पृ॒थू रथो॒ दक्षि॑णाया अयो॒ज्यैनं॑ दे॒वासो॑ अ॒मृता॑सो अस्थुः । कृ॒ष्णादुद॑स्थाद॒र्या॒३॒॑ विहा॑या॒श्चिकि॑त्सन्ती॒ मानु॑षाय॒ क्षया॑य ॥
पृ॒थुः । रथः॑ । दक्षि॑णायाः । अ॒यो॒जि॒ । आ । एन॑म् । दे॒वासः॑ । अ॒मृता॑सः । अ॒स्थुः॒ । कृ॒ष्णात् । उत् । अ॒स्था॒त् । अ॒र्या॑ । विऽहा॑याः । चिकि॑त्सन्ती । मानु॑षाय । क्षया॑य ॥
दक्षिणायाः प्रवृद्धायाः स्वव्यापारकुशलायाः उषोदेवतायाः पृथुः विस्तीर्णः रथः अयोजि अश्वैर्युक्तः संनद्धोऽभूत् । अत्र यद्यपि देवताविशेषो न श्रुतः तथापि उषस्यत्वात् उषस इति गम्यते । एनं संनद्धं रथम् अमृतासः अमरणधर्माणः देवासः देवनाशीलाः हविर्भाजो देवाः आ अस्थुः अस्थितवन्तः देवयजनं गन्तुमारूढाः इत्यर्थः । अनन्तरं सा उषाः कृष्णात् निकृष्टवर्णात् नैशात् तमसः सकाशात् उदस्थात् उत्थिता अभूत् । कृष्णं कृष्यतेर्निकृष्टो वर्णः' (निरु. २. २०) इति यास्कः । कीदृशी सा। अर्या अरणीया पूजनीया विहायाः विविधगमनयुक्ता महती वा । विहाया इति महन्नाम ‘विहायाः यह्वः' ( नि. ३. ३. १२) इति तन्नामसु पाठात् । मानुषाय क्षयाय मनुष्याणां निवासाय चिकित्सन्ती अन्धकारनिवारणरूपां चिकित्सां कुर्वती तमो निवारयन्तीत्यर्थः॥
“The spacious chariot of the graceful (dawn) has been harnessed; the immortal gods have ascended it; the noble and all-pervading Uṣā has risen up from the darkness, bringing health to human habitations.”
THE Daksina's broad chariot hath been harnessed: this car the Gods Immortal have ascended.
Fain to bring light to homes of men the noble and active Goddess hath emerged from darkness.
A broad chariot has been yoked for the priestly gift. The gods, the immortals have mounted it.
Up from the dark has arisen the lady of extensive power, being attentive to the human dwelling place.
Geschirrt ist schon der reichen Uschas Wagen, die ew'gen Götter haben ihn bestiegen; Erhoben hat sich aus der Nacht die holde, die grosse, sich der Menschenwelt zu zeigen.
Der breite Wagen der Daksina ist geschirrt; ihn haben die unsterblichen Götter jetzt bestiegen. Die Herrin ist in voller Kraft dem Dunkel entstiegen für den menschlichen Wohnsitz sorgend.
Запряжена широкая колесница Дакшины.
На нее взошли бессмертные боги.
Из темного (пространства) восстала благородная огромная (богиня),
Заботящаяся о людском поселении.
पूर्वा॒ विश्व॑स्मा॒द्भुव॑नादबोधि॒ जय॑न्ती॒ वाजं॑ बृह॒ती सनु॑त्री । उ॒च्चा व्य॑ख्यद्युव॒तिः पु॑न॒र्भूरोषा अ॑गन्प्रथ॒मा पू॒र्वहू॑तौ ॥
पूर्वा॑ । विश्व॑स्मात् । भुव॑नात् । अ॒बो॒धि॒ । जय॑न्ती । वाज॑म् । बृ॒ह॒ती । सनु॑त्री । उ॒च्चा । वि । अ॒ख्य॒त् । यु॒व॒तिः । पु॒नः॒ऽभूः । आ । उ॒षाः । अ॒ग॒न् । प्र॒थ॒मा । पू॒र्वऽहू॑तौ ॥
विश्वस्मात् भुवनात् सर्वस्मात् सुप्ताद्भूतजातात् पूर्वा प्रथमा सती इयम् उषाः अबोधि बुद्धा अभूत् । उषःकालमवगत्य हि पश्चात् सर्वे प्राणिनः प्रतिबुध्यन्ते। कीदृशी सा। वाजं गमनशीलं प्रकाशं निर्वर्त्य अन्धकारं जयन्ती पराभवं कुर्वती । यद्वा । वाजशब्दोऽअन्ननामसु पठितत्वादन्ननाम । अन्नं वै वाजः' (श. ब्रा. ९. ३. ४. १; तै. ब्रा. १. ३. ६. २ ) इति श्रुतेश्च । यजमानार्थम् अन्नं संपादयन्ती । बृहती महती सनुत्री सर्वं जगत्संभजन्ती दात्री वा प्रकाशस्य । किंच सा उषाः उच्चा उच्चैरुन्नता सती व्यख्यत् विचष्टे सर्वं जगत् पश्यति' इत्यर्थः । कीदृशी सा । युवतिः मिश्रणशीला नित्ययौवना वा पुनर्भूः पुनःपुनर्भवनशीला प्रतिदिनं वर्तमानत्वात्। सा उषाः पूर्वहूतौ सत्यां प्रथमा मुख्या प्रकृष्टा सती आ अगन् देवयजनदेशंप्रत्यागच्छति ।' प्रथम इति मुख्यनाम प्रतमो भवति ' (निरु. २. २२) इति यास्कः । इतरदेवेभ्यः पूर्वमाहूता सती शीघ्रमेवागच्छतीत्यर्थः ॥
“First of all the world is she awake, triumphing over transitory (darkness); the mighty, the giver (of light) from on high, she beholds (all things); ever youthful, ever reviving, she comes first to the invocation.”
