अम॑न्दा॒न्त्स्तोमा॒न्प्र भ॑रे मनी॒षा सिन्धा॒वधि॑ क्षिय॒तो भा॒व्यस्य॑ । यो मे॑ स॒हस्र॒ममि॑मीत स॒वान॒तूर्तो॒ राजा॒ श्रव॑ इ॒च्छमा॑नः ॥
अम॑न्दान् । सोमा॑न् । प्र । भ॒रे॒ । म॒नी॒षा सिन्धौ॑ । अधि॑ । क्षि॒य॒तः । भा॒व्यस्य॑ । यः । मे॒ । स॒हस्र॑म् । अमि॑मीत । स॒वान् । अ॒तूर्तः॑ । राजा॑ । श्रवः॑ । इ॒च्छमा॑नः ॥
सिन्धौ सिन्धुदेशे यद्वा लक्षणया सिन्धुतीरे समुद्रतीरे अधि क्षियतः अधिनिवसतः भाव्यस्य भावयव्यस्य। तत्पुत्रस्य स्वनयस्येत्यर्थः । तस्य अमन्दान् अनल्पान् स्तोमान् स्तोत्राणि तन्निष्ठबहुविधदानादीनां कीर्तनानि मनीषा मनीषया प्रियातिशयबुद्ध्या प्र भरे प्रकर्षेण संपादयामि । कस्तस्य विशेष इति तत्राह । अतूर्तः केनाप्यहिंसितः यः राजा मे मदर्थं सहस्रं तत्संख्याकान् सवान् । सूयन्ते सोमाः एष्विति सवाः सोमयागाः । तान् अमिमीत संपूर्णधनप्रदानेन निर्मितवान् । किमिच्छन्। श्रवः सर्वैः श्रूयमाणां कीर्तिमात्मने इच्छमानः कामयमानः। यतोऽयमार्त्विज्याद्युपाधिना विना कीर्त्यर्थमेव बहुधनं प्रादात् अतस्तं स्तौमीत्यर्थः ॥
“I repeat with a (willing) mind, the unreluctant praises of Bhavya, dwellingon th ebanks of the Sindhu; a prince of unequalled (might), desirous of renown, who has enabled me to celebrate a thousand sacrifices.”
WITH wisdom I present these lively praises of Bhavya dweller on the bank of Sindhu;
For he, unconquered King, desiring glory, hath furnished me a thousand sacrifices.
Not feeble are the praises I present through my inspiration to Bhāvya who lives on the Sindhu,
who meted out to me a thousand (soma-)pressings, the invincible king seeking fame.
Muntere Lieder trage ich vor mit Weisheit auf dem Strome dessen, was bleibt und was werden soll; dem, welcher mir tausend Spenden zumass, ein unübertrefflicher König, der nach Ruhm trachtet.
Nicht zu schwache Loblieder trage ich mit Überlegung vor auf den an der Sindhu wohnenden Bhavya, der mir tausend Somaopfer zuwies, der unübertroffene König, der Ruhm begehrende.
Не слабые восхваления я благодарно приношу
(Царю) Бхавье, живущему на Синдху,
(Тому,) кто мне назначил тысячу выжиманий (сомы),
(Кто) царь непобедимый, ищущий славы.
श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्त्स॒द्य आद॑म् । श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां॑ दि॒वि श्रवो॒ऽजर॒मा त॑तान ॥
श॒तम् । राज्ञः॑ । नाध॑मानस्य । नि॒ष्कान् । श॒तम् । अश्वा॑न् । प्रऽय॑तान् । स॒द्यः । आद॑म् । श॒तम् । क॒क्षीवा॑न् । असु॑रस्य । गोना॑म् । दि॒वि । श्रवः॑ । अ॒जर॑म् । आ । त॒ता॒न॒ ॥
नाधमानस्य स्वीकर्तव्यम् इत्युच्चैः याचमानस्य असुरस्य धनानां निरसितुर्दानशीलस्य राज्ञः स्वतेजसा दीप्यमानस्य स्वनयस्य निष्कान् आभरणविशेषान् इयत्ताविशेषविशिष्टानि वा सुवर्णानि शतसंख्याकानि । शतं सहस्रम् इत्यपरिमितवचनः । अपरिमितान् सद्यः प्रार्थनानन्तरमेव कक्षीवान् अहम् आदम् आत्तवानस्मि स्वीकृतवानस्मीत्यर्थः । तथा प्रयतान् शुद्धान् लक्षणोपेतान् अश्वान् अध्वगमनसमर्थान् हयान् आदम् आत्तवान् । तथा गोनां पुंगवानां बलीवर्दानामित्यर्थः । उत्तरमन्त्रे स्त्रीगवीनामभिधानात् । तेषां शतम् आदम् । एवं प्रदाता राजा दिवि द्युलोके श्रवः कीर्तिम् अजरं शाश्वतीम् आ ततान विस्तारितवान् । गवादिप्रतिग्रहीता अहं स्वर्गे कीर्तिमकरवमित्यर्थः ॥
“From which genitive rous prince, soliciting (my acceptance), I, Kakṣīvat, unhesitatingly accepted a hundred niṣkas, a hundred vigorous steeds, and a hundred bulls, whereby he has spread his imperishable fame through heaven.”
