कदि॒त्था नॄँ: पात्रं॑ देवय॒तां श्रव॒द्गिरो॒ अङ्गि॑रसां तुर॒ण्यन् । प्र यदान॒ड्विश॒ आ ह॒र्म्यस्यो॒रु क्रं॑सते अध्व॒रे यज॑त्रः ॥
कत् । इ॒त्था । नॄन् । पात्र॑म् । दे॒व॒ऽय॒ताम् । श्रव॑त् । गिरः॑ । अङ्गि॑रसाम् । तु॒र॒ण्यन् । प्र । यत् । आन॑ट् । विशः॑ । आ । ह॒र्म्यस॑ । उ॒रु । क्रं॒स॒ते॒ । अ॒ध्व॒रे । यज॑त्रः ॥
नॄँः पात्रं नॄन् पाता नृणां स्तुतेः नेतॄणां पुरुषाणां रक्षणशीलः इन्द्रः तुरण्यन् गोरूपधनं प्रेरयन् देवयतां देवं द्योतमानं दानादिगुणयुक्तं वा इन्द्रम् आत्मन इच्छताम् अङ्गिरसाम् ऋषीणाम् अस्माकम् इत्था इत्थं प्रयुज्यमानाः गिरः स्तुतीः कत् कदा कस्मिन् काले श्रवत् शृणुयात् । यत् यदा स इन्द्रः हर्म्यस्य हर्म्योपलक्षितेन गृहेण युक्तस्य यजमानस्य संबन्धिनः विशः ऋत्विग्लक्षणान् मनुष्यान् आ आभिमुख्येन प्र आनट् प्राप्नोति तदानीम् अध्वरे अस्मदीये यज्ञे यजत्रः यष्टव्यः सन् उरु बहुलं क्रंसते क्रमते स्वयमेव उत्सहते इत्यर्थः ॥ कत् । कदा । अन्त्यलोपश्छान्दसः । नॄँः पात्रम् ।' नॄन्पे ' ( पा. सू. ८. ३. १० ) इति संहितायां नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा ' इति ऋकारः सानुनासिकः । पात्रम् । ‘पा रक्षणे'। ताच्छीलिकः तृन् । व्यत्ययेन सोः अमादेशः । संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणाभावे यण् । देवयताम् । सुप आत्मनः क्यच् । ततो लटः शतृ । ‘ शतुरनुमः० ' इति विभक्तेरुदात्तत्वम् । श्रवत् । श्रु श्रवणे '। लेटि अडागमः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । तुरण्यन् । ‘तुरण त्वरायाम् । कण्ड्वादिः । आनट् । अश्नोतेर्लङि व्यत्ययेन परस्मैपदम् । श्नौ प्राप्ते व्यत्ययेन श्नम्विकरणः । व्रश्चादिषत्वे जश्त्वम् । आडागमः । हर्म्यस्य । हर्म्यशब्दात् अर्शआदित्वात् अच् । क्रंसते । ‘ क्रमु पादविक्षेपे'। ' वृत्तिसर्गतायनेषु क्रमः' (पा. सू. १. ३. ३८) इत्यात्मनेपदम् । लेटि अडागमः । ‘ सिब्बहुलं लेटि' इति सिप् । यजत्रः । ‘ अमिनक्षि° ' इत्यादिना यजेः अत्रन्प्रत्ययः ॥
“When willIndra, the protector of men and granter of riches, listen to the praises thus (recited) of the Aṅgirasas, who are devoted to the gods? When he perceives the ministers of the master of the mansion, and is to be the object of worship in the sacrifice, he greatly exults.”
WHEN Will men's guardians hasting hear with favour the song of Angiras's pious
children?
When to the people of the home he cometh he strideth to the sacrifice, the Holy.
Will he, hastening to the cup of the men seeking the gods, listen properly to the hymns of the Aṅgirases?
When he has reached the clans of the secure habitation, will the one worthy of the sacrifice stride widely at their ceremony?
Mag wol der eilende so recht die Männer und das Trinkgefäss der Frommen und die Lieder der Angira's wahrnehmen? So oft er himkommt zu den Bewohnern der heimatlichen Stätte, eilt der ehrwürdige in grossen Schritten zu dem Opfer.
Ist er wohl das rechte Gefäß für solch gottergebene Männer? Wird der Eilige die Lobesworte des Angiras´ hören? Wenn er zu den Clanleuten des Herrenhauses gekommen ist, möge der Opferwürdige weite Schritte machen bei dem Opfer.
(Примет) ли (Индра) действительно (благосклонно) сосуд мужей, преданных богам?
Услышит ли спешащий песни Ангирасов?
Когда доберется он до членов семьи (этого) дома,
Пусть широко шагает на (наш) обряд, (он) достойный жертв.
स्तम्भी॑द्ध॒ द्यां स ध॒रुणं॑ प्रुषायदृ॒भुर्वाजा॑य॒ द्रवि॑णं॒ नरो॒ गोः । अनु॑ स्व॒जां म॑हि॒षश्च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः ॥
स्तम्भी॑त् । ह॒ । द्याम् । सः । ध॒रुण॑म् । प्रु॒षा॒य॒त् । ऋ॒भुः । वाजा॑य । द्रवि॑णन् । नरः॑ । गोः । अनु॑ । स्व॒ऽजाम् । म॒हि॒षः । च॒क्ष॒त॒ । व्राम् । मेना॑म् । अश्व॑स्य । परि॑ । मा॒तर॑म् । गोः ॥
सः इन्द्रः द्यां द्युलोकं ःस्तम्भीद्ध स्तभ्नाति खलु । तथा गोः पणिभिरपहृतस्य गोसमूहस्य वज्रस्य उदकस्य किरणसमूहस्य वा ःनरः नेता स इन्द्रः ऋभुः सूर्यत्मना उरु विस्तीर्णं भासमानः सन् द्रविणं सर्वैः प्राणिभिरभिद्रवणीयं धरुणम् । उदकनामैतत् । सर्वस्य धारकं वृष्ट्युदकं वाजाय अन्नार्थं बलार्थं वा प्रुषायत् प्रुष्णाति सिञ्चति प्रवर्षतीत्यर्थः । अपि च महिषः । महन्नामैतत् । महान् सूर्यरूपी इन्द्रः स्वजां स्वसकाशादुत्पन्नां व्राम् । वृणोति तमसा सर्वमाच्छादयतीति व्रा रात्रिः । यद्वा । प्रकाशेन वृणोतीति वा उषाः । ताम् अनु चक्षत । चष्टिः पश्यतिकर्मा । अनु पश्चात्पश्यति प्रकाशते । स्वयं प्रौढप्रकाशोऽपि स्वगत्या निष्पादिताया रात्रेरुषसश्च पश्चादुदेति' इत्यर्थः । अपि च इदमपरमाश्चर्यं यदयम् अश्वस्य मेनाम् । स्त्रीनामैतत् । स्त्रियं वडवां गोः मातरं जननीम् ॥ परिर्वैपरीत्ये। विपरीतमकरोत् । कदाचिदिन्द्रो लीलया अश्वायां गामुत्पादयामास । तदत्र प्रतिपाद्यते मन्त्रान्तरे च इन्द्रवाक्यरूपे एतद्विस्पष्टमवगम्यते ॥ धरुणम् । ‘ धारेर्णिलुक्च इति उनप्रत्ययः । प्रुषायत् । प्रुष प्लुष स्नेहनसेचनपूरणेषु । क्रैयादिकः । लेटि अडागमः । ‘ छन्दसि शायजपि ' इति अहावपि श्नाप्रत्ययस्य शायजादेशः । नरः । ‘ नॄ नये । बहुलवचनात् ‘ ऋदोरप्' इति कर्तरि अप् । चक्षत । ‘चक्षिङ् व्यक्तायां वाचि'। छान्दसो लङ् । ‘ बहुलं छन्दसि ' इति शपो लुगभावः ॥“सः इन्द्रः द्यां द्युलोकं ःस्तम्भीद्ध स्तभ्नाति खलु । तथा गोः पणिभिरपहृतस्य गोसमूहस्य वज्रस्य उदकस्य किरणसमूहस्य वा ःनरः नेता स इन्द्रः ऋभुः सूर्यत्मना उरु विस्तीर्णं भासमानः सन् द्रविणं सर्वैः प्राणिभिरभिद्रवणीयं धरुणम् । उदकनामैतत् । सर्वस्य धारकं वृष्ट्युदकं वाजाय अन्नार्थं बलार्थं वा प्रुषायत् प्रुष्णाति सिञ्चति प्रवर्षतीत्यर्थः । अपि च महिषः । महन्नामैतत् । महान् सूर्यरूपी इन्द्रः स्वजां स्वसकाशादुत्पन्नां व्राम् । वृणोति तमसा सर्वमाच्छादयतीति व्रा रात्रिः । यद्वा । प्रकाशेन वृणोतीति वा उषाः । ताम् अनु चक्षत । चष्टिः पश्यतिकर्मा । अनु पश्चात्पश्यति प्रकाशते । स्वयं प्रौढप्रकाशोऽपि स्वगत्या निष्पादिताया रात्रेरुषसश्च पश्चादुदेति' इत्यर्थः । अपि च इदमपरमाश्चर्यं यदयम् अश्वस्य मेनाम् । स्त्रीनामैतत् । स्त्रियं वडवां गोः मातरं जननीम् ॥ परिर्वैपरीत्ये। विपरीतमकरोत् । कदाचिदिन्द्रो लीलया अश्वायां गामुत्पादयामास । तदत्र प्रतिपाद्यते मन्त्रान्तरे च इन्द्रवाक्यरूपे एतद्विस्पष्टमवगम्यते ॥ धरुणम् । ‘ धारेर्णिलुक्च इति उनप्रत्ययः । प्रुषायत् । प्रुष प्लुष स्नेहनसेचनपूरणेषु । क्रैयादिकः । लेटि अडागमः । ‘ छन्दसि शायजपि ' इति अहावपि श्नाप्रत्ययस्य शायजादेशः । नरः । ‘ नॄ नये । बहुलवचनात् ‘ ऋदोरप्' इति कर्तरि अप् । चक्षत । ‘चक्षिङ् व्यक्तायां वाचि'। छान्दसो लङ् । ‘ बहुलं छन्दसि ' इति शपो लुगभावः ॥
“He verily upholds the heaven; he, the brilliant, the leader of the (stolen) herd, pours forth the flowing (water), for the sake of food; the mighty Indra manifests himself after his own daughter (the dawn); he made the feminine le of the horse unnaturally the mother of the cow.”