She before all the living world hath wakened, the Lofty One who wins and gathers treasure.
Revived and ever young on high she glances. Dawn hath come first unto our morning worship.
Earlier than all creation she has awoken, the lofty one, conquering, winning the prize.
On high she has gazed forth—the young woman come into being again. Dawn has come here, the first one at the Early Invocation.
Vor aller Welt ist sie erwacht als erste, die hohe, Gut erkämpfend und erlangend, Sie blickt empor die Jungfrau wiederkehrend, zuerst beim Frühruf kam die Morgenröthe.
Früher als die ganze Welt ist die Hohe erwacht, siegend, den Preis erringend. Hoch oben hielt die wiedererstandene junge Frau Umschau. Als erste ist Usas zur Frühanrufung gekommen.
Раньше (всего света) пробудилась она,
Завоевывающая награду, высокая, победоносная.
Высоко (наверху) взглянула на все юная женщина, снова рождающаяся.
Ушас появилась первой на утренний призыв.
यद॒द्य भा॒गं वि॒भजा॑सि॒ नृभ्य॒ उषो॑ देवि मर्त्य॒त्रा सु॑जाते । दे॒वो नो॒ अत्र॑ सवि॒ता दमू॑ना॒ अना॑गसो वोचति॒ सूर्या॑य ॥
यत् । अ॒द्य । भा॒गम् । वि॒ऽभजा॑सि । नृऽभ्यः॑ । उषः॑ । दे॒वि॒ । म॒र्त्य॒ऽत्रा । सु॒ऽजा॒ते॒ । दे॒वः । नः॒ । अत्र॑ । स॒वि॒ता । दमू॑नाः । अना॑गसः । वो॒च॒ति॒ । सूर्या॑य ॥
सुजाते शोभनजनने देवि देवनशीले हे उषः उषःकालाभिमानिदेवते मर्त्यत्रा मनुष्याणां पालयित्री त्वम् अद्य अस्मिन् काले नृभ्यः मनुष्येभ्यः यत् यं भागं भजनीयं स्वकीयप्रकाशस्यांशं विभजासि विभज्य ददासि । यद्वा । मर्त्यत्रा मर्त्येषु मध्ये नृभ्यः यजमानेभ्यः देवानां भागं विभज्य ददासि । उषसि प्रवृत्तायां हविषो दीयमानत्वात् उषसो दातृत्वमुपचर्यते । अत्र अस्मिन् भागविषये दमूनाः यजमानेभ्यः अभिमतफलदानमनाः। दमूना दममना वा दाममना वा दान्तमना वा' (निरु. ४. ४ ) इति निरुक्तवचनम् । तादृशः सविता प्रेरकः देवः नः अस्मान् अनागसः वोचति अपापान् यागयोग्यान् ब्रवीतु अनुगृह्णातु इत्यर्थः। किमर्थम्। सूर्याय अस्मद्यागदेशं प्रति सूर्यस्यागमनार्थम् ॥
“Well-born and divine Uṣā, who are the protectress of mortals; whatever share (of light) you apportion today to men, may the radiant Savitā bedisposed (to confirm) the gift, and declar us free from sin; so that (he) the sun (may come to our sacrificial hall).”
If, Dawn, thou Goddess nobly born, thou dealest fortune this day to all the race of mortals,
May Savitar the God, Friend of the homestead, declare before the Sun that we are sinless.
When today you will share out a share to the superior men among mortals, o nobly born goddess Dawn,
god Savitar, master of the house, will here declare to the Sun that we are without offense.
Wenn heute du den Männern Gaben austheilst, o edle Uschas, Göttin bei den Menschen, Dann mög' uns hier Gott Savitar, der Hausfreund, als frei von Schuld dem Sonnengott verkünden.
Wenn du, Göttin Usas, heute unter den Sterblichen den Herren ihr Teil zuteilen wirst, du Edelgeborene, so soll uns Gott Savitri, der Gebieter, dabei dem Surya als sündlos melden.
Если сегодня ты станешь раздавать мужам (их) долю
Среди смертных, о Ушас, прекраснорожденная богиня,
То пусть бог Савитар, покровитель дома,
Провозгласит нас безгрешными перед Сурьей!
गृ॒हंगृ॑हमह॒ना या॒त्यच्छा॑ दि॒वेदि॑वे॒ अधि॒ नामा॒ दधा॑ना । सिषा॑सन्ती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒ वसू॑नाम् ॥
गृ॒हम्ऽगृ॑हम् । अ॒ह॒ना । या॒ति॒ । अच्छ॑ । दि॒वेऽदि॑वे । अधि॑ । नाम॑ । दधा॑ना । सिसा॑सन्ती । द्यो॒त॒ना । शश्व॑त् । आ । अ॒गा॒त् । अग्र॑म्ऽअग्रम् । इत् । भ॒ज॒ते॒ । वसू॑नाम् ॥
अह्ना। उषो नामैतत् । ‘अहना द्योतना' (नि. १.८.११) इति तन्नामसु पाठात् । सा देवी दिवेदिवे प्रत्यहम्। 'दिवेदिवे द्यविद्यवि' (नि. १.९.११) इति अहर्नामसु पाठात्। गृहंगृहं तत्तद्यज्ञगृहम् अच्छ आभिमुख्येन याति गच्छति। कीदृशी। अधि अधिकं नाम नमनं प्रह्वत्वं प्रतिगृहम् उद्योगं प्रकाशनरूपं दधाना धारयन्ती । यद्वा । अधि दधाना अधिकं धारयन्ती । किंच सिषासन्ती संभक्तुमिच्छन्ती द्योतना कृत्स्नं जगत् द्योतनशीला शश्वत् प्रतिदिनम् आगात् आगच्छति । पूर्वं यातीत्युक्तत्वात् पुनः आगादिति वचनमावश्यकत्वद्योतनार्थम् । आगत्य च वसूनां धनानां हविर्लक्षणानाम् अग्रमग्रमित् तत्तच्छ्रेष्ठभागं भजते सेवते स्वीकरोतीत्यर्थः ॥
“Ahana, charged with downward-bending (light), goes daily from house to house; she comes, perpetually diffusing light, and desirous of bestowing (benefits), and accepts the choicest portions of (the sacrificial) treasures.”