A hundred necklets from the King, beseeching, a hundred gift-steeds I at once accepted;
Of the lord's cows a thousand, I Kaksivan. His deathless glory hath he spread to heaven.
A hundred neck-ornaments of the king in want (of fame), a hundred horses I took as soon as they were offered;
a hundred cows of the lord (I), Kakṣīvant, (have taken). (Now) his
unaging fame stretches to heaven.
Hundert Goldstücke des bedrängten Königs, hundert Rosse habe ich zum Geschenk an einem Tage empfangen, hundert Rinder des göttlichen ich [der Dichter], Kakschīvat; zum Himmel verbreitete seinen unvergänglichen Ruhm der Geber.
Hundert Goldstücke, hundert Rosse erhielt ich sofort von dem in Nöten befindlichen Könige als Geschenk, hundert Rinder, ich Kaksivat von dem Gebieter. Bis zum Himmel hat er seinen unverwelklichen Ruhm ausgedehnt.
Сто слитков золота от царя, взывающего о помощи,
Сто подаренных коней я получил сразу,
Сто коров – я, Какшивант, от владыки.
До неба протянулась (его) немеркнущая слава.
उप॑ मा श्या॒वाः स्व॒नये॑न द॒त्ता व॒धूम॑न्तो॒ दश॒ रथा॑सो अस्थुः । ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ॑ अभिपि॒त्वे अह्ना॑म् ॥
उप॑ । मा॒ । श्या॒वाः । स्व॒नये॑न । द॒त्ताः । व॒धूऽम॑न्तः । दश॑ । रथा॑सः । अ॒स्थुः॒ । ष॒ष्टिः । स॒हस्र॑म् । अनु॑ । गव्य॑म् । आ । अ॒गा॒त् । सन॑त् । क॒क्षीवा॑न् । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् ॥
स्वनयेन दत्ता: श्यावाः तद्वर्णाश्वैः युक्तत्वात् श्यावाः वधूमन्तः आरूढाभिर्वधूभिस्तद्वन्तः दश एतत्संख्याकाः रथासः रथाः उप अस्थुः उपस्थिता:। गव्यशब्दो गोसमूहवाची । षष्टिः सहस्रमनु गव्यं षष्ट्यधिकसहस्रं गवां समूहोऽनु आगात् आगतः । ततः आत्मानं परोक्षेण ब्रवीति । तत्सर्वं प्रतिगृह्य अयं कक्षीवान् अह्नां दिवसानां मध्ये अभिपित्वे संनिहितेऽहनि सनत् । स्वीकृतं रथवध्वादिकं स्वपित्रे समर्पयति स्वयं वा स्वीकरोति । अभिपित्वशब्दः आसन्नकालवाची प्रपित्वशब्दः इतिवत् । स च ‘ प्रपित्वेऽभीक इत्यासन्नस्य ' ( निरु. ३. २० ) इति यास्केनोक्तत्वात् आसन्नवचनः । उपसर्गभेदेऽप्यर्थाभेदः ॥
“Ten chariots drawn by bay steeds, and carrying my wives, stood near me, given meby Svanaya; and a thousand and sixty cows followed; these, after a short interval of time, did Kakṣīvat deliver (to his father).”
Horses of dusky colour stood beside me, ten chariots, Svanaya's gift, with mares to draw them.
Kine numbering sixty thousand followed after. Kaksivan gained them when the days were closing.
The dusky (horses) given by Svanaya have come to me, and ten chariots carrying brides.
A thousand and sixty cattle have followed. Kakṣīvant gained them at the suppertime [=evening] of the days.
