का रा॑ध॒द्धोत्रा॑श्विना वां॒ को वां॒ जोष॑ उ॒भयो॑: । क॒था वि॑धा॒त्यप्र॑चेताः ॥
का । रा॒ध॒त् । होत्रा॑ । अ॒श्वि॒ना॒ । वा॒म् । कः । वा॒म् । जोषे॑ । उ॒भयोः॑ । क॒था । वि॒धा॒ति॒ । अप्र॑ऽचेताः ॥
अश्विना हे अश्विनौ वां युवां का होत्रा । वाङ्नामैतत् । कीदृशी स्तुतिलक्षणा वाक् राधत् आराधयति प्रीतौ करोति । युवयोर्माहात्म्यानुरूपा स्तुतिर्नास्तीत्यर्थः । किंच वां युवयोः उभयोः जोषे जोषणे सेवने प्रीणने वा समर्थः कः स्तोता विद्यते । युष्मद्गुणाभिज्ञः कश्चिदपि नास्तीत्यर्थः । अप्रचेताः युवयोर्माहात्म्यमजानंश्च कथा केन प्रकारेण विधाति युवां परिचरति । युष्मद्विषयं परिचरणमपि न कर्तुं शक्यमित्यर्थः ॥ राधत् । ‘राध साध संसिद्धौ'। लेटि अडागमः । जोषे । जुषी प्रीतिसेवनयोः '। भावे घञ् । ञित्वादाद्युदात्तत्वम् । कथा । ‘था हेतौ च च्छन्दसि ' इति किंशब्दात् प्रकारवचने थाप्रत्ययः । किमः कः' इति कादेशः । विधाति । ‘विध विधाने' । तौदादिकः । लेटि आडागमः । अप्रचेताः । प्रकृष्टं चेतो यस्यासौ प्रचेताः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
“What praise may propitiate you, Aśvins? who may give satisfaction to you both? how may an ignorant (man) pay fitting homage?”
ASVINS, what praise may win your grace? Who may be pleasing to you both?
How shall the ignorant worship you?
What oblation to you will bring success, Aśvins? Who will be to the liking of you both?
How will he make offering?—he, an inattentive man!
Welche Anrufung mag euch, o Açvinen, gewinnen? was ist es, was euch beiden gefällt? wie soll euch der unkundige recht verehren?
Welche Zurufung mag euch recht sein, ihr Asvin? Wer macht es euch beiden zur Zufriedenheit? Wie soll euch der Unverständige dienen?
Какая жертва вам, о Ашвины, достигнет цели?
Кто вам обоим на радость?
Как служить (вам) неразумному?
वि॒द्वांसा॒विद्दुर॑: पृच्छे॒दवि॑द्वानि॒त्थाप॑रो अचे॒ताः । नू चि॒न्नु मर्ते॒ अक्रौ॑ ॥
वि॒द्वांसौ॑ । इत् । दुरः॑ । पृ॒च्छे॒त् । अवि॑द्वान् । इ॒त्था । अप॑रः । अ॒चे॒ताः । नु । चि॒त् । नु । मर्ते॑ । अक्रौ॑ ॥
इत्था इत्थम् अनेन पूर्वोक्तप्रकारेण अविद्वान् अज्ञः स्तोता विद्वांसौ इत् सर्वज्ञौ अश्विनौ एव दुरः द्वाराणि स्तुतिपरिचरणयोः उपायभूतान् मार्गान् पृच्छेत् प्रष्टुमर्हति । अपरः अश्विभ्यामन्यः सर्वः अपि अचेताः । चेतसा ज्ञानेन रहितः । तस्मात् अश्विनावेव पृच्छेदित्यर्थः। तौ च अक्रौ शत्रुभिः अनाक्रान्तौ अश्विनौ नू चित् क्षिप्रमेव मर्ते मनुष्ये स्तोतरि भक्तानुग्राहकतया सनिं धत्तः इति वाक्यशेषः ॥ इत्था । ‘था हेतौ च च्छन्दसि ' इति थाप्रत्ययः । ‘इदम इश्'। ‘एतेतौ रथोः ' ( पा. सू. ५. ३. ४ ) इति इद्भावः । यदि ‘ था हेतौ च ' इत्यत्र इदंशब्दस्य नानुवृत्तिः तदानीम् ‘इदमस्थमुः । एतदन्तात् परस्या विभक्तेर्व्यत्ययेन ‘सुपां सुलुक्' इति विभक्तेर्डादेशः । अक्रौ । ‘क्रमु पादविक्षेपे ' । अस्मात् नञ्युपपदे ‘कृत्यल्युटो बहुलम्' इति बहुलवचनात् कर्मण्यपि ‘जनसनखनक्रमगमो विट्' इति विट् ।' विड्वनोरनुनासिकस्यात्' इति आत्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
“Thus may an ignorant man inquire the means of worshipping the all-wise, for every (one) other (than the Aśvins) is unknowing; they, the unconquered, quickly(show favour) to the man (who worships them).”