Showing her wonted form each day that passeth, spreading the light she visiteth each dwelling.
Eager for conquest, with bright sheen she cometh. Her portion is the best of goodly treasures.
To house after house she drives *in her greatness, day after day assuming (new) names.
Seeking to win, flashing, over and over she has come hither. She has her share of the very tip-top of goods.
Die tageshelle kommt zu jedem Hause und jedem Tage gibt sie ihren Namen; Zu spenden willig, strahlend naht sie immer und theilet aus der Güter allerbestes.
Zu jedem Hause kommt die unverwüstliche, Tag für Tag ihren besonderen Namen tragend. Um das Ziel zu gewinne ist die Leuchtende immer wieder gekommen. Das Allerbeste von allen guten Dingen hat sie im Besitz.
Из дома в дом идет она, несокрушимая (?),
Изо дня в день принимая (разные) имена.
Стремясь захватить (добычу), она приходит постоянно.
Она владеет самым лучшим из (всех).
भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुष॑: सूनृते प्रथ॒मा ज॑रस्व । प॒श्चा स द॑घ्या॒ यो अ॒घस्य॑ धा॒ता जये॑म॒ तं दक्षि॑णया॒ रथे॑न ॥
भग॑स्य । स्वसा॑ । वरु॑णस्य । जा॒मिः । उषः॑ । सू॒नृ॒ते॒ । प्र॒थ॒मा । ज॒र॒स्व॒ । प॒श्चा । सः । द॒ध्याः॒ । यः । अ॒घस्य॑ । धा॒ता । जये॑म । तम् । दक्षि॑णया । रथे॑न ॥
सूनृते सुष्ठु मनुष्याणां नेत्रि उषः हे उषोदेवते भगस्य सर्वैर्भजनीयस्य आदित्यस्य स्वसा असि स्वसृस्थानीयसि । तेन सहोत्पद्यमानत्वात् तद्वत्पूज्येत्यर्थः। तथा वरुणस्य तमोवारकस्य सवितुर्देवस्य जामिः असि भगिनीस्थानीयासि। एकस्मिन्नेव स्थाने उत्पद्यमानत्वात्।जनयन्त्युत्पादयन्ति अस्यामपत्यम् अन्ये इति जामिः। यद्वा । जमति गच्छति स्वोत्पत्तिस्थानात् अन्यत्रेति । उक्तनिर्वचनद्वयम् अभिप्रेत्य यास्क आह-' न जामये भगिन्यै जामिरन्येऽस्यां जनयन्ति जामपत्यं जमतेर्वा स्याद्गतिकर्मणो निर्गमनप्राया भवति ' (निरु. ३. ६ ) इति । तादृशी त्वं प्रथमा इतरदेवेभ्यः पूर्वा उत्कृष्टा वा सती जरस्व स्तुता भव । जरतिः स्तुत्यर्थः । ‘ जरा स्तुतिर्जरतेः स्तुतिकर्मणः ' ( निरु. १०. ८) इति यास्कः । पश्चा पश्चात् त्वत्प्रीत्यनन्तरं यः अघस्य धाता यः कश्चिद्दुःखस्य तदुत्पादकपापस्य वा धारयितास्ति सः दध्याः गच्छतु । वचनव्यत्ययः । दध्यतिर्गत्यर्थः ।' दृध्यति दभ्नोति ' ( नि. २. १४. ६१) इति गत्यर्थेषु पाठात् । यदि स पापी बलीयान् तं दक्षिणया प्रवृद्धया सहायभूतया त्वया रथेन अस्मदीयरथादिसाधनेन च जयेम ॥ ॥ ४ ॥
“Uṣā, endowed with truth, who are the sister of Bhaga, the sister of Varuṇa, be you hymned first (of the gods); then let the worker of iniquity depart, for we shall overcome him with our chariot, through your assistance.”
Sister of Varuna, sister of Bhaga, first among all sing forth, O joyous Morning.
Weak be the strength of him who worketh evil: may we subdue him with our car the guerdon.
Sister of Bhaga, kin to Varuṇa, o liberal Dawn, be first awake.
The institutor of evil should lag behind. Might we conquer him with a priestly gift as our chariot.
Als Bhaga's Schwester, Varuna's Verwandte, komm her zuerst, o schöne Morgenröthe; Wer Frevel übt, der soll dahinten bleiben, von uns besiegt sein mit der Uschas Wagen.
Des Bhaga Schwester, des Varuna Verwandte, erwache du großmütige Usas als erste! Der Anstifter des Bösen soll das Nachsehen haben; wir wollen ihn mit der Daksina als dem Wagen besiegen.
Сестра Бхаги, кровная родня Варуны,
О щедрая Ушас, пробудись первой!
Да останется позади, кто затевает зло!
Да победим мы его Дакшиной-колесницей!
