उ॒षा उ॒च्छन्ती॑ समिधा॒ने अ॒ग्ना उ॒द्यन्त्सूर्य॑ उर्वि॒या ज्योति॑रश्रेत् । दे॒वो नो॒ अत्र॑ सवि॒ता न्वर्थं॒ प्रासा॑वीद्द्वि॒पत्प्र चतु॑ष्पदि॒त्यै ॥
उ॒षाः । उ॒च्छन्ती॑ । स॒म्ऽइध॒ा॒ने । अ॒ग्नौ । उ॒त्ऽयन् । सूर्यः॑ । उ॒र्वि॒या । ज्योतिः॑ । अ॒श्रे॒त् । दे॒वः । नः॒ । अत्र॑ । स॒वि॒ता । नु । अर्थ॑म् । प्र । अ॒सा॒वी॒त् । द्वि॒ऽपत् । प्र । चतुः॑ऽपत् । इ॒त्यै ॥
एषा उषाः समिधाने अग्नौ । अग्नित्वसामान्येन एकवचनम् । अग्निषु समिध्यमानेषु सत्सु । कर्मार्थे कर्तृप्रयोगः । उषःकाले हि आहवनीयादयः प्रज्वाल्यन्ते । उच्छन्ती तमो विवासयन्ती उर्विया उरु बहुलं ज्योतिः प्रकाशम् अश्रेत् सेवते प्रकाशते प्रकाशयति वा सर्वम् । किमिव । उद्यन् सूर्यः । उपमाप्रधाननिर्देशः । उदितः सूर्य इव । सूर्यो यथा प्रकाशयति तथेत्यर्थः । अत्र त्वदुदयानन्तरम् अस्मिन् कर्मणि वा सविता देवः सर्वस्य प्रेरकः सूर्यः नः अस्मदर्थं नु क्षिप्रम् अर्थम् । अर्थशब्दोऽत्र विशेषणवाची नपुंसकलिङ्गः । ‘ अयन्नर्थानि कृणवन्नपांसि' ( ऋ. सं. ७. ६३. ४) इत्यादौ तथा दृष्टत्वात् । अरणीयं द्विपत् पादद्वयोपेतं मनुष्यादिरूपं धनं प्रासावीत् अनुजानातु ददात्वित्यर्थः। तथा चतुष्पत् पादचतुष्टयोपेतं गवादिरूपं धनं प्रासावीत् । किमर्थम्। इत्यै द्विपदां चतुष्पदां च गमनाय । यद्वा । नः इत्यै इति संबन्धः । अस्मद्गमनागमनादिव्यापारायेत्यर्थः ॥
“When the (sacred) fire is kindled, Uṣā sheds abundant light, dispersing (the darkness) like the rising sun; may the divine Savitābestow upon usfor our use, wealth of both bipeds and quadrupeds.”
THE Dawn refulgent when the fire is kindled, and the Sun rising, far diffuse their brightness.
Savitar, God, hath sent us forth to labour, each quadruped, each biped, to be active.
Dawn as she dawns when the fire is being kindled; the sun as it rises— each has propped up its own light widely.
God Savitar here and now has impelled forth our two-footed, forth our four-footed, each to go to its task.
Die Uschas leuchtend bei entflammtem Feuer, die Sonn' im Aufgehn, breitet weit ihr Licht aus; Gott Savitar hat uns erweckt zur Arbeit, und Mensch und Thier, was Füsse hat, zum Gehen.
Während das Feuer angezündet wird, hat die aufleuchtende Usas, hat der aufgehende Surya sein Licht weithin aufgesteckt. Gott Savitri hat unsere Zwei- und Vierfüßler nunmehr angetrieben, an ihr Geschäft zu gehen.
Когда зажигается огонь, воспламенящаяся Ушас
(И) восходящий Сурья далеко простерли свет.
Вот бог Савитар побудил наших
Двуногих (и) четвероногих отправиться по (своим) делам.
अमि॑नती॒ दैव्या॑नि व्र॒तानि॑ प्रमिन॒ती म॑नु॒ष्या॑ यु॒गानि॑ । ई॒युषी॑णामुप॒मा शश्व॑तीनामायती॒नां प्र॑थ॒मोषा व्य॑द्यौत् ॥
अमि॑नती । दैव्या॑नि । व्र॒तानि॑ । प्र॒ऽमि॒न॒ती । म॒नु॒ष्या॑ । यु॒गानि॑ । ई॒युषी॑णाम् । उ॒प॒ऽमा । शश्व॑तीनाम् । आ॒ऽय॒ती॒नाम् । प्र॒थ॒मा । उ॒षाः । वि । अ॒द्यौ॒त् ॥
दैव्यानि व्रतानि देवसंबन्धीनि अग्निहोत्रादीनि कर्माणि । व्रतमिति कर्मनाम, ‘व्रतं कर्वरम्' ( नि. २. १. ७ ) इति तन्नामसु पाठात् । तानि कर्माणि अमिनती अहिंसन्ती' भानप्रदानेनानुकूलं कुर्वती । तथा मनुष्या मनुष्याणां युगानि युगोपलक्षितान् निमेषादिकालावयवान् प्रमिनती प्रकर्षेण हिंसन्ती आयुः क्षपयन्तीत्यर्थः । यद्वा । युगानि युग्मानि परस्परसंयोगं प्रमिनती हिंसन्ती वियोगं कुर्वतीत्यर्थः । उषःकाले सर्वे यथायथं स्वस्वव्यापाराय गच्छन्तीति प्रसिद्धम् । किंच ईयुषीणां गच्छन्तीनाम् अतीतानां शश्वतीनां नित्यानाम् उषसाम् उपमा । ताभिः सदृशीत्यर्थः । सादृश्यं च सदृशीरद्य सदृशीरिदु श्वः ' ( ऋ. सं. १. १२३. ८) इत्यत्रोक्तम् । तथा आयतीनां प्रथमा आगामिनीनामुषसां प्रथमभाविनी सती व्यद्यौत्* विशेषेण प्रकाशते । यद्वा । ईयुषीणां गमनशीलानां पश्वादीनां शश्वतीनां संततिप्रवाहरूपेण नित्यानामुपमा। तद्वन्नित्येत्यर्थः । तथा आयतीनां रात्र्यवसानसमये उत्पद्यमानानां प्रज्ञावागादीनां प्रथमा प्रथमभाविनी । उषस्यागतायां वाचो बुद्धयश्च स्फुरन्तीति प्रसिद्धम् । तादृशी देवी व्यद्यौत् प्राणिनामनुग्रहाय द्योतते ॥
“Unimpeding divine rites, although wearing away the ages of mankind, the dawn shines the similitude of the (mornings) that have passed, or that are to be forever, the first of those that are to come.”