Braune von Svanaya geschenkte Rosse und zehn mit Zugthieren versehene Wagen sind mir zu Theil geworden, sechzigtausend Rinder sind mir verliehen, Kakschīvat empfing sie bei des Tages Einkehr [d.h. am Abend].
Die Rappen, die Svanaya geschenkt, zehn Wagen samt Frauen sind auf mich zugekommen. Eine Kuhherde von tausend und sechzig folgte hinterdrein. Als die Opfertage zu Ende gingen, empfing Kaksivat den Lohn.
Даны мне вороные кони, подаренные Сванаей,
Десять колесниц с женщинами.
(За ними) последовало стадо из тысячи шестидесяти коров.
Получил Какшивант (награду) в конце дней (жертвоприношения).
च॒त्वा॒रिं॒शद्दश॑रथस्य॒ शोणा॑: स॒हस्र॒स्याग्रे॒ श्रेणिं॑ नयन्ति । म॒द॒च्युत॑: कृश॒नाव॑तो॒ अत्या॑न्क॒क्षीव॑न्त॒ उद॑मृक्षन्त प॒ज्राः ॥
च॒त्वा॒रिं॒शत् । दश॑ऽरथस्य । शोणाः॑ । स॒हस्र॑स्य । अग्रे॑ । श्रेणि॑म् । न॒य॒न्ति॒ । म॒द॒ऽच्युतः॑ । कृ॒श॒नऽव॑तः । अत्या॑न् । क॒क्षीव॑न्तः । उत् । अ॒मृ॒क्ष॒न्त॒ । प॒ज्राः ॥
दशरथस्य दशसंख्याकरथवतः सहस्रस्य सहस्रसंख्याकानुचरोपेतस्य कक्षीवतो गोयूथसहस्रस्य वा अग्रे पुरस्तात् शोणाः शोणवर्णोपेता: अश्वाः चत्वारिंशत् एकैकस्य रथस्य चतुष्टये सति दशरथानां मिलित्वा चत्वारिंशदश्वा भवन्ति । तेऽपि श्रेणिं पङ्क्तिमाश्रित्य नयन्ति रथान् अभिमतदेशं प्रापयन्ति । यद्वा । अश्वनियुक्तान् रथान् श्रेणिं श्रेणीभावं नयन्ति प्रापयन्ति । एकैकं रथं चत्वारश्चत्वारः पङ्क्त्याकारेण वहन्तीत्यर्थः । अथ तान् कक्षीवन्तः । कक्ष्या अश्वसंबन्धिनी रज्जुः । कक्ष्या रज्जुरश्वस्य ' ( निरु. २. २ ) इति यास्केनोक्तत्वात् । ताभिस्तद्वन्तः । यद्वा । अङ्गिरसः पुत्राः सर्वेऽपि कक्षीवन्तः । अथवा कक्षीवदनुचराः सर्वेऽपि छत्रिन्यायेन कक्षीवन्तः । पज्राः घासाद्यन्नवन्तः सन्तः मदच्युतः मदस्राविण: उद्वृत्तान् शत्रूणां मदस्य च्यावयितॄन् वा कृशनावतः सुवर्णमयनानाभरणयुक्तान् । कृशनमिति हिरण्यनाम ‘कृशनं लोहम् (नि. १. २. ७ ) इति तन्नामसु पाठात् । सुवर्णाभरणोपेतान् अत्यान् सततगमनशीलानश्वान् उदमृक्षन्त अध्वश्रमजनितस्वेदापनयनाय उत्कृष्टं मार्जयन्ति ।
“Forty bay horses, (harnessed) to the chariots, lead the procession in front of a thousand (followers). The Pajras, the kinsmen of Kakṣīvat, rub down the high-spirited steeds, decorated with golden trappings.”
Forty bay horses of the ten cars' master before a thousand lead the long procession.
Reeling in joy Kaksivan's sons and Pajra's have grounded the coursers decked with pearly trappings.
Forty sorrel (horses) of the ten-wagon train lead at the front a rank of a thousand (cows).
Steeds arousing delight, covered with pearls, have the Kakṣīvants, the Pajras swept up.
Vierzig braune Rosse des Daçaratha eröffnen die Reihe von tausend Rossen; muntere, perlengeschmückte Renner trugen die Kakschīvat's und Padschra's davon.
Vierzig Rotfüchse, des Zehnwagenzuges führen an der Spitze die Reihe der tausend Kühe. Die Kaksivat´s, die Pajara´s haben die stolzierenden, mit Perlen behängten Rosse für sich als Ehrenteil bekommen.
