प्र व॒: पान्तं॑ रघुमन्य॒वोऽन्धो॑ य॒ज्ञं रु॒द्राय॑ मी॒ळ्हुषे॑ भरध्वम् । दि॒वो अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः ॥
प्र । वः॒ । पान्त॑म् । र॒घु॒ऽम॒न्य॒वः॒ । अन्धः॑ । य॒ज्ञम् । रु॒द्राय॑ । मी॒ळ्हुषे॑ । भ॒र॒ध्व॒म् । दि॒वः । अ॒स्तो॒षि॒ । असु॑रस्य । वी॒रैः । इ॒षु॒ध्याऽइ॑व । म॒रुतः॑ । रोद॑स्योः ॥
हे रघुमन्यवः लघुक्रोधाः अक्रोधिनः ऋत्विजः वः युष्माकं पान्तं पालनशीलं पातव्यं वा यज्ञं यागसाधनम् अन्धः अन्नम् आज्यसोमादिलक्षणं रुद्राय । रुत् दुःखं तद्धेतुभूतं दुरितं वा । तस्य द्रावयित्रे एतन्नामकाय देवाय मीळ्हुषे फलस्य वर्षित्रे तदर्थं प्र भरध्वं प्रकर्षेण संपादयत । अहं च इषुध्येव इषुध्या शत्रून् यथा निरस्यति तथा वीरैः अमित्राणां विविधमीरकैः वीर्योपेतैः वा तदनुचरैः मरुदादिभिः सह दिवः द्युलोकसकाशात् । उपलक्षणमेतत् । लोकत्रयादपि असुरस्य निरसितव्यानामसुराणां निरसितुः । कर्मणि षष्ठी । निरसितारं तमेव देवं रोदस्योः निरोधनवत्योः द्यावापृथिव्योर्मध्ये वर्तमानान् मरुतः च अस्तोषि स्तौमि ॥ पान्तम् । पान्तमित्यत्र पातेः शतृ पिबतेर्वा औणादिको झः । मीळ्हुषे । दाश्वान्साह्वान् °' इति क्वसुप्रत्ययान्तो निपातः । चतुर्थ्येकवचने ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । शासिवसि ' इत्यादिना षत्वम् । दिवः। ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । अस्तोषि । स्तौतेश्छान्दसो लुङ् । इषुध्येव । इषवो धीयन्ते अत्र इति इषुधिः । ‘ कर्मण्यधिकरणे च' इति दधातेः किः । कृत्स्वरेणान्तोदात्तः । ‘ उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् ॥
“Present, mild-tempered (priests), the sacrificial viands which you have prepared, to there warm-showering Rudra. I praise him who, with his heroid (followers) as (with shafts) from a quiver, expelled (the asuras) from heaven; and (I praise) the Maruts, (who abide) between heaven and earth.”
SAY, bringing sacrifice to bounteous Rudra, This juice for drink to you whose wrath is fleeting!
With Dyaus the Asura's Heroes I have lauded the Maruts as with prayer to Earth and Heaven.
O you of quick fervor [=priests], bring forward your drink, your stalk, your sacrifice for Rudra who grants rewards.
I have praised (him) along with the heroes of the lord of heaven; (I have praised) the Maruts as if aiming at the two world-halves.
Bringt, eifervolle, euern Trank, den Soma, als Opfer dar dem holdgesinnten Rudra, Ich preise mit des hohen Himmels Helden die Maruts, wie nach Erd' und Himmel zielend.
Bringet euren Somatrank als Opfer dem belohnenden Rudra dar, ihr Eiferwilligen! Ich habe ihn mit den Mannen des Asura des Himmels gepriesen; die Marut preise ich, indem ich gleichsam auf Himmel und Erde Anspruch mache.
Ваш напиток, о вы быстрые (своим) рвением, сок (сомы),
Принесите в жертву Рудре щедрому!
Я восхвалил (его) вместе с мужами Асуры неба,
(Я восхвалил) Марутов (так,) как будто бы целился в два мира.
पत्नी॑व पू॒र्वहू॑तिं वावृ॒धध्या॑ उ॒षासा॒नक्ता॑ पुरु॒धा विदा॑ने । स्त॒रीर्नात्कं॒ व्यु॑तं॒ वसा॑ना॒ सूर्य॑स्य श्रि॒या सु॒दृशी॒ हिर॑ण्यैः ॥
पत्नी॑ऽइव । पू॒र्वऽहू॑तिम् । व॒वृ॒धध्यै॑ । उ॒षसा॒नक्ता॑ । पु॒रु॒धा । विदा॑ने॒ इति॑ । स्त॒रीः । न । अत्क॑म् । विऽउ॑तम् । वसा॑ना । सूर्य॑स्य । श्रि॒या । सु॒ऽदृशी॑ । हिर॑ण्यैः ॥
पत्नीव पत्नी यथा पूर्वहूतिं पत्युः पूर्वाह्वानं ववृधध्यै वर्धयितुं शीघ्रगतिर्भवति तद्वत् उषासानक्ता अहोरात्रे देवते अपि पुरुधा बहुप्रकारं बहुविधैः स्तोत्रैः विदाने ज्ञायमाने सत्यौ पूर्वहूतिं ववृधध्यै अस्मदीयं पूर्वाह्वानं वर्धयितुं शीघ्रमागच्छतमिति शेषः । यद्वा । ववृधध्यै अस्मद्वर्धनाय पुरुधा बहुप्रकारं विदाने वर्धनोपायान् जानत्यौ भवतमिति शेषः ॥ उषासानक्ता । ‘ उषासोषसः ' ( पा. सू. ६. ३. ३१ ) इति पूर्वपदस्य उषासादेशः। ‘देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् ॥ अथ केवला उषा उच्यते । स्तरीः शत्रूणां हिंसकः तेजसाच्छन्नः वा आदित्यः स इव हिरण्यैः हिरण्यवर्णैः रश्मिभिः व्युतं विततं विशेषेण संबद्धम् अत्कम् अक्तं संततं वा रूपं वसाना अच्छादयन्ती धारयन्ती सूर्यस्य श्रिया शोभया सुदृशी शोभनं दृश्यमाना । सूर्यस्य पुरोगामिनी रश्मिभिः खल्वेषा जगद्भासयति । तादृशी उषा अस्मत्पूर्वहूतिं पालयत्वित्यर्थः । यद्वा । हिरण्यैः हितरमणीयैः प्रकाशैः धनविशेषेर्वा सहागच्छतु । व्युतम् । व्येञो निष्ठायां वचिस्वपि' इत्यादिना संप्रसारणम् । स्तरीः । ‘ अवितॄस्तॄ' इति ईकारप्रत्ययः ॥
“Animated by our diversified praise, hasten, Morning and Night, to attend to our first invocation, as a wife (to the first call of her husband); and may the--Dawn, beautiful with the lustre of the (rising) Sun, and robbing like the Sun (her) vast expanse with golden rays, (come to our early rite).”
Strong to exalt the early invocation are Night and Dawn who show with varied aspect.
The Barren clothes her in wide-woven raiment, and fair Morn shines with Surya's golden splendour.
It is for Dawn and Night, like two wives, to strengthen the Early
Invocation—the two that are known in many ways:
(the one) like a barren woman wearing a castoff cloak, (the other) with the glory of the sun, lovely to see with her golden (ornaments).