Not interrupting heavenly ordinances, although she minisheth human generations.
The last of endless morns that have departed, the first of those that come, Dawn brightly shineth.
Not belittling the divine commandments, but diminishing human (life-) spans,
the last of those who, one by one, have gone, the first of those who come hither—Dawn has flashed forth.
᳓
Verkürzend nie die Ordnungen der Götter, doch kürzend stets der Menschen Lebensalter, Als letzte der vergangnen und als erste der kommenden erstrahlt die Morgenröthe.
Ohne die göttlichen Gebote zu schmälern, aber die menschlichen Lebenszeiten schmälernd, ist Usas aufgeleuchtet als die letzte der vielen Vergangenen, als die erste der kommenden.
Та, что не нарушает божественных обетов,
Но сокрушает людские поколения, –
Ушас воссияла (как) последняя из прошедших, непрерывно сменяющихся,
(Как) первая из приходящих.
ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि॒ ज्योति॒र्वसा॑ना सम॒ना पु॒रस्ता॑त् । ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥
ए॒षा । दि॒वः । दु॒हि॒ता । प्रति॑ । अ॒द॒र्शि॒ । ज्योतिः॑ । वसा॑ना । स॒म॒ना । पु॒रस्ता॑त् । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒ति॒ । सा॒धु । प्र॒जा॒न॒तीऽइ॑व । न । दिशः॑ । मि॒ना॒ति॒ ॥
एषा उषाः दिवः द्योतमानात्मकस्य द्युलोकस्य दुहिता दुहितृस्थानीया । ततः उत्पद्यमानत्वात् दुहितेत्युपचर्यते । पुरस्तात् पूर्वस्यां दिशि प्रति प्रत्येकम् अदर्शि दृश्यते । सर्वेषामपि प्राणिनामाभिमुख्येन प्रकाशते इत्यर्थः । कीदृशी सा । ज्योतिर्वसाना तेजोरूपं वस्त्रमाच्छादयन्ती तेजसा प्रकाशयन्ती समना सम्यगानयित्री चेष्टयित्री । अन्तर्भावितण्यर्थोऽयम् । यद्वा । सह युगपदेव मन्यतेऽवबुध्यते प्राणिभिरिति समना । व्युत्पत्यनवधारणादनवग्रहः ॥ सा तादृशी ऋतस्य आदित्यस्य पन्थां पन्थानं मेरोः प्रान्तप्रदेशमनुक्रमेण साधु सम्यक् एति गच्छति । सूर्यो यत्र यत्र गच्छति तत्र तत्र पुरस्तात् उषा अपि गच्छतीत्यर्थः । सैव विशेष्यते । प्रजानतीव प्रियभूतस्य सूर्यस्य मार्गो मयापि गन्तव्यः” इति चेतयन्तीव । यथा लोके प्रियतमे अनुरागयुक्ता काचित् भर्तारं सर्वास्ववस्थासु न विमुञ्चति तथेयमपीत्यर्थः । किंच दिशः प्रागादिकाः न मिनाति न हिनस्ति । किंतु उषा यत्र गच्छति सा प्राचीत्येवं प्रागादिव्यवहारं करोतीत्यर्थः ॥
“She, the daughter of heaven, is beheld in the east, gracious and arrayed in light; she travels steadily along the path of the sun, as if cognizant (of his plural asure), and damages not the quarters (of the horizon).”
There in the eastern region she, Heaven's Daughter, arrayed in garments all of light, appeareth.
Truly she followeth the path of Order, nor faileth, knowing well, the heavenly quarters.
This Daughter of Heaven has appeared opposite, dressed in light, in the same way (as the others), from the east.
She follows along the path of truth, straight to the goal. Like one who knows the way, she does not confound the directions.
᳓
Es lässt sich blicken diese Himmelstochter im Osten, ganz in Lichtgewand gekleidet, Sie schreitet stracks entlang den Pfad der Ordnung, des Wegs bewusst verfehlt sie nicht die Richtung.
Dort ist die Tochter des Himmels in Licht gekleidet ein wie alle Male im Ost erschienen. Sie wandelt richtig den Weg des Gesetzes; wie eine Wegkundige verfehlt sie nicht die Richtungen.
Эта дочь неба показалась,
Облекаясь в свет, (всегда) одинаковая, на востоке.
Она правильно следует дорогой закона;
Как знающая наперед, она не путает направлений.