Сорок рыжих коней, (запряженных) в десять колесниц,
Индра впереди, ведя строй в тысячу коров.
Гарцующих, украшенных жемчугом скакунов
Взяли себе люди из рода Какшиванта, Паджры.
पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा॑यसो॒ गाः । सु॒बन्ध॑वो॒ ये वि॒श्या॑ इव॒ व्रा अन॑स्वन्त॒: श्रव॒ ऐष॑न्त प॒ज्राः ॥
पूर्वा॑म् । अनु॑ । प्रऽय॑तिम् । आ । द॒दे॒ । वः॒ । त्रीन् । यु॒क्तान् । अ॒ष्टौ । अ॒रिऽधा॑यसः । गाः । सु॒ऽबन्ध॑वः । ये । वि॒श्याः॑ऽइव । व्राः । अन॑स्वन्तः । श्रवः॑ । ऐष॑न्त । प॒ज्राः ॥
इदानीमानीतं धनं बन्धुभ्यो निवेदयन्नाह । हे सुबन्धवः पूर्वां प्रयतिं पूर्वप्रदानम् अनु तमनुसृत्य वक्ष्यमाणानि रथादीनि वः युष्मदर्थम् आ ददे स्वीकृतवानस्मि । यद्वा । पूर्वां प्रयतिं प्रदेयं रथादिकम् अनु दानक्रमेणैव आ ददे प्रतिगृहीतवानस्मि । कानि तानीति । त्रीन् अष्टौ च युक्तान् चतुर्भिश्चतुर्भिरश्वैर्धनैर्वा युक्तान् रथानिति शेषः । अत्र संख्यापृथग्निर्देशो न विवक्षितः । तथा अरिधायसः अरिभिरीश्वरैर्धारणीयाः बहुमूल्याः असंख्याताः गाः च आ ददे । अत्र वक्ष्यमाणानि पूर्वं प्रतिगृहीतादधिकानीति युक्तम् । पूर्वमेव पित्रे निवेदितानां पुनर्बन्धुभ्यो निवेदनासंभवात् वधूमन्तो दश रथासो अस्थुः ' ( ऋ. सं. १, १२६. ३ ) इति दशानां रथानामुक्तत्वात् अत्र च त्रीनष्टौ इत्येकादशानां वक्ष्यमाणत्वात् वधूविशिष्टानाम् अन्येभ्यो दातुमनुचितत्वाच्च अन्यानीति युक्तम् । उक्तानामेव अनुवदनपक्षे दशवधूयुक्ता रथा एको धनपूर्णं इति विवेकः । उक्तानामेव रथादीनां पुनरभिधानं प्रकृष्टत्वज्ञापनार्थम् । सर्वे ब्राह्मणा आगता वसिष्ठश्चागत इतिवत् । इदानीं परोक्षेणाह । सुबन्धवः शोभना विद्यायोनिसंबन्धिनः येषां ते तथोक्ताः । यद्वा । शोभनबान्धवोपेताः परस्परमनुरागयुक्ता इत्यर्थः । विशः प्रजाः । तत्र भवाः विश्याः । व्रियन्त इति व्राः व्राताः ॥ तकारलोपश्छान्दसः ॥ विशां व्राता यथा परस्परमनुरागवन्तः तथा एतेऽपीत्यर्थः। पज्राः अन्नवन्तोऽङ्गिरसः संतानप्रभवा ये सन्ति ते सर्वे सुबन्धवः अनस्वन्तः शकटवन्तः हविर्धानशकटोपलक्षितसोमयागवन्तः सन्तः श्रवः सर्वत्र श्रूयमाणां कीर्तिम् ऐषन्त इच्छन्ति इच्छन्तु वा । तदर्थम् आ ददे इति शेषः ॥
“I have accepted a prior grant, (kinsmen), for you; three and eight harnessed chariots and cattle of incalculable value; may the kindred Pajras, like well-disposed relations, be desirous of acquiring renown by their abundant offerings.”
An earlier gift for you have I accepted eight cows, good milkers, and three harnessed horses,
Pajras, who with your wains with your great kinsman, like troops of subjects, have been fain for glory.
Following the previous presentation, I got for you three yoked (horses?) and eight cows that suckle the stranger—
(for you,) the Pajras, who sought fame—as those of good lineage
provided with (wedding-)carts seek maidens with a choice, appropriate to their clan.