Here let the ignorant ask the means of you who know--for none beside you knoweth aught--
Not of a spiritless mortal man.
He should ask just the two [=the Aśvins] who know about the doors—he, the man who does not know properly, who later (would be) without insight.
Never are the two inactive around the mortal.
Euch wissende möge der Opferer fragen, der unwissende und jeder andre Unkundige; niemals ja seid ihr unthätig bei dem Sterblichen.
Die beiden Kundigen soll der Unkundige nach den Pforten fragen. Ein anderer ist ebenso ein Tor. Niemals sind diese beiden gegen den Sterblichen untätig.
Таких двоих знатоков пусть спросит о вратах
Незнающий, любой другой, лишенный разума,
И никогда ведь (они) не бездеятельны в отношении смертного!
ता वि॒द्वांसा॑ हवामहे वां॒ ता नो॑ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य । प्रार्च॒द्दय॑मानो यु॒वाकु॑: ॥
ता । वि॒द्वांसा॑ । ह॒वा॒म॒हे॒ । वा॒म् । ता । नः॒ । वि॒द्वांसा॑ । मन्म॑ । वो॒चे॒त॒म् । अ॒द्य । प्र । आ॒र्च॒त् । दय॑मानः । यु॒वाकुः॑ ॥
हे अश्विनौ विद्वांसा सर्वज्ञौ ता वां तौ युवां हवामहे आह्वयामहे। तौ आहूतौ विद्वांसा अभिज्ञौ युवां नः अस्मभ्यं मन्म मननीयं ज्ञातव्यं स्तोत्रम् अद्य अस्मिन् काले वोचेतं ब्रुवाणौ भूयास्तम् । स चाहं युवाकुः युवां कामयमानः स्तुत्या संयोजयन् वा दयमानः युवाभ्यां हविः प्रयच्छन् प्रार्चत् प्रार्चं प्रकर्षण स्तौमि ॥ ता । ‘सुपां सुलुक्' इति विभक्तेराकारः । वोचेतम् । “ ब्रूञ् व्यक्तायां वाचि' । ‘ब्रुवो वचिः'। ‘लिङयाशिष्यङ्' । ‘वच उम्' इति उमागमः। आर्चत् ।' अर्च पूजायाम् ' । भौवादिकः । ‘तिङां तिङो भवन्ति' इति मिपः तिबादेशः । दयमानः । दय दानगतिरक्षणहिंसादानेषु' । शपः पित्त्वादनुदात्तत्वम् । शानचो लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । युवाकुः । युवां कामयते इति युवाकुः । ‘मितद्र्वादिभ्य उपसंख्यानम् ' (पा. सू. ३. २. १८०. १) इति डुप्रत्ययः । अविभक्तावपि व्यत्ययेन ‘युवावौ द्विवचने' इति युवादेशः आत्वं च । यद्वा । ‘यु मिश्रणे'। औणादिकः काकुप्रत्ययः ॥
“We invoke you, who know all things; may you, who are omniscient, declare to us today the praise tha tis acceptable; desirous of your presence, I reverence you, offering (oblations).”
Such as ye: are, all-wise, we call you. Ye wise, declare to us this day accepted prayer.
Loving you well your servant lauds you.
We call upon you two knowing ones. Knowing, you should speak to us a (poetic) thought today.
Distributing portions, the one seeking you chants forth.
Drum rufen wir euch, die wissenden; ihr wissenden möget uns heute das Gebet aussprechen; Gaben austheilend soll der euch liebende zu singen anheben.
Euch beide, die Kundigen, rufen wir an; als Kundige sollet ihr uns heute das Lied vorsagen. Euer Anhänger, der beschenkt wird, hat das Preislied angestimmt.
Мы призываем вас, таких знатоков.
Как знатоки такие подскажите нам сегодня тему (молитвы).
Ваш приверженец, наделяемый (наградой), запел (восхваление).