उपो॑ अदर्शि शु॒न्ध्युवो॒ न वक्षो॑ नो॒धा इ॑वा॒विर॑कृत प्रि॒याणि॑ । अ॒द्म॒सन्न स॑स॒तो बो॒धय॑न्ती शश्वत्त॒मागा॒त्पुन॑रे॒युषी॑णाम् ॥
उपो॒ इति॑ । अ॒द॒र्शि॒ । शु॒न्ध्युवः॑ । न । वक्षः॑ । नो॒धाःऽइ॑व । आ॒विः । अ॒कृ॒त॒ । प्रि॒याणि॑ । अ॒द्म॒ऽसत् । न । स॒स॒तः । बो॒धय॑न्ती । श॒श्व॒त्ऽत॒मा । आ । अ॒गा॒त् । पुनः॑ । आ॒ऽई॒युषी॑णाम् ॥
एषा उषाः उपो इति निपातद्वयसमुदायात्मकः एको निपातः । सर्वैः समीपे एव अदर्शि दृश्यते । तत्र दृष्टान्तः । शुन्ध्युवो न 'वक्षः। अत्र नकारः उपमार्थीयः उपरिष्टात् प्रयुज्यमानत्वात् । यत्र तु प्रतिषेधो विवक्षितस्तत्र पुरस्तान्नकारः प्रयुज्यते । तथा च यास्कः--' पुरस्तादुपाचारस्तस्य यत्प्रतिषेधति' (नि. १.४) इति । तस्योदाहरणं- नेन्द्रं देवममंसत' (ऋ. सं.१०, ८६. १) इति उपरिष्टादुपाचारस्तस्य येनोपमिमीते ' (निरु. १. ४) इति । तस्योदाहरणं ‘दुर्मदासो न सुरायाम्' (ऋ. सं. ८.२. १२) इति । शुन्ध्युः आदित्यः सर्वेषां शोधकत्वात् । तस्य वक्षः वक्षःस्थानीयो रश्मिसमूहः । स यथा प्रकाशमानो दृश्यते तथेत्यर्थः । यद्वा । शुन्ध्युरिति जलचरः श्वेतवर्णः पक्षिविशेषः । स यथा स्वकीयं वक्षः प्रकाशयन् दृश्यते तद्वदित्यर्थः । किंच नोधाइव प्रियाणि आविरकृत । नवनं स्तोत्रं धारयतीति नोधाः । एतन्नामा महर्षिर्दैवतास्तुतिव्याजेन नानाविधैर्मन्त्रैः प्रियाणि स्वमनीषितान्याविष्कृतवान् । तथैषापि स्वकीयानि सर्वलोकप्रियाणि तेजांस्याविरकरोत् । किंच अद्मसन्न । अत्राप्युपमार्थीयो नकारः। अद्यते इति अद्म अन्नम् । तस्य पाकाय गृहे सीदति इति अद्मसत् पाचिका योषित् ससतः बोधयन्ती । सा यथा स्वपतः पुत्रादीन् भोजनाय बोधयति तद्वत् । यद्वा । अद्मेति गृहनाम, वरूथम् अम्' इति तन्नामसु पाठात् । तत्र सीदतीत्यद्मसत् जननी । सो यथा स्वपतः पुत्रादीन् उषःकाले प्रबोधयति तथा भुवनाख्ये गृहे सीदन्ती तत्रत्यान् प्राणिनः प्रबोधयन्ती इयमुषाः। एयुषीणाम् आगमनशीलानां स्त्रीणां मध्ये शश्वत्तमा* पुनःपुनरागच्छति । प्रातर्नियतमागच्छन्तीनां वारयोषितां मध्ये स्वयमेका सती नियतम् आगच्छतीत्यभिप्रायः । अत्र निरुक्तम्-' उपादर्शि शुन्ध्युवः शुन्ध्युरादित्यो भवति शोधनात्तस्यैव वक्षो भासोऽध्यूळहमिदमपीतरद्वक्ष एतस्मादेवाध्यूळ्हं काये । शकुनिरपि शुन्ध्युरुच्यते शोधनादेवोदकचरो भवति । आपोऽपि शुन्ध्युव उच्यन्ते शोधनादेव । नोधा ऋषिर्भवति नवनं दधाति स यथा स्तुत्या कामानाविष्कुरुत एवमुषा रूपाण्याविष्कुरुते । अद्मसद्मानं भवत्यद्मसादिनीति वान्नसानिनीति वा । ससतो बोधयन्ती शश्वत्तमागात्पुनरेयुषीणां स्वपतो बोधयन्ती शाश्वतिकतमगात्पुनरागामिनीनाम् ' (निरु. ४, १६ ) इति ॥
“She is beheld nigh at hand, (radiant) as the breast of the illuminator (the sun); and, like Nodhas, has made manifest many plural asing (objects); like a matron she awakens (her) sleeping (children), and of all (feminine les who are) stirring betimes, she, the most unvarying, repeatedly appears.”
Near is she seen, as 'twere the Bright One's bosom: she showeth sweet things like a new song-singer.
She cometh like a fly awaking sleepers, of all returning dames most true and constant.
She has appeared like the breast of a preening waterbird. Like a female elephant she has revealed her intimate parts.
Wakening the sleeping like a fly, she has come as the latest of those who, one by one, have come here again (and again).
Ihr Busen zeigt sich wie der reinen Jungfrau, als zarte Maid enthüllt sie ihre Reize; Als Tischgenossin weckte sie die Schläfer, als jüngste kam sie der sich stets erneu'nden.
Es zeigt sich ihre Brust wie die eines Sundhyvogels, wie Nodhas hat sie ihre lieben Sachen enthüllt. Wie eine Fliege weckt sie die Schlafenden; als erste unter den vielen Wiedergekehrten ist sie gekommen.
Ее грудь явилась взорам, как у блудницы,
Как Нодхас она открыла (свои) прелести.
Как муха, будящая спящих,
Она возникла первой из всех пришедших, непрерывно сменяющихся.
पूर्वे॒ अर्धे॒ रज॑सो अ॒प्त्यस्य॒ गवां॒ जनि॑त्र्यकृत॒ प्र के॒तुम् । व्यु॑ प्रथते वित॒रं वरी॑य॒ ओभा पृ॒णन्ती॑ पि॒त्रोरु॒पस्था॑ ॥
पूर्वे॑ । अर्धे॑ । रज॑सः । अ॒प्त्यस्य॑ । गवा॑म् । जनि॑त्री । अ॒कृ॒त॒ । प्र । के॒तुम् । वि । ऊँ॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑यः । आ । उ॒भा । पृ॒णन्ती॑ । पि॒त्रोः । उ॒पऽस्था॑ ॥
अप्त्स्यस्य व्यापनशीलस्य विस्तृतस्य रजसः रञ्जकस्यान्तरिक्षलोकस्य । रजःशब्दोऽन्तरिक्षलोकवाची ' लोका रजांस्युच्यन्ते' (निरु. ४. १९) इति यास्केनोक्तत्वात् । तस्य पूर्वे अर्धे पूर्वस्मिन् भागे जनित्री उत्पन्ना सती गवां दिशां रश्मीनां वा केतुं प्रज्ञानं प्र अकृत प्रकर्षेण करोति । यद्वा । रजसः रञ्जकस्याह्नः । रजःशब्दोऽहर्वाची ' असृगहनी रजसी उच्येते ' ( निरु. ४. १९) इति यास्केनोक्तत्वात् । तस्य पूर्वेऽर्धे पूर्वस्मिन् भागे उषःकाले गवां वाचां जनित्री जनयित्री उत्पादयित्री। उषःकाले सर्वेषां प्राणिनां वाचः स्फुरन्तीति प्रसिद्धम् । यद्वा । अस्यस्य कर्मसु स्थितस्य जन्तोः केतुं गमनागमनादिरूपं कर्म । केतुरिति कर्मनाम, ‘ केतः केतुः' इति तन्नामसु पाठात् । प्राकृत । प्रकर्षेण करोति । किंच पित्रोः पालयित्र्योर्द्यावापृथिव्योः उपस्था उपस्थे उत्सङ्गे अन्तरालप्रदेशे स्थित्वा उभा उभे द्यावापृथिव्यौ पृणन्ती स्वतेजसा पूरयन्ती। यद्वा । उभा उभयोः पित्रोरिति संबन्धः । वितरं विशिष्टतरं वरीयः उरुतरमतिविस्तीर्णं यथा भवति तथा व्यु प्रथते विशेषेणैव प्रख्याता भवति प्रकाशते इत्यर्थः । उशब्दः अवधारणार्थः पादपूरणो वा ‘ मिताक्षरेष्वनर्थकाः कमीमिद्विति' इति यास्केनोक्तत्वात् ॥ ॥ ७ ॥
“Born in the eastern quarter of the spacious firmament, she displays a banner of rays of light. plural ced on the lap of both parents (heaven and earth), filling them (with radiance), she enjoys vast and wide-spread renown.”