Nach der früheren Darreichung empfing ich von euch drei angeschirrte Rosse und acht reichlich milchende Kühe; die zum Stamme gehörigen, schöne Verwandte habenden Padschra's erlangten Ruhm.
Nach der ersten Schenkung bekam ich für euch drei bespannte Wagen, acht auch den reichen Herren ernährende Kühe für die lieben Verwandten, die auf Karren wie die Clandirnen fahrend den Ruhm für sich begehrten, die Pajra´s.
Вслед за первым дарением я получил для вас
Три запряженных (конями колесницы), восемь коров, насыщающих хозяина,
Для (тех) добрых родственников, Паджров, кто, словно женщины племени
(Прибыв) на повозках, искали себе славы.
आग॑धिता॒ परि॑गधिता॒ या क॑शी॒केव॒ जङ्ग॑हे । ददा॑ति॒ मह्यं॒ यादु॑री॒ याशू॑नां भो॒ज्या॑ श॒ता ॥
आऽग॑धिता । परि॑ऽगधिता । या । क॒शी॒काऽइ॑व । जङ्ग॑हे । ददा॑ति । मह्य॑म् । यादु॑री । याशू॑नाम् । भो॒ज्या॑ । श॒ता ॥
संभोगाय प्रार्थितो भावयव्यः स्वभार्यां रोमशामप्रौढेति बुद्ध्या परिहसन्नाह । भोज्या भोगयोग्यैषा आगधिता आ समन्तात् गृहीता स्वीकृता । तथा परिगधिता परितो गृहीता । आदरातिशयाय पुनर्वचनम् । ‘ गध्यं गृह्णातेः ' ( निरु. ५, १५) इति यास्कः । यद्वा । आगधिता आ समन्तात् मिश्रयन्ती। आन्तरं प्रजननेन बाह्यं भुजादिभिरित्यर्थः । ‘ गध्यतिर्मिश्रीभावकर्मा ' (निरु. ५. १५) इति यास्कः । पूर्वस्मिन् पक्षे पुरुषस्य प्राधान्यम् उत्तरस्मिंस्तु योषितः इति भेदः । कीदृशी सा । या अङ्गहे अत्यर्थं गृह्णाति कदाचिदपि न मुञ्चति । अत्यागे दृष्टान्तः । कशीकेव । कशीका नाम सूतवत्सा नकुली । सा यथा पत्या सह चिरकालं क्रीडति न कदाचिदपि विमुञ्चति तथैषापि । किंच भोज्यैषा यादुरी । यादुरिति उदकनाम । रेतोलक्षणमुदकं प्रभूतं ददातीति यादुरी । बहुरेतो युक्तेत्यर्थः । तादृशी सती याशूनां संभोगानाम् । यश इति प्रजनननाम । तत्संबन्धीनि कर्माणि याशूनि भोगाः । तेषां शता शतानि असंख्यातानि मह्यं ददाति ॥ रोमशा नाम बृहस्पतेः पुत्री ब्रह्मवादिनी परिहसन्तं स्वपतिं प्रत्याह ॥
“She, who, when her desires are assented to, clings as tenaciously as a feminine le weasel, and who is ripe for enjoyment, yields me infinite delight.”
[Ille loquitur]. Adhaerens, arcte adhaerens, illa quae mustelae similis se abdidit, multum humorem effundens, dat mihi complexuum centum gaudia.
She who, when squeezed and squished, keeps stinking like a mongoose— fusing (with me), the woman to be enjoyed [/coiled around] gives me hundreds of “spurts”—
Die angeklammerte, die umklammerte, die wie ein Wiesel sich versteckte, die Flüssigkeit ergiessende gewährt mir hundert Genüsse liebender Umarmungen.
Die angedrückt, umarmt wie das Ichneumondweibchen sich abzappelt, die wollüstige gewährt mir hundert Liebesgenüsse.
(Та,) что трепещет, как самка кашики,
Когда ее прижмут (и) обхватят,
Сладострастная дает мне
Сто упоительных любовных излияний.