वि पृ॑च्छामि पा॒क्या॒३॒॑ न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा । पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ॥
वि । पृ॒च्छा॒मि॒ । पा॒क्या॑ । न । दे॒वान् । वष॑ट्ऽकृतस्य । अ॒द्भु॒तस्य॑ । द॒स्रा॒ । पा॒तम् । च॒ । सह्य॑सः । यु॒वम् । च॒ । रभ्य॑सः । नः॒ ॥
हे अश्विनौ युवां वि पृच्छामि विशेषेण प्रष्टुमिच्छामि । पाक्या न पक्तव्यप्रज्ञान् स्वपरिपक्वमतीन अन्यान् देवान् न पृच्छामि। किंतु युवामेव सर्वज्ञौ पृच्छामीत्यर्थः। हे दस्रा दर्शनीयौ तौ युवां वषट्कृतस्य वषट्कारेणाग्नौ हुतस्य अद्भुतस्य आश्चर्यभूतस्य महतः सह्यसः अतिशयेन बलवतो बलोत्पादकस्य सोमस्य स्वांशलक्षणमेकदेशं पातं च । नः अस्मान् च रभ्यसः अतिशयेन रभस्विनः प्रौढोद्यमान् कुरुतम् । पाक्या । पचेः ‘ऋहलोर्ण्यत्' ।' चजोः कु घिण्ण्यतोः' इति कुत्वम् । तित्स्वरः । ‘सुपां सुलुक्' इति विभक्तेर्ङादेशः । वषट्कृतस्य । वषट्शब्दस्य ऊर्यादित्वेन गतित्वात् ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । पातम् । ‘पा पाने '। 'बहुलं छन्दसि ' इति शपो लुक् । सह्यसः। सहते अभिभवत्यनेनेति सहो बलम् । असुन् । तदस्यास्तीति सहस्वी । मत्वर्थीयो विनिः । तत आतिशायनिक ईयसुन् । ‘विन्मतोर्लुक्'। छान्दस ईकोरलोपः । रभ्यसः । ‘रभ राभस्ये'। राभस्यं कार्योपक्रमः । पूर्ववत्प्रक्रिया उन्नेया ॥
“I invite not the gods immature (in wisdom), but you, Dasras; drink of the wonderful and strength-giving burnt-offering, and make us vigorous.”
Simply, ye Mighty Ones, I ask the Gods of that wondrous oblation hallowed by the mystic word.
Save us from what is stronger, fiercer than ourselves.
In my naïveté I ask (you), not (other) gods, about the unerring (soma), created with the vaṣaṭ-call, o wondrous ones.
Protect us from the more powerful and the more violent one!
Ich frage wie aus Unverstand die Götter aus nach dem geheimnissvollen von Opferruf begleiteten Werke (?); beschützt uns vor dem stärkeren und ungestümeren.
Ich frage in meiner Einfalt nicht die anderen Götter aus nach dem mit Vasatruf gesegneten heimlichen Soma, ihr Meister. Schützet ihr uns vor dem Mächtigeren, ihr vor dem Gewaltigeren!
Я расспрашиваю в простоте (своей) не (других) богов, (а вас),
О таинственном (соме), приготовленном под (возглас) Вашат!, о удивительные.
Защитите нас и от более сильных и от более хватких!
प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया॑ वा॒चा यज॑ति पज्रि॒यो वा॑म् । प्रैष॒युर्न वि॒द्वान् ॥
प्र । या । घोषे॑ । भृग॑वाणे । न । शोभे॑ । यया॑ । वा॒चा । यज॑ति । प॒ज्रि॒यः । वा॒म् । प्र । इ॒ष॒ऽयुः । न । वि॒द्वान् ॥
हे अश्विनौ प्र भवति समर्था भवति सा वाक् या वाक् युष्मत्स्तुतिरूपा घोषे घोषाख्यायाः पुत्रे सुहस्त्याख्ये ऋषौ भृगवाणे न भृगौ च शोभे शोभते । यया च स्तुतिलक्षणया वाचा पज्रियः । पज्रा अङ्गिरसः । तेषां कुलोत्पन्नः कक्षीवान् वां युवां यजति पूजयति स्तौति । सापि शोभते इत्यर्थः । इषयुर्न इषमन्नम् आत्मनः कामयमानश्च विद्वान् स्तुत्यभिज्ञः कक्षीवानृषिः प्र भवतु युष्मदनुग्रहात् संपूर्णकामो भवत्विस्यर्थः ॥ घोषे । घोषा नाम काचिद्ब्रह्मवादिनी कक्षीवतः पुत्री । अत्रोपचारात्तद्वाचकं प्रातिपदिकं पुत्रे वर्तते । भृगवाणे । चिरंतनो भृगुरिवाचरति । सर्वप्रातिपदिकेभ्यः' इति क्विप् । धातुसंज्ञायां व्यत्ययेन लटः शानच् । शबादि । आगमानुशासनस्यानित्यत्वात् मुगभावः । वृषादिः । शोभे । ‘शुभ दीप्तौ । लोपस्त आत्मनेपदेषु' इति तलोपः । इषयुः । ‘इष गतौ ' । इष्यति गच्छतीति इषमन्नम् । इगुपधलक्षणः कः । यद्वा । इषु इच्छायाम् । इष्यते सर्वैः प्राणिभिरिति इषमन्नम् । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । प्रशब्देन संहितायां • प्रादूहोढोढ्येषैष्येषु वृद्धिर्वक्तव्या' (पा. सू. ६. १. ८९. ४ ) इति वृद्धिः ॥ ॥ २२ ॥
“Powerful is the hymn that was repeated by the son of Ghoṣā, and by Bhṛgu, and with which hymn the Aṅgirasas adore you; may the sage (kakṣīvat), desirous (of food), obtain it abundantly.”
