यं त्वं रथ॑मिन्द्र मे॒धसा॑तयेऽपा॒का सन्त॑मिषिर प्र॒णय॑सि॒ प्रान॑वद्य॒ नय॑सि । स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒ करो॒ वश॑श्च वा॒जिन॑म् । सास्माक॑मनवद्य तूतुजान वे॒धसा॑मि॒मां वाचं॒ न वे॒धसा॑म् ॥
यम् । त्वम् । रथ॑म् । इ॒न्द्र॒ । मे॒धऽसा॑तये । अ॒पा॒का । सन्त॑म् । इ॒षि॒र॒ । प्र॒ऽनय॑सि । प्र । अ॒न॒व॒द्य॒ । नय॑सि । स॒द्यः । चि॒त् । तम् । अ॒भिष्ट॑ये । करः॑ । वशः॑ । च॒ । वा॒जिन॑म् । सः । अ॒स्माक॑म् । अ॒न॒व॒द्य॒ । तू॒तु॒जा॒न॒ । वे॒धसा॑म् । इ॒माम् । वाच॑म् । न । वे॒धसा॑म् ॥
हे इन्द्र इषिर यज्ञगमनशील त्वं मेधसातये यज्ञस्य दानाय लाभाय वा यं यजमानं प्रति रथं प्रणयसि प्रापयसि ॥ द्विकर्मकोऽयम् ॥ कीदृशं यजमानम् । अपाका अपाकम् अनल्पप्रज्ञयाधिकारवन्तम्। 'पाकः पक्तव्यो भवति' (निरु. ३. १२) इति यास्कः । अत एव सन्तं पण्डितं सन्तम् । किंच हे अनवद्य अनिन्दित यं यजमानं धनविद्यादिना प्र नयसि प्रकृष्टं नयसि । तं यजमानं सद्यश्चित् तदानीमेव तदनुग्रहकाले एव अभिष्टये आभिमुख्येन यागाय अभिमतप्राप्तये वा ॥ अभिपूर्वात् इषेः क्तिन् । शकन्ध्वादित्वात् पररूपत्वम् । गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ करः समर्थं करोषि ॥ लेटि व्यत्ययेन शप् ॥ एवं कृत्वा च वाजिनं हविर्लक्षणमन्नं तद्वन्तं वा वशः कामयसे च ॥ वष्टेर्लेटि अडागमः । तिङः परत्वादनिघातः ॥ यजमानेनाहूतः सन् शीघ्रमेवागत्य हविः स्वीकृत्य यागं साधु निर्वर्त्य तं चाभिमतफलेन संयोज्य पुनर्हविः स्वीकरोषीत्यर्थः । हे इन्द्र अनवद्य अनिन्दित सर्वैः स्तूयमान तूतुजान अस्माननुग्रहीतुं त्वरमाण ॥ तुजेः प्रेरणार्थात् लिटः कानच् । ' तुजादीनां दीर्घोऽभ्यासस्य ' इत्यभ्यासस्य दीर्घत्वम् । सः त्वम् ॥ ' सोऽचि लोपे चेत् ' इति संहितायां सोर्लोपः ॥ वेधसां विविधफलकर्तॄणां मध्ये श्रेष्टतया वेधसां मेधाविनाम् अस्माकं संबन्धि हविः स्वीकुर्वित्यर्थः । तत्र दृष्टान्तः । इमां वाचं न अस्मदीयां स्तुतिरूपां वाचमिव । स्तुतिं यथा स्वीकरोषि तथा हविरपीत्यर्थः ॥
“Indra, frequenter of sacrifices, quickly enable him to attain his desires, to whom you repair in your car to receive the oblation; and for whom, as he is mature (in understanding) and devout, you who are without fault, entertain regard. Accept his offering, for you who are without fault, are prompt to favour us (among) the pious (offerrs of oblations) as (you accept) this our praise.”
THE car which Indra, thou, for service of the Gods though it be far away, O swift One, bringest near, which, Blameless One, thou bringest near,
Place swiftly nigh us for our help: be it thy will that it be strong.
Blameless and active, hear this speech of orderers, this speech of us like orderers.
The chariot which you, o vigorous Indra, lead forward to gain
wisdom, though it [=chariot] is far away—(which) you lead forward, faultless one—
just in a single day you will make it to prevail as a prizewinner if you so desire.
(Thrust forward) (this chariot) for us, the ritual adepts, you faultless thruster—like this speech for (us,) the ritual adepts.
Den Wagen, den, o Indra, du zum Opferfest, da fern er war, o munterer, nun zu uns führst, o makelloser, zu uns führst, Den schaff uns schnell zur Hülfe her, und nimm den Spender willig an; Und auch, o makelloser, eilender, den Spruch, auch diesen Spruch der Opferer.
Wenn du den Wagen, der im Hintertreffen ist, o raschhandelnder Indra, vorauslenkst, um den Preis zu gewinnen, du Tadelloser vorauslenkst, so wirst du ihn sofort zur Überlegenheit bringen, zum Sieger machen, wenn du willst - das sei unser, der Meister, Wagen. Du Draufgänger ohne Tadel - so wie diese Rede der Meister.
Та колесница, о Индра, находящаяся позади, которую
Ты продвигаешь вперед, о стремительный, для завоевания награды,
Ты продвигаешь вперед, о безупречный, –
Сразу же сделай ее (способной) превзойти (всех)
И пожелай, чтобы она стала победительницей!
Ведь она наша, о безупречный, о мощно разящий, (она у) устроителей обряда,
(Так продвинь ее вперед,) как (и) эту речь устроителей обряда!