उदी॑रतां सू॒नृता॒ उत्पुरं॑धी॒रुद॒ग्नय॑: शुशुचा॒नासो॑ अस्थुः । स्पा॒र्हा वसू॑नि॒ तम॒साप॑गूळ्हा॒विष्कृ॑ण्वन्त्यु॒षसो॑ विभा॒तीः ॥
उत् । ई॒र॒ता॒म् । सू॒नृताः॑ । उत् । पुर॑म्ऽधीः । उत् । अ॒ग्नयः॑ । शु॒शु॒चा॒नासः॑ । अ॒स्थुः॒ । स्पा॒र्हा । वसू॑नि । तम॑सा । अप॑ऽगूळ्हा । आ॒विः । कृ॒ण्व॒न्ति॒ । उ॒षसः॑ । वि॒ऽभा॒तीः ॥
सूनृताः प्रियसत्यात्मिकाः वाचः' उदीरताम् उद्गच्छन्तु । हे ऋत्विजः उत्कृष्टं यथा भवति तथा स्तोत्रं प्रवर्तयध्वम् । तथा पुरंधीः पुरंधयः । पुरं शरीरं यासु धीयते याभिर्वा ताः पुरंधयः प्रज्ञाः प्रयोगविषयाः । ताः अपि उन्मिषन्तु । प्रज्ञोपलक्षितानि कर्माणि प्रवर्तन्तामित्यर्थः । यद्यपि प्राणवायुना शरीरं धार्यते तथापि ' यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः ' ( कौ. उ. ३. ३) इति श्रुतेः प्राणप्रज्ञयोरेकत्वात् प्रज्ञायाः शरीरधारणमविरुद्धम् । तथा अग्नयः आहवनीयाद्याः शुशुचानासः अत्यन्तं दीप्यमानाः उत् अस्थुः उत्तिष्ठन्तु प्रज्वलयन्तु इत्यर्थः । किमर्थमेवमिति तदुच्यते । यतः विभातीः विविधं भासमानाः उषसः उषोदेवताः तमसा अपगूळ्हानि अन्धकारेणात्यन्तं गोपितानि स्पार्हा स्पृहणीयानि वसूनि वासयोग्यानि यज्ञसाधनभूतहविरादीनि आविष्कृण्वन्ति यथावस्तु प्रकटीकुर्वन्ति तस्मात् स्तोत्रादिकं कुर्वन्वित्यर्थः ॥
“Let words of truth be spoken; let works of wisdom (be performed); let the blazing fires rise up, so that the many radiant Uṣā may make manifest the desirable treasures hidden by the darkness.”
Let our glad hymns and holy thoughts rise upward, for the flames brightly burning have ascended.
The far-refulgent Mornings make apparent the lovely treasures which the darkness covered.
Let liberalities rise up, up plentiful gifts; up have the blazing fires stood. The eagerly sought goods hidden by darkness do the radiant dawns reveal.
Es möge sich erheben Lied und Opfer, schon stiegen auf die Feuer hell erstrahlend; Die schönen Güter sonst verhüllt von Dunkel, lässt schauen jetzt die lichte Morgenröthe.
Die Schenkungen sollen zum Vorschein kommen, die Belohnungen. Die flammenden Feuer sind erstanden. Die begehrenswerten Schätze, die im Dunkel versteckt waren, bringen die erstrahlenden Usas´ zum Vorschein.
Пусть возникнут богатые дары, пусть воз(никнут) обильные (подкрепления)!
Поднялись пылающие огни.
Желанные блага, сокрытые мраком, –
Сверкающие зори делают их видимыми.
अपा॒न्यदेत्य॒भ्य१॒॑न्यदे॑ति॒ विषु॑रूपे॒ अह॑नी॒ सं च॑रेते । प॒रि॒क्षितो॒स्तमो॑ अ॒न्या गुहा॑क॒रद्यौ॑दु॒षाः शोशु॑चता॒ रथे॑न ॥
अप॑ । अ॒न्यत् । एति॑ । अ॒भि । अ॒न्यत् । ए॒ति॒ । विषु॑रूपे॒ इति॒ विषु॑ऽरूपे । अह॑नी॒ इति॑ । सम् । च॒रे॒ते॒ इति॑ । प॒रि॒ऽक्षितोः॑ । तमः॑ । अ॒न्या । गुहा॑ । अ॒कः॒ । अद्यौ॑त् । उ॒षाः । शोशु॑चता । रथे॑न ॥
इदानीम् अहोरात्रस्तुतिद्वारा उषाः स्तूयते । विषुरूपे वक्ष्यमाणप्रकारेण नानारूपे अहनी अहश्च रात्रिश्चोभे सं चरेते । समित्येकीभावे । सहैव अव्यवधानेन चरतः । अत्राह्नः साहचर्यात् तत्प्रतियोगित्वाच्च रात्रिरपि अहः इत्युच्यते । उत्तरत्र मन्त्रान्तरे अयमेवार्थः स्पष्टः आम्नातः ‘अहश्च कृष्णमहर्जुनं च वि वर्तेते रजसी वेद्याभिः ' ( ऋ. सं. ६. ९. १ ) इति । तयोर्मध्ये अन्यत् रात्रिरूपमहः अप एति अपगच्छति प्रतिलोमं गच्छति वा । ‘ अपेत्येतस्य प्रतिलोम्यम्' (निरु. १. ३) इति यास्कः । अन्यत् च दिवसाख्यमहः अभि एति अभिमुख्येन गच्छति । ‘ अभीत्याभिमुख्यम्' (निरु. १. ३) इति यास्कः । रात्र्यां प्रतिनिवृत्तायाम् अहः अभिमुखमागच्छतीत्यर्थः । विषुरूपे सं चरेते इति यदुक्तं तदेव स्पष्टीक्रियते । परिक्षितोः पर्यायेण निवसतोः परिक्षपयतोर्वा । प्राणिनाम् अहःसु अतीतेषु आयुषः क्षयात् परिक्षपणं प्रसिद्धम् । तयोर्मध्ये अन्या रात्रिः तमः तमोरूपा गुहा पदार्थानां गूहनम् अकः करोति । अन्या अहरेकदेशभूता च उषाः शोशुचता भृशं दीप्तेन रथेन अद्यौत् । द्योतते प्रकाशते प्रकाशयति वा सर्वम् । रात्रिः तमोरूपत्वात् सर्वं जगत् आवृणोति । उषास्तु सर्वान् भावान् प्रकाशयति इत्युषसः स्तुतिः ॥
“The twofold day proceeds unseparated; one (part going) forward, one backward; one of these two alternating (periods) effects the concealment (of things); the dawn illumines them with her radiant chariot.”
