सुस॑मिद्धो न॒ आ व॑ह दे॒वाँ अ॑ग्ने ह॒विष्म॑ते । होत॑: पावक॒ यक्षि॑ च ॥
सुऽस॑मिद्धः । नः॒ । आ । व॒ह॒ । दे॒वान् । अ॒ग्ने॒ । ह॒विष्म॑ते । होत॒रिति॑ । पा॒व॒क॒ । यक्षि॑ । च॒ ॥
हे अग्ने सुसमिद्धनामकस्त्वं नः अस्मदीयाय हविष्मते यजमानाय तदनुग्रहार्थं देवान् आ वह । हे पावक शोधक होतः होमनिष्पादकाग्ने यक्षि च यज च ॥ सुसमिद्धः । समः क्रियाविशेषणत्वेन गतिसंज्ञकत्वात् प्रादिसमासः । शोभनवाचिनः सुशब्दस्य तु • विशेषणं विशेष्येण बहुलम् ' ( पा. सू. २. १. ५७ ) इति समिद्धपदेन कर्मधारयसमासः । सुशब्दः प्रातिपदिकस्वरेणोदात्तः । ‘ कर्मधारयेऽनिष्ठा' (पा. सू. ६. २. ४६ ) इति पूर्वपदप्रकृतिस्वरत्वम्। क्रियाविशेषणत्वे हि सुशब्दस्य गतित्वात् प्रादिसमासे ‘ गतिरनन्तरः ' ( पा. सू. ६. २. ४९ ) इति समो यदुदात्तत्वं तदेव कृदुत्तरपदप्रकृतिस्वरत्वेन स्थास्यतीति सुशब्दोऽनुदात्तः स्यात् । देवाँ अग्ने। पूर्ववत् रुत्वानुनासिके । हविष्मते । हविरस्यास्तीति मतुप् । ' तसौ मत्वर्थे ' ( पा. सू. १. ४. १९ ) इति भत्वेन पदत्वस्य बाधितत्वात् न रुत्वम् । होतःपावकशब्दयोः आमन्त्रितयोः पृथक्पृथगेव क्रियान्वये परस्परमसामर्थ्यात् पराङ्गवद्भावाभावात् न तन्निबन्धनम् ऐकस्वर्यम् । न च द्वितीयस्य आमन्त्रितस्य आष्टमिकनिघातेन ऐकस्वर्यम्; ‘ आमन्त्रितं पूर्वमविद्यमानवत् ' (पा. सू. ८. १. ७२ ) इति पूर्वस्य अविद्यमानवत्वेन पदात् परत्वाभावात् पादादित्वाच्च। परस्परसामानाधिकरण्येऽपि होतरित्यस्य विशेषणत्वे समानमेव अविद्यमानवत्त्वम् । अत एव अविद्यमानवत्त्वात् सामर्थ्येऽपि न पराङ्गवद्भावः इति नैकस्वर्यसिद्धिः । अतो होतरिति विशेष्यम् । अतः पुनातीति पावक इत्यवयवप्रसिद्धिस्वीकारेण विशेषणत्वात् होतरिति विशेष्यम् । तच्च सामान्यवचनमिति ' नामन्त्रिते समानाधिकरणे (पा. सू. ८. १.७३ ) इत्यविद्यमानवत्त्वप्रतिषेधात् पदात्परत्वात् अपादादित्वाच्च द्वितीयामन्त्रितस्य आष्टमिकनिघातेन वा पराङ्गवद्भावे सति शेषनिघातेन वा सर्वानुदात्तत्वसिद्धिः । यक्षि । यजेर्लोटः सिपि ‘ बहुलं छन्दसि' इति शपो लुक् । व्रश्चादिना षत्वम् । षढोः कः सि ( पा. सू. ८. २. ४१ ) इति कत्वम् । सेर्हिरादेशः छान्दसत्वात् न भवति । सिपः पित्त्वेन अनुदात्तत्वात् धातुस्वर एव शिष्यते । न च तिङ्ङतिङः' इति निघातः, पूर्वस्य पावक इति आमन्त्रितस्य अविद्यमानवत्त्वेन पदादपरत्वात् । अत एव तस्य अव्यवधायकत्वेन होतरित्यपेक्ष्य निघातः स्यात् इति चेत्, न । यक्षिपदापेक्षया होतरित्यस्यापि पूर्वत्वेन अविद्यमानवत्त्वात् । ननु ' नामन्त्रिते समानाधिकरणे ' इति तस्य निषिद्धम् अविद्यमानवत्त्वम् । न च पावकपदस्य अविद्यमानवत्वेन समानाधिकरणपरत्वाभावः । यक्षिपदस्यैव हि कार्यं प्रति पावकपदं पूर्वत्वात् अविद्यमानवत् स्यात् । होतःपदकार्यम् अविद्यमानवत्वप्रतिषेधं प्रति तु परत्वात् विद्यमानवदेव इति भवत्येव होतरित्यस्य अविद्यमानवत्वप्रतिषेधः । अतस्तस्य विद्यमानवत्त्वात् तदपेक्षया यक्षीत्यस्य निघातः प्राप्नोत्येव । सत्यम् । अत्र यक्षीत्यस्य चशब्दपरत्वात् 'चादिषु च । (पा. सू. ८. १. ५८ ) इति निघातप्रतिषेधो भविष्यतीत्यदोषः ।
“Agni, who are Susamiddha, invoker, purifier, bring hither the gods to the offerers of our oblation, and do your sacrifice.”
AGNI, well-kindled, bring the Gods for him who offers holy gifts.
Worship them, Purifier, Priest.
1 Being well lighted, O Agni, bring us hither the gods to the man rich in sacrificial food, O Hotri, purifier, and perform the sacrifice.
Well-kindled, o Agni, convey the gods here to us, to the man offering the oblation,
and perform sacrifice, o pure Hotar.
O Agni fahre schönentflammt die Götter unserm Opfrer zu, Und ehr, o lichter Priester, sie.
Wohlentzündet fahr uns die Götter her zum Opferspender, o Agni, und vollziehe die Opferweihe, du lauterer Hotri!
Прекраснозажженный
привези нам
Богов, о Агни, к жертвователю
И принеси жертву, о чистый хотар!