स श्रु॑धि॒ यः स्मा॒ पृत॑नासु॒ कासु॑ चिद्द॒क्षाय्य॑ इन्द्र॒ भर॑हूतये॒ नृभि॒रसि॒ प्रतू॑र्तये॒ नृभि॑: । यः शूरै॒: स्व१॒॑: सनि॑ता॒ यो विप्रै॒र्वाजं॒ तरु॑ता । तमी॑शा॒नास॑ इरधन्त वा॒जिनं॑ पृ॒क्षमत्यं॒ न वा॒जिन॑म् ॥
सः । श्रु॒धि॒ । यः । स्म॒ । पृत॑नासु । कासु॑ । चि॒त् । द॒क्षाय्यः॑ । इ॒न्द्र॒ । भर॑ऽहूतये । नृऽभिः॑ । अ॒सि॒ । प्रऽतू॑र्तये । नृऽभिः॑ । यः । शूरैः॑ । स्वरिति॑ स्वः॑ । सनि॑ता । यः । विप्रैः॑ । वाज॑म् । तरु॑ता । तम् । ई॒शा॒नासः॑ । इ॒र॒ध॒न्त॒ । वा॒जिन॑म् । पृ॒क्षम् । अत्य॑म् । न । वा॒जिन॑म् ॥
हे इन्द्र सः वक्ष्यमाणगुणविशिष्टस्त्वं श्रुधि अस्मदाह्वानं स्तोत्रं वा शृणु ॥ हेर्धिभावः ॥ यः स्म यः खलु त्वं नृभिः मनुष्यैरेव सद्धिः पश्चाद्देवत्वमापन्नैर्मरुद्भिः । पुनस्त एव विशेष्यन्ते । नृभिः संग्रामनयनशीलैः । इन्द्रस्य मरुतां सहाय्यम् ‘इन्द्रो मरुद्भिः' (तै. सं. ६. ५. ५. १ ), ‘ मरुतो हैनं नाजहुः ' ( ऐ. ब्रा. ३. २० ) इत्यादिषु प्रसिद्धम् । तैः सहितः सन् कासु चित् पृतनासु सर्वासु प्रौढेष्वपि संग्रामेषु भरहूतये भरणविशिष्टाह्वानयुक्ताय प्रतूर्तये प्रकृष्टहिंसनाय । यद्वा । भरहूतये ‘शूरो भव प्रहर' इत्येवमादिभरणयुक्ताह्वानाय प्रतूर्तये च शूराणां प्रकृष्टवधाय च । दक्षाय्यः असि प्रवर्धनशीलोऽसि । यद्वा । नृभिः नेतृभिर्यजमानैः प्रार्थितः सन् प्रतूर्तये शत्रूणां पापानां वा प्रकृष्टहिंसनाय दक्षाय्यः असि समर्थोऽसि । किंच यः त्वं शूरैः शौर्योपेतैर्मरुद्भिः अन्यैर्भटैर्वा सहितः सन् 'स्वः स्वयमेव सनिता संग्राममयस्य अन्यस्य वा मनीषितस्य सनिता संभक्तासि । सत्यपि तेषां साहित्ये अन्यनैरपेक्ष्येणैव तरुता असि इत्यर्थः ॥ तरतेस्तृनि ‘ग्रसितस्कभित' इत्यादौ निपात्यते ॥ यः च त्वं विप्रैः मेधाविभिर्ऋत्विग्भिः स्तुतः सन् वाजं तरुता तेभ्योऽन्नस्य दातासि । विप्रैर्मरुद्भिः सहितः इति संबन्धः । तं तादृशं वाजिनं गमनवन्तं पृक्षं हविर्लक्षणान्न वन्तमिन्द्रम् ईशानासः सम्यगभ्यर्थयितुं समर्था ऋत्विजः इरधन्त संराधन्ति सेवन्ते । तत्र दृष्टान्तः । 'वाजिनं वेजनवन्तं गमनवन्तं पृक्षं घासाद्यन्नवन्तम् अत्यं न अश्वमिव । तं यथा समर्थाः स्वादुघासत्रदानादिना पोषयन्ति तद्वत् । अत्य इत्यश्वनाम ‘ अत्यः हयः ' ( नि. १. १४. १ ) इति तन्नामसु पठितत्वात् ॥
“Hear our invocation, Indra; you who in various battles (associated) with the Maruts, are animated through their encouragement; (and are able), with the Maruts, to destroy (your foes); (for you are) he, who, (aided) by heroes, are of yourself the giver (of victory); or, (when praised) by the pious, the giver of food, and whom the lords (of prayer) celebrate as swift-moving and eager (for sacrificial food), like a fleet courser (eager for forage).”
Hear, Indra, thou whom men in every fight must call to show thy strength, for cry of battle with the men, with men of war for victory.
He who with heroes wins the light, who with the singers gains the prize,
Him the rich seek to gain even as a swift strong steed, even as a courser fleet and strong.
Listen—you who in every battle are to be besought by men for your skill for the battle cry, Indra—by men for your skill for the charge—
who with the champions win the sun, who with the poets overtake
the prize.
Those showing mastery set him to succeed as their prizewinner—a
fortifying power like a prizewinning steed.
O höre, Indra, den in jeder Schlacht die Männerschar gewinnen muss, um dich zu rufen zu dem Kampf, die Männerschar zum Schlachtgewinn, Die Helden, dass du Glanz verschaffst, die Sänger, dass du Beute machst, Dich beutereichen stimmen hold die mächtigen, dich, wie ein beutereiches Ross.
Höre du, Indra, der du in jedweden Kämpfen von den Männern zum Streitruf günstig gestimmt werden musst, von den Männern zum Vordringen, der mit den Tapferen die Sonne gewinnt, der mit den Redekundigen den Siegerpreis erringt - ihn machen die Mächtigen geneigt, den Sieggewohnten, den Starken wie ein sieggewohntes Rennpferd!
Услышь, о Индра, тот самый, кого в любых сражениях
Должны расположить к себе мужи для зова на бой,
Мужи – для прорыва вперед,
Кто завоевывает солнце вместе с героями,
Кто добывает награду вместе с вдохновенными.
Его стремятся покорить могучие – приносящего награду,
Сильного, приносящего награду, как скакун.
द॒स्मो हि ष्मा॒ वृष॑णं॒ पिन्व॑सि॒ त्वचं॒ कं चि॑द्यावीर॒ररुं॑ शूर॒ मर्त्यं॑ परिवृ॒णक्षि॒ मर्त्य॑म् । इन्द्रो॒त तुभ्यं॒ तद्दि॒वे तद्रु॒द्राय॒ स्वय॑शसे । मि॒त्राय॑ वोचं॒ वरु॑णाय स॒प्रथ॑: सुमृळी॒काय॑ स॒प्रथ॑: ॥
द॒स्मः । हि । ष्म॒ । वृष॑णम् । पिन्व॑सि । त्वच॑म् । कम् । चि॒त् । या॒वीः॒ । अ॒ररु॑म् । शू॒र॒ । मर्त्य॑म् । प॒रि॒ऽवृ॒णक्षि॑ । मर्त्य॑म् । इन्द्र॑ । उ॒त । तुभ्य॑म् । तत् । दि॒वे । तत् । रु॒द्राय॑ । स्वऽय॑शसे । मि॒त्राय॑ । वोच॑म् । वरु॑णाय । स॒ऽप्रथः॑ । सु॒ऽमृ॒ळी॒काय॑ । स॒ऽप्रथः॑ ॥
हे इन्द्र त्वं दस्मो हि शत्रूणाम् उपक्षपणकर्ता खलु। अत एव कारणात् वृषणं स्वतो वर्षणशालं त्वचं संवरणवन्तं पुटबन्धनवदुदकवेष्टनवन्तं कं चित् जलधारिणं मेघं पिन्वसि निर्भिद्य सेचयसि । किंच मर्त्यं मर्त्यवत् अररुम् अरणशीलं गमनस्वभावं कंचिन्मेघं हे शूर विक्रान्त यावीः मिश्रयसि ॥ यौतेश्छान्दसे लुङि छान्दसः अडभावः ॥ अवर्षणेन गच्छन्तं बलान्निगृह्य वर्षयसीत्यर्थः । यथा शूरः कश्चित् बलवन्तं गच्छन्तं वैरिणं निगृह्य स्वीकरोति तद्वदित्यर्थः । तथा मर्त्यं मरणशीलं शीर्यमाणस्वभावं निरुदकं कंचिन्मेघं परिवृणक्षि सर्वतो वर्जयसि औदासीन्यं करोषीत्यर्थः । हे इन्द्र तत् तादृशं कर्म वर्षणरूपं सप्रथः सर्वतः पृथु यथा भवति तथा तुभ्यं वोचं ब्रवीमि । इन्द्र एव विशेष्यते । स्वयशसे स्वकीययशोयुक्ताय । तथा 'दिवे उत त्वदाश्रयभूतायै द्युलोकदेवतायै अपि तत् तादृशं कर्म वोचं ब्रवीमि । उतशब्दोऽपिशब्दार्थः । वर्षणकर्मणो द्युदेवताया आनुकूल्यात् तस्या अपि वचनं युक्तम् । तथा रुद्राय जगतां दुःखद्रावयित्रे रोदनशीलाय वा अग्नये तत् वोचम् । ‘ रुद्रो वै क्रूरो यदयमग्निः ' ( तै. सं. ६. २. ३. २ ) इति श्रुतेः रुद्रत्वम् । सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्' (तै. सं. १. ५. १. १ ) इति श्रुतेः रोदनस्वभावत्वं प्रसिद्धम् । तस्य च आहुतिद्वारा वृष्ट्यनुकूलत्वात्तस्यापि कथनं युक्तम् । स्वयशसे इत्यस्य रुद्रायेत्यनेन वा संबन्धः संनिहितत्वाद्योग्यत्वाच्च । स्वकीययशोयुक्तायाग्नये इत्यर्थः । तथा मित्राय अहरभिमानिदेवतायै तत् वोचम् । वरुणाय रात्र्यभिमानिदेवतायै तद्वोचम् ।' अहोरात्रे वै मित्रावरुणौ ' ( तां. ब्रा. २५. १०, १० ), ' अहोरात्राभ्यां खलु वै पर्जन्यो वर्षति' ( तै. सं. २. १. ७.३) इति। तथा ' मैत्रं वा अहर्वारूणी रात्रिः ' ( तै. सं. २. १. ७.३ ) इत्यादिश्रुतिभ्यो मित्रावरुणयोरहोरात्राभिमानिदेवत्वम् । अत एव श्रुतेर्वृष्टिप्रदातृत्वात् ताभ्यामपि प्रथनं युक्तम् । सुमृळीकाय शोभनसुखयित्रे प्रजानाम् । एतत्सर्वत्र संबध्यते । उक्तेभ्यो देवेभ्यः सप्रथः सर्वतः पृथु अतिविस्तीर्णं यथा भवति तथा तद्वर्षणकर्म ब्रवीमि ॥
“You, the subduer (of adversaries), pierce every rain (confining) skin; you overtake, hero, every flying mortal (cloud), and abandon (it) when exhausted (of its water) for such glorious deed, Indra, I offer praise to you; to heaven; to the self-glorifying Rudra; to Mitra; (to each) the benefactor (of mankind) for such glorious (deed).”