Forth go the hymn that shone in Ghosa Bhrgu's like, the song wherewith the son of Pajra worships you,
Like some wise minister.
(The Speech that says,) “I who cry forth as if at the Bhr̥gavāna (fire), who am beautiful, I the Speech by which Pajriya [=Kakṣīvant]
sacrifices to you”—
seeking refreshment, (I do) not (cry) forth (such Speech) as one
who knows.
Vorschreite das Lied, welches bei Ghoscha wie bei Bhrigavāna erglänzt, mit welchem der Nachkomme des Padschra [Kakschīvat] euch verehrt, vorschreite es wie ein kundiger Opferer.
Die Rede, die wie bei Ghosa Bhrigavana sich schön macht, mit der der Pajriya euch verehrt, eine solche habe ich nach Speisung verlangend, nicht als Kundiger vorgetragen.
(Речь,) что про (звучала), как у Бхригаваны, чтобы громко возвещать (и) блистать,
Речь, которую вас почитает Паджрия, –
(Ее я) про(изнес) как желающий вознаграждения знаток.
श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वाम् । आक्षी शु॑भस्पती॒ दन् ॥
श्रु॒तम् । गा॒य॒त्रम् । तक॑वानस्य । अ॒हन् । चि॒त् । हि । रि॒रेभ॑ । अ॒श्वि॒ना॒ । वा॒म् । आ । अ॒क्षी इति॑ । शु॒भः॒ । प॒ती॒ इति॑ । दन् ॥
हे अश्विना अश्विनौ गायत्रं गातव्यं गायत्रीयुक्तं गायत्रसाम्ना निष्पाद्यं वा स्तोत्रं तकवानस्य स्खलद्गतेः अन्धस्य ऋज्राश्वस्य संबन्धि श्रुतम् अशृणुतम्। अहं चित् अहमिव वां युवां सः हि रिरेभ स्तुतवान् । किं कुर्वन् । हे शुभस्पती शोभनस्य कर्मणः पालयितारौ जलस्य वा स्वामिनौ अक्षी युवाभ्यां दत्ते चक्षुषी आ दन् आददानः । तस्मै इव मह्यमप्यभिमतफलं प्रयच्छतमिति भावः ॥ श्रुतम् । ‘श्रु श्रवणे'। लङि ‘बहुलं छन्दसि' इति विकरणस्य लुक् । तकवानस्य । ‘तक गतौ'। अत्र गतिसामान्यवाचिना तद्विशेषो मन्दगतिर्लक्ष्यते । औणादिक उप्रत्ययः । भृगवाणे इतिवत् प्रक्रियोन्नेया । रिरेभ । 'रेभृ शब्दे'। अक्षी । ई च द्विवचने ' इत्यक्षिशब्दस्य ईकारान्तादेशः । स चोदात्तः । शुभस्पती । ‘सुबामन्त्रिते पराङ्गवत्स्वरे' इति षष्ठ्यन्तस्य पराङ्गवद्भावात् पदद्वयसमुदायस्य आष्टमिकामन्त्रितानुदात्तत्वम् । दन् । आङ्पूर्वात् ददातेः ‘आङो दोऽनास्यविहरणे' (पा. सू. १. ३. २०) इत्यात्मनेपदम् । व्यत्ययेन शतृ । जुहोत्यादित्वात् श्लुः । द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्' इति वचनात् द्विर्वचनाभावः। छन्दस्युभयथा' इत्युभयथाश्रयणात् शतुः सार्वधातुकत्वेन ङित्वम् । आर्धधातुकत्वात् ‘आतो लोप इटि च' इत्याकार लोपः ॥
“Hear the song of the stumbling (blind man), for verily, Aśvins, I glorify you, recovering my eyes (through you), who are protectors of good works”
Hear ye the song of him who hastens speedily. O Asvins, I am he who sang your praise.
