एन्द्र॑ या॒ह्युप॑ नः परा॒वतो॒ नायमच्छा॑ वि॒दथा॑नीव॒ सत्प॑ति॒रस्तं॒ राजे॑व॒ सत्प॑तिः । हवा॑महे त्वा व॒यं प्रय॑स्वन्तः सु॒ते सचा॑ । पु॒त्रासो॒ न पि॒तरं॒ वाज॑सातये॒ मंहि॑ष्ठं॒ वाज॑सातये ॥
आ । इ॒न्द्र॒ । या॒हि॒ । उप॑ । नः॒ । प॒रा॒ऽवतः । न । अ॒यम् । अच्छ॑ । वि॒दथा॑निऽइव । सत्ऽप॑तिः । अस्त॑म् । राजा॑ऽइव । सत्ऽप॑तिः । हवा॑महे । त्वा॒ । व॒यम् । प्रय॑स्वन्तः । सु॒ते । सचा॑ । पु॒त्रासः॑ । न । पि॒तर॑म् । वाज॑ऽसातये । मंहि॑ष्ठम् । वाज॑ऽसातये ॥
हे इन्द्र परावतः दूरदेशात् स्वर्गलक्षणात् नः अस्मान् उप याहि अस्मत्समीपं प्रत्यागच्छ । तत्र दृष्टान्तः । अयं न । पुरोवर्ती अग्निः अभिषुतः सोमो वा प्रस्तुतत्वान्निर्दिश्यते । स इव । यद्यपि पुरस्तादुपाचारात् निषेधार्थीयो नकारः सर्वत्र तथाप्यत्र औचित्येनोपमार्थीयो गृह्यते । यद्वा । परावतो न दूरदेशादिव । यद्यपि यज्ञे सर्वदा संनिहितः तथापि स्वर्गाख्याद्दूरदेशादिव अस्मिन् यज्ञे ॥ अयमिति विभक्तिव्यत्ययः ॥ अमुं देवयजनदेशम् अच्छ अभिप्राप्तुम् आ याहि इति शेषः। तत्र दृष्टान्तः । सत्पतिः सतां सर्वदा वर्तमानानामृत्विजां पालको यजमान इव ॥ ‘पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ स यथा विदथानि वेदनानि अनुष्यज्ञानानि । यद्वा । सतां विद्यमानानां फलानां पालकोऽग्निः । स यथा विदथानि यज्ञगृहाण्यागच्छति तद्वत् त्वमपि यज्ञगृहाण्यागच्छ । यद्वा । सतां नक्षत्राणां पतिः राजा चन्द्रमाः अस्तमिव । स यथा स्वधामस्थानम् आगच्छति तद्वत् । किंच प्रयस्वन्तः हविर्लक्षणान्नवन्तः वयं यजमानाः त्वा त्वां हवामहे आह्वयामः । किमर्थम् । सुते अभिषुते सोमे निमित्तभूते सति । कीदृशा वयम् । सचा ऋत्विग्भिः सहिताः । ‘ सचा सहेत्यर्थः । (निरु.५. ५) इति यास्कः । आह्वाने दृष्टान्तः । पुत्रासः पुत्राः पितरं न पालकं जनकमिव । तं यथा वाजसातये अन्नस्य संभजनायाह्वयन्ति तथा वयमपि त्वां तदर्थमाह्वयामः । किंच मंहिष्ठं मंहनीयं त्वां वाजसातये संग्रामप्राप्तये तज्जयाय हविःस्वीकाराय वा आह्वयामः ॥
“Come to us, Indra, from afar; not as this (fire) which is before us, (but) like the pious instrumental tutor of sacrifices, or like the royal lord of the constellations (when going) to his setting. Bearing oblations, we, along with (the priests), invoke you to accept the effused (Soma), as sons (invite) a father to partake of food; (we invoke) you, who are most entitled to reverence, to (accept of) the sacrificial viands.”
Come to us, Indra, from afar, conducting us even as a lord of heroes to the gatherings, home, like a King, his heroes' lord.