Thou, Mighty, pourest forth the hide that holds the rain, thou keepest far away, Hero, the wicked man, thou shuttest out the wicked man.
Indra, to thee I sing, to Dyaus, to Rudra glorious in himself,
To Mitra, Varuna I sing a far-famed hymn to the kind God a far-famed hymn.
For as wondrous one you swell the bullish skin; you keep away every hostile mortal, o champion—(in that) you shun (that) mortal.
Indra, this to you and to heaven, this to self-glorious Rudra,
to Mitra and Varuṇa I proclaim at length—to the very merciful one at length.
Du herrlicher lässt schwellen auch den Regenschlauch, treibst fort, o Held, jedweden bösen Sterblichen, verschmähest solchen Sterblichen, Dir und dem Himmel singe ich, dem Rudra, dem selbstleuchtenden, Dem Varuna und Mitra dies erhabne Lied, Dem gnäd'gen dies erhabene.
Denn du, der Meister, machst den bullengleichen Schlauch schwellen. Mögest du, Tapferer, jedwedem feindseligen Sterblichen wehren, indem du den Sterblichen übergehst. Sowohl dir, Indra, sag ich das, als dem Himmel und dem selbstherrlichen Rudra, dem Mitra, dem Varuna ganz ausführlich, dem barmherzigen ganz ausführlich.
Ведь ты, чудесный, делаешь бурдюк набухшим, (придавая ему) мужскую силу.
Ты, устраняешь, о герой, любого скупца – смертного,
Избегаешь (скупца-) смертного.
О Индра, тебе я хочу произнести это, а также небу,
Это – Рудре, обладающему собственным блеском,
Митре, Варуне – пространное (слово),
Милосердному – пространное (слово).
अ॒स्माकं॑ व॒ इन्द्र॑मुश्मसी॒ष्टये॒ सखा॑यं वि॒श्वायुं॑ प्रा॒सहं॒ युजं॒ वाजे॑षु प्रा॒सहं॒ युज॑म् । अ॒स्माकं॒ ब्रह्मो॒तयेऽवा॑ पृ॒त्सुषु॒ कासु॑ चित् । न॒हि त्वा॒ शत्रु॒: स्तर॑तेः स्तृ॒णोषि॒ यं विश्वं॒ शत्रुं॑: स्तृ॒णोषि॒ यम् ॥
अ॒स्माक॑म् । वः॒ । इन्द्र॑म् । उ॒श्म॒सि॒ । इ॒ष्टये॑ । सखा॑य । वि॒श्वऽआ॑युम् । प्र॒ऽसह॑म् । युज॑म् । वाजे॑षु । प्र॒ऽसह॑म् । युज॑म् । अ॒स्माक॑म् । ब्रह्म॑ । ऊ॒तये॑ । अव॑ । पृ॒त्सुषु॑ । कासु॑ । चि॒त् । न॒हि । त्वा॒ । शत्रुः॑ । स्तर॑ते । स्तृ॒णोषि॑ । यम् । विश्व॑म् । शत्रु॑म् । स्तृ॒णोषि॑ । यम् ॥
हे ऋत्विजः अस्माकम् अस्मदर्थं वः युष्मदर्थं च इष्टये यागाय अभिमतैषणाय वा इन्द्रम् उश्मसि अभिमतं कामयामहे ॥ ‘वश कान्तौ' । आदादिकः । इदन्तो मसिः । ‘ग्रहिज्या ' इत्यादिना संप्रसारणम्॥ यद्वा । अस्माकं सखायम्' इति संबन्धः । कीदृशमिन्द्रम् । सखायं सखिवदत्यन्तहितकारिणं समानख्यानं वा विश्वायुं विश्वेषां यागानां गन्तारं प्रासहं प्रकर्षेण शत्रूणां मर्षयितारम् ॥ सहेः क्विप्'। ‘ नहिवृति' इत्यादिना उपसर्गस्य दीर्घः ॥ युजं सर्वदा युक्तं सहायभूतमित्यर्थः। पुनः स एव विशेष्यते । वाजेषु हवीरूपान्नेषु तद्वत्सु यज्ञेषु वा निमित्तभूतेषु प्रासहं यज्ञविघातिनः सहमानं युजम् अभिमतफलैर्युक्तं मरुद्भिर्वा । किंच हे इन्द्र अस्माकम् ऊतये रक्षणाय ब्रह्म परिवृढं कर्म अव रक्ष। कस्तत्र विशेष इति तत्राह। कासु चित् पृत्सु संग्रामेषु । ' पृत्सु समत्सु (नि. २. १७. २१) इति संग्रामनामसु पाठात् तन्नामत्वम् । तेषु त्वा त्वां नहि स्तरते न हिनस्ति । विरोधमाचरति यं स्तृणोषि । यं विश्वं शत्रुं स्तृणोषि वारयसि स कश्चिदपि शत्रुः न हिनस्ति । तव महत्त्वेन सर्वे भीताः विधेया भवन्ति शत्रुभावं न कोऽप्याचरति अजातशत्रुत्वादित्यर्थः ॥
“We desire, (priests), Indra to be present at your sacrifice, (he who is) our friend, the frequenter of all (ceremonies), the endurer (of enemies), the ally (of his worshippers), the patient expecter of (sacrificial) viands, associated (with the Maruts); do you, Indra, guard our holy rite for our preservation, for in whatsoever contests (you may engage), no enemy whom you oppose, prevails against you; you prevail over every enemy whom (you oppose).”
We wish our Indra here that he may further you, the Friend, beloved of all, the very strong ally, in wars the very strong ally
In all encounters strengthen thou our prayer to be a help to us.
No enemy--whom thou smitest down--subdueth thee, no enemy, whom thou smitest down.
We wish to seek Indra as a lifelong comrade for ourselves, a victorious yokemate—in the prize-contests a victorious yokemate.
(O Indra,) help our sacred formulations to help in every battle,
for a rival will not lay you low whom you lay low—any rival whom you lay low.
Wir wünschen unsern Indra zur Erquickung euch, den starken Helfer und den Freund, der Leben schafft, den starken Helfer in der Schlacht; In allen Kämpfen fördre du zu unsrer Hülfe das Gebet; Denn nimmer stürzet dich ein Feind, du stürzest ihn, du streckst zu Boden jeden Feind.
