प्रा॒ता रत्नं॑ प्रात॒रित्वा॑ दधाति॒ तं चि॑कि॒त्वान्प्र॑ति॒गृह्या॒ नि ध॑त्ते । तेन॑ प्र॒जां व॒र्धय॑मान॒ आयू॑ रा॒यस्पोषे॑ण सचते सु॒वीर॑: ॥
प्रा॒त्रिति॑ । रत्न॑म् । प्रा॒तः॒ऽइत्वा॑ । द॒धा॒ति॒ । तम् । चि॒कि॒त्वान् । प्र॒ति॒ऽगृह्य॑ । नि । ध॒त्ते॒ । तेन॑ । प्र॒जाम् । व॒र्धय॑मानः । आयुः॑ । रा॒यः । पोषे॑ण । स॒च॒ते॒ । सु॒ऽवीरः॑ ॥
अत्रेतिहासमाचक्षते । दैर्घतमसः कक्षीवान्नाम ऋषिः ब्रह्मचर्यं चरिष्यन् वेदाभ्यासाय गुरुकुले चिरकालमुषित्वा वेदान् सम्यगधीत्य व्रतानि च चरित्वा तेनानुज्ञातः पुनः स्वगृहं प्रति प्रयास्यन् मध्ये मार्गे रात्रौ विश्रान्तः । प्रभाते भावयव्यस्य पुत्रः स्वनयो नाम राजा अनुचरैः संक्रीडमानः अकस्मात् कक्षीवतः अन्तिकमाससाद । स च रभसा प्रतिबुद्धः सहसोत्तस्थौ । तं च राजा पाणिं गृहीत्वा स्वकीये आसने उपवेश्य अस्य सौन्दर्यमवगत्य स्वकन्याप्रदानमनाः पप्रच्छ भगवन् कस्य पुत्रः किंनामा त्वमिति । स च पृष्टो मातरं पितरं च स्ववृत्तान्तं च आचचक्षे। स च राजा संभाव्यः इत्यवगत्य मुदितमनाः स्वगृहं प्राप्य अस्मै मधुपर्कमारचय्य वस्त्रमाल्यादिभिः पूजयित्वा सरथा दश कन्याः शतनिष्कानश्वशतं पुंगवानां शतं गवां षष्ट्युत्तरसहस्रं पुनरेकादशरथांश्च प्रादात् । स च सर्वमनुक्रमेण प्रतिगृह्य दीर्घतमसोऽन्तिकमागत्य तस्मै प्रादर्शयत् ॥ ननु कक्ष्या नाम अश्वबन्धनी रज्जुः । तद्वान् कक्षीवान् । अश्वबन्धनं च राज्ञ एवोचितम् । अतोऽस्य राजन्यत्वात् प्रतिग्रहो नोपपद्यते । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ' ( मनु. १०. ७६ ) इत्युक्तत्वात् । तस्मात् ब्राह्मणस्यैवाधिकारो न तु क्षत्रियस्येति । नैष दोषः । यद्यप्यसौ कलिङ्गाख्यस्य राज्ञः पुत्रस्तथापि तेन कलिङ्गेन स्वयं वृद्धत्वात् अपत्योत्पादनाय सामर्थ्यमलभमानेन तदुत्पादनाय याचितो दीर्घतमा ऋषिः उशिग्नामिकाम् अपत्योत्पादनाय प्रेषितया राजमहिष्या अतिजरटेन महर्षिणा सह रन्तुं लज्जमानया स्ववस्त्राभरणैरलंकृत्य स्वप्रतिनिधित्वेन प्रेषिताम् उशिग्नामिकां योषितं दासीमित्यवगत्य मन्त्रपूतेन जलेनाभिषिच्य ऋषिपुत्रीं कृत्वा तया सह रेमे । तदुत्पन्नः कक्षीवान्नाम ऋषिः । एतत्सर्वमस्माभिः पूर्वाध्याये नासत्याभ्याम् ( ऋ. सं. १. ११६ ) इत्यत्र सूक्ते विस्तरेण प्रतिपादितम् । अतः अस्य क्षत्रियसंबन्धात् कक्षीवानिति नाम उपपन्नम्। दीर्घतमसः परमर्षेः उत्पन्नत्वेन ब्राह्मणत्वात् प्रतिग्रहोऽपि उपपन्न एव । इदमादि सूक्तद्वयं स्वनयस्य राज्ञो दानप्रशंसाख्यानप्रतिपादकम् । ननु अनुक्रमण्यां ' स्वनयस्य दानस्तुतिः' इति ‘ दानतुष्टो भावयव्यं तुष्टाव ' इति चोभयत्र स्तोतव्यं भिन्नमेवानुगम्यते इत्युच्यते । उत्तरसूक्तस्य प्रथमायाम् ऋचि ‘ अधिक्षियतो भाव्यस्य ' इति दातुर्भावयव्यस्य श्रूयमाणत्वात् तत्प्राथम्यमुपजीव्य पृथगुपात्तम् । वस्तुतस्तु पितुर्नाम्ना पुत्रस्य व्यवहर्तव्यत्वात् तथा ' आ रुद्रासः' इत्यादौ बहुशः प्रयोगदर्शनात् ‘स्वनयेन दत्ता' इति तत्रैव सूक्ते स्वनयस्यापि श्रूयमाणत्वाच्च उभयत्रापि दातृप्रतिग्रहीत्रोरेकत्वेनैकमेव दानप्रशंसारूपमाख्यानमिति प्रसिद्धम् । स च कक्षीवान् आनीतं सर्वं पितुर्निवेदयन् परोक्षेणैव दानप्रकारं प्रशंसति । स्वनयो नाम राजा प्रातरित्वा प्रातरेव आत्मनः सकाशमागतः सन् रत्नं रमणीयं निष्कादिकं प्रातः प्रभातकाले दधाति अस्मत्संनिधौ स्थापयति ददाति । तं स्थापितं सर्वं चिकित्वान् चेतनावान् अदुष्टमित्यवगतवान् प्रतिगृह्य स्वीकृत्य नि धत्ते । पितुः समीपे स्थापयति । अनन्तरं तेन दत्तेन निष्कादिना प्रजां पुत्रभृत्यादिरूपां वर्धयमानः पोषयन् आयुः जीवितं च वर्धयन् सुवीरः शोभनैर्वीरैः पुत्रभृत्यादिभिरुपेतः सन् रायस्पोषेण धनानां पुनःपुनर्वर्धनेन सचते । असौ राजा संगच्छतामिति तव दातुराशिषं प्रार्थयते ॥
“Having come in the early morning, (Svanaya) presents precious (wealth), knowing it (to be worthy of acceptance); and having, (therefore), accepted it, (Kakṣīvat) brings it (to his father); wherewith the parent of excellent sons, maintaining his progeny, passes his life in the enjoyment of affluence.”
COMING at early morn he gives his treasure; the prudent one receives and entertains him.
Thereby increasing still his life and offspring, he comes with brave sons to abundant riches.
In the early morning, the early-coming (priest/god) establishes a treasure. An observant man, receiving him (as guest), lays it in himself.
Increasing his own progeny and lifetime with it, possessing good heroes, he is accompanied by thriving of wealth.
Der frühkommende [Opferherr] gibt früh am Morgen Geschenke, ihn wahrnehmend nimmt sie [der Sänger] in Empfang und verwahrt sie; dadurch mehrt er seinen Stamm und sein Leben, und steht kräftig in der Blüte des Wohlstandes.
Der Morgengast bringt am Morgen ein Kleinod. Der Verständige, der ihn aufnimmt, legt sich einen Schatz zu. Er mehrt durch ihn seine Nachkommenschaft und seine Lebenszeit; reich an Söhnen wird er wachsenden Besitzes teilhaftig.
Рано утром утренний гость несет сокровище.
Мудрый, принимая его, сохраняет (сокровище) для себя.
Увеличивая благодаря ему потомство (и) срок жизни,
Имея прекрасных сыновей, он наслаждается процветанием богатства.