We come with gifts of pleasant food, with juice poured forth, invoking thee,
As sons invite a sire, that thou mayst get thee strength thee, bounteousest, to get thee strength.
Indra, drive here, right up to us from afar, (drive) on your own to the landing site, like a master of settlements to the rites of distributions— like a king, master of settlements, to his house.
We invoke you, bringing you the pleasing offering when the soma is pressed. Like sons a father (we invoke you) for the winning of prizes—(you) most munificent, for the winning of prizes.
O komme Indra aus der Ferne her zu uns und unserm Führer wie zum Männerrath der Fürst, wie in sein Reich der Herrschende; Wir bringen Opfergaben dir, und rufen dich beim Somasaft, Wie Söhne ihren Vater zu dem reichen Mahl, dich gütigsten zum reichen Mahl.
Indra! Komm aus der Ferne zu uns in eigner Person her, wie ein rechtmäßiger Gebieter zum Rate der Weisen, wie ein König und rechtmäßiger Gebieter nach Hause. Wir rufen dich bei ausgepreßtem Soma nebst Opferschmäusen wie Söhne den Vater, um den Preis zu erringen, den Freigebigsten um den Preis zu erringen.
О Индра, приди к нам издалека –
Его здесь нет – как господин сущего на обряды-раздачи,
Как царь, господин сущего, – домой!
Мы призываем тебя,
Полные радости у выжатого сомы,
Как сыновья – отца, для достижения награды,
Самого щедрого – для достижения награды.
पिबा॒ सोम॑मिन्द्र सुवा॒नमद्रि॑भि॒: कोशे॑न सि॒क्तम॑व॒तं न वंस॑गस्तातृषा॒णो न वंस॑गः । मदा॑य हर्य॒ताय॑ ते तु॒विष्ट॑माय॒ धाय॑से । आ त्वा॑ यच्छन्तु ह॒रितो॒ न सूर्य॒महा॒ विश्वे॑व॒ सूर्य॑म् ॥
पिब॑ । सोम॑म् । इ॒न्द्र॒ । सु॒वा॒नम् । अद्रि॑ऽभिः । कोशे॑न । सि॒क्तम् । अ॒व॒तम् । न । वंस॑गः । त॒तृ॒षा॒णः । न । वंस॑गः । मदा॑य । ह॒र्य॒ताय॑ । ते॒ । तु॒विःऽत॑माय॒ । धाय॑से । आ । त्वा॒ । य॒च्छ॒न्तु॒ । ह॒रितः॑ । न । सूर्य॑म् । अहा॑ । विश्वा॑ऽइव । सूर्य॑म् ॥
हे इन्द्र वंसगः वननीयगमनस्त्वं सोमं पिब ॥ ' द्व्यचोऽतस्तिङः' इति दीर्घः ॥ कीदृशं तम् ॥ अद्रिभिः अभिषवसाधनैर्ग्रावभिः सुवानं सूयमानम् ॥ कर्मणि कर्तृप्रत्ययः ॥ कोशेन सिक्तं कोशस्थानीयेन दशापवित्रेण शोधितम् । यद्वा । अवतम् इत्यनेन सह संबन्धः। कोशेनेति' लक्षणेन() सिक्तं स्वोचितजलेन पूरितम् अवतं न आहावलक्षणम् अवटमिव । तं यथा वंसगः वननीयगमनः तृषा शीघ्रगामी वृषभः पिबति तद्वत् । ततृषाणो न वंसगः । यथा अत्यन्तं तृषितो वंसगो वननीयगमनः शीघ्रगामी पुरुषः आहावादिकमागत्य पिबति तद्वत् । किमर्थं पानमिति तत्राह । ते तव मदाय तृप्तये हर्यताय विक्रान्तिहेतवे कान्त्यर्थं वा ॥ ‘हर्य गतिकान्त्योः '। ‘भृमृदृशि' इत्यादिना अतच् ॥ तुविष्टमाय महत्त्वाय प्रवृद्धत्वाय धायसे यदर्थं मद उपजायते तदर्थाय ॥ धाञः ‘वहिहाधाञ्भ्यः०' इत्यसुनि ‘णित्' इत्यनुवृत्तेः ‘आतो युक्' इति युक्॥ यद्वा । ते तव तुविष्टमाय धायसे अतिप्रभूताय पानाय । त्वा त्वाम् आ यच्छन्तु आभिमुख्येन गमयन्तु । अश्वा इति शेषः । तत्र दृष्टान्तः । हरितो न सूर्यं हरिद्वर्णविशिष्टा एतन्नामका अश्वाः सूर्यमिव । तं यथा अतित्वरया अभिमतदेशम् अभिप्रेरिताः वहन्ति तद्वत् । किंच अहा विश्वा सर्वाण्यहानि सूर्यम् इव । तं यथा त एव प्रतिदिनं वहन्ति तथा अस्मद्यागदिवसेषु प्रतिदिनमावहन्तु ॥
“Drink, Indra, the Soma, that has been expressed by the stones, and spinkled with the sacred grass; as a thirsty ox or a thirsty man hastens to a well. (Drink) fo ryour exhilaration, for your invogoration, for your exceedingly great augmentation; let your horses bring you hither, as his steeds convey the sun; as they carry him (through heaven) day by day.”