Wir wünschen, daß euch Indra als unser lebenslänglicher Freund gern komme, als überlegener siegreicher Verbündeter, als der in den Entscheidungskämpfen siegreiche Verbündete. Unser Segenswort bevorzuge zum Beistand in jedweden Kämpfen! Denn kein Feind wird dich niederstrecken, während du ihn niederstreckst, während du jeden Feind niederstreckst.
Мы хотим, чтобы наш Индра искал (добычу) для вас
Как друг на весь век, как могущественный союзник,
В состязаниях за награды – как могущественный союзник.
Поддерживая молитву, отдай предпочтение
Нашей – в любых сражениях!
Ведь ни один враг, кого ты сразишь, не сразит тебя, -
А ты сразишь всякого врага!
नि षू न॒माति॑मतिं॒ कय॑स्य चि॒त्तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभि॑: । नेषि॑ णो॒ यथा॑ पु॒राने॒नाः शू॑र॒ मन्य॑से । विश्वा॑नि पू॒रोरप॑ पर्षि॒ वह्नि॑रा॒सा वह्नि॑र्नो॒ अच्छ॑ ॥
नि । सु । न॒म॒ । अति॑ऽमतिम् । कय॑स्य । चि॒त् । तेजि॑ष्ठाभिः । अ॒रणि॑ऽभिः । न । ऊ॒तिऽभिः॑ । उ॒ग्राभिः॑ । उ॒ग्र॒ । ऊ॒तिऽभिः॑ । नेषि॑ । नः॒ । यथा॑ । पु॒रा । अ॒ने॒नाः । शू॒र॒ । मन्य॑से । विश्वा॑नि । पू॑रोः । अप॑ । प॒र्षि॒ । वह्निः॑ । आ॒सा । वह्निः॑ । नः॒ । अच्छ॑ ॥
हे इन्द्र कयस्य कस्य चित् त्वद्भक्तस्य यजमानस्य अतिमतिम् अतिक्रान्तमननं विरूद्धमनस्कं शत्रुं नि षू नम नितरां सुष्ठु नामय अस्मत्प्रणतं कुरु ॥ अन्तर्भावितण्यर्थोऽयम् ॥ हे उग्र उद्गूर्णबल ऊतिभिः रक्षणैः प्रीतिभिर्वा युक्तः सन् तेजिष्ठाभिः अरणिभिर्न अतिशयेन तेजस्विभिः युद्धादिरूपैः मार्गैः इव ॥ तेजस्वच्छब्दात् अतिशायनिकः इष्ठन्। विन्मतोर्लुक् ।' टेः' इति टिलोपः। अतिमतिं वृत्रादिं यथा नामितवान् तथा अस्मद्विरोधिनमपीत्यर्थः । यद्वा । उत्तरत्रान्वयः । तेजिष्ठाभिः अरणिभिर्न तेजोयुक्तैः गमनसाधनैर्यज्ञादिमार्गैः यथा अस्मान् योजितवानसि तथा उग्राभिः प्रकाशिकाभिः ऊतिभिः रक्षणैः योगफलभूतैः नः अस्मान् नेषि नयसि अभिमतस्वर्गादिफलं प्रापयसीत्यर्थः ॥ नयतेश्छान्दसः शपो लुक् ॥ तत्र दृष्टान्तः । पुरा पूर्वस्मिन् काले अस्मत्पित्रादीन् यथा ऊतिभिः नीतवानसि तथा नेषि इत्यर्थः । हे शूर विक्रान्त त्वम् अनेनाः मन्यसे सर्वैरपापत्वेन अवबुध्यसे स्वर्गाद्यभिमतसाधकत्वादिति भावः । यद्वा । अनेनाः त्वमस्मानपि अनेनसः मन्यसे । किंच हे इन्द्र वह्निः वृष्ट्यादिप्रदानेन जगतां निर्वाहकः सन् पूरोः मनुष्यस्य यजमानस्य । पूरुरिति मनुष्यनाम, ‘पूरवः जगतः (नि. २. ३. २०) इति तन्नामसु पाठात्। तस्य विश्वानि सर्वाणि एनांसि अप पर्षि अपकृत्य पालयसि ॥ पृणातेश्छान्दसः शपो लुक् ॥ अतः नः अस्माकमपि आसा अन्तिके देवयजनदेशे अच्छ आभिमुख्येन आगत्य वह्निः अभिमतानां वोढा सन् अप अनभिमतम् अपकृत्य पर्षि अभिमतफलं पूरयसि ॥ ॥ १६ ॥
“Humble the adversary of every one (your worshippers) fierce (Indra), by your aids, like radiant paths, (to glory); by your powerful aids, gude us, hero, as you have guided our forefathers, for you are honoured (by all). You (Indra), who are the sustainer (of the world), remove all (the sins) of man; present at our sacrifice, you are the bearer (of good things).”
Bow down the overweening pride of every foe with succour like to kindling-wood in fiercest flame, with mighty succour, Mighty One.
Guide us, thou Hero, as of old, so art thou counted blameless still.
Thou drivest, as a Priest, all sins of man away, as Priest, in person, seeking us.
Bow down the arrogance of every (rival) with your help like piercingly hot kindling sticks—with powerful help, powerful one.
Lead us as before: you are regarded as free of guilt, o champion.
Carry away all (the goods?) from Pūru, as draft-horse—*like the
draft-horse [=Agni] with his mouth, (carry them) to us.
Auf, beuge nieder jedes Feindes Widerstand, mit starken Hülfen wie mit schärfster Flammenglut, mit starken Hülfen, starker du; So führe jetzt uns wie zuvor, du giltst als tadellos, o Held; Vom Menschen scheuchst zum Streit du fahrend alles Leid, zum Streite fahrend vor uns her.
Ducke fein den Hochmut eines jeden mit deinen Hilfen, die so rasch wirken wie die am raschesten feuerfangenden Reibhölzer, mit deinen gewaltigen Hilfen, du Gewaltiger! Führ uns ohne Vergewaltigung, so wie du früher dafür galtest, o Held! Alle Gewalttaten bring von Puru weg als Führer! Als Wortführer komm zu uns!
Согни хорошенько высокомерие любого (врага)
(Своими) поддержками, подобными острейшим кускам дерева для трения,
Грозными поддержками, о грозный!
Веди нас, как прежде, –
Ты считаешься безгрешным, о герой!
Как возница прогони все (несчастья) прочь от Пуру,
Возница, устами (доставляющий) нам (блага)!