Das Frühgebet zu segnen, wie zwei Hausfraun erscheinen vielfach Nacht und Morgenröthe; Gehüllt als Jungfrau in gewobnen Mantel die schöne goldgeschmückt im Glanz der Sonne.
Nacht und Morgen sollen wie zwei Gattinnen den Erstruf erhöhen, die vielfach bekannt sind: Die eine wie eine unfruchtbare Frau in ein abgelegtes Gewand gekleidet, die andere mit der Pracht des Surya schön im Goldschmuck.
Надо возвеличить за утренним призывом зарю и ночь,
Хорошо известных, (тех, что) словно две жены:
(Одна), подобно бездетной (женщине), носящая простую (?) одежду,
(Другая) с блеском солнца, прекрасная в золотых украшениях.
म॒मत्तु॑ न॒: परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् । शि॒शी॒तमि॑न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥
म॒मत्तु॑ । नः॒ । परि॑ऽज्मा । व॒स॒र्हा । म॒मत्तु॑ । वातः॑ । अ॒पाम् । वृष॑ण्ऽवान् । शि॒शी॒तम् । इ॒न्द्रा॒प॒र्व॒ता॒ । यु॒वम् । नः॒ । तत् । नः॒ । विश्वे॑ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥
नः अस्मान् वसर्हा वसनार्हो गार्हपत्यादिरूपेण । यद्वा । वासकानामाच्छादकानां वृक्षादीनां हन्ता अग्निः । अथवा । वसर्हा वासार्हो वासरस्य गमयिता। परिज्मा परितो गन्ता आदित्यः ममत्तु मादयतु । तथा अपां वृष्ट्युदकानां वृषण्वान् वर्षणवान् वृष्ट्युत्पादकः वातः वायुरस्मान् ममत्तु । किंच हे इन्द्रापर्वता । इन्द्रः प्रसिद्धः । पर्वतः पर्ववान् वृष्टयादिपूरणवान् पर्जन्यः । तौ युवं युवां नः अस्मान् अस्मद्बुद्धिं वा शिशीतं तीक्ष्णीकुरुतं शोधयतमित्यर्थः । तत् तस्मात् यस्मादहं सर्वान् देवान् स्तौमि तस्मात् विश्वे सर्वेऽपि देवाः नः अस्माकं वरिवस्यन्तु प्रभूतमन्नं प्रदातुमिच्छन्तु । समृद्धान्नप्रदानेन प्रीणयन्त्वित्यर्थः ॥ ममत्तु। ‘मदी हर्षे' । अन्तर्भावितण्यर्थात् लोटि छान्दसो विकरणस्य श्लुः । ‘ द्विर्वचनम् । शिशीतम् । ‘ई हल्यघोः' इति ईत्वम् । ‘बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । ‘ इन्द्रापर्वता' इत्यत्र ‘ देवताद्वन्द्वे च ' इति पूर्वपदस्य आनङादेशः ॥
“May the circumambient divinity, the wearer of various forms, grant us delight; may the wind, the shedder of rain, grant us delight; do you, Indra and Parvata, sharpen our (intellects), and may all the gods show us favour.”
Cheer us the Roamer round, who strikes at morning, the Wind delight us, pourer forth of waters!
Sharpen our wits, O Parvata and Indra. May all the Gods vouchsafe to us this favour.
Let the earth-circling one [=Wind], rising at early morning, invigorate us. Let the Wind, (child?) of the waters, accompanied by bulls, invigorate us. Sharpen us, o Indra and “Mountain” [=Indra’s mace]. Let all the gods then create wide space for us.
Erfreun soll uns der Sturm, der früh den Feind schlägt, erfreun der Wind, der Regen uns herbeifährt; Es soll uns Indra stärken und der Berggott; das mögen alle Götter uns gewähren.
Begeistern soll uns der umherfahrende, in der Frühe kommende Vayu, begeistern der Wind, der Fuhrmann der Gewässer. Indra und Parvata, feuert ihr uns an! Alle Götter sollen uns dies gewähren.
Да опьянит нас носящийся вокруг, нападающий рано утром (бог)!
Да опьянит (нас) Вата, (друг) вод, (с колесницей,) запряженной конями!
Вдохновляйте вы нас, о Индра и Парвата!
Да создадут нам широту Все-Боги!
उ॒त त्या मे॑ य॒शसा॑ श्वेत॒नायै॒ व्यन्ता॒ पान्तौ॑शि॒जो हु॒वध्यै॑ । प्र वो॒ नपा॑तम॒पां कृ॑णुध्वं॒ प्र मा॒तरा॑ रास्पि॒नस्या॒योः ॥
उ॒त । त्या । मे॒ । य॒शसा॑ । श्वे॒त॒नायै॑ । व्यन्ता॑ । पान्ता॑ । औ॒शि॒जः॒ । हु॒वध्यै॑ । प्र । वः॒ । नपा॑तम् । अ॒पाम् । कृ॒णु॒ध्व॒म् । प्र । मा॒तरा॑ । रा॒स्पि॒नस्य॑ । आ॒योः ॥
औशिजः उशिजः पुत्रः कक्षीवानहं मे । तादर्थ्ये चतुर्थी । मदर्थं यशसा । यश इत्यन्नं बलं कीर्तिर्वा उच्यते । तद्वन्तौ व्यन्ता भक्षयन्तौ चरुपुरोडाशादिकं पान्ता पिबन्तौ अज्यसोमादिकं त्या। तच्छब्दसमानार्थः त्यच्छब्दः । यौ स्तुत्यत्वेन प्रसिद्धौ तावश्विनौ । अत्र यद्यपि विशेषो न श्रुतः तथापि सूक्तस्य वैश्वदेवत्वात् उषःसंबन्धात् द्विवचनलिङ्गाच्चाश्विनाविति गम्यते तादृशावश्विनौ । श्वेतनायै इति षष्ठ्यर्थे चतुर्थी । विश्वं जगत् श्वेतयन्त्याः उषसः तत्संबन्धिनि काले। उषःकालीनाह्वानाय यतेयम्। इति शेषः । हे ऋत्विजः वः यूयम् । प्रथमार्थे द्वितीया । अपाम् उदकानां नपातं नपातयितारं तासां नप्तारं वा अग्निम् । अद्भ्यः ओषधिवनस्पतयः ताभ्यः अग्निः इत्यपां नप्तृत्वमग्नेः । तं देवं प्र कृणुध्वम् । करोतिरत्र क्रियासामान्यवाची क्रियाविशेषे स्तोत्रे पर्यवस्यति । प्रकर्षेण स्तुध्वमित्यर्थः । किंच रास्पिनस्य । रपतेः रसतेर्वा शब्दनार्थस्य घञन्तस्य कृतसकारपकारोपजनस्य रास्प इति भवति । तदस्यास्तीति रास्पि स्तोत्रम् । तद्वान् रास्पिनः स्तोता । तस्य आयोः तादृशस्य मनुष्यस्य मम मह्यं मातरा मातृवद्धितकारिण्यौ अहोरात्रदेवते अपि प्र कृणुध्वम् । अथवा रास्पिनस्य । एको मत्वर्थप्रत्ययश्छान्दसः। प्रवर्षणध्वनियुक्तस्य वृष्ट्युदकस्य गमनशीलस्य निर्मात्र्यौ अहोरात्रे प्र कृणुध्वम् ॥ व्यन्ता पान्ता । उभयत्र ‘सुपां सुलक्' इति आकारः ॥
“Whenever I, the son of Uśij, worship with my offerings (of food) those two (Aśvins) who eat and drink (of oblations and libations) at (the season) of the world-whitening (dawn); do you, Priests, glorify the grandson of the waters (Agni), and render (the divinities of the day and night) the mothers (as it were) of the man who repeats their praise.”