There in the east half of the watery region the Mother of the Cows hath shown her ensign.
Wider and wider still she spreadeth onward, and filleth full the laps of both heir Parents.
In the eastern half of the dusky realm that cannot be flown to, the begetter of cows has put forth her beacon.
She spreads out further, more widely, filling both laps of her two parents [=Heaven and Earth].
Im Ost der dunst'gen Lüfte hat die Mutter der Wolkenkühe ihren Schein verbreitet, Und weiter, weiter wächst sie in die Breite, und füllt den Schooss des Himmels und der Erde.
An der östlichen Seite des .......Raumes hat die Mutter der Kühe ihr Banner aufgesteckt. Sie breitet sich immer weiter in die Breite aus, bis sie den Schoß beider Eltern ausfüllt.
В восточной части недосягаемого темного пространства
Родительница коров подняла (свое) знамя.
Вот она распространяется – вдаль – вширь –
Заполняя лоно обоих (своих) родителей.
ए॒वेदे॒षा पु॑रु॒तमा॑ दृ॒शे कं नाजा॑मिं॒ न परि॑ वृणक्ति जा॒मिम् । अ॒रे॒पसा॑ त॒न्वा॒३॒॑ शाश॑दाना॒ नार्भा॒दीष॑ते॒ न म॒हो वि॑भा॒ती ॥
ए॒व । इत् । ए॒षा । पु॒रु॒ऽतमा॑ । दृ॒शे । कम् । न । अजा॑मिम् । न । परि॑ । वृ॒ण॒क्ति॒ । जा॒मिम् । अ॒रे॒पसा॑ । त॒न्वा॑ । शाश॑दाना । न । अर्भा॑त् । ईष॑ते । न । म॒हः । वि॒ऽभा॒ती ॥
एषा उषाः एवेत् । इच्छब्दः एवकारार्थः । एवमेव इदानीं भासमानप्रकारेणैव पुरुतमा विपुलतमा अत्यन्तविस्तृता सती अजामिं विजातीयं मनुष्यादिजातिं न परि वृणक्ति परितः सर्वतो न वर्जयति । तथा जामिं सजातीयं देवजाति न परि वृणक्ति न परिवर्जयति । मनुष्यादिकं देवादिकं च तदुपलक्षितं लोकद्वयं वा कार्त्स्येन प्रकाशयतीत्यर्थः । किमर्थमिति तदुच्यते । दृशे कं सुखेन सर्वेषां दर्शनाय । सुखं यथा भवति तथा सर्वान् दर्शयितुं वा । किंच अरेपसा अपापया निर्मलया तन्वा शरीरेण शाशदाना शाशाद्यमाना। शाशदानः शाशाद्यमानः ' ( निरु. ६. १६ ) इति यास्कः । स्पष्टतां गच्छन्तीत्यर्थः । विभाती विशेषेण प्रकाशयन्ती सा अर्भात् अल्पात् पुत्तिकादेः सकाशात् न ईषते न गच्छति । तमपि प्रकाशयति । तथा मह: महतो मेर्वादेः सकाशात् न ईषते न गच्छति। तमपि प्रकाशयति । पूर्वं लोकद्वयं प्रकाशते इत्युक्तम् । इदानीम् अस्मिंल्लोके परमाण्वादि पर्वतपर्यन्तं कृत्स्नं प्रकाशयतीत्यर्थः ॥
“Verily she, the wide-expanded Uṣā, neglects not (to give) the joy of sight to those of her own or of a different nature; visible in her faultless person n, and brightly shining, she passes not by the littleror the great.”
She, verily, exceeding vast to look on debarreth from her light nor kin nor stranger.
Proud of her spotless form she, brightly shining, turneth not from the high nor from the humble.
Just thus is she, the latest of many, to be seen. Neither the non-kin does she avoid, nor the kin.
Exulting in her spotless body, neither from the small does she retreat, nor from the great, as she shines forth.
Die herrliche entzieht sich nicht dem Anblick, nicht der verwandten, noch der unverwandten, In makelloser Schönheit herrlich prangend verbirgt ihr Licht sie hohen nicht, noch niedern.
Also gibt sich diese als die erste unter vielen zum Beschauen; sie geht nicht dem Fremden noch dem Verwandten aus dem Wege. Stolz auf ihren makellosen Leib zieht sie sich nicht vor Klein und Groß zurück, wenn sie erstrahlt.
Вот она показывает себя, самая первая из многих.
Она не избегает ни чужого, ни родного,
Красуясь незапятнанным телом,
Она, сверкающая, не сторонится ни малого, ни великого.