प्र तद्वो॑चेयं॒ भव्या॒येन्द॑वे॒ हव्यो॒ न य इ॒षवा॒न्मन्म॒ रेज॑ति रक्षो॒हा मन्म॒ रेज॑ति । स्व॒यं सो अ॒स्मदा नि॒दो व॒धैर॑जेत दुर्म॒तिम् । अव॑ स्रवेद॒घशं॑सोऽवत॒रमव॑ क्षु॒द्रमि॑व स्रवेत् ॥
प्र । तत् । वो॒चे॒य॒म् । भव्या॑य । इन्द॑वे । हव्यः॑ । न । यः । इ॒षऽवा॑न् । मन्म॑ । रेज॑ति । र॒क्षः॒ऽहा । मन्म॑ । रेज॑ति । स्व॒यम् । सः । अ॒स्मत् । आ । नि॒दः । व॒धैः । अ॒जे॒त॒ । दुःऽम॒तिम् । अव॑ । स्र॒वे॒त् । अ॒घऽशं॑सः । अ॒व॒ऽत॒रम् । अव॑ । क्षु॒द्रम्ऽइ॑व । स्र॒वे॒त् ॥
भव्याय भवनशीलाय प्रतिदिनं कलाभिवृद्ध्या वर्धनशीलाय इन्दवे अमृतेन सर्वस्य क्लेदयित्रे तदर्थं तत् वक्ष्यमाणं कर्म स्तोत्रं वा प्र वोचेयं प्रकर्षेण वक्तुं शक्तो भूयासम् । स्तुतेरतिमहत्त्वादिति भावः । वचेः 'लिङ्याशिष्यङ्'।‘वच उम्' ॥ कस्य तदिति । यः इन्दुः इषवान् एषणवान् मन्म मननीयं स्तोत्रं कर्म वा उद्दिश्य रेजति गच्छति । रेजतिर्गत्यर्थः, ‘रेजति दध्यति' (नि. २.१४. ६०.) इति तन्नामसु पाठात् । आगमने दृष्टान्तः। हव्यो न होतव्यः आह्वातव्यो वा हव्यः इन्द्र इव । प्रायेण ‘इन्द्र आगच्छ' इत्यादिना इन्द्र एवाहूयते । स इव । स एव विशेष्यते । रक्षोहा यज्ञविघातकानां रक्षसां हन्ता मन्म तेषामेव कर्म हननादिरूपं रेजति गच्छति चालयति नाशयतीत्यर्थः । सः एव इन्दुः स्वयं निदः ॥ ‘ णिदि कुत्सायाम्' । क्विप् । “ सावेकाचः' इति विभक्तेरुदात्तता ॥ अस्मन्निन्दितुर्वैरिणः वधैः हननोपायैः॥ ‘हनश्च वधः' इति भावे अप्; तत्संनियोगेन वधादेशः । स च अदन्तोऽन्तोदात्तः ॥ दुर्मतिं दुर्बुद्धिम् अस्मत् अस्मत्तः आ अजेत आक्षिपेत् अवनयेत् । किंच अघशंसः अघानां पापानां हिंसादीनां शंसिता स्तेनः अवतरम् अत्यन्तनिकृष्टम् अव स्वस्थानादवाङ्मुखो भूत्वा स्रवेत् गच्छतु अधः पतत्वित्यर्थः । अघशंसः स्तेनः, ‘अघशंसः वृकः' (नि. ३. २४. १३) इति तन्नामसु पाठात् । अवस्रवणमेव प्रार्थ्यते । क्षुद्रमिव क्षेप्तुं शक्यमुदकादिकमिव । उदकं यथा तिष्ठति स्रवन्नश्यति तथा असावपीत्यर्थः ॥
“May I be competent to utter (praise) for the (Soma) libation, sustaining existence, which, like the (deity) to be invoked, (Indra), goes abounding with food to (each) venerable (rite); the destroyer (of rākṣasas) at (each) venerable (rite). May that (libation) of itself repress with chastisement the malevolence of him who reviles us; let the thief fall downwards (and perish), like a little (water) running down (a declivity).”
This may I utter to the present Soma-drop, which, meet to be invoked, with power, awakes the prayer, awakes the demon-slaying prayer.
May he himself with darts of death drive far from us the scorner's hate.
Far let him flee away who speaketh wickedness and vanish like a mote of dust.
I would proclaim this to the soma-drop that is to come, the refreshing (drop) that is to be poured and that, like him to be invoked [=Indra], sets my
thoughts atremble—the demon-smasher that sets my thoughts atremble. He himself should drive insults and bad thought away from us with his murderous weapons.
The utterer of evil should drain away lower than low [=be miscarried?]— like a little speck he should drain away.
Dem gegenwärt'gen Indu will ich künden dies, dem rufenswerthen, der mit Kraft Gebet erregt, den Unhold schlägt, Gebet erregt; Er treibe selbst von uns hinweg des Feindes Hass mit Keulenschlag, In weite Ferne fliege fort, wer Böses sinnt, er fliege gleich dem Staube fort.
Das möchte ich dem werdenden Somasaft sagen, der wie der anzurufende Freigebige das Denken erregt, als Unholdtöter das Denken erregt. Er möge selbst mit den Waffen die Tadler, die Mißgunst von uns treiben. Der Übelredende soll ganz vergehen, wie Ungeziefer vergehen.
Я хотел бы провозгласить это прекрасному соку,
Достойному призывов, который, словно богатый жертвенными дарами, возбуждает мысль,
Убийца ракшасов, возбуждает мысль.
Пусть он сам от нас (от)ринет завистников,
Смертельным оружием, (пусть оттолкнет) недоброжелательство.
Пусть изливается злоречивый все ниже и ниже,
Как мельчайшие брызги, пусть изливается!
व॒नेम॒ तद्धोत्र॑या चि॒तन्त्या॑ व॒नेम॑ र॒यिं र॑यिवः सु॒वीर्यं॑ र॒ण्वं सन्तं॑ सु॒वीर्य॑म् । दु॒र्मन्मा॑नं सु॒मन्तु॑भि॒रेमि॒षा पृ॑चीमहि । आ स॒त्याभि॒रिन्द्रं॑ द्यु॒म्नहू॑तिभि॒र्यज॑त्रं द्यु॒म्नहू॑तिभिः ॥
व॒नेम॑ । तत् । होत्र॑या । चि॒तन्त्या॑ । व॒नेम॑ । र॒यिम् । र॒यि॒ऽवः॒ । सु॒ऽवीर्य॑म् । र॒ण्वम् । सन्त॑म् । सु॒ऽवीर्य॑म् । दुः॒ऽमन्मा॑नम् । सु॒मन्तु॑ऽभिः । आ । ई॒म् । इ॒षा । पृ॒ची॒म॒हि॒ । आ । स॒त्याभिः॑ । इन्द्र॑म् । द्यु॒म्नहू॑तिऽभिः । यज॑त्रम् । द्यु॒म्नहू॑तिऽभिः ॥
हे इन्द्र वयं यजमानाः तत् तादृशं स्तुत्यं तव रूपं यद्वा तत् ते वयं चितन्त्या तव गुणान् ज्ञापयन्त्या ॥ ‘ चिती संज्ञाने '। अस्मात् ण्यन्तात् शतरि व्यत्ययेन शः ॥ होत्रया होमसाधनभूतया स्तुतिरूपया वाचा वनेम संभजेम यद्वा शब्दयेम स्तुतिं करवामेत्यर्थः । होत्रेति वाङ्नाम, ‘होत्रा गी: (नि. १.११.३५) इति तन्नामसु पाठात् । किंचैवं स्तोतारो वयमपि हे रयिवः विशिष्टधनवन्निन्द्र रयिं धनं वनेम संभजेम । कीदृशं रयिम् । सुवीर्यं शोभनसामर्योन्पेतं रण्वं रमणीयं गन्तव्यं वा अर्थिभिः सन्तं सर्वदा वर्तमानं यज्ञादिद्वारा बहुशः दीयमानमपि प्रवर्धमानम् । पुनस्तदेव विशेष्यते । सुवीर्यं शोभनपुत्रभृत्याद्युपेतं धनेन तेषां संपादयितुं शक्यत्वात् ॥ वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् ॥ किंच हे इन्द्र दुर्मन्मानं दुःखेन मन्तुं शक्यं त्वां तव महिम्नोऽतिमहत्त्वात् सुमन्तुभिः शोभनैर्मननैः तत्साधनैः स्तोत्रैर्वा इषा हवीरूपेणान्नेन च आ पृचीमहि सर्वतः संपृक्ता भूयास्म । यद्वा । इषा अन्नेन निमित्तेन । पूर्वं धनस्य प्रार्थितत्वात् इदानीमन्नं प्रार्थ्यते ॥ ‘पृची संपर्के । लिङि छान्दसो विकरणस्य लुक् ॥ किंच यजत्रं यागनिष्पादकम् इन्द्रं सत्याभिः अविसंवादिनीभिः यथाभिलाषमुपजायमानफलाभिः द्युम्नहूतिभिः ‘हरिव आगच्छ मेधातिथेर्मेषे इत्याह्वानैरित्यर्थः । पुनस्ता एव विशेष्यन्ते । द्युम्नहूतिभिः हविर्लक्षणान्ननिमित्तैराह्वानैः आ पृचीमहि इति शेषः । ‘ द्युम्नं द्योततेर्यशो वान्नं वा' (निरु. ५. ५) इति यास्कः ॥
“We praise, you, Indra, with praises, making known (your glory); we solicit, giver of riches, the wealth that bestows vigour, that is agreeable, durable, and the support of progeny. May we (ever) be possessed of (abundant) food, through the praises of you, whom it is difficult adequately to honour; may we attain the adorable (Indra) by true and earnest invocations; by invocations, (offering sacrificial) food.”