And Ausija shall call for me that famous Pair who enjoy and drink, who come to brighten.
Set ye the Offspring of the Floods before you; both Mothers of the Living One who beameth.
And it is for (Kakṣīvant), son of Uśij [/the fire-priest], to call for me this glorious pair [=Aśvins], the pursuers (of the oblation), the drinkers, for the whitening (of dawn).
Put forward for yourselves the Child of the Waters [=Agni], forward the two mothers [=kindling sticks] of abundant [?] Āyu.
Euch schöne Ritter, die ihr esst und trinket, soll frühe mir der Sohn der Uçidsch rufen, Ihr aber schafft auch her den Sohn des Wassers, die Aeltern auch des rauschenden entflammten.
Und diese beiden Hochgeehrten, die mit Lust trinken, will ich, der Usij Sohn, mir zur Frühmesse rufen. Lasset dem Apam Napat den Vortritt bei euch und den beiden Müttern des ...... Ayu!
И еще, (я), сын Ушидж, хочу позвать к себе
Этих двоих блистательных, что приходят (и) пьют, чтобы рассвело.
Поставьте Апам Напата впереди (при почитании) вас!
(Поставьте) впереди двух матерей пылкого Аю!
आ वो॑ रुव॒ण्युमौ॑शि॒जो हु॒वध्यै॒ घोषे॑व॒ शंस॒मर्जु॑नस्य॒ नंशे॑ । प्र व॑: पू॒ष्णे दा॒वन॒ आँ अच्छा॑ वोचेय व॒सुता॑तिम॒ग्नेः ॥
आ । वः॒ । रु॒व॒ण्युम् । औ॒शि॒जः । हु॒वध्यै॑ । घोषा॑ऽइव । शंस॑म् । अर्जु॑नस्य । नंशे॑ । प्र । वः॒ । पू॒ष्णे । दा॒वने॑ । आ । अच्छ॑ । वो॒चे॒य॒ । व॒सुऽता॑तिम् । अ॒ग्नेः ॥
हे देवाः औशिजः कक्षीवानहं वः युष्माकं संबन्धिनं रुवण्युं रवणीयं शब्दनीयं शंसं स्तोत्रम् आ हुवध्यै युष्मदाह्रानाय अच्छ आ वोचेय आभिमुख्येन ब्रवीमि । यद्वा । अत्रापि अश्विनावेव उच्येते । तस्मिन् पक्षे बहुवचनं पूजार्थम् । हे अश्विनौ वः युष्मान् घोषव एतन्नामिका ब्रह्मवादिनीव । सा यथा अर्जुनस्य श्वेतवर्णस्य स्वशरीरगतत्वग्रोगस्य नंशे नाशनाय यथाश्विनोः शंसमकार्षीत् तद्वदहमपीत्यर्थः । हे देवाः युष्मत्संबन्धिने दावने आ आभिमुख्येन फलस्य दात्रे पूष्णे पोषकाय एतन्नामकाय देवायापि ॥ आकारस्य ‘ आङोऽनुनासिकश्छन्दसि ' इति प्रकृतिभावः ॥ अच्छ आभिमुख्यगमनेन वोचेय स्तौमि ॥ ‘ वच परिभाषणे'। लिङयाशिष्यङ् । ‘ वच उम्' इति उम् । किंच अग्नेः वसुतातिं तत्संबन्धि धनमपि वोचेय स्तौमि तमेवाग्निम् ॥ ॥ १ ॥
“I, the son of Uśij, address to you (Aśvins) audible praises, in like manner as Ghoṣā praised you for the removal of her white-tinted (skin); I glorify (gods) the bountiful Pūṣan (associated) with you, and I proclaim the munificence of Agni.”
For you shall Ausija call him who thunders, as, to win Arjuna's assent, cried Ghosa.
I will invoke, that Pusan may be bounteous to you, the rich munificence of Agni.
It is for (Kakṣīvant), son of Uśij [/the fire-priest], to call the “screecher,” the laud, for you as if with a shout, at the attainment of the silvery
one [=soma?].
(Put him [=Pūṣan]?) forward for yourselves, for Pūṣan to give. I would call here Agni’s assemblage of good ones [=gods].
Der Uçidsch Sohn soll lautes Lob euch singen, wie Ghoscha bei des Ardschuna Erlangung, Euch ruf' ich an, um Puschan hold zu stimmen, des Agni Güte möcht' ich mir gewinnen.
Für euch will der Sohn der Usij den lauten Samsa herrufen wie Ghosa bei Erlangung des Arjuna. Stimmet auf Pusan euer Lied an, daß er schenke! Ich möchte die Freigebigkeit des Agni herbitten.
(Я,) сын Ушидж, хочу призвать шумного (бога),
Как Гхоша – Шансу при приеме Арджуны.
(Поставьте) впереди вашего (восхваления) Пушана, чтобы он дал!
Речью я хочу достигнуть божественной сути Агни.
श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मोत श्रु॑तं॒ सद॑ने वि॒श्वत॑: सीम् । श्रोतु॑ न॒: श्रोतु॑रातिः सु॒श्रोतु॑: सु॒क्षेत्रा॒ सिन्धु॑र॒द्भिः ॥
श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा॑ । इ॒मा । उ॒त । श्रु॒त॒म् । सद॑ने । वि॒श्वतः॑ । सी॒म् । श्रोतु॑ । नः॒ । श्रोतु॑ऽरातिः । सु॒ऽश्रोतुः॑ । सु॒ऽक्षेत्रा॑ । सिन्धुः॑ । अ॒त्ऽभिः ॥
हे मित्रावरुणा एतन्नामानौ अहोरात्राभिमानिदेवौ युवाम् इमा इमानि हवा अस्मदाह्वानानि श्रुतं शृणुतम् । न केवलमस्मदाह्वानम् उत अपि च सदने यागगृहे विश्वतः उद्गात्रादिभिः सर्वतः क्रियमाणं सीम् एतत्स्तोत्रमपि श्रुतं शृणुतम् । किंच श्रोतुरातिः सर्वत्र श्रूयमाणधनः तादृशदानो वा सुश्रोतुः अस्मदाह्वानस्य सम्यक् श्रोता सिन्धुः जलाभिमानी देवः सुक्षेत्रा सुक्षेत्राणि अद्भिः वृष्टिजलैः क्लेदयन्निति शेषः । यद्वा । अस्मत्क्षेत्राणि अद्भिः सुक्षेत्राणि सस्यादिसमृद्धानि कुर्वन् नः हवं शृणोतु । सुक्षेत्रत्वलाभाय' शृणोत्वित्यर्थः ॥ हवा इमा । उभयत्र विभक्त्या आकारः । श्रुतमित्यत्र ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ॥
“Mitra and Varuṇa, hear these my invocations, and moreover listen to those (that are) everywhere (uttered) in the chamber of sacrifice; and may Sindhu, the renowned bestower of wealth, hear us, (fertilizing our) broad fields with water.”