मधु॑मन्तं तनूनपाद्य॒ज्ञं दे॒वेषु॑ नः कवे । अ॒द्या कृ॑णुहि वी॒तये॑ ॥
मधु॑ऽमन्तम् । त॒नू॒ऽन॒पा॒त् । य॒ज्ञम् । दे॒वेषु॑ । नः॒ । क॒वे॒ । अ॒द्य । कृ॒णु॒हि॒ । वी॒तये॑ ॥
हे कवे मेधाविन् अग्ने तनूनपात् एतन्नामकस्त्वम् अद्य अस्मिन् दिने नः अस्मदीयं मधुमन्तं रसवन्तं यज्ञं हविः वीतये भक्षणार्थं देवेषु कृणुहि कुरु प्रापय इत्यर्थः ॥ मधुमन्तम् । फलेपाटिनमिमनिजनां गुक्पटिनाकिधतश्च ' ( उ. सू. १. १८) इति मन्यतेः उप्रत्ययो धकारश्चान्तादेशः। ‘ नित्' इत्यनुवृत्तेः प्रत्ययस्य नित्त्वादाद्युदात्तो मधुशब्दः । तनूनपात् । आमन्त्रितनिघातः । अद्य । ‘ सद्यः परुत्° ' ( पा. सू. ५. ३. २२) इत्यादिना अस्मिन् काले इत्यर्थे द्यप्रत्ययान्तो निपातितः ॥ प्रत्ययस्वरेणान्तोदात्तः । ‘ तद्धितश्चासर्वविभक्तिः ' ( पा. सू. १. १. ३८) इति अव्ययत्वात् ‘ अव्ययादाप्सुपः ' ( पा. सू. २. ४. ८२ ) इत्युपरि सप्तम्या लुक् । संहितायाम् ‘ अन्येषामपि दृश्यते' (पा. सू. ६. ३. १३७ ) इति दीर्घत्वम् । कृणुहि । ‘ कृवि हिंसाकरणयोश्च । इदितो नुम् धातोः ' ( पा. सू. ७, १. ५८ ) इति नुम् । लोटः सेर्हिरादेशः । ‘ धिन्विकृण्व्योर च ' ( पा.सू. ३. १. ८०) इति शपोऽपवादो विकरण उप्रत्ययः; तत्संनियोगेने वकारस्य अकारः । तस्य ‘ अतो लोपः ' ( पा. सू. ६. ४. ४८) इति लोपः। तस्य स्थानिवद्भावात् लघूपधगुणो न भवति । ‘ उतश्च प्रत्ययादसंयोगपूर्वात् ' ( पा. सू. ६. ४. १०६ ) इति हेर्लुक् न भवति, “ उतश्च प्रत्ययाच्छन्दो वावचनम् ' ( पा. सू. ६. ४. १०६. १ ) इति वचनात् । ‘ तिङ्ङतिङः' इति निघातः । वीतये । मन्त्रे वृषेषपचमनविदभूवीरा उदात्त: ' (पा. सू. ३. ३. ९६ ) इति क्तिन् उदात्तः ॥
“Wise (Agni) who are Tanūnapāt (= devourer of clarified butter), present this day our well-favoured sacrifice to the gods for their food.”
Son of Thyself, present, O Sage, our sacrifice to the Gods today.
Sweet to the taste, that they may feast.
Tanuinapat 1! Make our sacrifice rich in honey and convey it to-day to the gods, O sage, that they may feast.
O Tanūnapāt, make our sacrifice full of honey and make it be among the gods
today, to be pursued, o poet.
Das süsse Opfer fahre heut, o weiser Sohn des eignen Leibs Hin zu den Göttern zum Genuss.
Mach unser Opfer süß und bring es heute zu den Göttern, daß sie es gern annehmen, o Weiser!
(Сделай) сладкой, о
Танунапат
Нашу жертву у богов, о мудрый!
Сделай, чтоб сегодня (ею) насладились!
नरा॒शंस॑मि॒ह प्रि॒यम॒स्मिन्य॒ज्ञ उप॑ ह्वये । मधु॑जिह्वं हवि॒ष्कृत॑म् ॥
नरा॒शंस॑म् । इ॒ह । प्रि॒यम् । अ॒स्मिन् । य॒ज्ञे । उप॑ । ह्व॒ये॒ । मधु॑ऽजिह्वम् । ह॒विः॒ऽकृत॑म् ॥
इह देवयजनदेशे अस्मिन् प्रवर्तमाने यज्ञे नराशंसम् एतन्नामकमग्निम् उप ह्वये आह्वयामि। कीदृशम् । प्रियं देवानां प्रीतिहेतुं मधुजिह्वं मधुरभाषिजिह्वोपेतं माधुर्यरसास्वादकजिह्वोपेतं वा। हविष्कृतं हविषो निष्पादकम् ॥ नरशब्दो ‘नॄ नये' इत्यस्मात् अबन्तः । प्रत्ययस्य पित्त्वात् धातुस्वर एव शिष्यते । शंसन्त्यस्मिन्निति शंसः । ‘ हलश्च ' ( पा. सू. ३. ३. १२१ ) इत्यधिकरणे घञ् । नराणां शंसः इति समासे कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते • उभे वनस्पत्यादिषु युगपत् ' ( पा. सू. ६. २. १४० ) इति पूर्वोत्तरपदे प्रकृतिस्वरे भवतः । अत एव वनस्पत्यादिषु पाठात् नरशब्दस्य दीर्घत्वम् । इह । ‘ इदमो हः ' ( पा. सू. ५. ३. ११ ) इति हप्रत्ययः । इदम इश् ' ( पा. सू. ५. ३. ३ ) इति इशादेशः । प्रत्ययस्वरः । प्रियम् । प्रीणातीति प्रियः । ‘ इगुपधज्ञाप्रीकिरः कः' (पा. सू. ३. १. १३५ ) इति कः । प्रत्ययस्वरः । अस्मिन् । ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । ह्वये । निघातः । मधुजिह्वम् । मधुशब्दस्याद्युदात्तत्वमुक्तम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण स एव शिष्यते । हविष्कृतम् । हविष्करोतीति हविष्कृत् । क्विपि हस्वस्य तुक् । ‘नित्यं समासेऽनुत्तरपदस्थस्य ( पा. सू. ८. ३. ४५ ) इति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“I invoke the beloved Narāśamśa, the sweet-tongued, the offere of oblations, to this sacrifice.”