O Indra, drink the Soma juice pressed out with stones. poured from the reservoir, as an ox drinks the spring, a very thirsty bull the spring.
For the sweet draught that gladdens thee, for mightiest freshening of thy strength.
Let thy Bay Horses bring thee hither as the Sun, as every day they bring the Sun.
O Indra, drink the soma being pressed by the stones, poured with a bucket, like a buffalo drinking at a well-spring—like a thirsty buffalo. For your delightful exhilaration, for your most exceptional feeding,
let them [=your horses] guide you here, like the golden (mares) the Sun— like the Sun through all the days.
Den Soma, Indra, den vom Stein gepressten trink, der aus der Kufe träufelt, wie den Born der Stier, der Stier, der nach dem Wasser lechzt; Zum lieben Tranke mögen dich, zum kräftigsten Genusse her Die Füchse fahren, wie die Sonne heller Tag, wie aller Tage heller Schein.
Trink, Indra, den mit Steinen ausgepreßten Soma, den mit dem Schöpfeimer ausgegossenen wie der Stier am Brunnen, wie der durstige Stier! Zu deinem beliebten Rausche und reichlichster Sättigung sollen dich die Falben herbringen wie die Falbinnen den Sonnengott, wie alle Tage den Sonnengott.
Пей, о Индра, выжатого камнями,
Вылитого ведром сому, как бык у колодца,
Как мучимый жаждой бык!
Для опьянения, любимого тобою,
Для самого сильного наслаждения
Пусть привезут тебя (кони), как золотистые кобылицы - Сурью,
Как все дни – Сурью!
अवि॑न्दद्दि॒वो निहि॑तं॒ गुहा॑ नि॒धिं वेर्न गर्भं॒ परि॑वीत॒मश्म॑न्यन॒न्ते अ॒न्तरश्म॑नि । व्र॒जं व॒ज्री गवा॑मिव॒ सिषा॑स॒न्नङ्गि॑रस्तमः । अपा॑वृणो॒दिष॒ इन्द्र॒: परी॑वृता॒ द्वार॒ इष॒: परी॑वृताः ॥
अवि॑न्दत् । दि॒वः । निऽहि॑तम् । गुहा॑ । नि॒धि॑म् । वेः । न । गर्भ॑म् । परि॑ऽवीतम् । अश्म॑नि । अ॒न॒न्ते । अ॒न्तः । अश्म॑नि । व्र॒जम् । व॒ज्री । गवा॑म्ऽइव । सिसा॑सन् । अङ्गि॑रःऽतमः । अप॑ । अ॒वृ॒णो॒त् । इषः॑ । इन्द्रः॑ । परि॑ऽवृताः । द्वारः॑ । इषः॑ । परि॑ऽवृताः ॥
अयमिन्द्रः दिवः द्युलोकादानीतं सोमम् अविन्दत् अलभत लब्धवान् । द्युलोकात् गायत्र्या पक्षिरूपयापहृतं भूमावानीतं स्वीकृतवानित्यर्थः । द्युलोकादानयनं तैत्तिरीये ' तृतीयस्यामितो दिवि सोम आसीत्तं गायत्र्याहरत्' (तै. ब्रा. ३. २. १. १ ) इत्यादिषु प्रसिद्धम् । स एव विशेष्यते । गुहा निहितम् अतिगोप्ये प्रदेशे पर्वतादौ स्थापितम् अत एव निधिं निधिस्थानीयम् अनाशमित्यर्थः। आनयने दृष्टान्तः। वेः पक्षिणः गर्भ न शिशुमिव । यथा कपोतादिस्त्री पक्षिणी स्वशिशुं