सु॒गुर॑सत्सुहिर॒ण्यः स्वश्वो॑ बृ॒हद॑स्मै॒ वय॒ इन्द्रो॑ दधाति । यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वो मु॒क्षीज॑येव॒ पदि॑मुत्सि॒नाति॑ ॥
सु॒ऽगुः । अ॒स॒त् । सु॒ऽहि॒र॒ण्यः । सु॒ऽअश्वः॑ । बृ॒हत् । अ॒स्मै॒ । वयः॑ । इन्द्रः॑ । द॒धा॒ति॒ । यः । त्वा॒ । आ॒ऽयन्त॑म् । वसु॑ना । प्रा॒तः॒ऽइ॒त्वः॒ । मु॒क्षीज॑याऽइव । पदि॑म् । उ॒त्ऽसि॒नाति॑ ॥
अत्र कक्षीवतः पिता आनीतेन धनेन संतुष्टः राजानं बहुप्रकारेण आशास्ते । असौ स्वनयो राजा सुगुः असत् । शोभनैर्बहुभिर्गोभिस्तद्वान् भवतु । तथा सुहिरण्यः सुष्ठु हितरमणीयैर्धनैस्तद्वान् भवतु । तथा स्वश्वः शोभनैरश्वैस्तद्वान् सन् । अस्मै राज्ञे प्रदात्रे बृहत् प्रभूतं वयः अन्नम् इन्द्रः परमेश्वरो धर्मदेवता दधाति दधातु ददातु । यतः अयं राजा अस्मै गोहिरण्याश्वान्नानि बहुसंख्याकानि दत्तवान् अतस्तेषामभिवृद्धिप्रार्थना उचितैव । कस्यैवमाशीरिति स उच्यते । यः यो राजा प्रातरित्वः प्रातरागामिन्नतिथे पुत्र आयन्तं गुरुकुलात् आगतं पदिं पथिकं यदृच्छया गन्तारं त्वा त्वां वसुना अन्नसाधनेन गवादिधनेन उत्सिनाति गमनतः उत्कृष्टं बध्नाति गतिं निरुणद्धीत्यर्थः । प्रतिबन्धे दृष्टान्तः उच्यते । मुक्षीजयेव पदिम् । मुच्यमाना सती बन्धनं जनयतीति मुक्षीजा मृगपक्ष्यादिबन्धनी रज्जुः । तया पाशको यथा पदिं गन्तारं मृगपक्ष्यादिकम् उत्सिनाति बध्नाति तथा मयाननुज्ञातमपि त्वां गमनं प्रतिबध्य गवादीष्टदानादिना यो राजा तोषयति स एवं भवत्विति । पदिरिति पदं व्याचक्षणेन यास्केन तदुदाहरणमयं मन्त्रः व्याख्यातः ‘ सुगुर्भवति ततनाच्च' ( निरु. ५, १९ ) इति ॥
“May he (the Rājā) be rich in kine, in gold, in horses; may Indra grant abundant food to him who delays you, returning home in the early morning, by costly gifts, as (a hunter arrests the) wandering (animals) by his snares.”
Rich shall he be in gold and kine and horses. Indra bestows on him great vital power,
Who stays thee, as thou comest, with his treasure, like game caught in the net, O early comer.
[The host:] “He will have good cows, good gold, good horses—for him Indra establishes lofty vigor—
he who, o early-comer, binds you up like a pard [?] with a thong [?], when you come hither with goods.”
Schöne Rinder und Rosse, schönes Gold wird dem zu Theil, und grosse Lebenskraft schenkt Indra dem, welcher, o früh kommender, einen solchen, wie du bist, durch Güter fängt, wie das laufende Wild in der Schlinge.
Der Reiche: "Schöne Rinder, schönes Gold, schöne Rosse soll er besitzen; hohe Manneskraft verleiht Indra dem, der dich, wenn du mit Schätzen ankommst, o Morgengast, wie den Vogel in der Schlinge einfängt.