Dear Narasamsa, sweet of tongue, the giver of oblations, I
Invoke to this our sacrifice.
I invoke here at this sacrifice Narâsamsa 1, the beloved one, the honey-tongued preparer of the sacrificial food.
Narāśaṃsa, the dear one, I invite here to this sacrifice,
the honey-tongued preparer of the oblation.
Den Preis der Männer ruf ich an, den lieben bei dem Opfer hier, Der honigzungig Tränke schafft.
Den lieben Narasa?sa lade ich hierher zu diesem Opfer ein, den Opferbereiter mit der Honigzunge.
Нарашансу
приятного сюда,
На эту жертву, я приглашаю,
Приготовителя жертвы, с медовым языком.
अग्ने॑ सु॒खत॑मे॒ रथे॑ दे॒वाँ ई॑ळि॒त आ व॑ह । असि॒ होता॒ मनु॑र्हितः ॥
अग्ने॑ । सु॒खऽत॑मे । रथे॑ । दे॒वान् । इ॒ळि॒तः । आ । व॒ह॒ । असि॑ । होता॑ । मनुः॑ऽहितः ॥
इट्शब्दाभिधेय हे अग्ने ईळितः अस्माभिः स्तुतः सन् सुखतमे अतिशयेन सुखहेतौ कस्मिंश्चित् रथे देवान् स्थापयित्वा कर्मभूमौ आ वह । इट्शब्दाभिधेयत्वमत्र सूचयितुम् ईळित इति विशेषणम् । मनुर्हितः मनुना मन्त्रेण मनुष्येण वा यजमानादिरूपेण हितोऽत्र स्थापितस्त्वं होता देवानामाह्वाता असि ॥ सुखतमे । सुखमस्मिन्नस्तीति मतुप् । तस्य ‘ गुणवचनेभ्यो मतुपो लुग्वक्तव्यः' (पा. सू. ५. २. ९४. ३) इति लुक् । अतिशयेन सुखः सुखतमः । तमपोऽनुदात्तत्वात् प्रातिपदिकस्वरः । रथे । ‘ रमु क्रीडायाम् । रमन्तेऽस्मिन्निति रथः । ‘ हनिकुषिनीरमिकाशिभ्यः क्थन् ' (उ. सू. २. १५९ ) इति क्थन्। ‘ एकाच उपदेशेऽनुदात्तात् ' (पा. सू. ७. २ १०) इति इट्प्रतिषेधः । ‘ अनुदात्तोपदेश° '(पा. सू. ६. ४. ३७) इत्यादिना मकारलोपः। नित्त्वादाद्युदात्तत्वम् । ईळितः। ‘ ईड स्तुतौ । ‘निष्ठा' (पा. सू. ३. २. १०२) इति क्तः । इडागमः । तस्य ‘ आगमा अनुदात्ताः । (पा. म.३.१.३.७ ) इत्यनुदात्तः । प्रत्ययस्वरः । देवान् इति नकारस्य संहितायां दीर्घादटि समानपादे' (पा. सू. ८. ३. ९) इति रुत्वम् । आतोऽटि नित्यम्' (पा. सू. ८. ३. ३) इति आकारस्य अनुनासिकभावः । ‘ भोभगो° ' ( पा. सू. ८. ३. १७) इत्यादिना रोर्यत्वम् । तस्य ‘ लोपः शाकल्यस्य' (पा. सू. ८. ३. १९) इति लोपः। तस्यासिद्धत्वात् “ आद्गुणः' न भवति । आ। निपातत्वादाद्युदात्तः । असि । ' अस भुवि' । लटः सिप् । ‘अदिप्रभृतिभ्यः शपः' (पा. सू. २. ४. ७२ ) इति शपो लुक् । ‘ तासस्त्योर्लोपः' (पा. सू. ७. ४. ५०) इति सकारस्य लोपः। होता । ताच्छील्ये तृन्। सौ ‘ ऋदुशन ' ( पा. सू. ७. १. ९४ ) इत्यादिना अनङ् । ङित्त्वादन्तादेशः । ‘ अप्तृन्' (पा. सू. ६. ४. ११) इत्यादिना उपधादीर्घः । हल्ङ्यादिलोपनलोपौ । नित्त्वादाद्युदात्तः । मनुर्हितः । मन्यते इति मनुः ।. ‘ मन ज्ञाने'। शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च ' (उ. सू. १. १०) इति उप्रत्ययः । तत्र ‘नित्' इत्यनुवृत्तेः नित्त्वादाद्युदात्तः । हितः । दधातेः निष्ठा' इति कर्मणि क्तः । दधातेर्हिः' (पा. सू. ७. ४. ४२) इति हिरादेशः । मनुना हितः इति समासे तृतीयायाः स्थाने ‘सुपां सुलुक्' (पा. सू. ७. १. ३९ ) इत्यादिना सु इति आदेशः । तस्य रुत्वम् । लुगभावश्छान्दसः। तृतीया कर्मणि' (पा. सू. ६. २. ४८) इति पूर्वपदप्रकृतिस्वरत्वम् ॥
“Agni, (who are) Īḷita (= worshipped), bring hither the gods in an easy-moving chariot, for you are the invoker instrumental tuted by men.”
Agni, on thy most easy car, glorified, hither bring the Gods:
Manu appointed thee as Priest.
O magnified 1 Agni! Conduct the gods hither in an easy-moving chariot. Thou art the Hotri instituted by Manus 2.
O Agni, on the best-naved chariot convey the gods here when you are solemnly invoked.
You are the Hotar, installed by Manu.
Auf schnellstem Wagen, Agni, fahr, gepriesener, die Götter her; Dich setzt' als Priester Manus ein.
Agni! Fahr auf leichtestem Wagen die Götter her, dazu berufen! Du bist der von Man eingesetzte Hotri.
О Агни, на быстроходнейшей колеснице,
Призванный
, привези богов.
Ты – хотар, поставленный Манусом.