The one departeth and the other cometh: unlike in hue day's, halves march on successive.
One hides the gloom of the surrounding Parents. Dawn on her shining chariot is resplendent.
The one goes away; the other approaches: having distinct forms, the two day-halves proceed in tandem.
Of the two that circle around, the one has hidden the darkness: Dawn has flashed with her ever-blazing chariot.
Die Nacht vergeht, es kommt die Tageshelle, ungleich gefärbt begegnen sich die beiden, Das Dunkel hüllet ein der Schwestern eine, die Morgenröthe strahlt im Flammenwagen.
Die eine Tageshälfte geht, die andere kommt: die beiden ungleichartigen Tageshälften treffen sich. Die andere hat das Dunkel der beiden umgebenden Welten versteckt. Usas ist erschienen auf flammenden Wagen.
Одна уходит прочь, другая приходит.
Две несхожие половины суток сходятся вместе.
Другая заставила скрыться мрак двух окружающих (миров).
Засверкала Ушас с блистающей колесницей.
स॒दृशी॑र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चन्ते॒ वरु॑णस्य॒ धाम॑ । अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै॑का॒ क्रतुं॒ परि॑ यन्ति स॒द्यः ॥
स॒ऽदृशीः॑ । अ॒द्य । स॒ऽदृशीः॑ । इत् । ऊँ॒ इति॑ । श्वः । दी॒र्घम् । स॒च॒न्ते॒ । वरु॑णस्य । धाम॑ । अ॒न॒व॒द्याः । त्रिं॒शत॑म् । योज॑नानि । एका॑ऽएका । क्रतु॑म् । परि॑ । य॒न्ति॒ । स॒द्यः ॥
अद्य अस्मिन्नहनि. सदृशीः इत् परस्परं सदृश्यः एव । तथा श्वः इत् परस्मिन्नप्यहनि सदृशीः परस्परं सदृश्य एव। उशब्दोऽपिशब्दार्थः। इच्छब्द एवार्थः । अद्यतन्योऽपि श्वस्तनीभिः सदृश्यः श्वस्तन्यश्च अद्यतनीभिः। एवम् अहरन्तरेण सादृश्यम् । कथं सादृश्यमिति तदुपपद्यते । यदा नक्षत्राणि न दृश्यन्ते सूर्यश्च नोदेति उषःकालः। स चैकविंशतिघटिकाभिः षड्विंशितिपराभिश्च संमितः । सूर्यो हि प्रतिदिनम् एकोनषष्ट्यधिकपञ्चसहस्रयोजनानि मेरुं प्रादक्षिण्येन परिभ्रमति । तथा सति यत्र यत्र लङ्कादिभूप्रदेशे सूर्यो गच्छति तस्य तस्य पुरस्तात् त्रिंशयोजनम् उषाः अपि गच्छति । सूर्यो यस्मिन् देशे गच्छति तत्र त्रिंशद्योजनं पुरस्ताद्देशस्थितानामुदितो दृश्यते । एवं सर्वप्रदेशेष्वपि । तथा उषाः अपि यत्र गच्छति ततः पुरस्तात् त्रिंशद्योजनभूभागवर्तिनामुदिता दृश्यते । एवं लङ्कादिसर्वप्रदेशस्थितानामप्युषस उदयोऽवगन्तव्यः । एवं च सति एकस्मिन् भूभागे यावत्कालं यथोषाः प्रकाशयति तथा भूभागान्तरेऽपि तावन्तं कालं प्रकाशयति । एवम् उक्तरीत्या एकस्मिन्नेवाहनि सर्वप्रदेशवर्तिनामप्युषसः सदृश्यः । प्रदेशबाहुल्यमपेक्ष्य उषसां बहुत्वात् बहुवचनम् । एवमेकरूपाः उषसः अनवद्याः शुद्धाः। तासामुदयात् सवें भावा अनवद्या भविष्यन्ति किमु वक्तव्यं तासामनवद्यत्वे । दीर्घम् उक्तरीत्या अत्यन्तमायतं वरुणस्य तमोनिवारकस्य सूर्यस्य धाम स्थानं मेरुवलयं सचन्ते प्रतिदिनं सेवन्ते । कियद्दूरमिति तदुच्यते । त्रिंशतं योजनानि त्रिंशद्योजनानि पुरतः । सूर्यो यत्र यत्रोदेति ततस्ततस्त्रिंशद्योजनं पुरस्तादुद्यन्तीत्यर्थः । किंच आसां मध्ये एकैका उषा लङ्काद्येकैकभूभागवर्तिनां क्रतुं गमनागमनादिरूपं कर्म तद्विषयां प्रज्ञां वा । तथा च निरुक्तं- क्रतुं दधिक्राः कर्म वा प्रज्ञां वा ' ( निरु. २. २८ ) इति । सद्यः तदानीमेव स्वोदयकाले एव परि यन्ति परितो गच्छन्ति । निर्वहन्तीत्यर्थः । तत्तद्भूभागविशेषेण सूर्यस्योदयो ज्योतिःशास्त्रे प्रदर्शितः । ‘ उदयो यो लङ्कायां सोऽस्तमयः सवितुरेव सिद्धपुरे । मध्याह्नो यवकोट्यां रोमकविषयेऽर्धरात्रः स्यात् ' ( आर्य. ४. १३) इति ॥
“The same today, the same tomorrow, the irreproachable (dawn) precede the distant course of Varuṇa by thirtyyojanas, and each in succession revolves in its (appointed) office.”
The same in form to-day, the same tomorrow, they still keep Varuna's eternal statute.
Blameless, in turn they traverse thirty regions, and dart across the spirit in a moment.