By thoughtful invocation this may we obtain, obtain great wealth, O Wealthy One, with Hero sons, wealth that is sweet with hero sons.
Him who is wroth we pacify with sacred food and eulogies,
Indra the Holy with our calls inspired and true, the Holy One with calls inspired.
Might we win with our conspicuous invocation [/oblation]; might we win wealth, o wealthy one, and an abundance of heroes—(wealth) that is delightful and an abundance of heroes.
When he has bad thoughts (toward us) we would engorge him with (words) good to think about and with refreshment—
Indra (we would engorge) with invocations to heavenly brilliance that come true—the one worthy of the sacrifice with invocations to
heavenly brilliance.
Durch unsern Ruf, der dich erinnert, werd' uns das, und heldenreiches Gut, o reicher, werde uns, das reich an Helden uns erfreut; Den, welcher zürnt, versöhnen wir durch Opfer und durch Sühnespruch, Den Indra sühnen wir mit heil'gem Ruf um Kraft, mit Ruf um Kraft den heiligen.
Wir möchten dies durch ein ausgezeichnetes Opfer gewinnen, den Schatz gewinnen, du Schatzreicher, eine Schar von Meistern. Den Ungnädigen wollen wir mit günstigen Namen, mit Labsal überhäufen, mit wahrhaften Rufen der Begeisterung den Indra, den verehrungswürdigen mit Rufen der Begeisterung den Indra, den verehrungswürdigen mit Rufen der Begeisterung.
Мы хотим добыть это блистательным жертвенным возлиянием,
Мы хотим добыть богатство, о повелитель богатства, обилие здоровых мужей,
(Богатство,) дающее радость, обилие здоровых мужей!
Недоброжелательного – благоприятными (именами),
Жертвенным подкреплением мы хотели бы осыпать,
Индру – истинными призывами-поощрениями,
Достойного жертв – призывами-поощрениями!
प्रप्रा॑ वो अ॒स्मे स्वय॑शोभिरू॒ती प॑रिव॒र्ग इन्द्रो॑ दुर्मती॒नां दरी॑मन्दुर्मती॒नाम् । स्व॒यं सा रि॑ष॒यध्यै॒ या न॑ उपे॒षे अ॒त्रैः । ह॒तेम॑स॒न्न व॑क्षति क्षि॒प्ता जू॒र्णिर्न व॑क्षति ॥
प्रऽप्र॑ । वः॒ । अ॒स्मे इति॑ । स्वय॑शःऽभिः । ऊ॒ती । प॒रि॒ऽव॒र्गे । इन्द्रः॑ । दुः॒ऽम॒ती॒नाम् । दरी॑मन् । दुः॒ऽम॒ती॒नाम् । स्व॒यम् । सा । रि॒ष॒यध्यै॒ । या । नः॒ । उ॒प॒ऽई॒षे । अ॒त्रैः । ह॒ता । ई॒म् । अ॒स॒त् । न । व॒क्ष॒ति॒ । क्षि॒प्ता । जू॒र्णिः । न । व॒क्ष॒ति॒ ॥
हे ऋत्विजः वः युष्मदर्थम् अस्मे अस्मदर्थं च अयम् इन्द्रः स्वयशोभिः स्वकीययशोयुक्तैः ऊती ऊतिभिः रक्षणैः दुर्मतीनां दुर्मननयुक्तानां विरोधिनां परिवर्गे परितो वर्जने निमित्तभूते सति प्रप्र प्रकृष्टो भवति समर्थो भवतीत्यर्थः। द्विर्भावः पादपूरणः । यद्वा । हे ऋत्विजः वः युष्मदर्थम् अस्मे अस्माकं संबन्धिभिः स्वयशोभिः स्वयमेव अन्यनैरपेक्ष्येण स्तोतुं समर्थैः स्तोत्रैः तुष्टः सन् ऊती ऊतौ रक्षणे प्रप्र प्रकृष्टो भवति ॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ कुत्रेति तदुच्यते । दुर्मतीनां दुष्टानां परिवर्गे परितो वर्जनवति संग्रामे यागे वा । पुनः स एव विशेष्यते। दुर्मतीनां दुष्टबहुमानवतां हननबुद्धीनां दरीमन् दरीमणि अतिशयेन दारयितरि । एवमिन्द्रे सम्यक् पालयति सति अत्रैः भक्षकैः अस्मद्विरोधिभिः या जूर्णिः जववती सेना। जूर्णिर्जवतेर्वा द्रवतेर्वा दूनोतेर्वा (निरु. ६. ४) इति यास्कः। नः अस्मान् प्रति रिषयध्यै हिंसितुम् ॥ रिषेर्ण्य॑न्तात् तुमर्थे शध्यैप्रत्ययः ॥ उपेषे उपगन्तुमस्मान् प्राप्तुम् ॥ ‘ ईङ गतौ । तुमर्थे क्सेप्रत्ययः ॥ क्षिप्ता प्रेरिता सा सेना स्वयं हतेमसत् हिंसितैवासीत् । न वक्षति अस्मान्न वहेत् न प्राप्नोति । तथा अस्मद्धिंसकान् शत्रूनपि पुनः न वक्षति न वहति ॥ वहेर्लेटि अडागमः । ‘सिब्बहुलम्' इति सिप् ॥ इन्द्रसामर्थ्येन तत्रैव नष्टाभूदित्यर्थः ॥
“Indra is powerful in discomfiture of the malevolent by his self-glorifying aids, (granted) unto you and unto us; (he is) the tearer o fthe malevolent (to pieces); the impetuous ogre that was sent against us by devouring (foes) to destroy us, has been itself destroyed; it will not reach us; it will not do us harm.”
On, for your good and ours, come Indra with the aid of his own lordliness to drive the wicked hence, to rend the evil-hearted ones!
The weapon which devouring fiends cast at us shall destroy themselves.
Struck down, it shall not reach the mark; hurled forth, the fire-brand shall not strike.
(Let) Indra (be) more and more preeminent among us with his
self-glorious help in the shunning of bad thoughts—in the shattering of bad thoughts.
She herself [=Bad Thought] is to be harmed who has sought us out
with her devourers.
She will be smashed, she will not wax strong—like a firebrand flung
aside she will not wax strong.
Mit schönen Hülfen dringe euer Indra vor, damit er unsre bösen Feinde züchtige, die Feinde uns zerschmettere; Der Flammenpfeil auf uns entsandt, verletz die Schar der Fresser selbst; Er falle hin, nicht treffe er nicht treffe der geschleuderte.
Immer soll bei uns euer Indra vorangehen mit seinen selbstherrlichen Hilfen beim Übergehen der Mißgünstigen, beim Zersprengen der Mißgünstigen. Sie soll selbst Schaden nehmen, die sich uns mit den ..... ausgesucht hat. Erschlagen soll sie sein, nicht soll sie ......; der geworfene Feuerbrand soll nicht .......
Пусть (будет) впереди для нас ваш Индра
С поддержками, обладающими собственным блеском,
При избавлении от недоброжелателей,
При рассеивании недоброжелателей!
Да поразит она сама себя, та, что вместе с Атри пришла к нам!
Да будет она уничтожена и не навлечет (на нас беды),
(Однажды) брошенная зажженная стрела да не навлечет (на нас) беды!