Hear, Mitra-Varuna, these mine invocations, hear them from all men in the hall of worship.
Giver of famous gifts, kind hearer, Sindhu who gives fair fields, listen with all his waters!
Hear these calls of mine, Mitra and Varuṇa, and hear them in your seat on all sides.
Let the one who grants the gift of hearing, who hears well, hear us—the Sindhu River with her waters who provides good lands.
O hört mein Rufen, Varuna und Mitra, hört überall es an der heil'gen Stätte, Der gern erhört, Gehör uns schenkt, erhör uns, der wiesenreiche Strom mit seinen Wassern.
Höret, Mitra und Varuna, auf diese Anrufungen von mir und höret an eurem Platz sie vollständig an! Es soll uns die Gehör schenkende, gern erhörende Sindhu mit schönem Lande samt ihren Gewässern erhören.
Услышьте, о Митра и Варуна, эти мои призывы,
А также услышьте их на месте (жертвоприношения) со всех сторон!
Пусть услышит нас дарующая (милость) слышания, охотно слушающая,
Синдху с прекрасными полями, с водами!
स्तु॒षे सा वां॑ वरुण मित्र रा॒तिर्गवां॑ श॒ता पृ॒क्षया॑मेषु प॒ज्रे । श्रु॒तर॑थे प्रि॒यर॑थे॒ दधा॑नाः स॒द्यः पु॒ष्टिं नि॑रुन्धा॒नासो॑ अग्मन् ॥
स्तु॒षे । सा । वा॒म् । व॒रु॒ण॒ । मि॒त्र॒ । रा॒तिः । गवा॑म् । श॒ता । पृ॒क्षऽया॑मेषु । प॒ज्रे । श्रु॒तऽर॑थे । प्रि॒यऽर॑थे । दधा॑नाः । स॒द्यः । पु॒ष्टिम् । नि॒ऽरु॒न्धा॒नासः॑ । अ॒ग्म॒न् ॥
हे मित्र हे वरुण देव वां युवाम् अहं स्तुषे स्तुवे । व्यत्ययेन मध्यमः । युवयोः संबन्धिनी सा प्रसिद्धा रातिः दानं शता शतानां शतसंख्यानाम् अपरिमितानां गवां संबन्धिनी असंख्यातगोविषया रातिः पज्रे कक्षीवति मयि पृक्षयामेषु । पृक्ष इत्यकारान्तोऽप्यस्ति । पृक्षाणामन्नानां नियमनं येषु स्तोत्रेषु यज्ञेषु वा तेषु निमित्तभूतेषु भवत्विति शेषः । किंच मित्रादयो देवाः श्रुतरथे सर्वत्र प्रसिद्धरथोपेते प्रियरथे प्रीयमाणरथयुक्ते सर्वदा रथप्रिये पज्रे च मयि एव दधानाः प्रीतिं धारयन्तः सद्यः आगमनानन्तरमेव पुष्टिं गवादिपोषं निरुन्धानासः अवरुन्धानाः अस्मास्वव स्थापयन्तः । यद्वा । मयि पुष्टिं दधानाः कुर्वाणा: निरुन्धानासः कृतामेव पुष्टिं मयि स्थिरां कुर्वन्तः अग्मन् आगच्छन्तु ॥ रातिः । ‘ रा दाने'। भावे क्तिन् । मन्त्रे वृष ' इत्यादिना क्तिन उदात्तत्वम् । शता । ‘ सुपा सुलुक् ' इति षष्ठ्याः पूर्वसवर्णदीर्घत्वम् । दधानाः । जुहोत्यादित्वात् शपः श्लुः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । अग्मन् । गमेश्छान्दसे लुङि ‘ मन्त्रे घस' इत्यादिना च्लेर्लुक् ।' गमहन ' इति उपधालोपः ॥
“I praise you, Mitra and Varuṇa, for your gift of numerous cattle to the Pajra, and (from those praises) may abundant food (proceed). May (the gods), bestowing nourishment on me, come quickly unimpeded, (each) in his famous and favourite car.”
Praised, Mitra, Varuna! is your gift, a hundred cows to the Prksayamas and the Pajra.
Presented by car-famous Priyaratha, supplying nourishment, they came directly.
This gift of yours is to be praised, Mitra and Varuṇa. Having received hundreds of cows among the Pr̥kṣayāmas: Pajra,
Śrutaratha, Priyaratha, they [=priests and poets] immediately came to prosperity, upon penning them in.
Gepriesen wird, o Mitra-Varuna, vor euch diese Gabe; [ich empfing] von den Prikschajama's und dem Padschra hundert Rinder; die von dem wagenberühmten Prijaratha geschenkten, Nahrung in sich enthaltenden [Rinder] sind mir an demselben Tage zugekommen.
Gelobt wird diese Gabe vor euch, Mitra und Varuna: Als sie Hunderte von Kühen bei den Priksayama´s, bei Pajra,Srutaratha bekamen, sind sie gegangen, indem sie sofort ihren Viehzuwachs einhegten.
Прославляется этот ваш дар, о Митра и Варуна,
Получив сто коров у (людей рода) Прикшаямы,
У Паджры, Шрутаратхи, Прияратхи,
Они тотчас отправились, запирая (коров – свое) процветание.
अ॒स्य स्तु॑षे॒ महि॑मघस्य॒ राध॒: सचा॑ सनेम॒ नहु॑षः सु॒वीरा॑: । जनो॒ यः प॒ज्रेभ्यो॑ वा॒जिनी॑वा॒नश्वा॑वतो र॒थिनो॒ मह्यं॑ सू॒रिः ॥
अ॒स्य । स्तु॒षे॒ । महि॑ऽमघस्य । राधः॑ । सचा॑ । स॒ने॒म॒ । नहु॑षः । सु॒ऽवीराः॑ । जनः॑ । यः । प॒ज्रेभ्यः॑ । वा॒जिनी॑ऽवान् । अश्व॑ऽवतः । र॒थिनः॑ । मह्य॑म् । सू॒रिः ॥
महिमघस्य । महि महत् पूज्यं मघो धनमन्नं वा यस्य देवसंघस्य स तथोक्तः । तादृशस्य अस्य राधः धनं स्तुषे स्तुवे । व्यत्ययेन मध्यमः । धनलाभाय प्रभूतधनं देवसंघं स्तौमीत्यर्थः । किंच नहुषः । मनुष्यनामैतत् । परस्परस्नेहबन्धोपेता मनुष्या वयं कक्षीवन्तः सुवीराः शोभनपुत्राद्युपेताः सन्तः सचा सह परस्परैकमत्येन सनेम त्वद्दत्तं धनं संभजेम लभेमहि । देवसंघो विशेष्यते । यः जनः देवजनो यश्च देवसंघः पज्रेभ्यः अङ्गिरोगोत्रोत्पन्नेभ्यः कक्षीवद्भ्यः । 'पज्रा वा अङ्गिरसः' इति श्रुतेः । तेभ्यः वाजिनीवान् । वाजोऽन्नम् । तद्वती क्रिया वाजिनी । तया तद्वान् भवति । यद्वा । एको मत्वर्थीय प्रत्ययश्छान्दमः । अस्मभ्यं प्रदेयेन दत्तेन वा अन्नेन तद्वान् भवतीत्यर्थः । यश्च देवसंघः अश्वावतः बहुभिः तद्दत्तैरश्वैः तद्वतः रथिनः रथवतः मह्यं मे सूरिः प्रेरको भवति । अश्वानां रथानां प्रेरयितारं देवसंघं स्तुषे इत्यर्थः ॥ सुवीराः । ‘ वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् । अश्वावतः । अश्वशब्दस्य ' मन्त्रे सोमाश्व ' इत्यादिना मतुपि दीर्घत्वम् ।
“I laud the treasures of that opulent (assemblyof the gods); may we, men who (are blessed) with excellent descendants, partake of them together; the assembly conferring upon the Pajras abundant food, has been my benefactor, and has made me the master of horses and chariots.”