Hither, ye Lords of Splendour, hither turn your eyes.
Hear the song of Takavāna, even though I have rasped it out to you, Aśvins.
(Set) your eyes here, lords of beauty, upon our home.
Höret das Preislied des eifrigen, denn ich, o Ritter, habe euch Gesang angestimmt; her wendet eure Augen, o Glanzesherren des Hauses (?).
Höret auf das Singlied des Takavana, denn ich habe euch besungen, ihr Asvin! Her die Augen, ihr Hausmeister der Schönheit!
Слушайте пение Такаваны –
Ведь это я восхвалил вас, о Ашвины!
Сюда глаза (свои обратите), о повелители красоты, (вы, -) повелители дома!
यु॒वं ह्यास्तं॑ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतम् । ता नो॑ वसू सुगो॒पा स्या॑तं पा॒तं नो॒ वृका॑दघा॒योः ॥
यु॒वम् । हि । आस्त॑म् । म॒हः । रन् । यु॒वम् । वा॒ । यत् । निः॒ऽअत॑तंसतम् । ता । नः॒ । व॒सू॒ इति॑ । सु॒ऽगो॒पा । स्या॒त॒म् । पा॒तम् । नः॒ । वृका॑त् । अ॒घ॒ऽयोः ॥
हे अश्विनौ महः महतो धनस्य रन् रातारौ दातारौ युवं युवां कंचन आस्तम् । - - - निरततंसतं धनानि निरगमयतम् । रक्षकौ विनाशकावपि युवामेवेत्यर्थः । हे वसू वासयितारावश्विनौ ता तादृशौ युवां नः अस्माकं सुगोपा सुष्ठु गोपायितारौ रक्षितारौ स्यातं भवतम् । अपि च नः अस्मान् अघायोः अघं पापफलमस्माकमिच्छतः वृकात् स्तेनात् पातं रक्षतम् ॥ महः । महतः । छान्दसः अच्छब्दलोपः । रन् । दन्नितिवत् प्रक्रियोन्नेया । व्यत्ययेनैकवचनम् । निरततंसतम् । तसि अलंकारे' । अस्मात् ण्यन्तात् लुङि ‘णिश्रिद्रुस्रुभ्यः' इति च्लेः चङ् द्विर्वचनादि च । गुरुसंज्ञया लघुसंज्ञाया बाधितत्वात् सन्वद्भावाभावः । सुगोपा । ‘सुपां सुलुक्' इति विभक्तेर्लुक् । अघायोः । अघं परेषामिच्छति । 'छन्दसि परेच्छायाम्' इति क्यच् । 'अश्वाघस्यात्' इति आत्वम् । ‘क्याच्छन्दसि' इति उप्रत्ययः ॥
“You have been givers of great riches; you have again caused them to disappear; do you, who are donors of dwellings, become our preservers; protect us from the felonous robber.”
For ye were ever nigh to deal forth ample wealth, to give the wealth that ye had gathered up.
As such, ye Vasus, guard us well, and keep us safely from the wicked wolf.
Because you two were in great joy surely (then) when you had jerked it away—
o good ones, you should be fine herdsmen for us!—protect us from the ill-wishing wolf.
Denn ihr wart zur Hand, wenn es galt herrliches zu geniessen (?), ihr auch wenn ihr Güter darreichtet (?); seid ihr, o Gute, uns treffliche Hüter, beschützt uns vor dem boshaften Wolfe.
Denn ihr verhalfet zu großer Freude, wenn ihr etwas herausgeschlagen habt. Möget ihr beiden Götter uns gute Hüter sein, schützet uns vor dem böswilligen Wolf!
Ведь вы были (повелителями) великой радости,
Когда вы что-либо вытряхивали (из колесницы).
Будьте нам добрыми пастухами, о два бога!
Сохраните нас от лютого волка!