त्वं न॑ इन्द्र रा॒या परी॑णसा या॒हि प॒थाँ अ॑ने॒हसा॑ पु॒रो या॑ह्यर॒क्षसा॑ । सच॑स्व नः परा॒क आ सच॑स्वास्तमी॒क आ । पा॒हि नो॑ दू॒रादा॒राद॒भिष्टि॑भि॒: सदा॑ पाह्य॒भिष्टि॑भिः ॥
त्वम् । नः॒ । इ॒न्द्र॒ । रा॒या । परी॑णसा । या॒हि । प॒था । अ॒ने॒हसा॑ । पु॒रः । या॒हि । अ॒र॒क्षसा॑ । सच॑स्व । नः । प॒रा॒के । आ । सच॑स्व । अ॒स्त॒म्ऽई॒के । आ । पा॒हि । नः॒ । दू॒रात् । आ॒रात् । अ॒भिष्टि॑ऽभिः । सदा॑ । पा॒हि॒ । अ॒भिष्टि॑ऽभिः ॥
हे इन्द्र त्वं नः पथा अस्मत्संबन्धिना मार्गेण पुरो याहि आगच्छ ॥ भस्य टेर्लोपः । उदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम् ॥ कीदृशेन मार्गेण । अरक्षसा रक्षोवर्जितेन अनेहसा अपापेन। यज्ञगमनमार्गस्य स्तुतिचोदितत्वात अनेहस्त्वम्। यद्वा। नः अस्मानुद्दिश्य याहि। किंविशिष्टः इति । परीणसा परितो नद्धेन राया अस्मभ्यं दातव्येन बहुविधधनेन युक्तः सन् । हे इन्द्र नः अस्मान् पराके अत्यन्तदूरदेशात् स्वर्गलक्षणात् आ सचस्व समवेतो भव । पराके इति दूरनाम, ‘पराके पराचैः (नि. ३. २६.२) इति तन्नामसु पाठात्। तथा अस्तमीके अत्यन्तान्तिके देवयजनदेशे सचस्व अस्मत्प्रत्तं हविः सेवस्व संगच्छस्व वा । किंच नः अस्मान् दूरात् दूरदेशात् स्वर्गादेः सकाशात् पाहि रक्ष । आरात् संनिहितात् इह लोकात् पाहि पालय । यद्वा । दूरात् अयागकाले स्वर्गे एव उषित्वा अस्मान् पाहि पालय। आरात् यागकाले संनिहिते देवयजनदेशे पाहि । केनेति तदुच्यते । अभिष्टिभिः अभिमुखैर्यागैः तन्निर्वाहैः । यद्वा। अभ्यागमनैः। किं बहुना । सदा सर्वकालं यागकाले अयागकाले दूरेऽन्तिके' चे अभिष्टिभिः अभित एषणैः पाहि सम्यक् परिपालय ॥
“Do you, Indra, come to us with abundant riches by a path free from evil; (by a path) unobstructed by rākṣasas; be with us when afar; be with us when nigh; favour us, whether afar or nigh, with the objects of our desires; ever favour us with the objects of our desires.”
With riches in abundance, Indra, come to us, come by an unobstructed path, come by a path from demons free.
Be with us when we stray afar, be with us when our home is nigh.
Protect us with thy help both near and far away: protect us ever with thy help.
You, Indra, with wealth in profusion for us: drive along a faultless path—drive forward along (a path) without demons.
Accompany us in the distance; accompany us close to home.
Protect us from a long way, from afar with your superior powers—
always protect us with your superior powers.
᳓
Mit Reichthumsfülle komm, o Indra, zu uns her, auf sicherm Pfade komme her, auf schadenlosem schreite vor; Geleite in der Ferne uns, sei bei uns hier im Heimatsitz. Mit deinen Hülfen schütz aus weiter Ferne uns, mit deinen Hülfen immer uns.
Komm du, Indra, zu uns mit vollzähligem Reichtum auf fehlerlosem Wege, geh voran auf dem Wege, der frei von Unholden ist! Geleit uns in der Ferne, geleit uns heimwärts! Schütz uns aus weiter Ferne mit deinen nahen Hilfen, schütz uns immer mit deinen nahen Hilfen!
Ты, о Индра, к нам с богатством, с изобилием
Приходи путем, где (ничто) не угрожает,
Приходи впереди (всех путем,) где нет ракшасов!
Сопровождай нас на чужбине,
Сопровождай нас (на пути) домой!
Храни нас издалека (и) изблизи (своими) поддержками,
Всегда храни (своими) поддержками!
त्वं न॑ इन्द्र रा॒या तरू॑षसो॒ग्रं चि॑त्त्वा महि॒मा स॑क्ष॒दव॑से म॒हे मि॒त्रं नाव॑से । ओजि॑ष्ठ॒ त्रात॒रवि॑ता॒ रथं॒ कं चि॑दमर्त्य । अ॒न्यम॒स्मद्रि॑रिषे॒: कं चि॑दद्रिवो॒ रिरि॑क्षन्तं चिदद्रिवः ॥
त्वम् । नः॒ । इ॒न्द्र॒ । रा॒या । तरू॑षसा । उ॒ग्रम् । चि॒त् । त्वा॒ । म॒हि॒मा । स॒क्ष॒त् । अव॑से । म॒हे । मि॒त्रम् । न । अव॑से । ओजि॑ष्ठ । त्रातः॑ । अवि॑त्त॒रिति॑ । रथ॑म् । कम् । चि॒त् । अ॒म॒र्त्य॒ । अ॒न्यम् । अ॒स्मत् । रि॒रि॒षेः॒ । कम् । चि॒त् । अ॒द्रि॒ऽवः॒ । रिरि॑क्षन्तम् । चि॒त् । अ॒द्रि॒ऽवः॒ ॥
हे इन्द्र त्वं नः अस्मान् तरूषसा तरणकुशलेन अस्मानापद्यःात उत्तरीतुं शक्तेन राया धनेन उद्धर्ता भवेति शेषः । हे इन्द्र त्वा त्वाम् उग्रं चित् उद्गूर्णबलं सन्तं त्वामेव महिमा महत्त्वम् अस्मत्स्तोत्रजनितः कश्चिदतिशयः सक्षत् सेवते संभजते उत्कर्षयतीत्यर्थः। किमर्थम् । अवसे त्वत्प्रीतये । तत्र दृष्टान्तः । महे महते अवसे रक्षणाय प्रकाशारोग्यादिरूपाय मित्रं न सर्वजनमित्रं सूर्यमिव । तं यथा महत्त्वेन संयोजयन्ति तथेत्यर्थः । यद्वा । मित्रं न प्रियहितरूपं सखायमिव । तं यथा महत्यै प्रीतये संभजन्ते तद्वत् । किंच हे ओजिष्ठ ओजस्वितम अतिशयेन बलवन् त्रातः रक्षितः अस्मान् पालयितर्वा अमर्त्य अमरणधर्मन् इन्द्र अवितः अस्मान् धनेन तर्पयितः त्वं कं चित् रथं वेगवन्तमारुह्य अस्मद्देवयजनं शीघ्रमागच्छेति शेषः । तथा हे अद्रिवः शत्रूणामतिशयेन भक्षकेन्द्र अस्मत् अन्यं रिरिक्षन्तं चित् अल्पं महान्तं वा। शत्रुमिति शेषः । रिरिषः बाधस्व । तथा हे अद्रिवः अद्रेरादर्तर्भक्षक वा शत्रूणाम् ।' अद्रिवन्नद्रिरादृणात्यनेनापि वात्तेः स्यात् ' (निरु. ४. ४ ) इति निरुक्तम् । रिरिक्षन्तं चित अत्यन्तं कुत्सितं हिंसन्तमपि शत्रुं रिरिषेः बाधस्व॥ ‘रिष हिंसायाम् । छान्दसः शपः श्लुः । पुनर्व्यत्ययेन शः । रिरिक्षन्तम् । अस्मादेव सनि हलन्ताच्च इति सनः कित्त्वात् गुणाभावः । चिदित्यवकुत्सितः। ‘ कुल्माषांश्चिदाहरेत्यवकुत्सिते ' (निरु. १. ४ ) इति यास्केनोक्तत्वात् । यद्वा । समुच्चयार्थः । कंचित् इत्यनेन सह समुच्चीयते ॥
“Do you, Indra, (sustain us) with wealth that transports (man beyond calamity); for, (enhanced) greatness accrues to you, however mighty, (from our thanks) for (your) protection, as it does to Mitra for his powerful protection, most potent and immortal (Indra), our defender and preserver, (ascend) some chariot, (and come hither); devourer (of foes), repel any one assailing us; any one assailing us, devourer (of foes).”