स्तृ॒णी॒त ब॒र्हिरा॑नु॒षग्घृ॒तपृ॑ष्ठं मनीषिणः । यत्रा॒मृत॑स्य॒ चक्ष॑णम् ॥
स्तृ॒णी॒त । ब॒र्हिः । आ॒नु॒षक् । घृ॒तऽपृ॑ष्ठम् । म॒नी॒षि॒णः॒ । यत्र॑ । अ॒मृत॑स्य । चक्ष॑णम् ॥
हे मनीषिणः बुद्धिमन्त ऋत्विजः बर्हिः दर्भं स्तृणीत वेदेरुपरि आच्छादयत । अत्रापि बर्हिर्नामकोऽग्निः सूच्यते । कीदृशं बर्हिरास्तरणीयम् । आनुषक् अनुक्रमेण सक्तं परस्परं संबद्धं घृतपृष्ठं घृतपूर्णानां स्रुचां बर्हिषि आसादितत्वात् घृतं पृष्ठे उपरिभागे यस्य बर्हिषः तत् घृतपृष्ठम् । यत्र यस्मिन् बर्हिषि अमृतस्य अमृतसमानस्य घृतस्य चक्षणं दर्शनं भवति । यद्वा । मरणरहितस्य देवस्य बर्हिर्नामकस्य अग्नेर्दर्शनं भवति तद्बर्हिः स्तृणीत इति पूर्वत्रान्वयः ॥ स्तृणीत । ‘स्तॄञ् आच्छादने'। लोण्मध्यमपुरुषस्य बहुवचनम् । ‘लोटो लङ्वत्' (पा. सू. ३. ४. ८५ )। ‘तस्थस्थमिपाम्°! (पा. सू. ३. ४. १०१ ) इति थस्य तादेशः । ‘क्र्यादिभ्यः श्ना'। ‘ ई हल्यघोः ' (पा. सू. ६. ४. ११३) इति ईत्वम् । ऋवर्णाच्चेति वक्तव्यम् ' (पा. सू. ८.४.१.१) इति णत्वम् । प्वादीनां ह्रस्वः' ( पा. सू. ७. ३. ८० ) इति धातोर्ह्रस्वत्वम् । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः । अतः तिङ एव प्रत्ययस्वरेणोदात्तत्वम् । बर्हिः । ‘ बृंहेर्नलोपश्च' ( उ. सू. २. २६६) इति इस्प्रत्ययनलोपौ । प्रत्ययस्वरः । आनुषक् । आ समन्तात् अनुषजति इति आनुषक् । ‘षञ्ज सङ्गे'। ‘ धात्वादेः षः सः'।‘क्विप् च ' ( पा. सू. ३. २. ७६) इति क्विप्। अनिदिताम्' (पा. सू. ६. ४. २४) इति लोपः । आङन्वोरुपसर्गयोः प्राक्प्रयोगः । गतिसमासः । ‘ उपसर्गात्सुनोति । इत्यादिना षत्वम् । घृतपृष्ठम् । घृ क्षरणदीप्त्योः '। निष्ठा ' ( पा. सू. ३. २. १०२ ) इति क्तः । प्रत्ययस्वरेणोदात्तः । घृतयुक्तं पृष्ठम् अस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । मनीषिणः । आमन्त्रितनिघातः । अमृतस्य । न विद्यते मृतं मरणम् अस्मिन्निति अमृतम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं बाधित्वा नञ्सुभ्याम् ' ( पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वे प्राप्ते 'नञो जरमरमित्रमृताः' ( पा. सू. ६. २. ११६ ) इत्युत्तरपदाद्युदात्तत्वम् । चक्षणम् । चक्षिङ् व्यक्तायां वाचि'। वागभिव्यक्तिवाची धातुः इह अभिव्यक्तिमात्रं लक्षयति ।' ल्युट् च ' ( पा. सू. ३. ३. ११५ ) इति भावे ल्युट् । योरनादेशः । तस्य आर्धधातुकत्वात् ' चक्षिङः ख्याञ्' (पा. सू. २. ४. ५४ ) इति ख्याञादेशे प्राप्ते “ असनयोश्च ' ( पा. सू. २. ४. ५४. १०) इति प्रतिषेधः ॥
“Strew, learned priests, the sacred grass, well bound together (in bundles), and sprinkled with clarified butter, the semblance of ambrosia.”
Strew, O ye wise, the sacred grass that drips with oil, in order due,
Where the Immortal is beheld.
Strew, O thoughtful men, in due order 1 the sacrificial grass, the back (or surface) of which is sprinkled with butter, on which the appearance of immortality 2 (is seen).
Strew in due order the ritual grass with ghee on its back, o
inspirited ones,
where the sighting of the immortal (host) (will be).
Das Lager streut, o kundige, das fettbedeckte nach dem Brauch, Wo der unsterbliche sich zeigt.
Leget, ihr Andächtigen, das Barhis, mit Schmalz obenauf, in der richtigen Reihe aus, auf dem die Götterwelt erscheint!
Расстелите в правильном порядке
жертвенную солому
Жирноспинную, о умелые,
Где возникает мир бессмертных!