Praised is the gift of him the very wealthy: may we enjoy it, men with hero children:
His who hath many gifts to give the Pajras, a chief who makes me rich in cars and horses.
The largesse of him who offers great bounty is to be praised. Together might we, having good heroes, win (that) of Nahus, who for the Pajras is the man providing prizewinning mares and for me is the patron (of largesse) consisting of horses and chariots.
Gepriesen wird das Geschenk dieses sehr reichen; wir männerreiche Freunde mögen es zusammen empfangen, von dem Manne, welcher für die Padschra's viele Gaben hat, von dem Fürsten, der für mich viele Rosse und Wagen hat.
Gepriesen wird die Ehrengabe dieses Groß-Spenders. Wir Meister sollen gemeinsam die Gabe des Nahus empfangen. Der Mann, der für die Pajra`s ein Belohner ist, der Patron gab mir die in Rossen und Wagen bestehenden Belohnungen.
Прославляется благодеяние этого очень щедрого (покровителя).
Пусть мы вместе добудем (дар) Нахуша, (став) богатыми прекрасными мужами!
Человек, который награждает от Паджров,
(Дал) мне (награды,) состоящие из коней, из колесниц.
जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां॑ सु॒नोत्य॑क्ष्णया॒ध्रुक् । स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा॑भिॠ॒तावा॑ ॥
जनः॑ । यः । मि॒त्रा॒व॒रु॒णौ॒ । अ॒भि॒ऽध्रुक् । अ॒पः । न । वा॒म् । सु॒नोति॑ । अ॒क्ष्ण॒या॒ऽध्रुक् । स्व॒यम् । सः । यक्ष्म॑म् । हृद॑ये । नि । ध॒त्त॒ । आप॑ । यत् । ई॒म् । होत्रा॑भिः । ऋ॒तऽवा॑ ॥
हे मित्रावरुणौ युष्माकं यः जनः अभिध्रुक् अभितो द्रोग्धा भवति अयष्टा भवतीत्यर्थः यश्च अक्ष्णयाध्रुक् वक्रेण मार्गेण द्रुह्यति अन्यथाप्रकारेण द्रुह्यति । द्रोहप्रकार उच्यते । वां युवाम्' अपः सोमरसान् न सुनोति अभिषवं न करोति । युवाम् अतिक्रम्य अन्यदेवतार्थं सुनोतीत्यभिप्रायः
अयमेव अक्ष्णयाद्रोहः। सः मूढो द्विविधो जनः स्वयं यक्ष्मं व्याधिं हृदये स्वचित्ते 'नि धत्ते स्थापयति । अनुष्ठातॄणां भोगान् पश्यन् व्यथितो भवतीत्यर्थः । यत् । लिङ्गव्यत्ययः । य उक्तविलक्षणः पुमान् ऋतावा यज्ञवान् परिगृहीतयज्ञः होत्राभिः । वाङ्नामैतत् । स्तुतिवाग्भिः ईम् एनं सोमरसम् आप व्याप्नोति । स्तुवन् सोममभिषुणोति इति यावत् । स नरः पृत्सु यातीति वक्ष्यमाणेन सह संबन्धः ॥ अभिध्रुक् । द्रुहे: ‘ सत्सूद्विप ' इति क्विप् । संहितायां भष्भावश्छान्दसः। ऋतावा इत्यत्र ‘ छन्दसीवनिपौ' इति मत्वर्थीयो वनिप् । अन्येषामपि दृश्यते ' इति संहितायां दीर्घत्वम् ॥
“The mman who does you wrong, Mitra and Varuṇa, who injures you in any way, who does not present you with oblations, contracts for himself sickness in his heart; but he who, performing worship, (celebrates it) with praises.”
The folk, O Mitra-Varuna, who hate you, who sinfully hating pour you no libations,
Lay in their hearts, themselves, a wasting sickness, whereas the righteous gaineth all by worship.
A man who’s a liar, a crooked liar who presses (soma that’s) like water for you two, o Mitra and Varuṇa,
he himself installs a wasting disease in his own heart, while the truthful man gains his object through his oblations.
Der feindselige, ohne Ursach hassende Mensch, welcher euch, o Mitra-Varuna, nicht Tränke braut, der zieht selbst in sein Innres die Krankheit hinein, während der fromme durch Opfer Erfüllung [seiner Wünsche] erlangt.
Der unredliche Mann, der euch, Mitra und Varuna, hinterlistig den Soma wie Wasser bereitet, der bringt sich selbst die Auszehrung ins Herz, während der rechttuende mit seinem Opfer Erfolg hat.
Тот злопамятный человек, о Митра и Варуна,
Что выжимает вам (сому,) как воду, с коварными помыслами,
Он сам вкладывает себе в сердце чахотку,
В то время как благочестивый жертвами достиг (своей цели).
स व्राध॑तो॒ नहु॑षो॒ दंसु॑जूत॒: शर्ध॑स्तरो न॒रां गू॒र्तश्र॑वाः । विसृ॑ष्टरातिर्याति बाळ्ह॒सृत्वा॒ विश्वा॑सु पृ॒त्सु सद॒मिच्छूर॑: ॥
सः । व्राध॑तः । नहु॑षः । दम्ऽसु॑जूतः । शर्धः॑ऽतरः । न॒राम् । गू॒र्तऽश्र॑वाः । विसृ॑ष्टऽरातिः । या॒ति॒ । बा॒ळ्ह॒ऽसृत्वा॑ । विश्वा॑सु । पृ॒त्ऽसु । सद॑म् । इत् । शूरः॑ ॥
हे मित्रावरुणौ युवां गतमन्त्रावसानोक्तलक्षण: युष्मत्पूजको जनः दंसुजूतः दान्तैरश्वैः सुष्ठु प्रेरितः अत एव नरां नराणां शर्धस्तरः अतिशयेनाभिभविता । अथवा अतिशयेन बलवान् । नराणां स्वसमानानां मध्ये गूर्तश्रवाः उद्गूर्णदीप्तिः प्रख्यातान्नो वा विसृष्टरातिः अर्थिभ्यः प्रदत्तधनः एवं महानुभावः शूरः सन् विश्वासु पृत्सु सर्वेषु जन्येषु संग्रामेषु व्राधतः । महन्नामैतत् । हिंसकान् महतोऽपि नहुषः । मनुष्यनामैतत् । मनुष्यान् शत्रून् प्रति बाळ्हसृत्वा भृशं सर्ता अशङ्कितगमनः सन् सदमित् सदैव याति गच्छति ॥ दंसुजूतः । दामेर्विच् ।' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । गूर्तश्रवाः । ‘ गुरी उद्यमने '। ‘ नसत्तनिषत्त ' इत्यादौ निपातनात् निष्ठानत्वाभावः । विसृष्टरातिः । विपूर्वात् सृजतेः कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव शिष्यते । पृत्सु । ' पदादिषु मांस्पृत्स्नूनामुपसंख्यानम्' इति पृतनाशब्दस्य पृदादेशः । ‘ सावेकाचः०' इति विभक्तेरुदात्तत्वम् । बाळ्हसृत्वा । सर्तेः ‘अन्येभ्योऽपि दृश्यन्ते ' इति क्वनिप् ॥ ॥ २ ॥
“He, borne by well-trained horses, endowed with surpassing strength, renowned above men, munificent in gifts, moves a hero, ever undaunted in all combats, (even) against mightymen.”