Thou art our own, O Indra, with victorious wealth: let might accompany thee, the Strong, to give us aid, like Mitra, to give mighty aid.
O strongest saviour, helper thou, Immortal! of each warrior's car.
Hurt thou another and not us, O Thunder-armed, one who would hurt, O Thunder-armed!
You, Indra, with surpassing wealth for us: greatness will accompany you, who are so powerful, for our help—(accompany you) like an
ally for great help.
Most powerful rescuer and helper, (you help) every chariot,
immortal one.
Another one than us—any one—should you harm, o possessor of
the stone—(anyone) who (himself) intends harm, o possessor of
the stone.
᳓
Mit Reichthum komm, o Indra, der uns Sieg verleiht; zum Beistand folge dir, dem starken, deine Macht, zu grossem Beistand wie dem Freund; O stärkster Helfer, fördere, unsterblicher, die Wagen all', Verletze andere als uns, o Schleuderer, verletze den, der uns verfolgt.
Komm du, Indra, zu uns mit Reichtum, der aus der Not hilft. Dich, den so Gewaltigen, soll die Macht begleiten zum Beistand, wie einen Verbündeten zu mächtigem Beistand. Gewaltigster Schirmer, Helfer! Jeden Wagen, du Unsterblicher - jedweden anderen außer unseren sollst du schädigen, du Herr des Preßsteins, der selbst uns zu Schaden trachtet, Herr des Preßsteins.
Ты, о Индра, (приди) к нам с богатством, выручающим из беды!
Тебя, такого грозного, пусть сопровождает величие, чтобы помогать,
Как Митру, – чтобы мощно помогать!
О самый грозный, спаситель, помощник,
Любую колесницу, о бессмертный,
Любую порази, о хозяин давильных камней,
Если она стремится поразить (нас), о хозяин давильных камней!
पा॒हि न॑ इन्द्र सुष्टुत स्रि॒धो॑ऽवया॒ता सद॒मिद्दु॑र्मती॒नां दे॒वः सन्दु॑र्मती॒नाम् । ह॒न्ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः । अधा॒ हि त्वा॑ जनि॒ता जीज॑नद्वसो रक्षो॒हणं॑ त्वा॒ जीज॑नद्वसो ॥
पा॒हि । नः॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒त॒ । स्रि॒धः । अ॒व॒ऽया॒ता । सद॒म् । इत् । दुः॒ऽम॒ती॒नाम् । दे॒वः । सन् । दुः॒ऽम॒ती॒नाम् । ह॒न्ता । पा॒पस्य॑ । र॒क्षसः॑ । त्रा॒ता । विप्र॑स्य । माव॑तः । अध॑ । हि । त्वा॒ । ज॒नि॒ता । जीज॑नत् । व॒सो॒ इति॑ । र॒क्षः॒ऽहन॑म् । त्वा॒ । जीज॑नत् । व॒सो॒ इति॑ ॥
हे इन्द्र सुष्टुत शोभनस्तुत त्वं स्त्रिधः दुःखात् तदुत्पादकात् पापाद्वा नः अस्मान् पाहि रक्ष । यतः त्वं दुर्मतीनां दुर्मनस्कानां रक्षःप्रभृतीनाम् ॥ ‘ नामन्यतरस्याम्' इति नाम उदात्तत्वम् ॥ सदमित् सर्वदैव अवयाता अधोयापयिता प्रापयितासि । अतः पाहि । अत एव हे इन्द्र देवः अस्मत्स्तुत्या हृष्टः सन् दुर्मतीनां दुष्टमननवतां यागविघातकानाम् अवयाता असि । तथा रक्षसः रक्षणनिमित्तभूतस्य । ‘ रक्षो रक्षितव्यमस्मात् ' (निरु. ४. १८) इति यास्कः । तादृशस्य पापस्य फलप्रतिबन्धरूपस्य हन्ता घातकोऽसि । यद्वा । पापस्य पापिनः रक्षसः राक्षसादेः हन्तासि । तथा मावतः मत्सदृशस्य विप्रस्य मेधाविनः यजमानस्य त्राता रक्षितासि । अध अतो हेतोः हे इन्द्र वसो सर्वेषां निवासभूत त्वा त्वां जनिता सर्वस्य जनयितादिकर्ता परमेश्वरः जीजनत् अजनयत् उत्पादितवान् । तथा हे वसो वासयितः त्वा त्वां रक्षोहणं जीजनत् रक्षोहननाय उत्पादितवान् ॥ जनयतेर्लुङि चङि रूपम् ॥ यज्ञादिविघातिनां रक्षःप्रभृतीनां विघाताय हीन्द्रस्यावतारः। ‘ तमिन्द्रो देवतान्वसृज्यत' (तै. सं. ७. १. १. ४) इत्यादिप्रसिद्धद्योतनार्थो हि शब्दः ॥ ॥ १७ ॥
“Deservedly-lauded Indra, preserve us from suffering; for you are always verily the chastiser of the malevolent; your, being divine, (are the chastiser) of the malevolent; (you are) the slayer of the wicked rakṣas, the preserver of a pious (worshipper), such as I am; for asylum (of all men), the progenitor has begotten (for this purpose); has begotten you, asylum (of all men), the destroyer of the rākṣasas.”
Save us from injury, thou who art well extolled: ever the warder-off art thou of wicked ones, even as a God, of wicked ones;
Thou slayer of the evil fiend, saviour of singer such as I.
Good Lord, the Father made thee slayer of the fiends, made thee, good Lord, to slay the fiends.
Protect us, well-praised Indra, from failure, (you who are) always a requiter of bad thoughts—as a god (a requiter) of bad
thoughts—
a smasher of the evil demon, a rescuer of a poet like me.
For the begetter has begotten you for this reason, o good one—has
begotten you as smasher of demons, o good one.
O hochgelobter Indra, schütz uns vor dem Feind; die bösen Hasser wende immer ab von uns, die bösen Hasser du, der Gott; Den sünd'gen Dämon tödte du, und mich, den Sänger, schütze du; Denn darum hat als Dämontilger dich erzeugt, der Vater, guter, dich erzeugt.
Bewahre uns, schöngepriesener Indra, vor Fehle als der, der stets der Abwender der Missgunst ist, als Gott der Abwender der Mißgunst; der Erschlager des bösen Unholds, der Schirmherr des Redekundigen gleich mir! Denn darum hat dich der Erzeuger erzeugt, du Guter, dich als Unholdtöter erzeugt, du Guter.
Защити нас, о Индра прекрасно прославляемый, от просчета,
Как тот, кто всегда отвращает недоброжелателей,
(Кто) есть бог, (отвращающий) недоброжелателей,
Убийца злого ракшаса,
Спаситель вдохновенного, вроде меня!
Ведь так вот породил тебя родитель, о Васу,
Убийцей ракшасов породил от тебя, о Васу.