He stablished heaven; he poured forth, skilful worker, the wealth of kine, for strength, that nurtures heroes.
The Mighty One his self-born host regarded, the horse's mate, the mother of the heifer.
He propped up heaven, and he sprinkled its foundation [=earth]. The ingenious one (provided) movable wealth of man and cow for the prize. The buffalo gazed after (Dawn,) the self-created maiden making her choice (of husband), (who turned into) the consort of the horse
[=Sun], (then into) the mother of the cow.
Er befestigte den Himmel, benetzte den Erdboden, der kunstreiche, und alles Gut zur Labung des Menschen und des Viehes; es blickte der Büffel hin auf die ihm angehörige Schar, auf die Stute des Rosses und auf die Mutter des Rindes.
Er stützte den Himmel, er benetzte die Unterlage. Als Ribhu hat er, der Herr, den Besitz der Kuh zum Siegerpreis bestimmt. Der Büffel sah dem selbsterzeugten Lockweib nach. Er hatte das Weibchen des Pferdes in die Mutter der Kuh verwandelt.
Он укрепил небо, он окропил основу (земли).
Искусный (муж), он назначил богатство в виде коровы как награду (людям).
Буйвол следил взглядом за самкой, что родилась сама по себе.
Кобылицу он пре(вратил) в мать коровы.
नक्ष॒द्धव॑मरु॒णीः पू॒र्व्यं राट् तु॒रो वि॒शामङ्गि॑रसा॒मनु॒ द्यून् । तक्ष॒द्वज्रं॒ नियु॑तं त॒स्तम्भ॒द्द्यां चतु॑ष्पदे॒ नर्या॑य द्वि॒पादे॑ ॥
नक्ष॑त् । हव॑म् । अ॒रु॒णीः । पू॒र्व्यम् । राट् । तु॒रः । वि॒शाम् । अङ्गि॑रसाम् । अनु॑ । द्यून् । तक्ष॑त् । वज्र॑म् । निऽयु॑तम् । त॒स्तम्भ॑त् । द्याम् । चतुः॑ऽपदे । नर्या॑य । द्वि॒ऽपादे॑ ॥
अरुणीः अरुणवर्णाः आरोचमानाः वा उषसः राट् राजयन् प्रकाशयन् सूर्यात्मा इन्द्रः पूर्व्यं पूर्वैर्ऋषिभिः प्रयुक्तं हवम् इदानीमस्माभिः क्रियमाणमाह्वानं नक्षत् नक्षतु शृणोतु । कीदृशः । अनु द्यून अनुदिवसं विशां मनुष्याणाम् अङ्गिरसाम् ऋषीणां स्तोतॄणां तुरः धनस्य प्रेरयिता । अपि च स इन्द्रः वज्रं स्वकीयमायुधं नियुतं हन्तव्येन सह नितरां युक्तं तक्षत् अकरोत् । तथा द्यां द्युलोकं तस्तम्भत् अस्तम्भयत् । यथा अधो न पतति तथा अकरोदित्यर्थः । किमर्थम् । नर्याय नृभ्यो हिताय चतुष्पदे गवाश्वादये द्विपादे मनुष्याय च । एतदुभयार्थमित्यर्थः ॥ नक्षत् । नक्ष गतौ । लेटि अडागमः । पूर्व्यम् । पूर्वैः कृतमिनयौ च ' (पा. सू. ४. ४. १३३ ) इति यप्रत्ययः । राट् । ‘ राजृ दीप्तौ । अस्मादन्तर्भावितण्यर्थात् क्विप् । तुरः । ‘ तुर त्वरणे '। इगुपधलक्षणः कः । तक्षत् । ‘ तक्षू त्वक्षू तनूकरणे'। ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । तस्तम्भत् । ष्टभि स्कभि गतिप्रतिबन्धे'। अस्मात् ण्यन्तात् लुङि चङि रूपम् । ‘चङयन्यतरस्याम्' इति उपोत्तमस्य उदात्तत्वम् । पूर्वपदस्य असमानवाक्यस्थत्वात् निघाताभावः । चतुष्पदे । चत्वारः पादाः अस्य ।' संख्यासुपूर्वस्य । इति पादशब्दस्य अन्त्यलोपः समासान्तः । चतुर्थ्येकवचने भसंज्ञायां पादः पत्' इति पद्भावः । द्विपादे । पूर्ववत्प्रक्रिया । अयं तु विशेषः । अयस्मयादित्वेन पदत्वात् भसंज्ञाया अभावे पद्भावाभावः । ‘ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ' इत्युत्तरपदान्तोदात्तत्वम् ॥
“May he, illuminating the purple (dawn), listen to the invocation (addressed to him) of old, daily besowing wealth upon the race of Aṅgiras; he has sharpened his fatal shaft; he has supported the heaven for the good of men, of quadrupeds, andbipeds.”
Lord of red dawns, he came victorious, daily to the Angirases' former invocation.
His bolt and team hath he prepared, and stablished the heaven for quadrupeds and men two-footed.
The surpassing king will come through the days to the age-old call of the clans of the Aṅgirases for the ruddy (cows).
He will fashion the mace, his team-mate; he will prop up heaven for the sake of the two-footed and four-footed belonging to men.
Es vernahm das Gebrüll der röthlichen [? im Gewölk eingeschlossenen] Kuh der starke Gebieter der Menschen und der Angira's Tag für Tag; er machte zurecht den Blitz und das Gespann, befestigte den Himmel dem vierfüssigen Geschlecht und dem zweifüssigen der Menschen.
Es kam auf den Ruf zuerst die Morgenröte, die Königin; es kam auf den Ruf der Angiras´ der Gebieter der Clane alle Tage. Er zimmerte die ihm zu eigen gegebene Keule; er stützte den Himmel für die den Herren gehörigen Vierfüßler und Zweifüßler.
Являлся царь на древний зов племен Ангирасов,
(Чтобы захватывать) алых (коров), сильный (бог),
(Тваштар) выточил отданную в его власть ваджру.
(Индра) укрепил небо для четвероногого, для человека, для двуногого.