That man, most puissant, wondrously urged onward, famed among heroes, liberal in giving,
Moveth a warrior, evermore undaunted in all encounters even with the mighty.
He, spurred by wondrous power, is more forceful than proud Nahus, and his fame is sung by men.
He whose gifts have been set loose drives as a pumped-up runner,
always the champion in all battles.
Er geht hin zu den gewaltigen Genossen mit Wunderkraft eilend, der kühnste der Männer, dessen Ruhm hoch gepriesen wird, dessen Gaben sich reichlich ergiessen, kräftig einhereilend, stets ein Held in allen Schlachten.
Dieser ........ist stärker noch als der mächtige Nahus; sein Ruhm wird von den Männern gepriesen. Gaben austeilend geht er festen Ganges, in allen Kämpfen immerdar ein Held.
Движимый чудесной силой, он сильнее, чем могущественный
Нахуш. Слава его воспевается мужами.
Он идет, раздавая дары, твердо шагая.
Он всегда герой во всех сражениях.
अध॒ ग्मन्ता॒ नहु॑षो॒ हवं॑ सू॒रेः श्रोता॑ राजानो अ॒मृत॑स्य मन्द्राः । न॒भो॒जुवो॒ यन्नि॑र॒वस्य॒ राध॒: प्रश॑स्तये महि॒ना रथ॑वते ॥
अध॑ । ग्मन्त॑ । नहु॑षः॑ । हव॑म् । सू॒रेः । श्रोत॑ । रा॒जा॒नः॒ । अ॒मृत॑स्य । म॒न्द्राः॒ । न॒भः॒ऽजुवः॑ । यत् । नि॒र॒वस्य॑ । राधः॑ । प्रऽश॑स्तये । म॒हि॒ना । रथ॑ऽवते ॥
हे राजानः राजमानाः सर्वस्य ईश्वर वा हे मन्द्राः मादयितारः यूयम् अमृतस्य अमरणस्य सूरेः स्तोत्रादिप्रेरकस्य नहुषः मनुष्यस्य मम हवम् आह्वानं श्रोत शृणुत । ‘बहुलं छन्दसि' इति शपो लुक् । अमृतस्य इत्यत्र बहुव्रीहौ ‘नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । अध अथ श्रवणानन्तरं ग्मन्त आगच्छत । गमेश्छान्दसो लङ्' । मध्यमबहुवचनस्य व्यत्ययेन झः । ‘ बहुलं छन्दसि ' इति शपो लुक् ।' गमहन ' इत्युपधालोपः । किमर्थमागमनम्। उच्यते । नभोजुवः नभसि व्याप्ता यूयं यत् यस्मात् निरवस्य निर्गतरक्षकस्य युष्मद्व्यतिरेकेण रक्षकान्तररहितस्य । अथवा । निर्गतो मुखादुच्चरितो रवः शब्दः स्तोत्ररूपो यस्य तादृशस्य रथवते रथवतो यजमानस्य। षष्ठ्यर्थे चतुर्थी । महिना महिम्ना माहात्म्येन। मकारलोपश्छान्दसः । तेन युक्तं राधः समृद्धिसाधनं हविर्लक्षणं संराधकं स्तोत्रं वा प्रशस्तये प्रशंसितुं कामयध्वे । तस्मादाह्वानं शृणुत आगच्छत चेति ॥
“Royal bestowers of delight, listen to the invocation of (your) undying worshipper, and then come hither, that you who traverse the sky may be propitiated by the greatness of the (sacrificial) wealth presented to you by the sacrificer, who acknowledges no other protector.”
Come to the man's, the sacrificer's calling: hear, Kings of Immortality, joy-givers!
While ye who speed through clouds decree your bounty largely, for fame, to him the chariot rider.
Now then, as you go to the call of Nahus the patron, o gladdening kings of immortality, hear
what largesse of Nabhojū and of Nirava there is for the possessor of the chariot to proclaim in its greatness.
Nun kommt auf den Ruf des befreundeten Fürsten, hört, o erfreuende Könige der Unsterblichkeit, wenn ihr im Gewölk eilend die Förderung des Hülflosen [betreibt], um dem im Wagen fahrenden reichlich Ruhm zu verleihen.
Nun auf den Ruf des Nahus, meines Patrons, kommend, höret ihr beliebten Könige der Unsterblichkeit, was die Ehrengabe des Nabhoju, des Nirava ist, zum mächtigen Ruhm für den Wagenbesitzer!
О цари, идущие на зов Нахуша,
(Нашего) покровителя, слушайте, о опьяняющиеся амритой,
Что за дар у Набходжу (и) Ниравы,
Для великого прославления владельца колесницы!