वि श्र॑यन्तामृता॒वृधो॒ द्वारो॑ दे॒वीर॑स॒श्चत॑: । अ॒द्या नू॒नं च॒ यष्ट॑वे ॥
वि । श्र॒य॒न्ता॒म् । ऋ॒त॒ऽवृधः॑ । द्वारः॑ । दे॒वीः । अ॒स॒श्चतः॑ । अ॒द्य । नू॒नम् । च॒ । यष्ट॑वे ॥
द्वारः यज्ञशालाद्वाराणि वि श्रयन्तां कपाटोद्घाटनेन विव्रियन्ताम् । कीदृश्यः । ऋतावृधः ऋतस्य सत्यस्य यज्ञस्य वा वर्धयित्र्यः देवीः द्योतमानाः असश्चतः असश्चन्त्यः उद्घाटनेन प्रवेष्टृपुरुषसङ्गरहिताः । यद्वा । असश्चतः प्रवेष्टृपुरुषरहितान् यज्ञगृहान् तत्पुरुषप्रवेशाय द्वाराभिमानिन्य एतसंज्ञिका अग्निविशेषमूर्तयः वि श्रयन्तां विशेषेण सेवन्ताम् । द्वारसेवया तत्र पुरुषप्रवेशेन वा किं प्रयोजनमिति तदुच्यते । अद्य अस्मिन् दिने नूनम् अवश्यं यष्टवे यष्टुम् । चकारात् दिनान्तरेष्वपि इति द्रष्टव्यम् ॥ ऋतावृधः । ऋतं वर्धयन्तीत्यर्थे वृधेः अन्तर्भावितण्यर्थात् ‘क्विप् च ' इति क्विप् । उपपदसमासः । ‘ अन्येषामपि दृश्यते' (पा. सू. ६. ३. १३७ ) इति पूर्वपदस्य दीर्घत्वम् । वृधिः धातुस्वरेणोदात्तः । समासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । देवीः । ‘ वा छन्दसि ' (पा. सू. ६.१.१०६) इति पूर्वसवर्णदीर्घत्वम् । देवशब्दात् पचाद्यजन्तात् ‘पुंयोगादाख्यायाम्' (पा. सू. ४. १. ४८) इति ङीष् । प्रत्ययस्वरेणोदात्तः । विभक्त्या सह ' एकादेश उदात्तेनोदात्तः' (पा. सू. ८. २. ५) इत्युदात्तः । असश्चतः । ग्लुञ्चु षस्ज गतौ'। जकारस्य व्यत्ययेन चकारः । लटः शत्रादेशः । द्वाराभावे न विद्यन्ते सश्चन्तो गच्छन्तो येषु प्राग्वंशादिषु तान् असश्चतः । अद्य । ‘ सद्यःपरुत्' (पा. सू. ५. ३. २२) इत्यादिना द्यप्रत्ययान्तो निपातितः । तद्धितश्चासर्वविभक्तिः' (पा. सू. १. १. ३८) इति अव्ययसंज्ञकत्वात् परस्या विभक्तेर्लुक् । प्रत्ययस्वरेणान्तोदात्तः । संहितायाम् ‘ अन्येषामपि दृश्यते ' इति दीर्घत्वम् । नूनम् । एवमादीनामन्तः ' ( फि. सू. ८२ ) इत्यन्तोदात्तत्वम् । यष्टवे। यजेः 'तुमर्थे सेसेन् ' (पा. सू. ३. ४. ९) इत्यादिना तवेन्प्रत्ययः । व्रश्चादिना षत्वम्। नित्त्वादाद्युदात्तः ॥ ॥ २४ ॥
“Let the bright doors, the augmenters of sacrifice, (hitherto) unentered, be set open, for certainly today is the sacrifice to be made.”
Thrown open be the Doors Divine, unfailing, that assist the rite,
For sacrifice this day and now.
May the divine gates open, the increasers of Rita, which do not stick together, that to-day, that now the sacrifice may proceed.
Let them gape open—the Divine Doors, increasing through truth, inexhaustible—
today and now for sacrifice.
Ihr Götterthore thut euch auf, ihr heil'gen, unvergleichlichen, Zum Opfer heut und jetzt sogleich.
Die göttlichen Tore sollen sich auftun, die das rechte Werk stärken, die unversieg-lichen, heute und künftig zum opfern.
Пусть раскроются умножающие космический закон
Божественные
врата
, неиссякающие, –
Ныне и впредь – для жертвоприношения!
नक्तो॒षासा॑ सु॒पेश॑सा॒स्मिन्य॒ज्ञ उप॑ ह्वये । इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥
नक्तो॒षासा॑ । सु॒ऽपेश॑सा । अ॒स्मिन् । य॒ज्ञे । उप॑ । ह्व॒ये॒ । इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥
नक्तशब्द उषःशब्दश्च लोके कालविशेषवाचिनौ । इह तु तत्कालाभिमानिवह्निमूर्तिद्वये प्रयुज्यते । नकोषासा नक्तोषोनामिके वह्निमूर्ती अस्मिन् प्रवर्तमाने यज्ञकर्मणि उप ह्वये आह्वयामि। किमर्थम् । नः अस्मदीयम् इदं वेद्यामास्तीर्णं बर्हिः दर्भस् आसदे आसत्तुं प्राप्तुम् । कीदृश्यौ । सुपेशसा शोभनरूपयुक्ते ॥ नक्तं च उषाश्च नक्तोषसा । द्वितीयाद्विवचनस्य ‘सुपां सुलुक्' ' (पा. सू. ७. १. ३९ ) इति आकारः । मलोप उपधादीर्घश्छान्दसौ ।' देवताद्वन्द्वे च' (पा. सू. ६. २. १४१ ) इति पूर्वोत्तरपदयोः युगपत् प्रकृतिस्वरत्वम् । सुपेशसा । शोभनं पेशो रूपं ययोस्ते । पूर्ववत् आकारः । पेशःशब्दो नब्विषयत्वादाद्युदात्तः । बहुव्रीहौ ' नञ्सुभ्याम् ' ( पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वस्य अपवादत्वेन ‘आद्युदात्तं द्व्यच्छन्दसि ' ( पा. सू. ६. २. ११९) इत्युत्तरपदाद्युदात्तत्वम् । अस्मिन् ।' ऊडिदम् ' (पा. सू. ६. १. १७१) इत्यादिना विभक्तिरुदात्ता । आसदे । ‘षद्लृ विशरणगत्यवसादनेषु'। ‘ धात्वादेः षः सः । आङ्पूर्वात् अस्मात् संपदादिभ्यो भावे क्विप् (पा. सू. ३. ३. १०८. ९ ) । प्रादिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“I invoke the lovely night and dawn to sit upon the sacred grass, at this our sacrifice.”
I call the lovely Night and Dawn to seat them on the holy grass
At this our solemn sacrifice.
I invoke here at this sacrifice Night and Dawn, the beautifully adorned goddesses, that they may sit down on this our sacrificial grass.
Night and Dawn, well-ornamented, I invite to this sacrifice,
to sit here on this ritual grass of ours.
Ich rufe Nacht und Morgen an, die schönen, bei dem Opfer hier Zu setzen sich auf diese Streu.
Nacht und Morgen, die schönverzierten, lade ich zu diesem Opfer ein, sich auf unser Barhis zu setzen.
Ночь и Ушас
, прекрасно убранных,
Я приглашаю на это жертвоприношение,
Чтоб они сели на нашу жертвенную солому.