मा कस्मै॑ धातम॒भ्य॑मि॒त्रिणे॑ नो॒ माकुत्रा॑ नो गृ॒हेभ्यो॑ धे॒नवो॑ गुः । स्त॒ना॒भुजो॒ अशि॑श्वीः ॥
मा । कस्मै॑ । धा॒त॒म् । अ॒भि । अ॒मि॒त्रिणे॑ । नः॒ । मा । अ॒कुत्र॑ । नः॒ । गृ॒हेभ्यः॑ । धे॒नवः॑ । गुः॒ । स्त॒न॒ऽभुजः॑ । अशि॑श्वीः ॥
हे अश्विनौ अमित्रिणे । अमित्रं मित्रराहित्यम् । तद्वते कस्मै चिदपि शत्रवे नः अस्मान् मा अभि धातम् आभिमुख्येन मा स्थापयतम् । अपि च नः अस्माकं गृहेभ्यः सकाशात् स्तनाभुजः स्तनैः वत्सान् मनुष्यांश्च पालयन्त्यः धेनवः गावः अशिश्वीः शिशुना वत्सेन विरहिता अस्मदीये गृहेऽशयाना वा सत्यः अकुत्र चित् अस्माभिरगम्ये प्रदेशे मा 'गुः मा गच्छन्तु ॥ धातम् । धाञो माङि लुङि ‘गातिस्था' इति सिचो लुक् । न माङ्योगे' इति अडभावः । अकुत्र । ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम्। गुः। ‘इण् गतौ'। ‘इणो गा लुङि' इति गादेशः । ‘गातिस्था' इति सिचो लुक् । आतः' इति झेर्जुस् । स्तनाभुजः । भुज पालनाभ्यवहारयोः' । स्तनैर्भुञ्जन्ति पालयन्तीति स्तनाभुजः । क्विप् । अन्येषामपि दृश्यते' इति सांहितिको दीर्घः । अशिश्वीः । ‘सख्यशिश्वीति भाषायाम् ' (पा. सू. ४. १. ६२) इति छन्दस्यपि व्यत्ययेन निपातनं द्रष्टव्यम् । यद्वा । शिशुरस्यास्तीति शिश्वी ।' छन्दसीवनिपौः' इति मत्वर्थीय ईकारः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घः । अथवा ।' शीङ् स्वप्ने '। ‘उत्सर्गश्छन्दसि' इति किप्रत्ययः । द्विर्वचनह्रस्वत्वे । एरनेकाचः' इति यण् । छान्दसो वकारः । पूर्ववत्समासस्वरौ ॥
“deliver us not, Aśvins, to our enemies; never may our cows, who nourish us with their udders, stray from our houses, separated from their calves.”
Give us not up to any man who hateth us, nor let our milch-cows stray, whose udders give us food,
Far from our homes without their calves.
Do not betray us to a nobody (who is) our enemy. Do not let our cows go from our house to a nowhere place,
giving sustenance from their udders, though without young.
Gebt uns nicht irgend einem Feinde Preis, nicht mögen die Kühe von unsern Häusern in die Irre gehn mit vollem Euter, ohne Kälber.
Überantwortet uns nicht uns einem feindlich Gesinnten! Nicht sollen die Kühe von unseren Häusern weg - man weis nicht wohin - gehen! Sie seien mit ihren Eltern nutzbringend, auch ohne ein Junges zu haben.
Не выдайте нас никакому недоброжелателю!
Да не уйдут дойные коровы от наших домов неизвестно куда!
Они приносят пользу выменем (даже) без телят.
दु॒ही॒यन्मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै । इ॒षे च॑ नो मिमीतं धेनु॒मत्यै॑ ॥
दु॒ही॒यन् । मि॒त्रऽधि॑तये । यु॒वाकु॑ । रा॒ये । च॒ । नः॒ । मि॒मी॒तम् । वाज॑ऽवत्यै । इ॒षे । च॒ । नः॒ । मि॒मी॒त॒म् । धेनु॒ऽमत्यै॑ ॥
हे अश्विनौ युवाकु युवां कामयमानाः स्तुतिभिर्यावयितारः संयोजयितारो वा स्तोतारः मित्रधितये मित्राणां बन्धुजनानां धारणार्थ दुहीयन् युष्मत्सकाशाद्धनानि दुहन्ति प्राप्नुवन्ति । अतः नः अस्मानपि वाजवत्यै वाजयुक्ताय च राये धनाय मिमीतं कुरुतम् । तथा धेनुमत्यै[१] धेनुभिर्युक्ताय इषे अन्नाय च नः अस्मान् मिमीतं कुरुतम् । अस्मभ्यं स्तोतृभ्यो बलयुक्तं धनं गोयुक्तमन्नं च प्रयच्छतमित्यर्थः ॥ दुहीयन् । दुह प्रपूरणे'। दुहिर्दोहः। ‘इगुपधात्कित्' (उ. सू. ४.५५९) इति भावे इप्रत्ययः । दुहिमात्मन इच्छति दुहीयति । ‘सुप आत्मनः क्यच् । दुहीयतेर्लेटि अडागमः । इतश्च लोपः' इति इकारलोपः । यद्वा । दुहेर्लिङि ‘झस्य रन्' (पा. सू. ३. ४. १०५) इति व्यत्ययेन रनादेशाभावे रूपमेतत् । छान्दसोऽन्त्यलोपः। यद्वा । रनादेशे कृते छान्दसो रेफस्य यकारः । अत एव व्युत्पत्यनवधारणात् नावगृह्णन्ति । युवाकु । ‘सुपां सुलुक्' इति जसो लुक् । मिमीतम् । माङ् माने शब्दे च'। जौहोत्यादिकः । व्यत्ययेन परस्मैपदम् । भृञामित्' इति अभ्यासस्य इत्वम्। ‘चवायोगे प्रथमा' इति निघातप्रतिषेधः ॥
“Those who adore you obtain (wealth) for the support of their friends; direct us to opulence, bestowing food; direct us to food, associated with kine.”