ए॒तं शर्धं॑ धाम॒ यस्य॑ सू॒रेरित्य॑वोच॒न्दश॑तयस्य॒ नंशे॑ । द्यु॒म्नानि॒ येषु॑ व॒सुता॑ती रा॒रन्विश्वे॑ सन्वन्तु प्रभृ॒थेषु॒ वाज॑म् ॥
ए॒तम् । शर्ध॑म् । धाम॑ । यस्य॑ । सू॒रेः । इति॑ । अ॒वो॒च॒न् । दश॑ऽतयस्य । नंशे॑ । द्यु॒म्नानि॑ । येषु॑ । व॒सुऽता॑तिः । र॒रन् । विश्वे॑ । स॒न्व॒न्तु॒ । प्र॒ऽभृ॒थेषु॑ । वाज॑म् ॥
यस्य सूरेः हविरादिप्रेरकस्य यजमानस्य संबन्धिनः दशतयस्य दशेन्द्रियसंवर्धकत्वेन दशावयवस्यान्नस्य नंशे प्राप्तये वयम् आहूताः स्म तस्मै यजमानाय एतम् इदानीं दातव्यत्वेन वर्तमानं शर्धः परेषामभिभावकमन्नं तत्प्राप्तिहेतुं बलं वा धाम विदधाम करवाम इत्यवोचन् देवाः ॥ धाम । दधातेर्लुङि ‘ गातिस्था' इति सिचो लुक् । वचेः अकारस्य उम् । अस्यतिवक्ति' इत्यादिना च्लेः अङ्॥ येषु देवेषु द्युम्नानि द्योतमानान्यन्नानि वसुतातिः वसूनां धनानां तातिः विस्तारश्च वसून्येव वा रारन् रमन्ते भृशम् ॥ तातिः । तनोतेः क्तिनि व्यत्ययेन आत्वम् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । यद्वा । स्वार्थिकस्तातिल्। रारन्निति रमतेर्यङलुगन्तस्य लङि रूपम् । ते विश्वे सर्वे देवाः प्रभृथेषु प्रकृष्टभरणेषु यागेषु वाजम् अन्नं सन्वन्तु ददतु प्रयच्छन्तु ॥ ‘ षणु दाने' ॥ यद्वा । यस्य सूरेः स्वभूतस्य च दशतयस्य दश चमसेष्ववस्थितस्य सोमस्य प्राप्तये वयमाहूताः स्म तस्मै एतं शर्धं धाम इत्यवोचन् । यस्मादेवं तस्मात् प्रभृथेषु यागेषु वाजं तादृशं सोमलक्षणमन्नं विश्वे देवाः सन्वन्तु संभजन्ताम् ॥ ‘ वन षण संभक्तौ ' इत्यस्य व्यत्ययेन उप्रत्ययः ॥ कीदृशेषु यज्ञेषु । येषु वसुतातिः वसूनां हविर्लक्षणानां धनानां वा विस्तारयितारः ऋत्विजः । वचनव्यत्ययः । द्युम्नानि द्योतमानानि हवींषि रारन् ददति ॥ ‘रा दाने '। लेटि छान्दसः शपः श्लुः । ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् ' आतो लोप इटि च' इति आकारलोपः । अत एव ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वाभावश्च ॥
“The gods have declared: we confer present vigour upon the worshipper (who invokes us) to partake of the (ibation). May all (the gods) in whom splendour and riches abound, bestow (abundant) food at (solemn) sacrifices.”
Vigour will we bestow on that adorer whose tenfold draught we come to taste, so spake they.
May all in whom rest splendour and great riches obtain refreshment in these sacrifices.
“Whichever patron (we belong to), we shall establish him as a force,” so did they say on the attainment of ten-part (gushing [=soma?]).
The brilliant things in which the assemblage of good ones [=gods] finds enjoyment—let them all [=gods] gain (them) as their victory prize.
»Wir wollen festsetzen die Priesterschar, welches Fürsten sie sei (?), um den zehntheiligen Trank zu empfangen«, so sprachen sie, »und die Schätze, an denen die Götterschar Gefallen hat; sie alle mögen Labung erlangen bei diesen Darbringungen.«
Ein Patron, dessen bekannte Marutschar wir bilden wollen", so sprachen sie bei dem Empfang der zehnfachen Speise, "bei denen Glanz und Freigebigkeit gern verweilen möge, sie alle sollen bei den Unternehmungen Gewinn davontragen!
Вот покровитель, чью толпу мы хотели бы составить -
Так говорили они при вкушении (пищи) десяти видов.
(Те,) у кого охотно пребывают блеск и щедрость,
Пусть все они завоевывают награду в (любых) делах!
मन्दा॑महे॒ दश॑तयस्य धा॒सेर्द्विर्यत्पञ्च॒ बिभ्र॑तो॒ यन्त्यन्ना॑ । किमि॒ष्टाश्व॑ इ॒ष्टर॑श्मिरे॒त ई॑शा॒नास॒स्तरु॑ष ऋञ्जते॒ नॄन् ॥
मन्दा॑महे । दश॑ऽतयस्य । धा॒सेः । द्विः । यत् । पञ्च॑ । बिभ्र॑तः । यन्ति॑ । अन्ना॑ । किम् । इ॒ष्टऽअ॑श्वः । इ॒ष्टऽर॑श्मिः । ए॒ते । ई॒शा॒नासः॑ । तरु॑षः । ऋ॒ञ्ज॒ते॒ । नॄन् ॥
मन्दामहे स्तुमो वयं देवान्॥ ‘मदि स्तुतौ'। इदित्त्वात् नुम् ॥ किमर्थम् । दशतयस्य धासेः दशेन्द्रियतृप्तिसाधनत्वेन दशावयवस्य अन्नस्य यत् यस्मात् द्विः पञ्च दशविधानि अन्नानि । दश चमसगृहीतत्वादन्नस्य दशविधत्वम् । एवंविधम् अन्नं बिभ्रतः धारयन्तो दश चमसाध्वर्यवः यन्ति होमाय गच्छन्ति अहवनीयं प्रति । यद्वा । ‘ आश्वमेधिकानि दशान्नानि जुहोति इत्याम्नातानि आज्यमध्वादीनि दशविधान्यन्नानि विश्वेभ्यो देवेभ्यो होतुं धारयन्तो यन्ति यदा तदा मन्दामहे इति । न च इष्टाश्वप्रभृतीन यष्टॄन् विहाय कस्मात् अस्मान्प्रति आगमिष्यन्तीति वाच्यम् । तरुषः शत्रूणां तारकान् । तरतेरौणादिक उसिन् । नॄन् नेतॄन् कर्मणाम् एवं महानुभावान् वरुणादीन् इष्टाश्वः एतन्नामको राजा किम् ऋञ्जते किं प्रसाधयति । तथा इष्टरश्मिः च किमृञ्जते । एते इदानीं वर्तमानाः ईशानासः पृथिव्या ईश्वरा राजानश्च किं प्रसाधयन्ति । यद्वा । येषां स्तोतॄणामस्माकमेते स्तुता देवा ईशानासः स्वामिनः किल तादृशान् तरुषः शत्रूणां तारकान् नॄन् कर्मनिर्वाहकान् अस्मान इष्टाश्वादयः किं साधयन्ति किमुपद्रवन्ति न प्रभवन्तीत्यर्थः ॥
“We rejoice tha tfor the satisfaction of the ten (organs of sense), the (priests) bearing the twice five (ladles of) sacrificial food, proceed (to the altar). What can Iṣṭaśva, (what can) Iṣṭaraśmi, (what can) those who are now lords of the earth, achieve (with respect) to the leaders of men, the conquerors of their foes?”
We will rejoice to drink the tenfold present when the twicefive come bearing sacred viands.
What can he do whose steeds and reins are choicest? These, the all-potent, urge brave men to conquest.
Let us find elation in the ten-part gush (of soma?), when the twice five [=fingers?] come, bringing foods.
The one providing desirable horses, the one providing desirable reins, and these masters (of goods)—are they heading straight toward the men to surpass (them)?
»Wir berauschen uns an dem zehntheiligen Tranke, wenn die zweimal fünf kommen Speise bringend; was hat der vor, der erwünschte Rosse und Zügel hat? diese, die überlegene Kraft besitzen, streben hin zu den Männern (?).«
Wir wollen uns an der zehnfachen Speisung gütlich tun, wenn sie kommen und die zweimal fünf Speisen auftragen. Werden Istasva, Istarasmi, diese siegreichen Machthaber, die Herren auszeichnen?
Пусть наслаждаемся мы кушаньем десяти видов,
Когда они идут, неся дважды десять блюд.
А что, Ишташва, Иштарашми, эти
Повелители силы превосходства бросятся (награждать) мужей?