ता सु॑जि॒ह्वा उप॑ ह्वये॒ होता॑रा॒ दैव्या॑ क॒वी । य॒ज्ञं नो॑ यक्षतामि॒मम् ॥
ता । सु॒ऽजि॒ह्वौ । उप॑ । ह्व॒ये॒ । होता॑रा । दैव्या॑ । क॒वी इति॑ । य॒ज्ञम् नः॒ । य॒क्ष॒ता॒म् । इ॒मम् ॥
तच्छब्दोऽत्र सर्वनामत्वात् प्रसिद्धार्थवाची । ता तौ याज्ञिकानां प्रसिद्धौ द्वावग्नी उप हृये आह्वयामि । नः अस्मदीयम् इमं यज्ञं यक्षतां तौ उभौ यजताम् अनुतिष्ठताम् । कीदृशौ । सुजिह्वौ शोभनजिह्वोपेतौ प्रियवचनौ शोभनज्वालौ वा इत्यर्थः । होतारा होमनिष्पादकौ दैव्या दैव्यौ देवसंबन्धनौ । अत एव इमौ अग्नी दैव्यहोतृनामकौ कवी मेधाविनौ ॥ तो तौ । द्वितीया द्विवचनस्य ‘सुपां सुलुक्' इति आकारः । एकादेश उदात्तेनोदात्तः' इत्युदात्तः। सुजिह्वौ । शोभना जिह्वा ययोस्तौ ।' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । पूर्ववत् एकादेशस्वरः । संहितायाम् आवादेशः । वस्य लोपः शाकल्यस्य ' ( पा. सू ८. ३. १९) इति लोपः। होतारा। जुहोतेस्तृन् । द्विवचने ‘ ऋतो ङि ' ( पा. सू. ७. ३. ११०) इति गुणः । अप्तृन् इति उपधादीर्घः । पूर्ववत् आकारः । नित्त्वादाद्युदात्तः । दैव्या । देवानामिमौ । ‘देवाद्यञञौ' (पा. सू. ४. १. ८५. ३) इति यज् । ‘ यस्येति च ' (पा. सू. ६. ४. १४८) इति अकारलोपः । ‘ नित्यादिर्नित्यम्' (पा. सू. ६. १. १९७ ) इत्याद्युदात्तः । पूर्ववत् आकारः । यक्षतां यजताम् । लोटि शपि परतः • सिब्बहुलं लेटि' (पा. सू. ३. १. ३४ ) इति बहुलग्रहणात् सिप् । कुत्वचर्त्वषत्वानि ।
“I call the two eloquent divine and sage invokers (of the gods), that they may celebrate this our sacrifice.”
The two Invokers I invite, the wise, divine and sweet of tongue,
To celebrate this our sacrifice.
I invoke these two divine Hotris 1, the sages with beautiful tongues. May they perform this sacrifice for us.
The two well-tongued poets, the Divine Hotars, I invite.
Let them perform this sacrifice for us right here.
Die Götterpriester ruf' ich her, die weisen, lieblich redenden, Um unser Opfer zu vollziehn,
Die beiden schönzungigen göttlichen Hotri, die Weisen, lade ich ein; sie sollen dieses Opfer für uns opfern
Их, Прекрасноязычных, я приглашаю –
Двух божественных
хотаров
, поэтов.
Пусть принесут эту жертву для нас!
इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुव॑: । ब॒र्हिः सी॑दन्त्व॒स्रिध॑: ॥
इळा॑ । सर॑स्वती । म॒ही । ति॒स्रः । दे॒वीः । म॒यः॒ऽभुवः॑ । ब॒र्हिः । सी॒द॒न्तु॒ । अ॒स्त्रिधः॑ ॥
अत्र महीशब्दो महत्त्वगुणयुक्तां भारतीमाचष्टे; अन्येषु आप्रीसूक्तेषु सदृशेषु इळा सरस्वती भारती इति आम्नातत्वात् । इळादिशब्दाभिधेया वह्निमूर्तयः तिस्रः देवीः दीप्यमानाः बर्हिः वेद्यामास्तीर्ण सीदन्तु प्राप्नुवन्तु । कीदृश्यः । मयोभुवः सुखोत्पादिकाः अस्रिधः शोषेण क्षयेण वा रहिताः ॥ इळा । ‘ ईड स्तुतौ । छान्दसं ह्रस्वत्वम् । क्विप् । धातुस्वरः । ‘टापं चापि हलन्तानां यथा वाचा दिशा निशा ' ( कौ. २. ४. ८२ ) इति टाप् । सरस्वती । सरः असुनन्तो नित्त्वादाद्युदात्तः । तदस्यास्तीति मतुप् । अदुपधत्वात् वत्वम् । तसौ मत्वर्थे ' ( पा. सू. १. ४. १९) इति भत्वेन पदत्वस्य बाधितत्वात् रुत्वाद्यभावः । ‘ उगितश्च ' ( पा. सू. ६. ३. ४५ ) इति ङीप् । मतुब्ङीपौ पित्त्वादनुदात्तौ। मही । महतीशब्दे तकारलोपः छान्दसः । यस्येति च' ( पा. सू. ६. ४. १४८ ) इति अकारलोपः । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । तिस्रः । त्रिशब्दात् जसि • त्रिचतुरोः स्त्रियां तिसृचतसृ ' ( पा. सू. ७. ३. ९९ ) इति तिस्रादेशः । अचि र ऋतः ' ( पा. सू. ७. २. १०० ) इति रेफादेशः । ‘ तिसृभ्यो जसः ' ( पा. सू. ६. १. १६६ ) इति जस उदात्तत्वम् । देवीः । देवानां पत्न्यो देव्यः । ‘ पुंयोगादाख्यायाम् ' ( पा. सू. ४. १. ४८) इति ङीष् । ' यस्येति च ' इति अकारलोपः । प्रत्ययस्वरेण ङीष उदात्तत्वम् । जसि “ दीर्घाज्जसि च ' (पा. सू. ६. १. १०५) इति निषिद्धं दीर्घत्वं ' वा छन्दसि ' ( पा. सू. ६. १. १०६ ) इति पक्षेऽभ्यनुज्ञायते । मयोभुवः । ‘ मीञ् हिंसायाम् ' । हिनस्ति दुःखमिति सुखं मयः । तद्भावयन्तीति मयोभुवः । अन्तर्भावितण्यर्थात् भुवः क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । बर्हिः । बृंहेर्नलोपश्च' ( उ. सू. २. २६६ ) इति इसिप्रत्ययः । प्रत्ययस्वरः । सीदन्तु ।' षद्लृ विशरणादौ ।' पाघ्रा' (पा. सू. ७. ३.७८) इत्यादिना सीदादेशः । अस्रिधः । स्रिधेः हिँसार्थस्य शोषणार्थस्य वा संपदादिभ्यो भावे क्विपि नञा बहुव्रीहिः । पूर्वपदप्रकृतिस्वरं बाधित्वा ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् ॥
“May the three undecaying goddesses, givers of delight, Iḷā, Sarasvatī, and Mahī (= Bhāratī), sit down upon the sacred grass.”