अ॒स्य मदे॑ स्व॒र्यं॑ दा ऋ॒तायापी॑वृतमु॒स्रिया॑णा॒मनी॑कम् । यद्ध॑ प्र॒सर्गे॑ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु॑षस्य॒ दुरो॑ वः ॥
अ॒स्य । मदे॑ । स्व॒र्य॑म् । दाः॒ । ऋ॒ताय॑ । अपि॑ऽवृतम् । उ॒स्रिया॑णाम् । अनी॑कम् । यत् । ह॒ । प्र॒ऽसर्गे॑ । त्रि॒ऽक॒कुप् । नि॒ऽवर्त॑त् । अप॑ । द्रुहः॑ । मानु॑षस्य । दुरः॑ । व॒रिति॑ ॥
हे इन्द्र अस्य सोमस्य पानेन मदे हर्षे सति ऋताय यज्ञार्थं स्वर्यं स्तुत्यम् अपीवृतं पणिभिर्गुहासु निगूढम् उस्रियाणां गवाम् अनीकं संघं दाः अङ्गिरोभ्यो दत्तवानसि । उत्तरार्धः परोक्षकृतः । यद्ध यदा खलु प्रसर्गे युद्धे त्रिककुप् त्रिषु लोकेषु उच्छ्रितः इन्द्रः निवर्तत् नितरां वर्तेत तदानीं स इन्द्रः द्रुहः द्रोग्धुः मानुषस्य मनोः संबन्धिनः असुरस्य पणेः संबन्धीनि दुरः द्वाराणि गवामनिर्गमनाय पिहितानि अप वः अपवृणोति उद्घाटयति ॥ स्वर्यम् । ‘ स्वृ शब्दोपतापयोः । ‘ ऋहलोर्ण्यत्' । संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः । अपीवृतम् । अपिपूर्वात् वृणोतेः कर्मणि निष्ठा । ‘ निपातस्य च ' इति पूर्वपदस्य दीर्घः । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । प्रसर्गे । प्रकर्षेण सृज्यन्ते विमुच्यन्ते अस्मिन् इषवः इति प्रसर्गः । अधिकरणे घञ् । कृदुत्तरपदप्रकृतिस्वरत्वम्। छान्दसः थाथादिस्वराभावः । निवर्तत् । ‘वृतु वर्तने '। लेटि अडागमः । व्यत्ययेन परस्मैपदम् । वः । वृञ् वरणे । छान्दसे लुङि ‘ मन्त्रे घस ' इति च्लेर्लुक् । गुणे हल्ड्यादिलोपः ॥ ।हे इन्द्र अस्य सोमस्य पानेन मदे हर्षे सति ऋताय यज्ञार्थं स्वर्यं स्तुत्यम् अपीवृतं पणिभिर्गुहासु निगूढम् उस्रियाणां गवाम् अनीकं संघं दाः अङ्गिरोभ्यो दत्तवानसि । उत्तरार्धः परोक्षकृतः । यद्ध यदा खलु प्रसर्गे युद्धे त्रिककुप् त्रिषु लोकेषु उच्छ्रितः इन्द्रः निवर्तत् नितरां वर्तेत तदानीं स इन्द्रः द्रुहः द्रोग्धुः मानुषस्य मनोः संबन्धिनः असुरस्य पणेः संबन्धीनि दुरः द्वाराणि गवामनिर्गमनाय पिहितानि अप वः अपवृणोति उद्घाटयति ॥ स्वर्यम् । ‘ स्वृ शब्दोपतापयोः । ‘ ऋहलोर्ण्यत्' । संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः । अपीवृतम् । अपिपूर्वात् वृणोतेः कर्मणि निष्ठा । ‘ निपातस्य च ' इति पूर्वपदस्य दीर्घः । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । प्रसर्गे । प्रकर्षेण सृज्यन्ते विमुच्यन्ते अस्मिन् इषवः इति प्रसर्गः । अधिकरणे घञ् । कृदुत्तरपदप्रकृतिस्वरत्वम्। छान्दसः थाथादिस्वराभावः । निवर्तत् । ‘वृतु वर्तने '। लेटि अडागमः । व्यत्ययेन परस्मैपदम् । वः । वृञ् वरणे । छान्दसे लुङि ‘ मन्त्रे घस ' इति च्लेर्लुक् । गुणे हल्ड्यादिलोपः ॥
“In the exhilaration of the Soma, you have restored the celebrated herd of cattle, hidden (in the cave), for the sake of sacrifice, (to the Aṅgirasas); when, Indra, the threefold crest engages in combat, he opens the doors of the tyrannical descendants of Manu”
In joy of this thou didst restore, for worship, the lowing company of hidden cattle.
When the three-pointed one descends with onslaught he opens wide the doors that cause man trouble.
In the exhilaration of this (soma) you gave the noisy vanguard of the ruddy (cows), (previously) covered over, to truth,
when the three-humped (herd) was (momentarily) turned back in its forward surge. You uncovered the deceits and unclosed the doors for the (people) descended from Manu.
In seinem Rausche verhalf er der eingeschlossenen rauschenden Schar der Kühe zu ihrem Rechte, als er bei seinem Vordringen den mit drei Spitzen versehenen Blitz niederschleuderte und die Thüren des menschenähnlichen Unholdes [des Vritra] erbrach.
Im Rausche dieses Soma gabst du die eingeschlossene lärmende Reihe der Kühe der Rechtmäßigkeit zurück. Als der Dreispitz sie im Zuge zurückführte, da schloß er die Tore auf, die Betrüger des Menschen.
В опьянении этим (сомой) ты вручил справедливости
Шумную запертую вереницу коров.
Когда же трехгорбый повел обратно (стадо, пришедшее) в движение,
Он открыл врата обмана рода человеческого.
तुभ्यं॒ पयो॒ यत्पि॒तरा॒वनी॑तां॒ राध॑: सु॒रेत॑स्तु॒रणे॑ भुर॒ण्यू । शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑या॒: पय॑ उ॒स्रिया॑याः ॥
तुभ्य॑म् । पयः॑ । यत् । पि॒तरौ॑ । अनी॑ताम् । राधः॑ । सु॒ऽरेतः॑ । तु॒रणे॑ । भु॒र॒ण्यू इति॑ । शुचि॑ । यत् । ते॒ । रेक्णः॑ । अय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥
हे इन्द्र तुरणे क्षिप्रकारिणे तुभ्यं भुरण्यू कृत्स्नं जगत्पोषयन्त्यौ पितरौ उत्पादयन्त्यौ द्यावापृथिव्यौ यत् यदा पयः सांनाय्यलक्षणं हविः अनीतां गोषु अनयतां न्यधिषातामित्यर्थः । कीदृशं पयः । राधः राधकं समृद्धिकरं सुरेतः शोभनरेतस्कं कृत्स्नजगदुत्पादनशक्तमित्यर्थः । हविषः सकाशात् हि जगदुत्पद्यते । ‘ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ' ( मनु. ३.७६ ) इति । यत् यदा च द्यावापृथिवीभ्यां गोष्वानीतं शुचि
शुद्धं सबर्दुघायाः क्षीरस्य दोग्ध्र्याः उस्रियायाः गोः पयः रेक्णः । धननामैतत् । धनवदतिप्रियम् । यद्वा । अतिरिक्तं प्रवृद्धम् । एवंविधं हविः तुभ्यम् आयजन्त आभिमुख्येन यजमानाः प्रायच्छन् । तदानीं द्रुहो मानुषस्य द्वाराण्यपवृणोतीति पूर्वया संबन्धः ॥ अनीताम् । ‘ णीञ् प्रापणे '। लङि ‘ बहुलं छन्दसि ' इति शपो लुक् । सुरेतः । ‘ सोर्मनसी अलोमोषसी' इत्युत्तरपदाद्युदात्तत्वम् । तुरणे । “ तुरण त्वरायाम् ' । कण्ड्वादिः । ‘ क्विप् च' इति क्विप् । अतोलोपयलोपौ । भुरण्यू ।' भुरण धारणपोषणयोः । अयमपि कण्ड्वादिः । औणादिक उप्रत्ययः ॥ ॥ २४ ॥
“When your parents, (heaven and earth), theprotectors (of the world), brought the nutritious and invigorating oblation to you, who are quick in act, and when they offered you the pure and precious milk of the cow.”
Thine is that milk which thy swift-moving Parents brought down, a strengthening genial gift for conquest;
When the pure treasure unto thee they offered, the milk shed from the cow who streameth nectar.
For you is this milk, consisting of good semen, which your two bustling parents brought as a bounty, (for you) to become surpassing—
your blazing legacy, which they gained through sacrifice, the milk of the ruddy one who gives sap as milk.
Als dir die Aeltern [Himmel und Erde] die Milch darreichten als segensreiche Gabe, die geschäftigen, eilenden, und als dir die Opferer die Milch der Nektar strömenden Kuh als glänzendes Erbtheil brachten,
Für dich war die Milch, die beide Eltern eilig brachten, die Gabe aus gutem Samen dir zum Sieg, der reine Trank, den sie dir als dein Eigentum zum Opfer brachten, die Milch der immermelken Kuh.
Это для тебя молоко, что принесли родители,
Деятельные, быстрые – дар из чистого семени,
Прозрачный, (с тем,) чтобы (его) пожертвовали как твое наследство,
Молоко вечнодоящейся коровы.
अध॒ प्र ज॑ज्ञे त॒रणि॑र्ममत्तु॒ प्र रो॑च्य॒स्या उ॒षसो॒ न सूर॑: । इन्दु॒र्येभि॒राष्ट॒ स्वेदु॑हव्यैः स्रु॒वेण॑ सि॒ञ्चञ्ज॒रणा॒भि धाम॑ ॥
अध॑ । प्र । ज॒ज्ञे॒ । त॒रणिः॑ । म॒म॒त्तु॒ । प्र । रो॒चि॒ । अ॒स्याः । उ॒षसः॑ । न । सूरः॑ । इन्दुः॑ । येभिः॑ । आष्ट॑ । स्वऽइदु॑हव्यैः । स्रु॒वेण॑ । सि॒ञ्चन् । ज॒रणा॑ । अ॒भि । धाम॑ ॥
अध इदानीमयमिन्द्रः स्तुतिभिः प्रीयमाणः सन् प्र जज्ञे प्रकर्षेण प्रादुर्बभूव। सः तरणिः शत्रूणां तारकोऽस्मान् ममत्तु मादयतु । स च प्र रोचि प्रकृष्टं रोचते । तत्र दृष्टान्तः । अस्याः अस्माभिर्दृश्यमानायाः उषसः समीपे वर्तमानः सूरः न सूर्य इव । जरणा जरणीयः स्तोतव्यः इन्दुः सोमः धाम आहवनीयलक्षणं स्थानम् अभिलक्ष्य स्रुवेण सिञ्चन् सिच्यमानः सन् 'स्वेदुहव्यैः स्वभूतसमृद्धहविष्कैः येभिः यैरस्माभिः आष्ट आशितः आसीत् । तानस्मान्मादयत्वित्यर्थः ॥ जज्ञे। ‘ जनी प्रादुर्भावे'। लिटि ‘ गमहन' इति उपधालोपः । ममत्तु । ‘मदी हर्षे '। ‘ बहुलं छन्दसि' इति विकरणस्य श्लुः । रोचि । “ रुच दीप्तौ । छान्दसो वर्तमाने लुङ् । व्यत्ययेन च्ले: चिणादेशः । आष्ट । ‘अश भोजने '। कर्मणि लङि ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । व्रश्चादिषत्वे ष्टुत्वम् । आडागमः । ‘ यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । स्वेदुहव्यैः। ‘इदि परमैश्वर्ये । औणादिक उप्रत्ययः । ‘अनित्यमागमशासनम्' इति नुमभावः । इदूनि प्रभूतानि च तानि हव्यानि स्वभूतानि च हव्यानि" येषाम् । यद्वा । ‘ ञिइन्धी दीप्तौ ' । स्वायत्तानि इन्दूनि इद्धानि हव्यानि येषाम् । अथवा । स्वभूतमिदं पुरोवर्ति हव्यं हविः येषां ते तथोक्ता: । पृषोदरादित्वात् अभिमतरूपसिद्धिः । सिञ्चन् । षिचिर् क्षरणे' । व्यत्ययेन कर्मणि कर्तृप्रत्ययः। ‘ शे मुचादीनाम् इति नुम् । जरणा । जरतिः स्तुतिकर्मा । अस्मात् कर्मणि ल्युट् । ‘सुपां सुलुक्' इति विभक्तेराकारः। व्यत्ययेन लित्स्वराभावः ॥
“Now is Indra manifested; may he, the over-comer (of his foes), grant us happiness,he, who shines brightly, like the sun of this dawn; may the excellent Soma, being sprinklled upon the plural ceof sacrifice with a ladle, (exhilarate us), by whom, presenting the oblations we had prepared, it was imbibed.”