हिर॑ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः । अ॒र्यो गिर॑: स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा॑कन्तू॒भये॑ष्व॒स्मे ॥
हिर॑ण्यऽकर्णम् । म॒णि॒ऽग्री॒व॒म् । अर्णः॑ । तम् । नः॒ । विश्वे॑ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः । अ॒र्यः । गिरः॑ । स॒द्यः । आ । ज॒ग्मुषीः॑ । आ । उ॒स्राः । चा॒क॒न्तु॒ । उ॒भये॑षु । अ॒स्मे इति॑ ॥
हिरण्यकर्णं हिरण्यविकारकुण्डलाद्युपेतकर्णं मणिग्रीवं रत्नाद्युपेतकण्ठम् । एतद्द्वयं सर्वावयवस्याप्युपलक्षणम् । एवं सर्वाङ्गाभरणयुक्तम् अर्णः अरणीयं रूपं तद्वन्तं पुत्रादिकमित्यर्थः । उक्तलक्षणमस्मदीयं रूपं वा नः अस्माकं विश्वे सर्वे देवाः वरिवस्यन्तु परिचरन्तु प्रयच्छन्त्वित्यर्थः । अर्यः अरणीयो विश्वेषां देवानां संघः जग्मुषीः स्तोतुर्मुखान्निर्गच्छन्तीः गिरः स्तुतीः उस्रा:। विकारे प्रकृतिशब्दः । क्षीराज्यादीनि हवींषि च सद्यः अस्मदागमनानन्तरमेव चाकन्तु कामयन्ताम् ॥ छान्दसः शपः श्लुः परस्मैपदं च । यद्वा । यङ्लुकि नुगभावः ॥ आ चाकन्त्विति वा योज्यम् । पर्याप्तं कामयन्तामित्यर्थः । केष्विति तदुच्यते । अस्मे अस्माकं संबन्धिषु उभयेषु स्तोतृषु यष्टृषु च । यद्वा । अस्माकमुभयेषु ऐहिकामुष्मिकविषयेषु उभयविधेषु फलेषु ॥
“May all the gods favour us with a person n decorated with golden earrings and jewel necklace; may the venerable (company of the deities) be propitiated by the praises issuing (from the mouth of the worshipper); may our offerings be acceptable to them, and (may they be plural ased) with both (our praises and offerings).”
The sea and all the Deities shall give us him with the golden ear and neck bejewelled.
Dawns, hasting to the praises of the pious, be pleased with us, both offerers and singers.
The “flood” with golden ears and bejeweled necks—let all the gods make it wide for us.
Let the ruddy ones [=Dawns?], coming here in an instant to the songs of the stranger, find pleasure in both of us [=singers and patrons].
Die wallende Schar (?) mit Goldschmuck am Ohr und Perlen am Halse, die mögen uns alle Götter segnen; die Morgenröthen, herkommend zu den Liedern des frommen, mögen Gefallen haben an uns, den Sängern und den Spendern.
Die wogende Masse, die Gold an den Ohren und Juwelen am Hals trägt, die sollen uns alle Götter gönnen. Die Morgenröten sollen alsbald zu dem Lobe des hohen Herrn erscheinend an beiden teilen von uns ihre Freude haben.
(Вот) поток (скота) с золотом в ушах, драгоценными камнями на шее.
Да создают нам Все-Боги для него широкий простор!
Пусть зори, сразу приходящие на хвалебные песни чужого,
Будут радоваться обоим (сообществам) среди нас!
च॒त्वारो॑ मा मश॒र्शार॑स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय॑वसस्य जि॒ष्णोः । रथो॑ वां मित्रावरुणा दी॒र्घाप्सा॒: स्यूम॑गभस्ति॒: सूरो॒ नाद्यौ॑त् ॥
च॒त्वारः॑ । मा॒ । म॒श॒र्शार॑स्य । शिश्वः॑ । त्रयः॑ । राज्ञः॑ । आय॑वसस्य । जि॒ष्णोः । रथः॑ । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । दी॒र्घऽअ॑प्साः॒ । स्यूम॑ऽगभस्तिः । सूरः॑ । न । अ॒द्यौ॒त् ॥
मा मां कक्षीवन्तं मशर्शारस्य। मशकीकृत्य भृशं शृणोति शारयति वा अमित्रानिति मशर्शारः । एतन्नामकस्य राज्ञः शिश्वः शिशवः शिशुवदप्रबुद्धाः चत्वारः पुत्राः बाधन्ते इति शेषः ॥ शिशुशब्दस्य: जसादिषु च्छन्दसि वावचनम् ' इति गुणाभावः ॥ तथा आयवसस्य सर्वतः प्राप्तान्नस्य एतन्नाम्नः राज्ञः जिष्णोः जयशीलस्य पुत्राः त्रयः तेऽपि बाधन्ते इति शेषः । हे मित्रावरुणा एतन्नामानौ देवौ वां युवयोः संबन्धी रथः दीर्घाप्साः । अप्स इति रूपनाम । अतिविस्तृतरूपः स्यूमगभस्तिः । स्यूममिति सुखनाम । सुखकरदीप्तिः सन् सूरो न सूर्य इव अद्यौत् द्योतताम् । उक्तानाम् अस्मद्विरोधिनां पुरतः स्फुरन् भयजनको भवत्वित्यर्थः ॥ द्युतेः ‘ छन्दसि लुङलङ्लिटः । इति लुङ् । ‘ द्युद्भ्यो लुङि' (पा. सू. १. ३. ९१ ) इति परस्मैपदम् । सिचि वृद्धिः परस्मैपदेषु ' ( पा. सू. ७, २. १ ) इति वृद्धि:। ‘ बहुलं छन्दसि ' इति इडभावे हल्ङ्यादिसंयोगान्तलोपौ । यद्वा । ‘ द्यु अभिगमने' । आदादिकः । छान्दसे लङि ‘ उतो वृद्धिर्लुकि हलि' ( पा. सू. ७. ३. ८९ ) इति वृद्धिः ॥ ॥ ३ ॥
“The four (silly) sons of Maśar'śāra, the three of the victorious monarch Āyavasa (annoy) me. Let your spacious and bright-rayed chariot, Mitra and Varuṇa, blaze (before them) like the sun (filling them with fear).”
Four youthful sons of Masarsara vex me, three, of the king, the conquering Ayavasa.
Now like the Sun, O Varuna and Mitra, your car hath shone, long-shaped and reined with splendour.
The four young’uns [=foals?] of Maśarśāra and the three of King Āyavasa, the victorious (come) to me.
Your chariot, o Mitra and Varuṇa, with its long front, with hands as its guiding rope, has shone like the sun.
Mich [fahren (vgl. 534, 23 und 683, 14)] vier vom Sohne des Maçarçāra geschenkte Rosse und drei des siegreichen Königs Ajavasa; euer Wagen, o Mitra Varuna mit langgestrecktem Vorderteil, von Riemen gezogen, glänzt wie die Sonne.
Die vier Fohlen des Masarsara, die drei des siegreichen Königs Ayavasa erfreuten mich. Euer beider Wagen, Mitra und Varuna, mit langem Vorderteil, bei dem die Zügel die Hände, die Strahlen bilden, erstrahle wie die Sonne
Четырех жеребят Машаршары,
Трех – победоносного царя Аявы мне (подарили).
Ваша колесница, о Митра и Варуна с длинной
Передней частью, с ремнями-лучами засверкала, как солнце.