व्याधादिभयात् कस्मिश्चिद्दुर्गमे स्थापयित्वा तत्स्थानम् अजानती परिभ्रम्य विन्दते तद्वदित्यर्थः। पुनः कीदृशम् । अश्मनि पाषाणे अतिमहति विस्तृते अनन्ते अश्मनि अपरिमितपाषाणे पर्वतादौ परिवीतं लताकण्टकादिना परितो वेष्टितम् । सत्स्वपीतरेषु देवेषु कोऽस्यातिशय इति तत्राह । अयम् इन्द्रः वज्री’ वज्रवान् गवां व्रजम् इव पणिना असुरेणापहृतं भूमौ खनित्वा पाषाणेन पिहितद्वारं गवां व्रजं यथा तमसुरं जित्वा द्वारम् उद्घाट्य' लब्धवान् तद्वत् सोमं सिषासन संभक्तुमिच्छन् ॥ ‘ सनीवन्तर्ध' इति विकल्पनात् इडभावे ‘जनसन ' इति आत्वम् ॥ अविन्दत् । अयमर्थः ‘पणिनेव गावः' (ऋ. सं. १. ३२. ११ ) इत्यादिश्रुतिषु प्रसिद्धः। तथा अयम् इन्द्रः परीवृताः परितो मेघेनावृताः इषः अन्नहेतुभूतस्योदकस्य द्वारः द्वाराणि अपावृणोत् अपवृतान्यकरोत् उद्घाटितवानित्यर्थः । तथा कृत्वा इषः इष्यमाणानि व्रीह्याद्यन्नानि परीवृताः भूमौ परितो व्याप्तान्यकरोत् । वज्रेण मेघं भित्त्वा जलवर्षणेन सस्यादिसमृद्धिं कृत्वा व्रीह्यादिकं भूमौ व्याप्तमकरोदित्यर्थः। यतः अयमेवं कृतवान् अतः सोमस्वीकारो युक्तः ॥
“He (Indra) found the (Soma) treasure (that had been brought) from heaven, and hidden like the nestlings of a bird in a rock; amidst (a pile of) vast rocks enclosed (by bushes); desiring to partake (of the beverage), the thunderer (found it), as the chief of the Aṅgirasas (discovered) the hiding-plural ce of the cows; he opened the doors of (the waters, the sources of) food, when shut up (in the clouds, the sources of) food, that were spread (over the earth).”
He found the treasure brought from heaven that lay concealed, close-hidden, like the nestling of a bird, in rock, enclosed in never-ending rock.
Best Angiras, bolt-armed, he strove to win, as 'twere, the stall of kine;
So Indra hath disclosed the food concealed, disclosed the doors, the food that lay concealed.
He found the depository of heaven, deposited in hiding, enveloped in the stone like the embryo of a bird (in an egg)—within the boundless stone. The possessor of the mace, the best Aṅgiras, seeking to win (them) like a pen of cattle—
Indra uncovered the nourishments that were enclosed—(opened) the doors to the nourishments that were enclosed.
Er fand den Schatz des Himmels, der verborgen lag, umhüllt im Felsen, gleich wie eines Vogels Ei, im unbegrenzten Felsgeklüft; Verlangend, blitzbewehrt erschloss Indra, der beste Angiras, Wie einen Kuhstall den verschlossnen Labetrunk, die Thüren, den verschlossnen Trunk.