Ila, Sarasvati, Mahi, three Goddesses who bring delight,
Be seated, peaceful, on the grass.
Ilâ ('Nourishment'), Sarasvatî, and Mahî ('the great one') 1, the three comfort-giving goddesses, they who do not fail, shall sit down on the sacrificial grass.
Iḍā, Sarasvatī, Mahī, the three goddesses who are joy itself—
let them sit, unfailing, on the ritual grass.
Iḍa, Sarasvati, Mahi, die drei Göttinnen, lustbegabt, Sich hold zu setzen auf die Streu.
Ila, Sarasvati, Mahi, die drei erfreulichen Göttinnen sollen sich auf das Barhis setzen, die Unfehlbaren!
Ида, Сарасвати, Махи –
богини
, приносящие радость,
Пусть сядут на жертвенную солому, не ошибающиеся!
इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्वये । अ॒स्माक॑मस्तु॒ केव॑लः ॥
इ॒ह । त्वष्टा॑रम् । अ॒ग्रि॒यम् । वि॒श्वऽरू॑पम् । उप॑ । ह्व॒ये॒ । अ॒स्माक॑म् । अ॒स्तु॒ । केव॑लः ॥
त्वष्टारं त्वष्टृनामकमग्निम् इह कर्मणि उप ह्रये । कीदृशम् । अग्रियं श्रेष्ठं विश्वरूपं बहुविधरूपोपेतम् । सः अस्माकं केवलः असाधारणः अस्तु । इतरयजमानेभ्योऽप्यधिकमनुग्रहं करोत्वित्यर्थः ॥ त्वष्टारम् ।' तक्षू त्वक्षू तनूकरणे ' । तृन्। स्वरतिसूतिसूयतिधूनूदितो वा ' (पा. सू. " ७. २.४४ ) इति इडभावपक्षे स्कोः संयोगाद्योरन्ते च ' ( पा. सू. ८. २. २९ ) इति ककोरलोपः । ष्टुत्वम् । द्वितीयैकवचने ‘ ऋतो डिसर्वनामस्थानयोः ' ( पा. सू. ७. ३. ११० ) इति गुणे ‘ अप्तृन्' (पा. सू. ६. ४. ११ ) इत्यादिना उपधाया दीर्घः । तृनो नित्त्वादाद्युदात्तत्वम् । अग्रियम् । ‘ अग्रात् ' ( पा. सू. ४. ४. ११६ ) इत्यनुवृत्तौ ‘ घच्छौ च ' ( पा. सू. ४. ४. ११७ ) इति घच् ।' आयनेयी' ' ( पा. सू. ७. १. २ ) इत्यादिना घकारस्य इयादेशः । ‘ यस्य ' (पा. सू. ६. ४. १४८ ) इति लोपः । ‘ आयनादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थम् ' ( पा. सू. ७. १. २. १) इति उपदेशिवद्भावात् प्रत्ययाद्युदात्तत्वात् घचश्चित्त्वादन्तोदात्तत्वम् । विश्वरूपम् ॥ विश्वानि रूपाणि त्वष्टुत्पन्नत्वेन यस्य । ‘ त्वष्टा वै पशूनां मिथुनानां रूपकृत्' (तै. सं. ६. १. ८. ५) इति श्रुतेः । विश्वशब्दस्याद्युदात्तत्वात् पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘बहुव्रीहौ विश्वं संज्ञायाम् ' ( पा.सू. ६. २. १०६ ) इति पूर्वपदान्तोदात्तत्वम् । अस्माकम् । असु क्षेपणे '। ‘युष्यसिभ्यां मदिक्' ( उ. सू. १. १३६ ) । प्रत्ययस्वरेणान्तोदात्तः । षष्ठीबहुवचनम् आम् । अत्र परमपि ‘ योऽचि' ( पा. सू. ७. २. ८९ ) इति यत्वं बाधित्वा नित्यत्वात् प्रतिपदविधित्वाच्च आम आकमादेशे (पा. सू. ७. १. ३३ ) कृते ' अनादेशे ' ( पा. सू. ७. २. ८६ ) इति निषेधेन यत्वाभावात् ' शेषे लोपः ' ( पा. सू. ७. २. ९० ) इति दकारलोपे अकारान्तत्वेन पश्चात् प्राप्तस्यापिं सुटः ( पा. सू. ७. १. ५२ ) साम इति निर्देशे स्थानिन्यन्तर्भावेन निवृत्तिः । एवमर्थ एव हि साम इति ससुट्कनिर्देशः ॥ केवलः । वृषादेराकृतिगणत्वादाद्युदात्तः ॥
“I invoke the chief and multiform Tvaṣṭṛ (= Viśvakarmā); may he be solely ours.”
Tvastar I call, the earliest born, the wearer of all forms at will:
May he be ours and curs alone.
I invoke hither the foremost, all-shaped Tvashtri to come hither; may he be ours alone.
Here I invite foremost Tvaṣṭar who provides all forms.
Let him be ours alone.
Den erstgebornen Tvaschtar auch, den allgestalt'gen ruf' ich her; Nur uns allein gehör er an.
Den Tvastri lade ich als ersten hierher, der alle Formen besitzt; er soll uns ganz allein gehören.
Тваштара
, имеющего все формы,
Я приглашаю сюда первым.
Пусть будет он только наш!