У него должны быть прекрасные коровы, прекрасное золото, прекрасные кони,
Индра дает ему большую телесную силу –
(Тому,) кто тебя, приходящего с добром, о утренний гость,
Ловит, как птицу – силком.
आय॑म॒द्य सु॒कृतं॑ प्रा॒तरि॒च्छन्नि॒ष्टेः पु॒त्रं वसु॑मता॒ रथे॑न । अं॒शोः सु॒तं पा॑यय मत्स॒रस्य॑ क्ष॒यद्वी॑रं वर्धय सू॒नृता॑भिः ॥
आय॑म् । अ॒द्य । सु॒ऽकृत॑म् । प्रा॒तः । इ॒च्छन् । इ॒ष्टेः । पु॒त्रम् । वसु॑मता । रथे॑न । अं॒शोः । सु॒तम् । पा॒य॒य॒ । म॒त्स॒रस्य॑ । क्ष॒यत्ऽवी॑रम् । व॒र्ध॒य॒ । सू॒नृता॑भिः ॥
प्रातः पूर्वेद्युः प्रभातकाले अयं धनं दत्तवान् तस्मिन्नेव काले सुकृतं शोभनस्य कर्तारं त्वाम् इच्छन् प्राप्तुमिच्छन् कदा द्रक्ष्यामीति कामयमानोऽहम् अद्य अस्मिन् दिने इदानीम् आयं प्राप्तोऽस्मि । अत्र यद्यपि केवलं प्रातरित्येव श्रुतं न पूर्वेद्युरिति तथापि अद्य आयम् इत्युक्तत्वादर्थात्पूर्वेद्युः प्रातः इति गम्यते । कीदृशम् । इष्टेः इष्टस्येष्टसाधनस्य यागस्य वा पुत्रं पुरु त्रातारम् । पुत्रः पुरु त्रायते । ( निरु. २. ११ ) इति यास्कः । कर्तारमित्यर्थः । केन साधनेनेति तदुच्यते । वसुमता रथेन समृद्धधनवता रथेन साधनेन । यद्वा । तेन सहितः इति सहार्थे तृतीया । किंच मदानीतेन समृद्धेन धनेन अंशोः अंशुमतो वल्लीरूपस्य मत्सरस्य मादनसाधनस्य सोमस्य । 'मत्सरः सोमो मन्दतेस्तृप्तिकर्मणः ' ( निरु. २. ५) इति निरुक्तम् । तस्य सुतम् अभिषुतं रसं पायय आत्मानं पायय इष्टसाधनं सोमयागं कुर्वित्यर्थः । कृत्वा च क्षयद्वीरं क्षियन्तो निवसन्तो वीराः पुत्रभृत्यादयो यस्य तं तादृशं त्वदिष्टसाधनबहुधनप्रदातारं सूनृताभिः प्रियसत्यात्मिकाभिर्वाग्भिः वर्धय समृद्धं कुरु । पुत्रभृत्यादिवीरैः यथा प्रवृद्धो भवति तथा कामयेत्यर्थः ॥
“Desirous (of again beholding you), I have this day obtained you, who have done in the morning a good deed; the performer of a sacrifice with a wealth-laden car, refresh yoursel fwiththe effused libation of the exhilarating (Soma), and augment with sincere prayers (the prosperity) of the chief of the flourishing race.”
Longing, I came this morning to the pious, the son of sacrifice, with car wealth-laden.
Give him to drink juice of the stalk that gladdens; prosper with pleasant hymns the Lord of Heroes.
[The early-comer:] “I have come here today early in the morning with a goods-filled chariot, seeking one who performs (sacrifice) well, the son of my seeking.
Make (Indra?) drink the pressed (soma) of the exhilarating plant;
strengthen the hero-ruling (Indra?) with liberal gifts.”
Heute morgen kam dieser [Opferherr] begehrend zu dem Frommen, dem Sohn des Gebetes, mit Gut-beladnem Wagen; lass ihn trinken den Saft des berauschenden Soma, den Männerherrscher erfreue durch Lobgesänge.