अ॒भ्रा॒तेव॑ पुं॒स ए॑ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना॑नाम् । जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ उ॒षा ह॒स्रेव॒ नि रि॑णीते॒ अप्स॑: ॥
अ॒भ्रा॒ताऽइ॑व । पुं॒सः । ए॒ति॒ । प्र॒ती॒ची । ग॒र्त॒ऽआ॒रुक्ऽइ॑व । स॒नये॑ । धना॑नाम् । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ । उ॒षाः । ह॒स्राऽइ॑व । नि । रि॒णी॒ते॒ । अप्सः॑ ॥
अभ्रातेव भ्रातृरहितेव पुंसः पित्रादीन् प्रति प्रतीची स्वकीयस्थानात् प्रतिनिवृत्तमुखी सती ऐति गच्छति । यथा लोके भ्रातृरहिता योषित् स्वोचितवासोऽलंकारादिलाभाय पितॄन् एति । सति भ्रातरि स एव उचितप्रदानादिना सम्यक् तोषयति । तदभावात् पितरमेव प्राप्नोति । यद्वा । सति स्वभ्रातरि स एव पितुः पिण्डदानादिकं संतानकृत्यं करोति । तस्याभावात् स्वयमेव तत्कर्तुं पित्रादीन् गच्छति । तद्वदियम् उषा अपि स्वोचितप्रकाशादिलाभाय स्वप्रकाशदानाय वा पितृभूतं सूर्यम् आभिमुख्येन गच्छति । अयमेको दृष्टान्तः । तथा धनानां सनये गर्तारुगिव इत्यपरो दृष्टान्तः । गर्त इति गृहनाम ‘कृदरो गर्तः ' (नि. ३. ४. ३ ) इति तन्नामसु पाठात् । अत्रौचित्येन राजपुरुषैः न्यायनिर्णेतृभिश्च अधिष्ठितं स्थानमुच्यते तदारोहतीति गर्तारुक् । यथा लोके काचित् गतभर्तृका योषित् धनानां स्वकीयरिक्थानां सनये लाभाय गर्तमागच्छति । तां तु सभ्याः विचार्य यदीयं रिक्थं लभते चेत् अक्षैः संताड्य तदीयं धनं वितरन्ति । तथेयमपि धनानां प्रीणनसाधनानां प्रकाशानां सनये लाभाय गर्तमाकाशं सूर्यनिवासस्थानमारोहति । देशविशेषाचारमपेक्ष्यैवं दृष्टान्तितम् । किंच पत्ये उशती कामयमाना सुवासाः जायेव । अयमपरः दृष्टान्तः । यथा च लोके सुवासा दुकूलादिशोभनवसना स्वलंकृता पूर्वं रजोदर्शनसमये मलिनवस्त्रा सती स्नानानन्तरं शोभनवस्त्राभरणादिना शोभमाना विशेषेण पतिं भोगाय कांक्षन्ती तेन सह संक्रीडते तथा इयम्” उषा: अतिनैशेन अन्धकारेणावृतत्वात् मलिनवसनापि प्रभाते स्वतेजसावृतत्वात् सुवसना सती पतिस्थानीयेन सूर्येण साकं संक्रीडमाना हस्रेव हसनेव’ अप्सः दन्तस्थानीयानि रूपाणि नीलपीतादीनि । यद्वा । निरूप्यमाणानि पदार्थजातानि । नि रिणीते नितरां रिणीते गमयति प्रकाशयतीत्यर्थः । यथा लोके काचित् रमणीया योषित् स्मितव्याजेन दन्तान् विवृणुते तथेयमपि सर्वाणि रूपाणि प्रकाशयतीत्यर्थः । अयं मन्त्रो निरुक्ते स्पष्टं व्याख्यातः-* अभ्रातृकेव पुंसः पितॄनेत्यभिमुखी संतानकर्मणे पिण्डदानाय न पतिं गर्तारोहिणीव धनलाभाय दाक्षिणाजी । गर्तः सभास्थाणुर्गृणातेः सत्यसंगरो भवति । तं तत्र यापुत्रा यापतिका सारोहति तां तत्राक्षैराघ्नन्ति मा रिक्थं लभते ' इति, “ जायेव पत्ये कामयमाना सुवासा ऋतुकालेषूषा हसनेव दन्तान्विवृणुते ' (निरु. ३. ५) इति च ॥
“She goes to the west, as (a woman who has) no brother (repairs) to her male (relatives); and like one ascending the hall (of justice) for the recovery of property, (she mounts in the sky to claim her lustre); and like a wife desirous to plural ase her husband, Uṣā puts on becoming attire, and smiling as it were, displays her charms.”
She seeketh men, as she who hath no brother, mounting her car, as 'twere to gather riches.
Dawn, like a loving matron for her husband, smiling and well attired, unmasks her beauty.
Like a brotherless (girl) she goes right up to men—like one mounting a chariot seat to win prizes [/(display-)platform to gain property].
Like an eager wife, richly dressed, for her husband, Dawn, like a wanton, lets her breast spill over.
Wie bruderlos gesellt sie sich den Männern, besteigt des Wagens Sitz wie zur Erbeutung; Wie schmucke, will'ge Gattin dem Gemahle lässt Uschas lächelnd fallen die Gewänder.
Wie ein bruderloses Mädchen kommt sie den Männern entgegen; sie gleicht einer, die die Schaubühne besteigt um Schätze zu gewinnen. Schöngekleidet wie ein verlangendes Weib für den Gatten, entblößt Usas ihre Brust wie eine Buhlerin.
Как (девица,) не имеющая брата, она идет навстречу мужчинам.
Она подобна (девице,) взошедшей на подмостки, чтобы приобрести богатства.
Она – как нарядная жена, жаждущая мужа.
Ушас, как любовница, выставляет (свою) грудь.
स्वसा॒ स्वस्रे॒ ज्याय॑स्यै॒ योनि॑मारै॒गपै॑त्यस्याः प्रति॒चक्ष्ये॑व । व्यु॒च्छन्ती॑ र॒श्मिभि॒: सूर्य॑स्या॒ञ्ज्य॑ङ्क्ते समन॒गा इ॑व॒ व्राः ॥
खसा॑ । स्वस्रे॑ । ज्याय॑स्यै । योनि॑म् । अ॒रै॒क् । अप॑ । ए॒ति॒ । अ॒स्याः॒ । प्र॒ति॒ऽचक्ष्य॑ऽइव । वि॒ऽउ॒च्छन्ती॑ । र॒श्मिऽभिः॑ । सूर्य॑स्य । अ॒ञ्जि । अ॒ङ्क्ते॒ । स॒म॒न॒गाःऽइ॑व । व्राः ॥
एकस्मादेवान्तरिक्षादुपन्नत्वात् परस्परं स्वसृभावः । तथाप्यह्नः प्राथम्यात् तेजस्वित्वाच्च ज्यायस्त्वम् । स्वयमेव सरतीति वा स्वसी । रात्रिः स्वस्रे ज्यायस्यै उक्तरीत्या ज्येष्ठायै योनिम् उत्पत्तिस्थानम् अपररात्ररूपम् अरैक् अरिचन् प्रादात् प्ररेचयतीत्यर्थः । तथा च पूर्वत्राम्नातं-‘रात्र्युषसे योनिमारैक्' (ऋ. सं. १. ११३. १ ) इति। दत्त्वा च अस्याः उत्पन्नाया उषसः प्रतिचक्ष्येव । ज्ञापयित्वेव स्वयमपसृत्यैव गच्छति । ज्यायस्यामागतायां तस्यै स्वस्थानं दत्त्वा स्वयं तत्संनिधौ स्थातुमनुचितमिति विज्ञायैवापगच्छतीति भावः । एवमुत्पन्ना एषा सूर्यस्य रश्मिभिः व्युच्छन्ती तमो विवासयन्ती अञ्जि व्यञ्जकं तेजः । यद्वा । अञ्जि व्यक्तं जगत् । अङ्क्ते अनक्ति प्रकाशयति । किमिव । समनगाइव । सम्यगननहेतव आपः समनाः । ता गच्छन्तीति समनगाः विद्युतः । व्राः व्राताः । विद्युसंघा इव । यद्वा। सम्यगननाय गच्छन्तीति समनगाः सूर्यरश्मयः । ते इव व्रा व्राताः संधीभूताः । ते यथाञ्जते जगत्प्रकाशयन्ति तथेत्यर्थः ॥ व्रात इत्यत्र तकारलोपश्छान्दसः ॥
“The sister (night) has prepared a birth-plural ce for her elder sister (day), and having amde it known to her, departs. Uṣā, dispersing the darkness with the rays of the sun, illumines the world, like congregated lightnings.”