May they who love you gain you for their Friends. Prepare ye us for opulence with strengthening food,
Prepare us for the food that floweth from our cows
She should give milk in order to establish an alliance with you two. Measure us for wealth accompanied by prizes of victory,
and measure us for nourishment accompanied by cattle.
Sie mögen Milch geben, um euch [durch die den Açvinen dargereichten Tränke] zu Freunden zu gewinnen; und ihr möget uns zu labungsvollem Reichthume verhelfen und zu milchreicher Nahrung.
Sie sollen Milch geben, um euch zu Freunden zu machen. Bestimmt uns für den lohnbringenden Reichtum, und bestimmt uns für den Speisegenuß samt den Milchkühen!
Пусть доятся они, чтобы сделать вас друзьями!
Предназначьте нас для богатства, несущего награду,
И предназначьте нас для подкрепляющего напитка, связанного с коровами!
अ॒श्विनो॑रसनं॒ रथ॑मन॒श्वं वा॒जिनी॑वतोः । तेना॒हं भूरि॑ चाकन ॥
अ॒श्विनोः॑ । अ॒स॒न॒म् । रथ॑म् । अ॒न॒श्वम् । वा॒जिनी॑ऽवतोः । तेन॑ । अ॒हम् । भूरि॑ । चा॒क॒न॒ ॥
वाजिनीवतोः । वाजः अन्नं बलं वा । तद्वत्क्रियावतोः अश्विनोः अनश्वम् अश्वरहितम् अश्वराहित्येऽपि सामर्थ्यातिशयेन गच्छन्तं रथम् असनम् अहम् स्तोता समभजम् । तेन च रथेन भूरि प्रभूतं श्रेयः चाकन कामये ॥ असनम् । वन षण संभक्तौ' । लङ् । चाकन। 'कन दीप्तिकान्तिगतिषु'। छान्दसो लिट् । “ णलुत्तमो वा' (पा. सू. ७. १. ९१ ) इति णित्त्वस्य विकल्पनात् वृद्ध्यभावः। तुजादित्वात् अभ्यासदीर्घत्वम् ॥
“I have obtained, without horses, the car of the food-bestowing Aśvins, and expect (to gain) by it much (wealth).”
I have obtained the horseless car of Asvins rich in sacrifice,
And I am well content therewith.
I have won the horseless chariot of the Aśvins with their prizewinning mares.
By it I enjoy abundant delight.
Von den an Gütern reichen Açvinen habe ich den rosselosen Wagen empfangen, an dem habe ich grosses Gefallen.
Von den belohnenden Asvin habe ich einen Wagen ohne Roß geschenkt bekommen. Über den habe ich mich baß gefreut.
От награждающих Ашвинов
Получил я колесницу без коня.
Очень я этому рад!