Der Morgengast: "Ich kam heute in der Frühe mit schätzereichem Wagen, den Frommen suchend, den Sohn meines Wunsches. Gib den Saft des berauschenden Stengels zu trinken, erbaue den Männerbeherrscher durch Schenkungen!
Я пришел сегодня рано утром, ища благочестивого
Сына (моего) желания, с колесницей, полной добра.
Напои (соком,) выжатым из стебля опьяняющего (сомы)!
Подкрепи щедрыми дарами владыку героев!
उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा॑णं च धे॒नव॑: । पृ॒णन्तं॑ च॒ पपु॑रिं च श्रव॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वत॑: ॥
उप॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः । म॒यः॒ऽभुवः॑ । ई॒जा॒नम् । च॒ । य॒क्ष्यमा॑णम् । च॒ । धे॒नवः॑ । पृ॒णन्त॑म् । च॒ । पपु॑रिम् । च॒ । श्र॒व॒स्यवः॑ । घृ॒तस्य॑ । धाराः॑ । उप॑ । य॒न्ति॒ । वि॒श्वतः॑ ॥
पूर्वस्यामृचि आनीतेन धनेन सोमयागं कुर्वित्युक्तम् । तमेव सोमयागं फलप्रदर्शनेन स्तौति । सिन्धवः स्यन्दनशीलाः प्रस्तुतपयोधाराः । सिन्धुः स्यन्दनात्' (निरु. ९. २६) इति यास्कः । मयोभुवः सुखभावयित्र्य: । मय इति सुखनाम ' मयः स्यूमकम् ' ( नि. ३. ६. ७ ) इति तन्नामसु पाठात् । धेनवः प्रीणयित्र्यो गावः ईजानं सोमयागमनुतिष्ठन्तं तथा यक्ष्यमाणं यक्ष्ये इति प्रणतिं कुर्वन्तं च । न केवलमीजानं अपि तु यक्ष्ये इति अध्यवसितवन्तमपि उप उपेत्य क्षरन्ति स्रवन्ति प्रीणयन्तीत्यर्थः । न च पूर्वस्यामृचि सोमं पिबेत्युक्तत्वात् सर्वेषां सोमयागानाम् अग्निष्टोमात्मकज्योतिष्टोमस्य प्रकृतस्य ‘ ज्योतिष्टोमेन स्वर्गकामो यजेत' इति स्वर्ग एव फलत्वेन श्रुतः न गवादिकमिति वाच्यम्। स्वर्गवत् गवादिकामनयापि सोमयागस्य कर्तुं शक्यत्वात् । न केवलं सोमयागमनुतिष्ठतामेव महत्फलम् अपि तु सुकृतसाधनानि कर्मान्तराणि अधितिष्ठतामपि महत् फलमस्त्येवेति दर्शयति । पृणन्तं पितॄन् प्रीणयन्तं पपुरिं प्रीणनशीलम् इष्टदातारं प्राणिनः सर्वदा प्रीणयन्तं च पुरुषं श्रवस्यवः अन्नमिच्छन्त्यः अन्नसमृद्धिहेतवः घृतस्य धाराः। यद्वा । घृतकुल्याः। विश्वतः सर्वतः उप उपेत्य यन्ति प्राप्नुवन्ति प्रीणयन्तीत्यर्थः ॥
“The copiously-yielding and joy-conferringkine, distil (their milk) for the celebration of the (Soma) sacrifice; and for him who has undertaken its celebration; the nutritious streams of butter coverage from every quarter towards him, who both propitiates (his progenitors), and benefits (mankind).”
Health-bringing streams, as milch-cows, flow to profit him who hath worshipped, him who now will worship.
To him who freely gives and fills on all sides full streams of fatness flow and make him famous.
Streams, health-bringing, like milch cows,
Pour up to the man who hath sacrificed and shall sacrifice; Him who filleth and satiateth [4], bringing fame,
Streams of ghee approach on all sides.