Of the same appearance today, just the same appearance also tomorrow, they follow the long(-standing) ordinance of Varuṇa.
The faultless ones make a circuit through thirty “wagon-treks” [=days of the month], each one encompassing her purpose in a single day.
An Aussehn heute gleich und gleich auch morgen, folgen sie Varuna's ew'ge Satzung, An dreissig Meilen ohne Fehl durchwandernd vollendet täglich ihre Arbeit jede.
Heute die gleichen und morgen die gleichen folgen sie dem dauernden Gesetz des Varuna. Untadelhaft vollenden sie die dreißig Wegstrecken, eine um die andere erreichen sie ihre Absicht an einem Tage.
Одни и те же сегодня, одни и те же завтра,
Они следуют длительному установлению Варуны.
Безупречные, (каждые) тридцать иоджан
Одна за другой они осуществляют в один день (божественный) замысел.
जा॒न॒त्यह्न॑: प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची । ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चर॑न्ती ॥
जा॒न॒ती । अह्नः॑ । प्र॒थ॒मस्य॑ । नाम॑ । शु॒क्रा । कृ॒ष्णात् । अ॒ज॒नि॒ष्ट॒ । श्वि॒ती॒ची । ऋ॒तस्य॑ । योषा॑ । न । मि॒ना॒ति॒ । धाम॑ । अहः॑ऽअहः । निः॒ऽकृ॒तम् । आ॒ऽचर॑न्ती ॥
उषाः प्रथमस्य मुख्यस्य प्रथमानस्य वा अह्नः दिवसस्य नाम नमनमागमनं जानती अवगच्छन्ती प्राणिनां प्रज्ञापयन्तीत्यर्थः। सा उषाः शुक्रा स्वतो दीप्ता अत एव श्वितीची श्वैत्यं गच्छन्ती प्रकाशं प्राप्नुवती कृष्णात् निकृष्टात् तमसः सकाशात् अजनिष्ट प्रादुर्भवति । यद्यपि तमसः सकाशान्नोत्पद्यते तथापि तदनन्तरभावित्वात् तत उत्पद्यते इत्युपचर्यते । उत्पन्ना सा ऋतस्य सत्यभूतस्यादित्यस्य धाम तेजोयुक्तं स्थानं योषा मिश्रयन्ती न मिनाति न हिनस्ति तदीयं तेजो न पराभवति । अपि तु अहरहः सर्वेष्वहःसु निष्कृतमाचरन्ती अलंकारशोभां कुर्वती । यद्वा । ऋतस्य सत्यभूतस्य यज्ञस्य धाम देवयजनाख्यं स्थानं योषा मिश्रणशीला सती न मिनाति न हिनस्ति। किंतु अहरहः सर्वेषु यागदिवसेषु निष्कृतं हविरादीनां प्रकाशनरूपमलंकारम् आचरन्ती कुर्वती तादृश्युषा अजनिष्टेति पूर्वत्रान्वयः ॥
“The self-illumined dawn, announcing the declination of the first (portion) of the day, is born white-shining out of the gloom; cleansing (with the radiance) of the sun, she impairs not his splendour, but daily adds embellishment (to his lustre).”
She who hath knowledge Of the first day's nature is born refulgent white from out the darkness.
The Maiden breaketh not the law of Order, day by day coming to the place appointed.
Knowing the name of the first day, gleaming, bright-faced, she has been born from the dark.
She does not violate the ordinance of truth, every day going to the
appointed place like a maiden to a rendezvous.
Der ersten Tageshelle Zeichen kennend, entsprang die lichte, weisse aus der schwarzen; Nicht löst die Jungfrau auf des Rechtes Satzung, die Tag für Tag am rechten Ort sich einstellt.
Sie, die den Namen des ersten Tages kennt, die lichte, weißgekleidete ist aus dem Dunkel erstanden. Die junge Frau verfehlt nicht das Gebot des Gesetzes. Jeden Tag kommt sie zum bestimmten Ort.
Зная имя первого дня,
Белая, белеющая, родилась из черного.
Юная женщина не нарушает установления космического закона,
Приходя день за днем на место свидания.
क॒न्ये॑व त॒न्वा॒३॒॑ शाश॑दानाँ॒ एषि॑ देवि दे॒वमिय॑क्षमाणम् । सं॒स्मय॑माना युव॒तिः पु॒रस्ता॑दा॒विर्वक्षां॑सि कृणुषे विभा॒ती ॥
क॒न्या॑ऽइव । त॒न्वा॑ । शाश॑दाना । एषि॑ । दे॒वि॒ । दे॒वम् । इय॑क्षमाणम् । स॒म्ऽस्मय॑माना । यु॒व॒तिः । पु॒रस्ता॑त् । आ॒विः । वक्षां॑सि । कृ॒णु॒षे॒ । वि॒ऽभा॒ती ॥
तन्वा शरीरेण शाशदाना शाशाद्यमाना स्पष्टतां प्राप्नुवती । ‘ शाशदानः शाशाद्यमानः ' (निरु. ६. १६ ) इति यास्कः । कन्येव कमनीया कन्यकेव। ' कन्या कमनीया भवति क्वेयं नेतव्येति वा ' ( निरु. ४, १५) इति यास्कः । सा यथा जनान्तिके विवसना संचरति तथा हे उषस्त्वं कन्या कमनीया अप्रगल्भा सती तन्वा शरीरेण शाशदाना स्पष्टतां गच्छन्ती दृश्यसे । पश्चात् प्रगल्भा सती हे देवि देवनशीले इयक्षमाणं यष्टुमिच्छन्तम् अभिमतं दातुमिच्छन्तं वा देवं द्योतनस्वभावं सूर्यरूपं प्रियम् एषि गच्छसि । ततः पश्चात् युवतिः यौवनोपेता सती पुरस्तात् पत्युः सूर्यस्य पुरतः संस्मयमाना सम् ईषत् हसन्ती हास्यं कुर्वती विभाती अत्यन्तं भासमाना वक्षांसि वक्षसोपलक्षितानवयवान् आविः कृणुषे प्रकटीकरोषि । यद्वा । युवतिरिति लुप्तोपमा । यथा लोके प्रगल्भा योषित् पुरस्तात् प्रियतमस्य पुरतः संस्मयमाना दन्तप्रदर्शनाय ईषद्धसनं कुर्वती वक्षांसि वक्षसोपलक्षितानि गोप्यानि बाहुमूलस्तनादीनि आविष्करोति तथा त्वमपीत्यर्थः । यद्वा । पुरस्तात् पूर्वस्यां दिशि संस्मयमाना स्मितोपमप्रकाशं कुर्वती युवतिः सर्वेषु भावेषु मिश्रणशीला वक्षांसि । वक्ष इति रूपनाम । दन्तस्थानीयानि नीलपीतादीनि रूपाण्याविष्करोषि ॥ ॥ ५ ॥
“Goddess, manifest in person n like a maiden, you go to the resplendent and munificent (sun), and, like a youthful bride (beforeher husband), you uncover, smiling, yor bosom in his presence.”