There is he born. May the Swift give us rapture, and like the Sun shine forth from yonder dawning,
Indu, even us who drank, whose toils are offerings, poured from the spoon, with praise, upon the altar.
And now he [=Soma] has been produced—let him give exhilaration as he advances; he has shone forth like the sun from this dawn,
when the drop, (being impelled) by (priests) having sweat as their
oblation, (itself) pouring with the offering spoon, has reached its old (ritual) domains.
Da ward der Indusaft erzeugt, der vordringende berausche dich; er erglänzte wie dieses Morgens Sonne, als er durch die im Schweisse opfernden aus der Somakelle mit Rauschen strömend zu dem Sitze [der Opferstreu] gelangte,
Nun ist er geboren; erfolgreich soll er berauschen. Er leuchte hervor wie die Sonne aus dieser Morgenröte, wenn der Saft mit Hilfe der ihren Schweiß opfernden Priester, mit der Kelle eingießend, in die alten Gefäße gelangt ist.
Вот он родился. Да опьянит он, победный!
Он ярко засиял, как солнце из этой утренней зари,
Сок (сомы), – усилиями тех, кто приносит в жертву (свой) пот,
Благодаря которым (жрец,) разливающий (сому) ковшом, достиг старых установлений (обряда).
स्वि॒ध्मा यद्व॒नधि॑तिरप॒स्यात्सूरो॑ अध्व॒रे परि॒ रोध॑ना॒ गोः । यद्ध॑ प्र॒भासि॒ कृत्व्याँ॒ अनु॒ द्यूनन॑र्विशे प॒श्विषे॑ तु॒राय॑ ॥
सु॒ऽइ॒ध्मा । यत् । व॒नऽधि॑तिः । अ॒प॒स्यात् । सूरः॑ । अ॒ध्व॒रे । परि॑ । रोध॑ना । गोः । यत् । ह॒ । प्र॒ऽभासि॑ । कृत्व्या॑न् । अनु॑ । द्यून् । अन॑र्विशे । प॒शु॒ऽइषे॑ । तु॒राय॑ ॥
यदि स्विध्मा सुदीप्तास्या वनधितिः वने छेत्तव्ये वृक्षसमूहे निधातव्या शस्त्री अपस्यात् अपः विशसनात्मकं स्वकीयं कर्म कर्तुमिच्छेत् तदानीं सूरः प्रेरकः अध्वर्युः अध्वरे यज्ञे गोः पशोः रोधना रोधनाय यूपे नियोजनाय परि भवति समर्थो भवति । यद्वा । स्विध्मा सूर्यकिरणैः सुदीप्ता वनधितिः । वनमुदकमस्यां धीयते इति वनधितिर्मेघमाला । सा यत् यदा अपस्यात् अपः प्रवर्षणलक्षणं कर्म करोति तदानीं सूरः प्रेरकः इन्द्रः अध्वरे यज्ञस्य निमित्तभूते अध्वर्तव्ये अहिंसितव्ये अन्तरिक्षे वर्तमानः सन् गोः वृष्ट्युदकस्य रोधना रोधनानि आवरणानि परि परितो निवारयतीति शेषः । उत्तरार्धः प्रत्यक्षकृतः । हे इन्द्र सूर्यात्मना वर्तमानस्त्वं कृत्व्यान् । कृत्वीति कर्मनाम । कर्मसु साधून् द्यून् दिवसाननुलक्ष्य यद्ध यदा खलु प्रभासि प्रकर्षेण दीप्यसे तदानीम् अनर्विशे अनसा शकटेन इन्धनाद्याहरणाय अरण्यं प्रविशते । यद्वा । गन्तव्यं स्थलं प्रति गन्तुमशक्ताय पुरुषाय पश्विषे पशून् प्रेरयते तुराय त्वरमाणाय गोपालाय च सिध्येत् अभिमतमिति वाक्यशेषः ॥ स्विध्मा । शोभनमिध्मं दीप्तमास्यं दीप्तिर्वा यस्याः सा तथोक्ता। ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अपस्यात् । अपःशब्दात् ‘सुप आत्मनः क्यच्'। लेटि अडागमः। रोधना। रुधिर् आवरणे । ल्युट् च ' इति भावे ल्युट् । 'शेश्छन्दसि बहुलम् ' इति शेर्लोपः । अनर्विशे । अनसा विशति प्राप्नोतीति अनर्विट्। विशतेः क्विप् । अहरादीनां पत्यादिषूपसंख्यानम् ' ( पा. म. ८. २. ७०. १ ) इति सकारस्य रेफादेशः । यद्वा । अर्तेः कर्मणि विच् । अरं गन्तव्यं प्रति विशति प्राप्नोतीति अर्विट् । न अर्विट् अनर्विट् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अत एव व्युत्पत्त्यनवधारणादनवग्रहः । पश्विषे । “ इष गतौ । अस्मादन्तर्भावितण्यर्थात् ‘ क्विप् च ' इति क्विप् ॥
“When the bright-edged hatchet is ready for its work, the directing priest is able to have the victim bound in the sacrifice; when Indra, you shine upon the days that are appropriated to sacred rites, then (success attends) upon the man who goes with his cart (for fuel), the driver (of cattle), or the active (shepherd).”
When the wood-pile, made of good logs, is ready, at the Sun's worship to bind fast the Bullock,
Then when thou shinest forth through days of action for the Car-borne, the Swift, the Cattle-seeker.
(Even) when a woodpile provided with good kindling should be far away, the sun (still goes) around the cowpens at the ceremony,
when you [=Indra] shine forth, through the days that bring results, for the surpassing one [=Kakṣīvant?] whose clan is on the (wedding?)
carts, seeking livestock.
Wenn der mit gutem Brennholz versehene Holzstoss in Wirksamkeit tritt, als Sonne beim Opfer strahlend um den Verschluss des Rindes (?), und wenn du [Agni?] dann leuchtest in den festlichen (?) Tagen dem im Wagen fahrenden, Vieh [Milch] begehrenden, starken [Indra?].
Wenn die Holzmacherin, die gutes Brennholz hat, tätig sein wird, so soll während des Opfers die Sonne das Gefängnis der Kuh überwinden, wenn du hervorleuchtest während der entscheidenden Tage für den Gebieter, der mit seinem auf Karren fahrenden Clan die Herde sucht.
Когда пойдет полным ходом складывание дров – хорошего топлива,
То солнце во время обряда (должно) о(кружить) темницы коровы,
Когда ты будешь светить в решающие дни
Для сильного искателя скота, (вождя,) чей род следует на повозках.