The rivers, embodiments of joy, milk-cows, flow near to the one who has sacrificed and the one who will sacrifice;
seeking fame, the streams of ghee on every side go near to him who
grants and has granted.
Es rinnen lustbringende Ströme, die Milchtränke, hin zu dem, der geopfert hat, und zu dem, der opfern will; zu dem, welcher spendet und reichlich schenkt, gehen hohes Glück verleihend von allen Seiten die Ströme des Fettes.
Erquickend strömen dem die Flüsse, dem die Milchkühe, der geopfert hat und opfern wird. Dem der reichlich spendet und schenkt, fließen von allen Seiten die Schmalzströme wetteifernd zu.
Притекают благодатные реки,
Дойные коровы к тому, кто пожертвовал и собирается жертвовать,
К дарящему и щедрому мчатся
Со всех сторон потоки жира, несущие славу.
नाक॑स्य पृ॒ष्ठे अधि॑ तिष्ठति श्रि॒तो यः पृ॒णाति॒ स ह॑ दे॒वेषु॑ गच्छति । तस्मा॒ आपो॑ घृ॒तम॑र्षन्ति॒ सिन्ध॑व॒स्तस्मा॑ इ॒यं दक्षि॑णा पिन्वते॒ सदा॑ ॥
नाक॑स्य । पृ॒ष्ठे । अधि॑ । ति॒ष्ठ॒ति॒ । श्रि॒तः । यः । पृ॒णाति॑ । सः । ह॒ । दे॒वेषु॑ । ग॒च्छ॒ति॒ । तस्मै॑ । आपः॑ । घृ॒तम् । अ॒र्ष॒न्ति॒ । सिन्ध॑वः । तस्मै॑ । इ॒यम् । दक्षि॑णा । पि॒न्व॒ते॒ । सदा॑ ॥
सोमयागप्रशंसाप्रसङ्गेन सामान्यतो दानम् एतदादिभिस्त्रिभिः प्रशंसति । यद्वा । सोमस्यैव स्तुतत्वात् दक्षिणाशब्दस्य यागे एव प्रसिद्धत्वाच्च आ सूक्तपरिसमाप्तेः सोमयाग एव प्रस्तूयते ॥ यः यो मर्त्यः पृणाति हविरादिदानेन देवादीन् प्रीणाति सः नाकस्य । कमिति सुखनाम । तद्विरुद्धम् अकम् । न विद्यते अकं दुःखं तत्साधनं पापं वेति नाको द्युलोकः । तथा च श्रूयते - न वा अमुं लोकं जग्मुषे किं च नाकम् ' ( निरु. २. १४; का. सं. २१. २ ) इति । तस्य पृष्ठे उन्नते उपरिदेशे श्रितः सन् अधि अधिकमाकल्पान्तं तिष्ठति । यद्वा । अधि तिष्ठति । अधिष्ठाय प्रमुखो भूत्वा तिष्ठति । न केवलं स्वर्गाश्रयणं किंतु देवेषु मध्ये गच्छति वर्तते स्वयमेव देवो भवतीत्यर्थः । ह इति प्रसिद्धौ । तस्मै प्रीणयित्रे पुरुषाय सिन्धवः स्यन्दनशीला: आपः घृतं तेजोवत् सारम् अर्षन्ति गच्छन्ति रसवत्यो भवन्तीत्यर्थः । किंच इयं भूमिरपि दक्षिणा सस्यादिफलसंपादनदक्षा सती सदा सर्वकालं पिन्वते सेचयति तोषयतीत्यर्थः । दातुर्जीवनसाधकान्नोदकानि रुचिराणि समृद्धानि भवन्तीत्यर्थः ॥
“He who propitiates (the gods), gives to the gods, and sits at ease upon the summit of heaven; to him the flowing waters bear their essence; to him this fertile (earth) ever yields abundance.”
On the high ridge of heaven he stands exalted, yea, to the Gods he goes, the liberal giver.
The streams, the waters flow for him with fatness: to him this guerdon ever yields abundance.
On the back of the firmament he stands firmly fixed. Whoever grants, he goes among the gods;
to him the waters, the rivers stream ghee; for him this gift-cow (dakṣiṇā) swells always.