अव॑ सृजा वनस्पते॒ देव॑ दे॒वेभ्यो॑ ह॒विः । प्र दा॒तुर॑स्तु॒ चेत॑नम् ॥
अव॑ । सृ॒ज॒ । व॒न॒स्प॒ते॒ । देव॑ । दे॒वेभ्यः॑ । ह॒विः । प्र । दा॒तुः । अ॒स्तु॒ । चेत॑नम् ॥
हे वनस्पते एतन्नामकाग्ने देव हविर्भुग्भ्यः देवेभ्यः अस्मदीयं हविः अव सृज समर्पय इत्यर्थः । प्र दातुः यजमानस्य चेतनं परलोकविषयं विज्ञानं त्वत्प्रसादात् अस्तु ॥ वनस्पते । आमन्त्रितनिघातः । देव । पादादित्वात् न निघातः । षाष्ठिकम् आमन्त्रिताद्युदात्तत्वम् । हविः । इसः प्रत्ययस्वरः । दातुः । ददातेः तृच् । चितः' इत्यन्तोदात्तः । ङसि ‘ ऋत उत्' (पा. सू. ६. १. १११ ) इति उत्वम् एकादेशो रपरत्वं च । ‘ रात्सस्य ' ( पा. सू. ८. २. २४ ) इति सलोपः । एकादेशस्वरेण उकार उदात्तः । चेतनम्। 'चिती संज्ञाने' । करणे ल्युट् । योरनादेशः लघूपधगुणः । लिति' (पा. सू. ६. १. १९३) इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥
“Present, divine Vanaspati (= lord of the woods), our oblation to the gods, and may true knowledge be (the reward) of the giver.”
God, Sovran of the Wood, present this our oblation to the Gods,
And let the giver be renowned.
O tree 1, let the sacrificial food go, O god, to the gods. May the giver's splendour be foremost.
Release, o Lord of the Forest, the oblation to the gods, o god.
Let the display of the giver be outstanding.
Ergiesse, o du Waldesherr, o Gott, den Göttern Opferguss; Des Spenders Glanz erstrahle hell.
Du göttlicher Baum, gib für die Götter die Opferspende frei! Das ansehen des Gebers soll gelten.
О божественное
дерево
Отпусти к богам жертвенное возлияние!
Пусть вид дарителя бросится в глаза!
स्वाहा॑ य॒ज्ञं कृ॑णोत॒नेन्द्रा॑य॒ यज्व॑नो गृ॒हे । तत्र॑ दे॒वाँ उप॑ ह्वये ॥
स्वाहा॑ । य॒ज्ञम् । कृ॒णो॒त॒न॒ । इन्द्रा॑य । यज्व॑नः । गृ॒हे । तत्र॑ । दे॒वान् । उप॑ । ह्व॒ये॒ ॥
स्वाहाशब्दो हविष्प्रदानवाची सन् एतन्नामकमग्निविशेषं लक्षयति । तदग्निसंपादितं यज्ञम् इन्द्राय इन्द्रतुष्ट्यर्थं यज्वनः यजमानस्य गृहे ऋत्विजः कृणोतन कुरुत । तत्र यज्ञे देवान् उप ह्वये ॥ कृणोतन ।' कृवि हिंसाकरणयोश्च'। इदित्त्वात् नुम् । लोण्मध्यमबहुवचनस्य ‘तस्थस्थमिपाम् । (पा. सू. ३. ४. १०१) इति तादेशः। ‘तप्तनप्तनथनाश्च' (पा. सू. ७. १. ४५ ) इति तनबादेशः । शपि प्राप्ते ‘धिन्विकृण्व्योर च ' ( पा. सू. ३. १. ८०) इति उप्रत्ययः; तत्संनियोगेन वकारस्य च अकारः । तस्य ‘ अतो लोपः' ( पा. सू. ६. ४. ४८ ) इति लोपः । तस्य ‘ अचः परस्मिन् । ( पा. सू. १. १. ५७ ) इति स्थानिवद्भावात् ऋकारस्य लघूपधगुणो न भवति । तनपः पित्त्वेन अङित्त्वात् उकारस्य गुणः । इन्द्राय। ‘ ऋज़्रेन्द्र ' ( उ. सू. २. १८६) इत्यादिना रन् । नित्त्वादाद्युदात्तः । यज्वनः । यज देवपूजासंगतिकरणदानेषु । ‘सुयजोर्ङ्वनिप् ' (पा. सू. ३. २. १०३ )। ङसि भसंज्ञायाम् अल्लोपे प्राप्ते ‘ न संयोगाद्वमन्तात् ' ( पा. सू. ६. ४. १३७ ) इति निषेधः । वनिपः पित्त्वेन धातुस्वर एव शिष्यते । गृहे ।' ग्रह उपादाने '। गेहे कः ' ( पा. सू. ३. १. १४४ ) इति कप्रत्ययः । ‘ ग्रहिज्या ' ( पा. सू. ६. १. १६ ) इत्यादिना संप्रसारणम् । परपूर्वत्वम् । प्रत्ययस्वरः । तत्र । त्रल् । ' लिति ' ( पा. सू. ६. १. १९३) इति प्रत्ययात्पूर्वस्योदात्तत्वम् । ‘ देवाँ उप ' इत्यत्र संहितायां दीर्घादटि• ' (पा. सू. ८. ३.९) इति नकारस्य रत्वम् । आतोऽटि नित्यम् ' ( पा. सू. ८. ३. ३) इति आकारस्य अनुनासिकादेशः । ‘ भोभगो' ' ( पा. सू. ८. ३. १७ ) इति यत्वम् । तस्य लोपः शाकल्यस्य ' ( पा. सू. ८. ३. १९ ) इति लोपः ॥ ॥ २५ ॥
“Perform the sacrifice conveyed through Svāhā (= an exclamation used in pouring the oblation on the fire) to Indra, in the house of the worshipper; therefore I call the gods hither.”
With Svaha pay the sacrifice to Indra in the offerer's house:
Thither I call the Deities.
Offer ye the sacrifice with the word Svâhâ to Indra in the sacrificers house. Thereto I invoke the gods.
With the svāhā-cry perform the sacrifice for Indra in the house of the sacrificer.
There do I invite the gods.
Mit Heilsruf bringt das Opfer dar dem Indra in des Opfrers Haus, Dort rufe ich die Götter hin.
Vollziehet mit Svaharuf das Opfer für Indra im Hause des Opferers! Dazu lade ich die Götter ein.
(С возгласом)
Свага!
совершите жертвоприношение
Для Индры в доме у жертвователя.
Туда я приглашаю богов.