अ॒ष्टा म॒हो दि॒व आदो॒ हरी॑ इ॒ह द्यु॑म्ना॒साह॑म॒भि यो॑धा॒न उत्स॑म् । हरिं॒ यत्ते॑ म॒न्दिनं॑ दु॒क्षन्वृ॒धे गोर॑भस॒मद्रि॑भिर्वा॒ताप्य॑म् ॥
अ॒ष्टा । म॒हः । दि॒वः । आदः॑ । हरी॒ इति॑ । इ॒ह । द्यु॑म्न॒ऽसह॑म् । अ॒भि । यो॒धा॒नः । उत्स॑म् । हरि॑म् । यत् । ते॒ । म॒न्दिन॑म् । धु॒क्षन् । वृ॒धे । गोऽर॑भसम् । अद्रि॑ऽभिः । वा॒ताप्य॑म् ॥
हे इन्द्र महः महतः दिवः मदकरस्य सोमस्य अष्टा भोक्तारौ पातारौ हरी स्वकीयौ अश्वौ इह अस्मिन्कर्मणि आदः पीतशेषं सोमं पायय । तथा द्युम्नासाहं द्युम्नस्य अस्मदीयस्य धनस्यहे इन्द्र महः महतः दिवः मदकरस्य सोमस्य अष्टा भोक्तारौ पातारौ हरी स्वकीयौ अश्वौ इह अस्मिन्कर्मणि आदः पीतशेषं सोमं पायय । तथा द्युम्नासाहं द्युम्नस्य अस्मदीयस्य धनस्य अभिभवितारम् उत्सम् उत्स्रावयितारं शत्रुं योधानः योधनशीलस्त्वम् अभि भव। यत् यदा ते तव वृधे वर्धनाय 'हरिं मनोहरं मन्दिनं मदकरं गोरभसम् । अत्र गोशब्दः पयसि वर्तते । पयो बलम् । तद्वद्वेगवन्तं वीर्यन्तमित्यर्थः । वाताप्यं वातेन प्राप्तव्यम् । वाततुल्येन शीघ्रकारिणा त्वया पातव्यमित्यर्थः। एवंविधं सोमम् अद्रिभिः ग्रावभिः धुक्षन् दुहन्ति ऋत्विजः अभिषुण्वन्ति । तदानीम् अष्टा इति पूर्वत्र संबन्धः ॥ अष्टा ‘। ‘ अश भोजने' । तृच् । आगमानुशासनस्यानित्यत्वात् इडभावः । धुक्षन् । पदकालीनो भष्भावश्छान्दसः ॥अभिभवितारम् उत्सम् उत्स्रावयितारं शत्रुं योधानः योधनशीलस्त्वम् अभि भव। यत् यदा ते तव वृधे वर्धनाय 'हरिं मनोहरं मन्दिनं मदकरं गोरभसम् । अत्र गोशब्दः पयसि वर्तते । पयो बलम् । तद्वद्वेगवन्तं वीर्यन्तमित्यर्थः । वाताप्यं वातेन प्राप्तव्यम् । वाततुल्येन शीघ्रकारिणा त्वया पातव्यमित्यर्थः। एवंविधं सोमम् अद्रिभिः ग्रावभिः धुक्षन् दुहन्ति ऋत्विजः अभिषुण्वन्ति । तदानीम् अष्टा इति पूर्वत्र संबन्धः ॥ अष्टा ‘। ‘ अश भोजने' । तृच् । आगमानुशासनस्यानित्यत्वात् इडभावः । धुक्षन् । पदकालीनो भष्भावश्छान्दसः ॥
“Send hither your horses, the quaffers of the exhilarating libation; overcome, warrior, the adversary plural ndering us of our treasure; when they express with stones, for the increase (of your strength), the delightful, exhilarating, invigorating (Soma), to be overtaken by you, who are swifter than the wind.”
Eight steeds thou broughtest down from mighty heaven, when fighting for the well that giveth splendour,
That men might press with stones the gladdening yellow, strengthened with milk, fermenting, to exalt thee.
You brought here the two tawny (horses) attained from great heaven, as you were battling for the wellspring (of soma), which was
overwhelming in heavenly brilliance,
when for you to grow strong they milked with stones the exhilarating tawny (soma), that was frenzied for cows [=milk], befriended by
the wind.
Vom hohen Himmel nahmst du dir die Rosse, erkämpftest hier den Kraft verleihnden Brunnen, Dass man mit Steinen dir den goldnen Rauschtrank zur Lust den starken milchgemischten melke.
Als du den großen Himmel eingeholt, nahmst du hier die beiden Falben weg, den an Glanz überlegenen Quell erkämpfend, als sie zu deiner Stärkung den berauschenden Soma mit den Steinen ausmelkten, den auf die Milch der Kühe wilden, den Windbefreundeten.
Ты взял сюда с великого неба (четыре) пары буланых коней – (всего) восемь,
Сражаясь за источник, (все) превосходящий блеском,
Когда (боги) доили опьяняющего буланого (сому), чтобы усилить тебя,
(Доили) давильными камнями сок, крепчающий от (молока) коров, дружащий с ветром.
त्वमा॑य॒सं प्रति॑ वर्तयो॒ गोर्दि॒वो अश्मा॑न॒मुप॑नीत॒मृभ्वा॑ । कुत्सा॑य॒ यत्र॑ पुरुहूत व॒न्वञ्छुष्ण॑मन॒न्तैः प॑रि॒यासि॑ व॒धैः ॥
त्वम् । आ॒य॒सम् । प्रति॑ । व॒र्त॒यः॒ । गोः । दि॒वः । अश्मा॑नम् । उप॑ऽनीतम् । ऋभ्वा॑ । कुत्सा॑य । यत्र॑ । पु॒रु॒ऽहू॒त॒ । व॒न्वन् । शुष्ण॑म् । अ॒न॒न्तैः । प॒रि॒ऽयासि॑ । व॒धैः ॥
हे इन्द्र त्वं गोः गन्तुः शुष्णस्यासुरस्य वधार्थम् आयसम् अयोमयं वज्रं प्रति वर्तयः आभिमुख्येन व्यसृजः । कीदृशं वज्रम् । दिवः द्युलोकात् ऋभ्वा दीप्तेन त्वष्ट्रा उपनीतम् आनीतम् अश्मानं शीघ्रं शत्रोर्व्यापकम् । यत्र यदा हे पुरुहूत पुरुभिर्बहुभिः स्तोतृभिराहूतेन्द्र कुत्साय एतत्संज्ञाय ऋषये शुष्णं शोषकमसुरम् अनन्तैः निरवधिकैः वधैः हननसाधनैरायुधैः वन्वन् हिंसन् परियासि परितः गच्छसि । तदानीं तद्वधार्थं वज्रं प्रत्यवर्तयः इत्यर्थः । अश्मानम् । अशू व्याप्तौ । अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । ऋभ्वा ।' जसादिषु च्छन्दसि वावचनम्' इति नाभावस्य विकल्पितत्वादभावे यणादेशः । वन्वन् । 'वनु याचने' । अत्र हिंसार्थः । तथा च यास्कः -- ‘वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति' ( निरु. ५. २ ) इति । वधैः । ‘ हनश्च वधः' इति हन्तेः करणे अप्; तत्संन्नियोगेन वधादेशश्च । स चान्तोऽन्तोदात्तः । तस्य अतो लोपे सति उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् ॥हे इन्द्र त्वं गोः गन्तुः शुष्णस्यासुरस्य वधार्थम् आयसम् अयोमयं वज्रं प्रति वर्तयः आभिमुख्येन व्यसृजः । कीदृशं वज्रम् । दिवः द्युलोकात् ऋभ्वा दीप्तेन त्वष्ट्रा उपनीतम् आनीतम् अश्मानं शीघ्रं शत्रोर्व्यापकम् । यत्र यदा हे पुरुहूत पुरुभिर्बहुभिः स्तोतृभिराहूतेन्द्र कुत्साय एतत्संज्ञाय ऋषये शुष्णं शोषकमसुरम् अनन्तैः निरवधिकैः वधैः हननसाधनैरायुधैः वन्वन् हिंसन् परियासि परितः गच्छसि । तदानीं तद्वधार्थं वज्रं प्रत्यवर्तयः इत्यर्थः । अश्मानम् । अशू व्याप्तौ । अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । ऋभ्वा ।' जसादिषु च्छन्दसि वावचनम्' इति नाभावस्य विकल्पितत्वादभावे यणादेशः । वन्वन् । 'वनु याचने' । अत्र हिंसार्थः । तथा च यास्कः -- ‘वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति' ( निरु. ५. २ ) इति । वधैः । ‘ हनश्च वधः' इति हन्तेः करणे अप्; तत्संन्नियोगेन वधादेशश्च । स चान्तोऽन्तोदात्तः । तस्य अतो लोपे सति उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् ॥
“You did hurl your metal bolt upon the quick-moving (asura), the swift destroyer of foes, that was brought (to you) by Ṛbhu from heaven; when you, who are worshipped by many, striking Śuṣṇa, for the sake of Kutsa, did encompass him with numberless fatal (weapons).”
Thou hurledst forth from heaven the iron missile, brought by the Skilful, from the sling of leather,
When thou, O Much-invoked, assisting Kutsa with endless deadly darts didst compass Susna.
Ingenious, you rolled back from the cow the metallic stone of heaven, which had been brought nearby,
when, o much-invoked one, vanquishing Śuṣṇa, you kept encircling him with endless deadly weapons.
Du schleudertest den eisernen, von Ribhu geschenkten Keil des Himmels aus dem Riemen, Als, vielgerufner, du dem Kutsa helfend mit Hieben ohne Zahl den Çuschna anfielst.
Du kehrtest geschickt den dargereichten ehernen Spieß der Kuh in den Himmelskeil um, wobei du Vielgerufener für Kutsa Partei nehmend den Susna mit endlosen Streichen einholest.
Ты заставил повернуть железную (ваджру с ремнем) из коровьей (кожи),
Небесную пращу, принесенную искусным (Тваштаром?),
Когда, о многопризываемый, выигрывая (бой) для Кутсы,
Ты окружил Шушну бесконечными смертельными оружиями.