Auf dem Gipfel des Himmels steht er erhöht; wer [Opfer] lohnt, der, ja der gelangt zu den Göttern; ihm strömen Wasser und Flüsse Fett zu, ihm strotzt von Milch stets diese reichlich strömende Milchkuh.
Auf die Höhe des Himmels versetzt bleibt er da. Wer spendet, der kommt zu den Göttern. Ihm strömen die Gewässer, die Flüsse Schmalz. Ihm wird dieser Sängerlohn immerdar zur milchstrotzenden Kuh.
Он покоится, опираясь о спину небосвода.
Кто жертвует, только тот и идет к богам.
Для него воды и реки струят жир.
Для него эта награда певцу набухает всегда (как дойная корова).
दक्षि॑णावता॒मिदि॒मानि॑ चि॒त्रा दक्षि॑णावतां दि॒वि सूर्या॑सः । दक्षि॑णावन्तो अ॒मृतं॑ भजन्ते॒ दक्षि॑णावन्त॒: प्र ति॑रन्त॒ आयु॑: ॥
दक्षि॑णाऽवताम् । इत् । इ॒मानि॑ । चि॒त्रा । दक्षि॑णाऽवताम् । दि॒वि । सूर्या॑सः । दक्षि॑णाऽवन्तः । अ॒मृत॑म् । भ॒ज॒न्ते॒ । दक्षि॑णाऽवन्तः । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥
दक्षिणावतां बहुविधगोहिरण्यादिरूपदक्षिणाप्रदातॄणाम् । इच्छब्दः एवकारार्थः । तेषामेवार्थे इमानि भूमौ दृश्यमानानि चित्राणि चायनीयानि स्रक्चन्दनमणिमुक्तादिरूपाणि द्रव्याणि समृद्धानि भवन्तीति शेषः । किंच दक्षिणावताम् एव दिवि द्युलोके सूर्यासः सूर्यसंबन्धिनो लोकाः तदनुगृहीता भोगा वा समृद्धा भवन्ति । किंच दक्षिणावन्तः एव अमृतं जरामरणरहितं स्थानं भजन्ते सेवन्ते । यद्वा । दानेनापहतपाप्मानः आत्मानं विदित्वा अमृतमविनाशं मोक्षं भजन्ते प्राप्नुवन्ति । ‘ यज्ञेन दानेन ' (बृ. उ. ४. ४. २२) इति श्रुतेः । किंच दक्षिणावन्तः एव आयुः प्र तिरन्ते अतिदीर्घमेवमायुष्यं वर्धयन्ते लभन्ते । प्रपूर्वस्तिरतिर्वर्धनार्थः । इत् इति सर्वत्र संबध्यते ॥
“These wonderful (rewards) verily are for those who give (pious) donations; for the donors of (pious) gifts the suns shine in heaven; the givers of (pious) donations attain immortality; the givers of (pious) gifts prolong their (worldly) existence.”
For those who give rich meeds are all these splendours, for those who give rich meeds suns shine in heaven.
The givers of rich meeds are made immortal; the givers of rich fees prolong their lifetime.
For the givers of dakṣiṇās only there are these brilliant (bounties) here; for the givers of dakṣiṇās there are suns in heaven.
Givers of dakṣiṇās have a share in immortality; givers of dakṣiṇās
lengthen their own lifetime.
Denen, welche das Opfer lohnen, ist glänzend diese Welt, ihnen sind glänzend die Sonnen am Himmel, die Opferlohnenden empfangen Unsterblichkeit, die Opferlohnenden verlängern ihr Leben.
Nur für die, die den Sängerlohn geben, sind diese Schönheiten auf Erden; für die, die den Sängerlohn geben, sind die Sonnen am Himmel. Die den Sängerlohn geben, genießen die Unsterblichkeit; die den Sängerlohn geben, verlängern ihr Leben.
Лишь для тех, кто дает награду певцу, эти красоты.
Для тех, кто дает награду певцу, солнца на небе.