The Sister quitteth, for the elder Sister, her place, and having looked on her departeth.
She decks her beauty, shining forth with sunbeams, like women trooping to the festal meeting.
The (one) sister has left the natal place to her older sister. She goes away from her, like (a girl) to be gazed upon.
Dawning forth with the rays of the sun, she smears unguent on herself, like (maidens) with a choice going to assemblies.
Die Schwester räumt der edleren den Sitz ein, und geht davon, sobald sie sie gewahr wird, Und Uschas, leuchtend mit der Sonne Strahlen, schmückt sich mit Schmuck, wie Scharen die zum Fest gehn.
Die Schwester hat der älteren Schwester den Platz geräumt; sie geht von ihr wie eine, die man wiedersehen soll. Mit den Strahlen des Surya aufleuchtend legt sie sich Schminke auf wie Lockmädchen, die zum Feste gehen.
Сестра уступила место старшей сестре.
Она уходит от нее, как та, с кем предстоит (еще) встретиться.
Пламенея лучами Сурьи,
Она умащается мазью, как блудницы, идущие на свидание.
आ॒सां पूर्वा॑सा॒मह॑सु॒ स्वसॄ॑णा॒मप॑रा॒ पूर्वा॑म॒भ्ये॑ति प॒श्चात् । ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छन्तु सु॒दिना॑ उ॒षास॑: ॥
आ॒साम् । पूर्वा॑साम् । अह॑ऽसु । स्वसृ॑ॠणाम् । अप॑रा । पूर्वा॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् । ताः । प्र॒त्न॒ऽवत् । नव्य॑सीः । नू॒नम् । अ॒स्मे इति॑ । रे॒वत् । उ॒च्छ॒न्तु॒ । सु॒ऽदिनाः॑ । उ॒षसः॑ ॥
स्वसॄणां परस्परं स्वसृभावमापन्नानां स्वयं सरन्तीनां वा पूर्वासां पुरातनीनाम् आसाम् उषसां मध्ये अहसु अहःसु प्रतिदिनम् अपरा अन्या अद्यतन्युषाः पूर्वाम् अतीतदिवससंबन्धिनीमुषसं पश्चात् अनुसृत्य अभ्येति । अभिमुखं गच्छति अव्यवधानेन गच्छतीत्यर्थः । सर्वेश्वहःसु एवमेवाभ्येति । नव्यसीः नवीयस्यो नवतरा आगामिन्यः ताः उषासः उषसः अपि नूनं निश्चयं प्रत्नवत् पुरातन्य इव सुदिनाः शोभनकर्मानुष्ठानसाधनदिवसाः शोभनदिनमुखा वा सत्यः अस्मे अस्माकं रेवत् बहुधनविशिष्टं यथा भवति तथा उच्छन्तु प्रकाशयन्तु । पूर्वतन्यो यथौच्छन् तथा आगामिन्योऽपि उच्छन्तु इत्यर्थः ॥
“Of all these sisters who have gone before, a successor daily follows the one that has preceded. So may new dawns, like the old, bringing fortunate days, shine upon us blessed with affluence.”
To all these Sisters who ere now have vanished a later one each day in course succeedeth.
So, like the past, with days of happy fortune, may the new Dawns shine forth on us with riches.
Day after day the latest of those earlier sisters advances from behind toward the earlier one.
Let the newer ones now dawn richly for us as of old—the
day-bright dawns.
Von allen diesen Schwestern folgt von jeher die spätere dem Lauf der frühern täglich; Die Jüngern wie die ältern Morgenröthen, sie mögen reich uns schöne Tag' erschliessen.
Von diesen früheren Schwestern geht im Lauf der Tage die spätere hinter der frühen her. Möge diese Usas´ jetzt aufs neue wie früher reiches Gut uns zuleuchten und einen guten Tag bringen.
Из этих прежних сестер в течение (многих) дней
Она идет ближайшей вслед за прежней.
Пусть эти новые утренние зори сейчас, как раньше,
Воссияют нам богатство и хорошие дни!
प्र बो॑धयोषः पृण॒तो म॑घो॒न्यबु॑ध्यमानाः प॒णय॑: ससन्तु । रे॒वदु॑च्छ म॒घव॑द्भ्यो मघोनि रे॒वत्स्तो॒त्रे सू॑नृते जा॒रय॑न्ती ॥
प्र । बो॒ध॒य॒ । उ॒षः॒ । पृ॒ण॒तः । म॒घो॒नि॒ । अबु॑ध्यमानाः । प॒णयः॑ । स॒स॒न्तु॒ । रे॒वत् । उ॒च्छ॒ । म॒घव॑त्ऽभ्यः । म॒घो॒नि॒ । रे॒वत् । स्तो॒त्रे । सू॒नृ॒ते॒ । जा॒रय॑न्ती ॥
हे मघोनि मघवति अस्मभ्यं दातव्यैर्बहुभिर्धनैस्तद्वति उषः हे उषोदेवि पृणतः हविष्प्रदान् अस्मान् यजमानान् प्रबोधय प्रज्ञापय प्रतिबुद्धान् कुरु । किंच पणयः व्ययासहिष्णवो वणिजः । 'पणिर्वणिग्भवति ' (निरु. २. १७) इति यास्कः । पणय इव लुब्धकाः अबुध्यमानाः यागादीन् अकुर्वाणा अदानशीला अस्मच्छत्रवः ससन्तु स्वपन्तु दीर्घनिद्रा भवन्तु म्रियन्तामित्यर्थः । तथा च मन्त्रान्तरं- ससन्तु त्या अरातयो बोधन्तु शूर रातयः' (ऋ. सं. १. २९. ४) इति । किंच हे मघोनि अस्मद्दत्तहविर्भिस्तद्वति हे उषः मघवद्भ्यः हविर्लक्षणान्नवद्भ्यो यजमानेभ्यस्तेषामर्थं रेवत् धनवत् समृद्धिमत् उच्छ विभाहि । किंच हे सूनुते सुष्ठु मनुष्याणां नेत्रि देवि जरयन्ती सर्वप्राणिनः क्षपयन्ती त्वं स्तोत्रे स्तुतिकर्त्रे यजमानाय तदर्थं रेवत् धनवत् समृद्धयर्थम् उच्छेति शेषः ॥ ॥ ८ ॥
“Awaken, wealth-abounding, Uṣā, those whose delight (in holy offerings); let the (niggard) traders, reluctant wake (for such a purpose), sleep on. Arise, opulent Uṣā, bearing wealth to the liberal (worshipper); speaker of truth, who are the waster away (of living creatures), arise, bearing wealth to him who praises you.”