पु॒रा यत्सूर॒स्तम॑सो॒ अपी॑ते॒स्तम॑द्रिवः फलि॒गं हे॒तिम॑स्य । शुष्ण॑स्य चि॒त्परि॑हितं॒ यदोजो॑ दि॒वस्परि॒ सुग्र॑थितं॒ तदाद॑: ॥
पु॒रा । यत् । सूरः॑ । तम॑सः । अपि॑ऽइतेः । तम् । अ॒द्रि॒ऽवः॒ । फ॒लि॒ऽगम् । हे॒तिम् । अ॒स्य॒ । शुष्ण॑स्य । चि॒त् । परि॑ऽहितम् । यत् । ओजः॑ । दि॒वः । परि॑ । सुऽग्र॑थितम् । तत् । आ । अ॒द॒रित्य॑दः ॥
पुरा यत् यदा सूरः सूर्यः तमसः तमोरूपस्य शुष्णस्य असुरस्य अपीतेः संग्रामान्मुक्तोऽभवदिति शेषः । तदानीं हे अद्रिवः । आदृणाति अनेनेत्यद्रिर्वज्रः । तद्वन्निन्द्र तं फलिगम् । मेघनामैतत् । मेघरूपेणावृण्वन्तं हेतिं हन्तारं शुष्णमसुरम् अस्य निरसितवानसि । यद्वा । अस्य शुष्णस्यासुरस्य हेतिं हननसाधनमायुधं फलिगं मेघलक्षणं प्राभाङ्क्षीः इति शेषः । तथा शुष्णस्य चित् शोषयितुरसुरस्य च यत् ओजः आच्छादकं बलं दिवस्परि द्योतमानस्य सूर्यस्योपरि परिहितम् आच्छादितं सुग्रथितं सुष्ठु सूर्ये सक्तं तत् ओजस्तस्मात्सूर्यात् आदः आदृणाः विश्लिष्टं कृतवानसीत्यर्थः॥ अद्रिवः । छन्दसीरः' इति मतुपो वत्वम् । मतुवसो रुः° ' इति नकारस्य रुत्वम् । हेतिम् । ‘ कृत्यल्युटो बहुलम्' इति बहुलवचनात् हन्तेः कतीर क्तिन् ।' ऊतियूति' इत्यादौ निपातनात् रूपसिद्धिः अन्तोदात्तत्वं च । अस्य । ‘असु क्षेपणे '। लटः सिप् । तस्य व्यत्ययेन ह्यादेशः । अतो हेः' इति हेर्लुक् । दिवस्परि । पञ्चम्याः परावध्यर्थे ' इति विसर्जनीयस्य सत्वम् । अदः । ‘दॄ विदारणे' । लङि सिपि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । गुणे हल्ङ्याब्भ्यः' इति सिलोपः ॥ ॥ २५ ॥“पुरा यत् यदा सूरः सूर्यः तमसः तमोरूपस्य शुष्णस्य असुरस्य अपीतेः संग्रामान्मुक्तोऽभवदिति शेषः । तदानीं हे अद्रिवः । आदृणाति अनेनेत्यद्रिर्वज्रः । तद्वन्निन्द्र तं फलिगम् । मेघनामैतत् । मेघरूपेणावृण्वन्तं हेतिं हन्तारं शुष्णमसुरम् अस्य निरसितवानसि । यद्वा । अस्य शुष्णस्यासुरस्य हेतिं हननसाधनमायुधं फलिगं मेघलक्षणं प्राभाङ्क्षीः इति शेषः । तथा शुष्णस्य चित् शोषयितुरसुरस्य च यत् ओजः आच्छादकं बलं दिवस्परि द्योतमानस्य सूर्यस्योपरि परिहितम् आच्छादितं सुग्रथितं सुष्ठु सूर्ये सक्तं तत् ओजस्तस्मात्सूर्यात् आदः आदृणाः विश्लिष्टं कृतवानसीत्यर्थः॥ अद्रिवः । छन्दसीरः' इति मतुपो वत्वम् । मतुवसो रुः° ' इति नकारस्य रुत्वम् । हेतिम् । ‘ कृत्यल्युटो बहुलम्' इति बहुलवचनात् हन्तेः कतीर क्तिन् ।' ऊतियूति' इत्यादौ निपातनात् रूपसिद्धिः अन्तोदात्तत्वं च । अस्य । ‘असु क्षेपणे '। लटः सिप् । तस्य व्यत्ययेन ह्यादेशः । अतो हेः' इति हेर्लुक् । दिवस्परि । पञ्चम्याः परावध्यर्थे ' इति विसर्जनीयस्य सत्वम् । अदः । ‘दॄ विदारणे' । लङि सिपि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । गुणे हल्ङ्याब्भ्यः' इति सिलोपः ॥ ॥ २५ ॥
“When the sun (had emerged) from the struggle with darkness, you did break, wielder of the thunderbolt, the cloud that had been his annoyance, and did under the well-fastened covering in which Śuṣṇa had enveloped him.”
Bolt-armed, ere darkness overtook the sunlight, thou castest at the veiling cloud thy weapon,
Thou rentest, out of heaven, though firmly knotted, the might of Susna that was thrown around him.
When it is just before the sun enters into (the fold) of darkness, then cast the missile against the bolt, o possessor of the stones.
Even the power of Śuṣṇa that surrounded him—that you tore away from heaven, even though it was well-knotted.
Bevor vom Dunkel noch die Sonn' ereilt wird, Wirf auf die Wolke deinen Speer, o Blitzer, Die Kraft des Çuschna, die er sich erworben, die festumschlossne, nahmst du weg vom Himmel.
Wenn die Sonne vor dem Verschwinden im Dunkel ist, schleudere, du Herr des Preßsteins, das Geschoß nach dem Räuber!" Des Susna umgelegte Stärke, die hast du vom Himmel her zersprengt.
Когда солнце вот-вот погрузится во мрак,
О повелитель давильных камней, швырни ту скалу – метательное оружие!
Та сила Шушны, что была окружена,
Крепко связана, – ты сорвал ее с неба.
अनु॑ त्वा म॒ही पाज॑सी अच॒क्रे द्यावा॒क्षामा॑ मदतामिन्द्र॒ कर्म॑न् । त्वं वृ॒त्रमा॒शया॑नं सि॒रासु॑ म॒हो वज्रे॑ण सिष्वपो व॒राहु॑म् ॥
अनु॑ । त्वा॒ । म॒ही इति॑ । पाज॑सी॒ इति॑ । अ॒च॒क्रे इति॑ । द्यावा॒क्षामा॑ । म॒द॒ता॒म् । इ॒न्द्र॒ । कर्म॑न् । त्वम् । वृ॒त्रम् । आ॒ऽशया॑नम् । सि॒रासु॑ । म॒हः । वज्रे॑ण । सि॒स्व॒पः॒ । व॒राहु॑म् ॥
हे इन्द्र मही मह्यौ महत्यौ पाजसी बलवत्यौ अचक्रे अचङ्क्रमणे सर्वत्र व्याप्य वर्तमाने द्यावक्षामा द्यावापृथिब्यौ कर्मन् वृत्रवधादिलक्षणे कर्मणि प्रवृत्तं त्वाम् अनु मदतां हृष्टमकुरुताम् अन्वमन्येतां वा । तथा च तैत्तिरीयकं -‘स आभ्यामेव प्रसूत इन्द्रो वृत्रमहन् ' (तै. सं. २. ५. २. ६) इति । तदनन्तरं त्वम् आशयानम् आ समन्ताद्व्याप्य वर्तमान वराहुं वराहारं वृत्रम् असुरं सिरासु सरणशीलास्वप्सु महः महता वज्रेण सिष्वपः अस्वापयः । वज्रेण हत्वा पातितवानित्यर्थः ॥ मही । सुपां सुलुक् ' इति विभक्तेः पूर्वसवर्णदीर्घः । पाजसी । पाजःशब्दो बलवाचको लक्षणया अत्र तद्वति वर्तते । ‘ इयाडियाजीकारणामुपसंख्यानम् ' इति विभक्तेः ईकारादेशः । द्यावाक्षामा । द्यौश्च क्षामा च । ‘ दिवो द्यावा ' इति द्यावादेशः । ‘ देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरत्वम् । सुपां सुलुक्' इति विभक्तेर्लुक् । मदताम् । मदी हर्षे' । व्यत्ययेन शप् । बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । महः । महतः । करणे शेषत्वेन विवक्षिते षष्ठी । अच्छब्दलोपश्छान्दसः । सिष्वपः । ‘ ञिष्वप् शये ' । अस्मात् ण्यन्तात् लुङि चङि संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘ स्वापेश्चङि' (पा. सू. ६. १. १८) इति संप्रसारणं न क्रियते ॥लक्षणया अत्र तद्वति वर्तते । ‘ इयाडियाजीकारणामुपसंख्यानम् ' इति विभक्तेः ईकारादेशः । द्यावाक्षामा । द्यौश्च क्षामा च । ‘ दिवो द्यावा ' इति द्यावादेशः । ‘ देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरत्वम् । सुपां सुलुक्' इति विभक्तेर्लुक् । मदताम् । मदी हर्षे' । व्यत्ययेन शप् । बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । महः । महतः । करणे शेषत्वेन विवक्षिते षष्ठी । अच्छब्दलोपश्छान्दसः । सिष्वपः । ‘ ञिष्वप् शये ' । अस्मात् ण्यन्तात् लुङि चङि संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘ स्वापेश्चङि' (पा. सू. ६. १. १८) इति संप्रसारणं न क्रियते ॥
“Then the vast, powerful, and immoveable earth and heaven animated you, Indra, to glorious needs, and you did hurl down into the waters, with your mightythunderbolt, the everywhere-spreading and destroying Vṛtra.”