उपो॑प मे॒ परा॑ मृश॒ मा मे॑ द॒भ्राणि॑ मन्यथाः । सर्वा॒हम॑स्मि रोम॒शा ग॒न्धारी॑णामिवावि॒का ॥
उप॑ऽउप । मे॒ । परा॑ । मृ॒श॒ । मा । मे॒ । द॒भ्राणि॑ । म॒न्य॒थाः॒ । सर्वा॑ । अ॒हम् । अ॒स्मि॒ । रो॒म॒शा । ग॒न्धारी॑णाम्ऽइव । अ॒वि॒का ॥
भो पते मे माम् । द्वितीयार्थे चतुर्थी । उपोप । द्वितीय उपशब्दः पादपूरणः । उपेत्य परा मृश सम्यक् स्पृश । भोगयोग्यमवगच्छेत्यर्थः । यद्वा । मे मम गोपनीयमङ्गम् उपोप पर मृश अत्यन्तमान्तरं स्पृश। परामर्शभावशङ्कां निवारयति । मे मदङ्गानि रोमाणि दभ्राणि मा मन्यथाः अल्पानि मा बुध्यस्व । ‘दभ्रमर्भकमित्यल्पस्य' इति दभ्रं दभ्नोतेः ' (निरु. ३. २०) इति यास्कः । अदभ्रत्वमेव विशदयति । अहं रोमशा बहुरोमयुक्ता अस्मि । यतोऽहमीदृशी अतः सर्वा संपूर्णावयवास्मि । रोमशत्वे दृष्टान्तः । गन्धारीणाम् अविका इव । गन्धाराः देशाः । तेषां संबन्धिनी अविजातिरिव । तद्देशस्थाः अवयो मेषाः यथा रोमशाः तथा अहमस्मि। यद्वा । गन्धारीणां गर्भधारिणीनां स्त्रीणाम् अविका अत्यर्थं तर्पयन्ती योनिरिव । तासाम् आ प्रसवं रोमादिविकर्तनस्य शास्त्रे निषिद्धत्वात् योनी रोमशा भवति । अतः सा उपमीयते । यतोऽहमीदृशी अतो माम् अप्रौढां मा अवबुध्यस्वेत्यर्थः ॥ ॥ ११ ॥ ॥ १८ ॥
“Approach me, (husband); deem me not immature; I am covered with down like a eve of the gandhārins.”
[Ille loquitur]. Prope, prope accede; molliter me tange. Ne putes pilos corporis mei-paucos esse: tota sum villosa sicut Gandharium ovis.
(Saying,) “Feel me up—keep going further. Don’t belittle my “little things [=private parts].
I am entirely hairy, like a little ewe of the Gandhāris.”
Hymns I.127–139 are attributed to Paruchepa Daivodāsi. This poet is especially fond of the long and elaborate atyaṣṭi meter, consisting of seven pādas, generally arranged in three groups: 12 12 8 / 8 8 / 12 8. The eight-syllable pādas that end the first and third “lines” (that is, pādas c and g) generally ring changes on the pāda that precedes, by repetition of the last word(s), by lexical substitution of synonyms, or by syntactic complementarity. A simple example of the first is I.127.1c, which repeats the epithet jātávedasam, which also ended 1b. Lexical substitution is found in 1g, where sarpíṣaḥ “of the melted butter” replaces ghr̥tásya “of the ghee” in 1f. Sometimes the “rhyme” pāda contributes material necessary to complete the syntax established in the preceding pāda. See I.127.2fg, where the rhyme pāda g provides the verb that must be supplied in the relative clause in pāda f. There are more com plex relationships as well, including what will later be called śleṣas, with a word or construction having two possible and incompatible readings. A nice example is I.127.3bc, where the form druhaṃtaráḥ can be analyzed either as druhaṃ-tará “over
coming deceit” or dru-hantara “better at striking wood,” the former prevailing in pāda b and the latter, because of the simile “like an axe,” in pāda c. This patterned variation creates a pleasing effect. (In our translation the three groups of pādas are separated into three lines, and the rhyme pādas c and g are set off by dashes.)
Paruchepa is also fond of rare words, sometimes phonetic deformations of parallel words in the same verse, puns, and contorted syntactic constructions, and many of the puzzles in his hymns have not been completely solved. But Geldner’s judgment of his poetry—“wortreich, aber gedankenarm” (rich in words, but poor in thoughts)—seems harsh and unjustified. These poems are difficult to work through, but their verbal artistry and intricacy seem to us to provide a more than sufficient reward.
»Schmiege dich eng, ganz eng an mich an; nicht mögest du mir geringes zumuthen; ich bin ganz behaart, wie der Gandhārī's Schafmutter (?).«
Faß mich doch daran, glaub nicht, daß ich nur wenige Haare habe. Ich bin ganz behaart wie ein Schäfchen der Gandhari´s.
Прижмись ко мне покрепче!
Не думай, что у меня их мало:
Я вся покрыта волосками,
Как овечка у Гандхари!