Те, кто дает награду певцу, вкушают амриту.
Те, кто дает награду певцу, продлевают себе срок жизни.
मा पृ॒णन्तो॒ दुरि॑त॒मेन॒ आर॒न्मा जा॑रिषुः सू॒रय॑: सुव्र॒तास॑: । अ॒न्यस्तेषां॑ परि॒धिर॑स्तु॒ कश्चि॒दपृ॑णन्तम॒भि सं य॑न्तु॒ शोका॑: ॥
मा । पृ॒ण॒न्तः॒ । दुःऽइ॑तम् । एनः॑ । आ । अ॒र॒न् । मा । जा॒रि॒षुः॒ । सू॒रयः॑ । सु॒ऽव्र॒तासः॑ । अ॒न्यः । तेषा॑म् । प॒रि॒ऽधिः । अ॒स्तु॒ । कः । चि॒त् । अपृ॑णन्तम् । अ॒भि । सम् । य॒न्तु॒ । शोकाः॑ ॥
अन्वयव्यतिरेकाभ्यां दानं प्रशंसितुमाह । पृणन्तः देवादीन् हविरादिना प्रीणयन्तः सन्तः दुरितं दुष्टं यथा भवति तथा प्राप्तं दुःखम् एनः तत्साधनं पापं च मा आरन मा प्राप्नुवन् । न केवलं दातार एव अपि तु सूरयः देवानां स्तोतारो विद्वांसः मा जारिषुः जरया न जीर्णा भवेयुः। तथा सुव्रतासः शोभनकृच्छ्रचान्द्रायणादिनियमवन्तोऽपि मा जारिषुः । तर्हि एषाम् अन्यो जनः क इति स उच्यते । तेषां दातॄणां स्तोतॄणां वा अन्यः तेभ्योऽन्यो यः कोऽपि पुरुषः परिधिः पापस्य परितो धारकः अस्तु । यद्वा । अन्यो यः कश्चन पापदेवः तेषां परिधिस्थानीयो व्यवधायकोऽस्तु । यथा अग्नेः परिधिः स्वयं रक्षःप्रभृतिभिर्बाध्यमानः स्वान्तर्हितमग्निं रक्षति तद्वत् । अथवा । अन्यो धर्मविशेषः तेषां परिधिः परिधानमस्तु कवचस्थानीयोऽस्तु । तर्हि किं प्राप्नुयुरिति उच्यते । अपृणन्तं देवादीन् अप्रीणयन्तमदातारं शोकाः चित्तपीडाः तत्साधनाः पाप्मानः अभि अभिमुखं सं यन्तु सम्यक् प्राप्नुवन्तु वयं सुखिनो भवेमेत्यर्थः ॥ ॥ १० ॥
“May those who propitiate (the gods), never commit degrading sin; may those who praise the gods and observe holy vows, never experience decay; may some (honourable) individual ever be their defence; and may afflictions fall upon him who does not propitiate (the gods).”
Let not the liberal sink to sin and sorrow, never decay the pious chiefs who worship!
Let every man besides be their protection, and let affliction fall upon the niggard.
Let those who grant not encounter difficulty or outrage; let the patrons, of good commandment, not grow old;
let there be some other enclosure for them, but to the non-granting one let there come the flames of pain.
Nicht mögen die reichlichlohnenden Misgeschick und Bedrängniss ernten, nicht mögen altern die den göttlichen Gesetzen treuen Fürsten, und jede andere Schutzwehr möge ihnen zu Theil werden; auf den nicht lohnenden mögen Leiden sich häufen.
Die Spender sollen nicht in Sünde und Schuld fallen, nicht sollen die pflichtgetreuen Patrone altersschwach werden. Irgend ein anderer soll deren Ablenker sein. Die Schmerzen sollen den Geizigen treffen.
Дарящие да не впадут в заблуждение и в грех!
Щедрые покровители, верные обетам, да не состарятся!
Кто-нибудь другой пусть будет оградой от них!
На недарящего пусть обрушатся страдания!