The mighty Heaven and Earth, those bright expanses that have no wheels, joyed, Indra, at thine exploit.
Vrtra, the boar who lay amid the waters, to sleep thou sentest with thy mighty thunder.
The two great surfaces that have no wheels, Heaven and Earth, cheered you on at this deed, o Indra:
You put Vr̥tra to sleep powerfully with your mace, as he was lying upon the streams, (and you put to sleep) the boar [=Śuṣṇa?].
Dir jauchzten zu die grossen Schimmerflächen, dir Erd' und Himmel bei der That, o Indra; Den Eber Vritra, der die Ström' bewacht hielt, hast, grosser Indra, mit dem Blitz erlegt du.
Himmel und Erde jubelten dir, Indra, bei der Tat zu, die beiden großen räderlosen Erscheinungen. Du hast den Vritra, der auf den Flüssen lag, mit der großen Keule in den Todesschlaf versenkt, den Eber.
Оба великих пространства без колес, небо и земля,
Восторгались тобой, о Индра, при (этом) деянии.
Вритру, разлегшегося на реках,
Ты мощно усыпил ваджрой, (этого) кабана.
त्वमि॑न्द्र॒ नर्यो॒ याँ अवो॒ नॄन्तिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान् । यं ते॑ का॒व्य उ॒शना॑ म॒न्दिनं॒ दाद्वृ॑त्र॒हणं॒ पार्यं॑ ततक्ष॒ वज्र॑म् ॥
त्वम् । इ॒न्द्र॒ । नर्यः॑ । यान् । अवः॑ । नॄन् । तिष्ठ॑ । वात॑स्य । सु॒ऽयुतः॑ । वहि॑ष्ठान् । यम् । ते॒ । का॒व्यः । उ॒शना॑ । म॒न्दिन॑म् । दात् । वृ॒त्र॒ऽहन॑म् । पार्य॑म् । त॒त॒क्ष॒ । वज्र॑म् ॥
हे इन्द्र नर्यः नृभ्यो हितः त्वं यान् नॄन् नेतॄन् अश्वान् अवः अवसि रक्षसि तान् वातस्य तुल्यान् तद्वच्छीघ्रं गच्छतः सुयुजः शोभनं रथेन युज्यमानान् वहिष्ठान् अतिशयेन वोढ़ॄनश्वान् तिष्ठ आतिष्ठ आरोहेत्यर्थः । काव्यः कवेः पुत्रः उशना मन्दिनं मदकरं यं वज्रं ते तुभ्यं दात् दत्तवान् तं वज्रं वृत्रहणं वृत्रस्यासुरस्य घातकं पार्यं शत्रूणां पारणेऽतिक्रमणे समर्थं च ततक्ष कृतवानसि ॥ अवः । अवतेर्लेटि अडागमः । इतश्च लोपः' इति इकारलोपः । वहिष्ठान् । वोढ़ृशब्दात् ‘ तुश्छन्दसि ' इति इष्ठन् । ‘तुरिष्ठेमेयःसु' इति तृलोपः । पार्यम् । ‘पार तीर कर्मसमाप्तौ' । अस्मात् ण्यन्तात् “ अचो यत्' इति यत् । ततक्ष। ‘ तक्षू त्वक्षू तनूकरणे' । पुरुषव्यत्ययः ॥
“Indra, friend of man, mount the horses whom you cherish, who are fleet as the wind, are easily yoked, and who bear (theri burden) well; you have sharpened the foe-destroying thunderbolt, the slayer of Vṛtra, which inspiring (weapon) Uśanas, the son of Kavi, gave you.”
Mount Indra, lover of the men thou guardest, the well-yoked horses of the wind, best bearers.
The bolt which Kavya Usana erst gave thee, strong, gladdening, Vrtra-slaying, hath he fashioned.
You, o Indra, the manly one driving to the men for help—mount the (horses) of the Wind, the best conveyors, easy to yoke.
What Uśanā Kāvya gave to you to provide exhilaration, that decisive, Vr̥tra-smiting mace had he fashioned.
Mannhafter Indra, mit den lieben Männern besteig des Windes schöngeschirrte Rosse; Der muntre Blitz, den Uçana dir reichte, ist dir gezimmert Vritra tödtend, hülfreich.
Indra, du der Mannhafte, der du die Menschen um Hilfe angehst, besteige des Vata schöngeschirrte bestfahrende Rosse, trink den berauschenden Soma, den dir Kavya Usanans gab! Er zimmerte die feindetötende Keule, die den Kampf beendet.
Ты, о Индра, мужественный (защитник тех) мужей, кому ты помогаешь,
Сядь на (коней) Ваты, легко запрягаемых, лучше всех везущих!
(Та) ваджра, что дал тебе Кавья Ушанас,
Воодушевляющая, убивающая врагов, решающая (сражение), - (ее) выточил (Тваштар).
त्वं सूरो॑ ह॒रितो॑ रामयो॒ नॄन्भर॑च्च॒क्रमेत॑शो॒ नायमि॑न्द्र । प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या॑ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून् ॥
त्वम् । सूरः॑ । ह॒रितः॑ । र॒म॒यः॒ । नॄन् । भर॑त् । च॒क्रम् । एत॑शः । न । अ॒यम् । इ॒न्द्र॒ । प्र॒ऽअस्य॑ । पा॒रम् । न॒व॒तिम् । ना॒व्या॑नाम् । अपि॑ । क॒र्तम् । अय॑ज्यून् ॥
हे इन्द्र सूरः सूर्यात्मना वर्तमानः त्वं हरितः हरिद्वर्णान् नॄन् नेतॄन् अश्वान् यद्वा रसहरणशीलान् रश्मीन् रमयः उपारमयः । एतशो न । एतश इति सूर्याश्वस्याख्या। तथा च श्रूयते -- ‘ एतशेन त्वा सूर्यो देवतां गमयतु ' (तै. सं. १. ६. ४. ६) इति । नशब्दश्चार्थे । एतशश्च रथस्य चक्रं भरत् प्रावहत् । अपि च त्वं नाव्यानां नावा तार्याणां नदीनां नवतिं नवतिसंख्याम् अतीत्य वर्तमानं पारं तीरदेशम् । सप्तम्यर्थे द्वितीया । तीरदेशे अयज्यून् अयजमाना यज्ञविहीनान् असुरादीन् प्रास्य प्रक्षिप्य तत्र कर्तम् अवर्तयः कर्तव्यमपि कृत्वा तानयजमानानवर्तयः प्रापयः ॥ रमयः । लङि ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । अन्येषामपि दृश्यते ' इति सांहितको दीर्घः । प्रास्य । ‘असु क्षेपणे '। अस्मात् ल्यपि रूपम् । नाव्यानाम् । नौवयोधर्म' इत्यादिना यत्। तित्स्वरितम्' इति स्वरितत्वम् ॥
“Stop, Sūra, your yellow horses, for this Etaśa, Indra, drags the wheel; having driven those who offer no sacrifices to the opposite bank of the ninety rivers, you compel them (to do) what is to be done.”
The strong Bay Horses of the Sun thou stayedst: this Etasa drew not the wheel, O Indra.
Casting them forth beyond the ninety rivers thou dravest down into the pit the godless.
You brought to a halt the tawny mares of the Sun for men. Etaśa bore the wheel; (you were) on your own, Indra.
Having cast (it) forth to the far shore of the ninety and nine (rivers), you rolled the non-sacrificers over into the pit.
Du liessest ruhn der Sonne starke Rosse, nicht zog der Renner mehr ihr Rad, o Indra, Du schleudertest die Bösen in die Grube, sie werfend über neunzig grosse Ströme.
Du Indra hieltest die Falbinnen des Sonnengottes an, bis ans andere Ufer der neunzig Ströme es schleudernd rolltest du die Opferlosen kopfüber in den Abgrund. -
Ты остановил коней солнца, (помогая) людям.
Унес колесо Эташа, (а) не этот (Сурья), о Индра.
Забросив (колесо) на тот берег девяноста судоходных рек,
Ты пустил под откос тех, кто не приносит жертв.