अ॒यं स॑मह मा तनू॒ह्याते॒ जनाँ॒ अनु॑ । सो॒म॒पेयं॑ सु॒खो रथ॑: ॥
अ॒यम् । स॒म॒ह॒ । मा॒ । त॒नु॒ । ऊ॒ह्याते॑ । जना॑न् । अनु॑ । सो॒म॒ऽपेय॑म् । सु॒ऽखः । रथः॑ ॥
हे समह धनेन सहित हे रथ अयं पुरोवर्ती त्वं मा मां तनु विस्तारय । पुत्रपौत्रधनादिभिः समृद्धं कुरु । यद्वा । अयम् अयमानं त्वां प्राप्नुवन्तं माम् इति योज्यम् । स च सुखः शोभनावकाशः सुखहेतुर्वा रथः जनान् अनु स्तोतृजनेषु सोमपेयं सोमपानं प्रति ऊह्याते उह्यते अश्विभ्यां नीयते अतः अश्विभ्यां यद्दीयते तत्सर्वं रथ एव ददातीति रथं संबोध्य प्रार्थना ॥ अयम् । इदोऽय् पुंसि' ( पा. सू. ७. २. १११)। यद्वा । 'अय पय गतौ । पचाद्यच् । समह । मघमिति धननाम । मघेन सह वर्तते इति समघः । छान्दसो वर्णविकारः । यद्वा । ‘मह पूजायाम्'। महयति पूजयतीति महो धनम् । पचाद्यच् । ऊह्याते। वह प्रापणे' । कर्मणि लेटि आडागमः । यजादित्वात् संप्रसारणम् । तस्य छान्दसो दीर्घः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते । सोमपेयम् । 'पा पाने । ‘अचो यत्' इति भावे यत् । ‘ईद्यति' (पा. सू. ६. ४. ६५)' इति ईकारादेशः। यतोऽनावः' इस्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“This (is he who has obtained you), wealth- bearing (car); augment (my prosperity); may the delightful car bear the Soma beverage (to the Aśvins).”
May it convey me evermore: may the light chariot pass from men
To men unto the Soma draught.
In every way this easy-moving chariot will carry me again and again among the peoples, o body (of mine),
to the soma-drinking.
Lass du [o Wagen] mich überall hindringen, der leichtrollende Wagen möge durch die Menschen hin zum Somatrunke fahren.
Dieser leichte Wagen soll mich jedenfalls unter die Leute zum Somatrunk fahren, du Kleine.
Тащи меня как-нибудь!
Пусть двинется вслед за людьми
Эта легкоходная колесница на питье сомы!
अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभु॑ञ्जतश्च रे॒वत॑: । उ॒भा ता बस्रि॑ नश्यतः ॥
अध॑ । स्वप्न॑स्य । निः । वि॒दे॒ । अभु॑ञ्जतः । च॒ । रे॒वतः॑ । उ॒भा । ता । बस्रि॑ । न॒श्य॒तः॒ ॥
अध इदानीं प्रभातसमये स्वप्नस्य स्वप्नं प्रति निर्विदे निर्विण्णोऽस्मि । तथा अभुञ्जतः परान् अरक्षतः रेवतः धनवतः च पुरुषस्य एवंभूतं पुरुषं प्रत्यपि निर्विण्णोऽस्मि । यतः तौ उभौ बस्रि क्षिप्रं नश्यतः नाशं प्राप्नुतः । स्वप्नदृष्टः पदार्थः प्रातर्नोपलभ्यते कदर्यस्येव धनमभुक्तमदत्तं सत् क्षिप्रमेव नश्यति । तदुभयविषयो निर्वेदो मां बाधते इत्यर्थः । अत्र स्वप्नमात्रस्य असत्वप्रतिपादनेन दुःस्वप्नस्याप्यसद्भावः प्रतिपादितः । अत एषा दुःस्वप्ननाशनीति युज्यते ॥ स्वप्नस्य । ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । विदे।' विद्लृ लाभे '। आगमानुशासनस्य अनित्यत्वात् नुमभावः। रेवतः। रयिशब्दात् मतुप्। ‘रयेर्मतौ बहुलम्' इति संप्रसारणम् । 'छन्दसीरः' इति मतुपो वत्वम् । रेशब्दाच्च मतुप उदात्तत्वम्' इति तस्योदात्तत्वम् । उभा ता । उभयत्र ‘सुपां सुलुक् ' इति आकारः ॥ २३ ॥ ॥ १७ ॥
“Now am I disdainful of sleep, and of the rich man who benefits not others, for both (the morning sleep and the selfish rich man) quickly perish.”
It holdeth slumber in contempt. and the rich who enjoyeth not:
Both vanish quickly and are lost.
So then, I take no account of a dream nor of a rich man who gives no sustenance.
Both these vanish in the morning.
Er hat nichts zu schaffen mit dem Schlafe und mit dem Reichen, der nichts mittheilt; sie beide schwinden schnell dahin
Darum will ich nichts wissen von einem Traum und von einem Reichen, von dem man keinen Dank hat. Diese beiden verschwinden am Morgen.
Поэтому я забываю (дурной) сон
И скупого богача.
Оба они пропадают рано утром.