In pride of beauty like a maid thou goest, O Goddess, to the God who longs to win thee,
And smiling youthful, as thou shinest brightly, before him thou discoverest thy bosom.
Like a girl exulting in her body, you go, o goddess, to the god who seeks to attain you [=Sun].
Youthful, full of smiles, radiant, you reveal your breast in the east
[/before (him)].
Wie eine Braut am Leibe prangend gehst du zum Gott, o Göttin, der nach dir sich sehnet, Vor ihm enthüllst du lächelnd deine Brüste, die du erstrahlst in frischer Jugendfülle.
Wie eine Maid, die Stolz auf ihren Körper, gehst du, Göttin, zu dem dich begehrenden Gott. Lächelnd enthüllst du, die junge Frau, vor ihm die Brüste, wenn du im Osten erstrahlst.
Ты идешь, словно девица, красуясь (своим) телом,
О богиня, к богу, жаждущему (тебя).
Юная женщина, улыбаясь, ты раскрываешь
Грудь (перед ним), когда зажигаешься с востока.
सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं॑ कृणुषे दृ॒शे कम् । भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते॑ अ॒न्या उ॒षसो॑ नशन्त ॥
सु॒ऽस॒ङ्का॒शा । मा॒तृमृ॑ष्टाऽइव । योषा॑ । आ॒विः । त॒न्व॑म् । कृ॒णु॒षे॒ । दृ॒शे । कम् । भ॒द्रा । त्वम् । उ॒षः॒ । वि॒ऽत॒रम् । वि । उ॒च्छ॒ । न । तत् । ते॒ । अ॒न्याः । उ॒षसः॑ । न॒श॒न्त॒ ॥
हे उषोदेवि मातृमृष्टा मातृभिर्जननीभिः शुद्धीकृता योषा इव सुसंकाशा अत्यर्थं प्रकाशमाना एवं तन्वं स्वकीयां तनुं दृशे सर्वेषां दर्शनाय आविः कृणुषे प्रकटयसि । यथा लोके मात्रादिना स्वलंकृता अत्यन्तं शोभना सती स्वकीयं लावण्योपेतं सर्वशरीरं दर्शनायाविष्करोति तद्वत्त्वमपीत्यर्थः । अत्र कम् इति पादपूरणः अत्र विशेषस्याभावात् • शिशिरं जीवनय कम्' इतिवत् । तथा च यास्काचार्यः-’ मिताक्षरेष्वनर्थकाः कमीमिद्विति' (निरु. १. ९) इति । यद्वा । कमिति सुखवचनः । सुखं यथा भवति तथा आविष्कृणुषे इत्यर्थः । हे उषः यत एवं करोषि अतः भद्रा कल्याणशीला स्तुत्या त्वं वितरं व्युच्छ आवरकमन्धकारं विप्रकृष्टं यथा भवति तथा विवासय । अत्र यद्यपि विशेषो न श्रुतस्तथापि प्रकाशनिवर्त्यत्वात् परिहरणीयत्वाच्च व्युदसनीयं तम एव इति गम्यते । किंच ते तव तत् व्युदसनम् अन्याः उषसः अतीताः आगामिन्यश्च न नशन्त न व्याप्नुवन्ति तथा व्युच्छेति भावः । नशिर्व्याप्तिकर्मा।' इन्वति ननक्ष' इति व्याप्तिकर्मसु पाठात् ॥
“Radiant as a bride decorated by her mother, you willingly display your person n to the view. Do you, auspicious Uṣā, remove the investing (gloom), for, other dawns than you do not disperse it.”
Fair as a bride embellished by her mother thou showest forth thy form that all may see it.
Blessed art thou O Dawn. Shine yet more widely. No other Dawns have reached what thou attainest.
Of lovely appearance like a maiden groomed by her mother, you reveal your body to be seen.
Dawn forth widely, o Dawn, auspicious one. The other dawns will not achieve this of yours.
Wie eine Maid geschmückt von ihrer Mutter, lässt, liebliche, du deinen Leib erschauen; O leuchte weithin, schöne Morgenröthe, nicht kommen andre Morgen deiner Pracht gleich.
Schön von Aussehen wie eine von der Mutter ausgeputzte junge Frau enthüllst du den Leib zum Beschauen. Leuchte du, Usas, glückbringend weithin auf! Nicht werden dir das andere Usas´ gleichtun.
Словно юная женщина прекрасной внешности, украшенная матерью,
Ты показываешь (свое) тело, чтобы (на него) смотрели.
О Ушас, воссвети ты далеко, неся счастье!
Другие зори не сравнятся в этом с тобой.