त्वं नो॑ अ॒स्या इ॑न्द्र दु॒र्हणा॑याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके॑ । प्र नो॒ वाजा॑न्र॒थ्यो॒३॒॑ अश्व॑बुध्यानि॒षे य॑न्धि॒ श्रव॑से सू॒नृता॑यै ॥
त्वम् । नः॒ । अ॒स्याः । इ॒न्द्र॒ । दुः॒ऽहना॑याः । पा॒हि । व॒ज्रि॒ऽवः॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ । प्र । नः॒ । वाजा॑न् । र॒थ्यः॑ । अश्व॑ऽबुध्यान् । इ॒षे । य॒न्धि॒ । श्रव॑से । सू॒नृता॑यै ॥
हे वज्रिवः वज्रवन् इन्द्र त्वं दुर्हणायाः दुःखेन हन्तव्यायाः अस्याः अवृत्तेर्दारिद्र्यात् नः अस्मान् पाहि रक्ष। तथा दुरितात् पापात् अभीके अभिप्राप्ते समीपवर्तिनि संग्रामे अस्मान् रक्ष । अपि च नः अस्मभ्यं रथ्यः रथयुक्तान् अश्वबुध्यान् अश्वानां बोधकान् । अश्वा यावद्भिर्लभ्यन्ते तावदित्यर्थः । यद्वा । अश्वबुध्नान् । छान्दसो वर्णविकारः । अश्वमूलान् । अश्वप्रमुखानित्यर्थः । सर्वं हि धनम् अश्वमूलं दासापवर्गम् । यथोक्तं -' दासप्रवर्गं रयिमश्वबुध्यम् ' ( ऋ. सं. १. ९२. ८ ) इति । एवंविधान् वाजान् धनानि प्र यन्धि प्रयच्छ । किमर्थम् । इषे अन्नार्थं श्रवसे कीत्यर्थं सूनृतायै । सूनृता प्रियसत्यात्मिका वाक् तदर्थं च ॥ दुर्हणायाः । ‘ ईषद्दुःसुषु इति हन्तेः कर्मणि खल्। पाहि। पादादित्वात् निघाताभावः। वज्रिवः । वज्रोऽस्यास्तीति वज्री हस्तः । तद्वान् वज्रिवान् । 'छन्दसीरः' इति मतुपो वत्वम् । संबुद्धौ ‘मतुवसो रुः० ' इति नकारस्य रुत्वम् । रथ्यः । ‘ छन्दसीवनिपौ' इति रथशब्दात् मत्वर्थीयः ईकारः । यन्धि । 'यम उपरमे '। ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । वा छन्दसि इति हेः पित्त्वेन ङित्त्वाभावात् ' अङितश्च ॥ (पा. सू. ६. ४. १०३ ) इति हेर्धिः ॥हे वज्रिवः वज्रवन् इन्द्र त्वं दुर्हणायाः दुःखेन हन्तव्यायाः अस्याः अवृत्तेर्दारिद्र्यात् नः अस्मान् पाहि रक्ष। तथा दुरितात् पापात् अभीके अभिप्राप्ते समीपवर्तिनि संग्रामे अस्मान् रक्ष । अपि च नः अस्मभ्यं रथ्यः रथयुक्तान् अश्वबुध्यान् अश्वानां बोधकान् । अश्वा यावद्भिर्लभ्यन्ते तावदित्यर्थः । यद्वा । अश्वबुध्नान् । छान्दसो वर्णविकारः । अश्वमूलान् । अश्वप्रमुखानित्यर्थः । सर्वं हि धनम् अश्वमूलं दासापवर्गम् । यथोक्तं -' दासप्रवर्गं रयिमश्वबुध्यम् ' ( ऋ. सं. १. ९२. ८ ) इति । एवंविधान् वाजान् धनानि प्र यन्धि प्रयच्छ । किमर्थम् । इषे अन्नार्थं श्रवसे कीत्यर्थं सूनृतायै । सूनृता प्रियसत्यात्मिका वाक् तदर्थं च ॥ दुर्हणायाः । ‘ ईषद्दुःसुषु इति हन्तेः कर्मणि खल्। पाहि। पादादित्वात् निघाताभावः। वज्रिवः । वज्रोऽस्यास्तीति वज्री हस्तः । तद्वान् वज्रिवान् । 'छन्दसीरः' इति मतुपो वत्वम् । संबुद्धौ ‘मतुवसो रुः० ' इति नकारस्य रुत्वम् । रथ्यः । ‘ छन्दसीवनिपौ' इति रथशब्दात् मत्वर्थीयः ईकारः । यन्धि । 'यम उपरमे '। ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । वा छन्दसि इति हेः पित्त्वेन ङित्त्वाभावात् ' अङितश्च ॥ (पा. सू. ६. ४. १०३ ) इति हेर्धिः ॥
“Indra, bearer of the thunderbolt, preserve us from this (poverty), that is so difficult to be destroyed, and from misfortune in war; grant us riches, conspicuous for chariots, remarkable for horses, for the sake of food, of fame, and of truth.”
Indra, preserve thou us from this affliction Thunder-armed, save us from the misery near us.
Vouchsafe us affluence in chariots, founded on horses, for our food and fame and gladness.
Protect us from this evil rage and from difficulty in a close encounter, o Indra, mace-bearer.
Hold out toward us prizes by the cartload, with horses as their
foundation—for refreshment, for fame, and for liberality.
Beschirme uns vor diesem Unheil, Indra, und vor Gefahr behüt' uns, blitzbewehrter; An Wagen und an Rossen reiche Gaben verleihe uns zum Ruhm, zur Lust und Wonne.
Behüte du, Indra, uns vor solchem Übelwollen, vor Mißerfolg in der Entscheidungsstunde, du Keulenträger! Gewähre uns Gewinne, Wagen füllende, mit Rossen als Abschluß, zur Labung, zum Ruhm, zur Gunstbezeugung!
Ты, о Индра, от этой беды защити
Нас, о громовержец, от опасности в решающую минуту!
Вручи нам награды, связанные с колесницами, завершающиеся конями, –
Для удовлетворения, для Славы, для проявления щедрости!
मा सा ते॑ अ॒स्मत्सु॑म॒तिर्वि द॑स॒द्वाज॑प्रमह॒: समिषो॑ वरन्त । आ नो॑ भज मघव॒न्गोष्व॒र्यो मंहि॑ष्ठास्ते सध॒माद॑: स्याम ॥
मा । सा । ते॒ । अ॒स्मत् । सु॒ऽम॒तिः । वि । द॒स॒त् । वाज॑ऽप्रमहः । सम् । इषः॑ । व॒र॒न्त॒ । आ । नः॒ । भ॒ज॒ । म॒घ॒ऽव॒न् । गोषु॑ । अ॒र्यः । मंहि॑ष्ठाः । ते॒ । स॒ध॒ऽमादः॑ । स्या॒म॒ ॥
हे वाजप्रमहः वा वाजैर्धनैः प्रमहनीयेन्द्र ते त्वदीया सा 'सुमतिः शोभनानुग्रहरूपा बुद्धिः अस्मत् अस्मासु मा वि दसत् मा विशुध्यतु । तथा इषः अन्नानि अस्मान् सम् वरन्त संवृतान् कुर्वन्तु । हे मघवन धनवन्निन्द्र अर्यः धनपतिः त्वं नः अस्मान् गोषु आ भज प्रापय ते तव मंहिष्ठाः अतिशयेन स्तुतिभिः प्रवर्धयितारो वयं सधमादः स्याम पुत्रपौत्रादिभिः सह माद्यन्तो भवेम ॥ अस्मत् । ‘सुपां सुलुक्° ' इति सप्तम्या लुक् । दसत् । दसु उपक्षये '। माङि लुङि पुषादित्वात् अङ्। वाजप्रमहः । वाजैर्धनैः प्रकृष्टं महस्तेजो यस्य स तथोक्तः । पादादित्वात् आष्टमिकनिघाताभावः । षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । वरन्त । ‘ वृञ् वरणे'। व्यत्ययेन शप् । गोषु । ‘ सावेकाचः० ' इति प्राप्तस्य विभक्त्युदात्तत्वस्य न गोश्वन्साववर्ण ' इति प्रतिषेधः । अर्यः । ‘ अर्यः स्वामिवैश्ययोः' इति निपात्यते । अर्यः स्वाम्याख्या चेत्' (फि. सू. १७ ) इत्यन्तोदात्तत्वम् । मंहिष्ठाः । महि वृद्धौ '। इदित्त्वात् नुम् । अस्मादन्तर्भावितण्यर्थात् तृच् ।'तुश्छन्दसि' इति इष्ठन् । तुरिष्ठेमेयःसु ' इति तृलोपः। सधमादः । मद तृप्तियोगे'। चौरादिकः । सह मादयन्ते तृप्ता भवन्तीति सधमादः । ‘ क्विप् च ' इति क्विप् । जस् । सध मादस्थयोश्छन्दसि' इति सहस्य सधादेशः । ॥ २६ ॥
“Famous for affluence, Indra, never may your favour be withdrawn from us; may food ever sustain us; opulent Maghavan, make us possessors of cattle, and may we, most assiduous in your adoration, be happy, together (with our families).”
Never may this thy loving-kindness fail us; mighty in strength, may plenteous food surround us.
Maghavan, make us share the foeman's cattle: may we be thy most liberal feast companions.
Let not your favor wither away from us, o you great in prizes:
refreshments will completely cover (us).
Give us a share in the cows of the stranger, o bounteous one. Might we be your most bounteous feasting companions.
Nie mög' uns mangeln diese deine Güte; kraftreiche Tränke mögen sich uns mehren, Des Feindes Heerden theil uns zu, o reicher, wir seien deine reichsten Tischgenossen.
Nicht soll diese deine Huld uns fehlen, du Beutereicher. Sie bitten sich alle Genüsse als Lohn aus. Gib uns einen Anteil an den Kühen des reichen Patrons, du Gabenreicher! Wir wollen deine freigebigsten Zechgenossen sein!
Да не минует нас эта твоя милость,
О великий благодаря наградам! Да окружат (нас) жертвенные услады!
Надели нас, о щедрый, коровами чужого!
Да будем мы тебе самыми щедрыми сотрапезниками!