Rouse up, O Wealthy One, the liberal givers; let niggard traffickers sleep on unwakened:
Shine richly, Wealthy One, on those who worship, richly, glad.
Dawn while wasting, on the singer.
Awaken those who grant, bounteous Dawn; unawakening let the niggards sleep.
Richly dawn for the bounteous ones, o bounteous one, richly for the praiser, o liberal-spirited one, as you rouse them.
Erweck die Spender, reiche Morgenröthe, die Geiz'gen mögen schlafen ohn' Erwachen, Mit Reichthum strahle, reiche du, den Fürsten, mit Gut dem Sänger, edle, ihn erlabend.
Erwecke, freigebige Usas, die Spender; ohne zu erwachen sollen die Knauser schlafen. Leucht reiches Gut den freigebigen Herren zu, du Freigebige, reiches Gut dem Lobsänger zu, du Großmütige, die du wach machst!
Пробуди дарителей, о щедрая Ушас!
Пусть скупцы спят непробудно!
Воссвети щедрым богатство, о щедрая,
Богатство – певцу, (ты,) великодушная (и) пробуждающая!
अवे॒यम॑श्वैद्युव॒तिः पु॒रस्ता॑द्यु॒ङ्क्ते गवा॑मरु॒णाना॒मनी॑कम् । वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते अ॒ग्निः ॥
अव॑ । इ॒यम् । अ॒श्वै॒त् । यु॒व॒तिः । पु॒रस्ता॑त् । यु॒ङ्क्ते । गवा॑म् । अ॒रु॒णाना॑म् । अनी॑कम् । वि । नू॒नम् । उ॒च्छा॒त् । अस॑ति । प्र । के॒तुः । गृ॒हम्ऽगृ॑हम् । उप॑ । ति॒ष्ठा॒ते॒ । अ॒ग्निः ॥
इयम् उषाः युवतिः यौवनोपेतयोषित्स्थानीया । यद्वा । सर्वेषु भावेषु मिश्रयन्ती। पुरस्तात् पूर्वस्यां दिशि अव अश्वैत् अत्यर्थमागच्छति वर्धते वा । अत्र अवशब्दो विनिग्रहार्थीयः ‘न्यवेति विनिग्रहार्थीयौ ' ( निरु. १. ३) इति यास्केनोक्तत्वात् । तत्कथमवगम्यते इति तत्राह । इयम् अरुणानाम् अरुणवर्णानां गवां प्रसिद्धानाम् एतन्नामकानामश्वानां वा अनीकं समूहं युङ्क्ते रथे योजयति।' अरुण्यो गाव उषसाम् । श्यावाः सवितुः '(नि. १. १५. ७-८) इति । यथा लोके वाहनसंनाहं दृष्ट्वा प्रयाणमनुमीयते तथा अत्रापि अरुणरश्मीनामश्वानां दर्शनात् उषा आगच्छतीत्यध्यवसीयते । यद्वा । अरुणानां रश्मीनां समूहं युङ्क्ते । तथा नूनं निश्चयमेषा वि उच्छात् तमो विवर्जयिष्यति । यत इयं गा युनक्ति अत एव कारणात् यथा लोकेऽश्वसंनाहं दृष्ट्वा उदयोऽनुमीयते तथात्रापीत्यर्थः । तादृशी सा असति असत्प्राये नीरूपेऽन्तरिक्षे तिरोधायकत्वात् अशोभने तमसि वा केतुः केतुस्थानीया ज्ञापयित्री प्रकर्षेण विविधं भासते इति शेषः । उपसर्गवशाद्योग्यक्रियाध्याहारः । यद्वा । असति तमोरूपेऽन्धकारे प्र केतुः प्रकर्षेण ज्ञापयित्री सती नूनं व्युच्छादिति पूर्वान्वयः । तस्मिन् काले अग्निः आहवनीयादिरूपः गृहंगृहं सर्वयजमानगृहम् अग्निहोत्राद्यर्थम् उप तिष्ठाते उपतिष्ठते दीप्यते इत्यर्थः ॥
“This youthful Uṣā, approached from the east; she harnesses her team of purple oxen. Assuredly she will disperse the darkness, a manifest sign (of day) in the firmament; the (sacred) fire is kindled in every dwelling.”
This young Maid from the east hath shone upon us; she harnesseth her team of bright red oxen.
She will beam forth, the light will hasten hither, and Agni will be present in each dwelling.
This young woman has whitened down from the east. She yokes the forefront of the ruddy cows.
She will dawn forth now; her beacon will stand out. Agni will reverently come to house after house.
Von Osten her erglänzte diese Jungfrau, sie schirrt sich an die Schar der rothen Rinder; sie strahle nun, und vorwärts dring' ihr Lichtschein, und Feuer stell sich ein in jedem Hause.
Im Osten schimmerte die junge Frau hernieder, sie schirrt die Reihe ihrer roten Rinder an. Jetzt möge sie aufleuchten; ihr Banner soll vorausgehen: In jedem Hause stellt sich das Feuer ein.
Эта юница ниспослала вниз (на землю) сияние на восток.
Она запрягает череду алых коров.
Пусть она вспыхнет сейчас! Пусть взовьется (ее) знамя!
Пусть будет огонь в каждом доме!
उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ । अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥
उत् । ते॒ । वयः॑ । चि॒त् । व॒स॒तेः । अ॒प॒प्त॒न् । नरः॑ । च॒ । ये । पि॒तु॒ऽभाजः॑ । विऽउ॑ष्टौ । अ॒मा । स॒ते । व॒ह॒सि॒ । भूरि॑ । वा॒मम् । उषः॑ । दे॒वि॒ । दा॒शुषे॑ । मर्त्या॑य ॥
ते तव व्युष्टौ सत्यां वयश्चित् गमनवन्तः पक्षिणोऽपि । चिदित्येष अपिशब्दार्थः निपातानामनेकार्थत्वात् ।' उच्चावचेष्वर्थेषु निपतन्ति ' ( निरु. १. ४ ) इति यास्केनोक्तत्वात् । वसतेः निवासस्थानान्नीडादेः उत् ऊर्ध्वम् अपप्तन् पतन्ति । पूर्ववाक्ये ‘गृहं गृहमुपतिष्ठातेऽग्निः' इत्युक्तत्वात्तदपेक्षया अपिशब्दः'। किंच नरश्च मनुष्याश्च पितुभाजः अन्नवन्तोऽन्नार्थिनः कृषिवाणिज्यादिकर्तारः स्वस्वव्यापारार्थम् उदुन्मुखा अपप्तन् गच्छन्ति । तथा मन्त्रान्तरं- पद्वदीयत उत्पातयति पक्षिणः ' ( ऋ. सं. १. ४८.५) इति । एवं सत्यां हे देवि देवनशीले उषोदेवते अमा गृहे देवयजनाये सते तिष्ठते यजमानाय तदर्थम् । अमेति गृहनाम 'अमा दमे' (नि. ३. ४. ११ ) इति तन्नामसु पठितत्वात् । यद्वा । अमा सह हूयमानेनाग्निना सह निवसते यजमानाय । अमा वसेतामित्यादौ सहार्थे प्रयोगात् । मर्त्याय मनुष्याय दाशुषे हविर्दत्तवते यजमानाय भूरि वामं बहु शोभनं धनं वहसि प्रापयसि ॥
“At your dawning, (Uṣā), the various birds rise up from their nests, and men who have to earn their bread (quit their homes). You bring, divine (Uṣā), much wealth to the liberal mortal who is present in the chamber (of sacrifice).”
As the birds fly forth from their resting places, so men with store of food rise at thy dawning.
Yea, to the liberal mortal who remaineth at home, O Goddess Dawn, much good thou bringest.
The birds have also flown up from their dwelling and the men who partake of food, at your first flush.
To the one who is at home you convey much of value, goddess Dawn, and to the pious mortal.
Bei deinem Leuchten fliegen auf die Vögel aus ihrem Nest, die Männer suchen Nahrung: dem, der daheim ist, führst du vieles Gut zu, dem frommen Mann, Göttin Morgenröthe.
Selbst die Vögel sind bei deinem Aufleuchten aus dem Neste aufgeflogen und die Männer, die ihre Nahrung zu sich nehmen, von dem Lager. Dem daheim Bleibenden bringst du viel Gutes, Göttin Usas, dem opferspendenden Sterblichen.
Как только ты вспыхнула, и птицы взлетели из гнезда,
И люди, что вкушают пищу, (поднялись).
Тому, кто находится дома, ты привозишь богатое добро,
О богиня Ушас, смертному, почитающему (тебя).
अस्तो॑ढ्वं स्तोम्या॒ ब्रह्म॑णा॒ मेऽवी॑वृधध्वमुश॒तीरु॑षासः । यु॒ष्माकं॑ देवी॒रव॑सा सनेम सह॒स्रिणं॑ च श॒तिनं॑ च॒ वाज॑म् ॥
अस्तो॑ढ्वम् । स्तो॒म्याः॒ । ब्रह्म॑णा । मे॒ । अवी॑वृधध्वम् । उ॒श॒तीः । उ॒ष॒सः॒ । यु॒ष्माक॑म् । दे॒वीः॒ । अव॑सा । स॒ने॒म॒ । स॒ह॒स्रिण॑म् । च॒ । श॒तिन॑म् । च॒ । वाज॑म् ॥
एवं सूक्तद्वयोक्तरीत्या बहुधा स्तुत्वा तां च स्तुतिमनया निवेदयित्वा स्वाभीष्टं प्रार्थयते । हे स्तोम्याः । स्तोमः स्तोत्रम् । तदर्हन्तीति स्तोम्याः स्तुत्यर्हा उषसः । यतो यूयं तादृश्यः अतः मे मत्स्वभूतेन ब्रह्मणा सूक्तद्वयगतमन्त्ररूपेण स्तोत्रेण अस्तोढ्वम् स्तुता भवत। किंच हे उषासः उषसः उशतीः स्तोतॄन् अस्मान् अस्मत्समृद्धिं वा कामयमाना यूयम् अवीवृधध्वम् अस्मान् प्रवर्धयत । किंच हे देवीः देव्यो देवनशीलाः युष्माकम् अवसा युष्मत्संबन्धिना रक्षणेन वयं सहस्रिणं सहस्रसंख्याकम् अभीष्टं धनं सनेम लभेमहि । तथा शतिनं च वाजं शतसंख्याकम् अपरिमितं धनं सनेम । युष्मत्कृतेन शतसहस्रपरिमितधनादिरूपरक्षणेन वयमपि अर्थिभ्यः शतसहस्रपरिमितस्य धनस्य सनितारो भवेमेत्यर्थः । ॥ ९ ॥
“Praiseworthy Uṣās, be glorified by this (my hymn); graciously disposed towards us, augment (our prosperity); and may we obtain, goddesses, through your favour, wealth; a hundred and a thousand fold.”
Praised through my prayer be ye who should be lauded. Ye have increased our wealth, ye Dawns who love us.
Goddesses, may we win by your good favour wealth to be told by hundreds and by thousands.
You have been praised, praiseworthy ones, by my sacred formulation. You, eager (for it), have been strengthened, o Dawns.
Goddesses, with your help may we win spoils in hundreds and
thousands.
Gepriesen seid ihr preislichen mit Sprüchen, ihr habt euch gern ergötzt, o Morgenröthen; Göttinnen lasst durch eure Gunst erlangen uns hundertfache, tausendfache Beute.
Ihr preiswürdige seid mit feierlicher Rede von mir gepriesen, ihr habt euch gern daran erbaut, ihr Usas´. Mit eurer Hilfe, ihr Göttinnen, möchten wir tausendfältigen und hundertfältigen Lohn verdienen.
Вы были воспеты моей молитвой, о достойные воспевания
Вы были подкреплены (ею), о благосклонные утренние зори.
С вашей помощью, о богини, мы хотим добиться
Награды числом в сотню и тысячу!