अश्वा॑वती॒र्गोम॑तीर्वि॒श्ववा॑रा॒ यत॑माना र॒श्मिभि॒: सूर्य॑स्य । परा॑ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना उ॒षास॑: ॥
अश्व॑ऽवतीः । गोऽम॑तीः । वि॒श्वऽवा॑राः । यत॑मानाः । र॒श्मिऽभिः॑ । सूर्य॑स्य । परा॑ । च॒ । यन्ति॑ । पुनः॑ । आ । च॒ । य॒न्ति॒ । भ॒द्रा । नाम॑ । वह॑मानाः । उ॒षसः॑ ॥
अश्वावतीः अश्ववत्यो बहुभिरश्वैस्तद्वत्यः तथा गोमतीः बहुभिर्गोभिस्तद्वत्यः विश्ववाराः विश्वे वाराः वरणीयाः कालाः यासां ताः तथोक्ताः । सार्वकालीन इत्यर्थः । यद्वा । विश्वे वरितारो यासु ताः विश्ववाराः। विश्वैर्वरणीया इत्यर्थः । सूर्यस्य रश्मिभिः यतमानाः सूर्यरश्मिभिः साकं तमोनिवारणाय प्रयत्नं कुर्वाणाः । यद्यपि सूर्यरश्मय एव जगत्प्रकाशनाय प्रभवन्ति तथापि सूर्योदयात् पूर्वं तमोनिवारणस्यापेक्षितत्वात् तासामपि प्रयत्नमविरुद्धम् । रश्मिदेवताः अपि प्रकाशिकाः इत्यर्थः । किंच भद्रा भद्रं कल्याणं स्तुत्यं वा नाम नमनं सर्वजनानुकूल्यं वहमानाः धारयमाणाः उषासः उषोदेवताः परा च यन्ति परायन्ति च । तथा पुनरा च यन्ति पुनरायन्ति च । परस्परापेक्षया उभयत्र चशब्दः । या एवातीतेषु दिनेषु गताः ता एव पुनःपुनर्दिनान्तरेषु अपि आयन्ति । जगन्निर्वाहाय प्रतिदिनं गतागतं कुर्वन्तीत्यर्थः ॥
“Possessed of horses, possessed of cows, existing through all time, vying with the rays of the sun (in dissipating darkness), auspicious dawns, sending down benefits (on mankind), pass away and again return.”
Rich in kine, horses, and all goodly treasures, in constant operation with the sunbeams,
The Dawns depart and come again assuming their wonted forms that promise happy fortune.
Possessing horses, cows, and all desirable things, aligning themselves with the rays of the sun,
they go away and they come here again, bearing auspicious
names—the dawns.
Die Morgenröthen, reich an Rossen, Rindern und allen Gütern, mit der Sonne Strahlen Wetteifernd, gehn hinweg und kommen wieder, glückbringende Erscheinung mit sich führend.
Rosse, Rinder bringend, allbegehrt, mit den Strahlen des Surya wetteifernd gehen und kommen die Morgenröten wieder, glückbringende Namen führend.
Обладая конями, коровами, всеми желанными дарами,
Равняясь на лучи солнца,
Они уходят и снова приходят,
(Эти) зори, несущие счастливые имена.
ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि । उषो॑ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो॑ म॒घव॑त्सु च स्युः ॥
ऋ॒तस्य॑ । र॒श्मिम् । अ॒नु॒ऽयच्छ॑माना । भ॒द्रम्ऽभ॑द्रम् । क्रतु॑म् । अ॒स्मासु॑ । धे॒हि॒ । उषः॑ । नः॒ । अ॒द्य । सु॒ऽहवा॑ । वि । उ॒च्छ॒ । अ॒स्मासु॑ । रायः॑ । म॒घव॑त्ऽसु । च॒ । स्यु॒रिति॑ स्युः ॥
हे उषः ऋतस्य सत्यभूतस्यादित्यस्य रश्मिं रश्मीन् अनुयच्छमाना अनुकूल्येन प्रवर्तमाना त्वं भदभद्रं क्रतुं तत्तत्कल्याणं स्तुत्यं वा लौकिकं वैदिकं कर्म तद्विषयां प्रज्ञां वा धेहि स्थापय । हे उषः नः अस्मदर्थं सुहवा सुष्ठु आहूता सती व्युच्छ तमो विवासय प्रकाशं कुर्वित्यर्थः। किमर्थमिति तदुच्यते । मघवत्सु । मघमिति धननाम । हविर्लक्षणधनयुक्तेषु अस्मासु यजमानेषु रायः च स्युः बहुविधानि धनानि संभवन्त्विति पूर्वोक्तेन क्रतुना सह समुच्चयार्थः शब्दः ॥ ॥ ६ ॥
“Co-operating with the rays of the true (sun), confirm in us every propitious act; earnestly invoked byus today, disperse, Uṣā, (the darkness), that wealth may devolve upon us, (already) affluent (in sacrificial treasures).”
Obedient to the rein of Law Eternal give us each thought that more and more shall bless us.
Shine thou on us to-day, Dawn, swift to listen. With us be riches and with chiefs who worship.
Guiding yourself following the rein of truth, place ever more auspicious resolve in us.
O Dawn, easy to invoke, dawn forth to us today. Let there be riches among us and among our bounteous (patrons).
Des Rechtes Zügel lenkend, Morgenröthe, verleihe Weisheit, Segen uns auf Segen; Leicht zu erflehen strahle du uns heute, uns und den Fürsten seien reiche Schätze.
Die du dem Zügel des Gesetzes gehorchest, lege stets trefflichen Gedanken in uns! O Usas, leuchte uns heute auf, leicht zu rufen! Uns und unseren Gönnern sollen Reichtümer gehören.
Послушная узде космического закона,
Дай нам силу духа, приносящую счастье!
О Ушас, воссвети нам сегодня, легко призываемая!
И да будут богатства у (наших) щедрых покровителей!