः । संबुद्धौ । उगिदचां° ' ( पा. सू. ७. १. ७० ) इत्यादिना नुम् । हल्या सदिलोपः संयोगान्तलोपः । ‘ मतुवसोः' इति रुत्वम् । विसर्गः । अग्ने । पादादित्वात् न निघातः । देवाँ इहेत्यत्र ‘ दीर्घादटि समानपादे ' ( पा. सू. ८. ३. ९ ) इति रुत्वम् । अतोऽटि नित्यम्' इति आकारस्यानुनासिकः । ‘ भोभगोअघोअपूर्वस्य योऽशि ( पा. सू. ८. ३. १७ ) इति रोर्यकारः। ‘ लोपः शाकल्यस्य ' (पा. सू. ८. ३. १९ ) इति यकारलोपः । तस्यासिद्धत्वात् आद्गुणो न भवति । इह । इदमो हः' (पा. सू. ५. ३. ११ ) इति सप्तम्यन्तात् हप्रत्ययः । इदम इश्' (पा. सू. ५. ३. ३)। तद्धितान्तत्वात् प्रातिपदिकत्वे ‘सुपो धातुप्रातिपदिकयोः ' ( पा. सू. २. ४. ७१ ) इति सप्तम्या लुक् । तद्धितश्चासर्वविभक्तिः ' ( पा. सू. १. १. ३८) इत्यव्ययसंज्ञायाम् अव्ययादाप्सुपः ' ( पा. सू. २. ४. ८२ ) इत्युत्तरस्याः सप्तम्या लुक् । अकारः प्रत्ययस्वरेणोदात्तः ॥
“Agni, the bright, the purifier, bring hither the gods to our sacrifice, to our oblations.”
Such, Agni, Purifier, bright, bring hither to our sacrifice,
To our oblation bring the Gods.
Thus, O Agni, resplendent purifier, conduct the gods hither to us, to our sacrifice and to our food.
O pure, shining Agni, convey the gods here to us,
right up to our sacrifice and oblation.
O flammender, o leuchtender, die Götter fahr uns, Agni, her; Zum Opfer und zu unserm Trank.
Fahre du lauterer, leuchtender Agni, uns die Götter her zu Opfer und Spende!
К нам, о чистый, светящийся
Агни, сюда привези богов
На жертвоприношение и на наше возлияние!
स न॒: स्तवा॑न॒ आ भ॑र गाय॒त्रेण॒ नवी॑यसा । र॒यिं वी॒रव॑ती॒मिष॑म् ॥
सः । नः॒ । स्तवा॑नः । आ । भ॒र॒ । गाय॒त्रेण॑ । नवी॑यसा । र॒यिम् । वी॒रऽव॑तीम् । इष॑म् ॥
हे अग्ने नवीयसा नवतरेण पूर्वकैरप्यसंपादितेन गायत्रेण गायत्रीच्छन्दस्केनानेन सूक्तेन स्तवानः स्तूयमानः सः त्वं नः अस्मदर्थं रयिं धनं वीरवतीं शूरपुत्रप्रभृत्यपत्ययुक्ताम् इषम् अन्नं च आ भर संपादय ॥ स्तवानः । ‘ष्टुञ् स्तुतौ । ‘ धात्वादेः षः सः । ‘ स्वरितञितः०' (पा. सू. १. ३.
७२ ) इत्यात्मनेपदम् । लटः शानच् । कर्तरि शप् । 'बहुलं छन्दसि ' ( पा. सू. २. ४. ७३ ) इति लुगभावः । गुणावादेशौ । ‘ आने मुक्' (पा. सू. ७. २.८२ ) इति मुक् न भवति, ‘ अनित्यमागमशासनम् ' ( परिभा. ९६ ) इत्यागमानुशासनस्य अनित्यत्वात् । शपः पित्त्वादनुदात्तत्वम् । शानचश्चित्वादन्तोदात्तस्य अदुपदेशात् शपः परत्वात् लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव शिष्यते । भर । ‘ हृग्रहोर्भश्छन्दसि ' (पा. सू. ८. २. ३२. १ ) इति भत्वम् । गायत्रेण । गायत्र्याः संबन्धि गायत्रम् । तस्येदम् ' ( पा. सू. ४. ३. १२० ) इति अण्प्रत्ययः । प्रत्ययस्वरः । नवीयसा । नवशब्दात् आतिशायनिकः ईयसुन्प्रत्ययः । नित्त्वादाद्युदात्तः । वीरवतीम् । मतुब्ङीपोः पित्त्वादनुदात्तत्वम् । अकारः प्रातिपदिकस्वरेणोदात्तः ॥
“Praised with our newest hymn, bestow upon us riches and food, the source of progeny.”
So lauded by our newest song of praise bring opulence to us,
And food, with heroes for our sons.
Thus praised by us with our new Gayatra hymn, bring us wealth of valiant men and food.
Being praised with our newer song, bring us
wealth, a refreshment made of heroes.
Gepriesen durch das neuste Lied, o Agni, bring uns Reichthum her, Und Labetrunk und Heldenschar.
Mit dem neuesten Gesangeslied gepriesen bring du uns einen Schatz, das Labsal vieler Söhne!
Прославляемый новым песнопением,
Привези нам богатство –
Подкрепление из сыновей!
अग्ने॑ शु॒क्रेण॑ शो॒चिषा॒ विश्वा॑भिर्दे॒वहू॑तिभिः । इ॒मं स्तोमं॑ जुषस्व नः ॥
अग्ने॑ । शु॒क्रेण॑ । शो॒चिषा॑ । विश्वा॑भिः । दे॒वहू॑तिऽभिः । इ॒मम् । स्तोम॑म् । जु॒ष॒स्व॒ । नः॒ ॥
हे अग्ने शुक्रेण शोचिषा त्वदीयश्वेतवर्णदीप्त्या विश्वाभिर्देवहूतिभिः त्वत्कृतसर्वदेवताह्वानसाधनस्तोत्रैश्च युक्तस्त्वं नः अस्मदीयम् इमं स्तोमं स्तोत्रविशेषं जुषस्व सेवस्व ॥ विश्वशब्दो विशेः क्वनन्तो नित्त्वादाद्युदात्तः । देवहूतिभिः । देवशब्दः पचाद्यजन्तः । चित्त्वादन्तोदात्तः । देवानां हूतय आह्वानान्यासु स्तुतिष्विति देवहूतयः स्तुतयः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । स्तूयतेऽनेनेति स्तोमः। ‘ अर्तिस्तुसु° ' ( उ. सू. १. १३७ ) इत्यादिना मन् । नित्त्वादाद्युदात्तः ॥ ॥ २३ ॥
“Agni, shining with pure radiance, and charged with all the invocations of the gods, be plural ased by this our praise.”
O Agni, by effulgent flame, by all invokings of the Gods,
Show pleasure in this laud of ours.
Agni with thy bright splendour be pleased, through all our invocations of the gods, with this our praise.
Agni, with your blazing flame, along with all the invocations to the gods, enjoy this praise of ours right now!
Mit hellem Licht, mit jedem Ruf, der, Agni, zu den Göttern dringt, Geniesse dieses unser Lob.
Agni, mit heller Glut genehmige nebst allen Götteranrufungen dieses Loblied von uns!
О Агни, со светлым пламенем
Со всеми призывами богов
Насладись (и) этим нашим восхвалением!