Er fand den im Versteck verborgenen Schatz des Himmels, der im Fels verschlossen war wie die Brut des Vogels im Ei, im endlosen Fels. Gleich einem, der im Wettkampf die eingehegte Kuhherde gewinnen will, hat der Keulenträger, der oberste Angiras Indra die verschlossenen Speisegenüsse aufgeschlossen, die verschlossenen Tore, die Speisegenüsse.
Он нашел спрятанный втайне клад неба,
Как зародыш птицы (-в яйце), замурованный в скале,
Внутри, в бесконечной скале.
Как тот, кто хочет захватить загон для коров,
Громовержец, лучший из Ангирасов –
Индра открыл запертые жертвенные услады,
Запертые врата – жертвенные услады.
दा॒दृ॒हा॒णो वज्र॒मिन्द्रो॒ गभ॑स्त्यो॒: क्षद्मे॑व ति॒ग्ममस॑नाय॒ सं श्य॑दहि॒हत्या॑य॒ सं श्य॑त् । सं॒वि॒व्या॒न ओज॑सा॒ शवो॑भिरिन्द्र म॒ज्मना॑ । तष्टे॑व वृ॒क्षं व॒निनो॒ नि वृ॑श्चसि पर॒श्वेव॒ नि वृ॑श्चसि ॥
दा॒दृ॒हा॒णः । वज्र॑म् । इन्द्रः॑ । गभ॑स्त्योः । क्षद्म॑ऽइव । ति॒ग्मम् । अस॑नाय । सम् । श्य॒त् । अ॒हि॒ऽहत्या॑य । सम् । श्य॒त् । स॒म्ऽवि॒व्या॒नः । ओज॑सा । शवः॑ऽभिः । इ॒न्द्र॒ । म॒ज्मना॑ । तष्टा॑ऽइव । वृ॒क्षम् । व॒निनः॑ । नि । वृ॒श्च॒सि॒ । प॒र॒श्वाऽइ॑व । नि । वृ॒श्च॒सि॒ ॥
अयम् इन्द्रो गभस्त्योः बाह्वोः वज्रं ददृहाणः दृढं गृह्णन् ॥ दृह दृहि वृद्धौ । लिटः कानच् ॥ गभस्ती इति बाहुनाम, ‘गभस्ती बाहू ' ( नि. २. ४. ६ ) इति तन्नामसु पाठात् । किमर्थम् । असनाय शत्रोरुपरि क्षेपणाय तिग्मम् अत्यन्ततीक्ष्णं वज्रं सं श्यत् सम्यक् तीक्ष्णीकरोति ॥ ' शो तनूकरणे'। “ ओतः श्यनि' इति ओकारलोपः । छान्दसः अडभावः । यद्वा । लेटि ‘ इतश्च लोपः' इति इकारलोपः ॥ तत्र दृष्टान्तः । क्षद्मेव उदकम् इव । उदकं यथा शत्रूणां निरसनाय अभिमन्त्रणादिसंस्कारेण तीक्ष्णीक्रियते तद्वत् । क्षद्मेत्युदकनाम, ‘क्षद्म नभः ' ( नि. १, १२. ३) इति तन्नामसु पाठात् । पुनरपि तदेव विशेष्यते । अहिहत्याय अहेर्वृत्रस्य मेघस्य वा हननाय ॥ हन्तेः 'हनस्त च ' इति क्यप् तकारान्तादेशश्च ॥ सं श्यत् । पूर्वमेव तीक्ष्णं सत् पुनरपि वधाय तीक्ष्णयति । हे इन्द्र ओजसा बलेन पराभिभवनसामर्थ्येन शवोभिः सेनालक्षणैर्बलैः मज्मना शारीरेण च बलेन संविव्यानः सम्यग् युक्तः सन् ॥ विव्यान इति लिटः कानच् ।' ग्रहिज्यावयि° ' इति संप्रसारणम् ॥ तष्टा वृक्षमिव । यथा कश्चित्तष्टा वृक्षाणां तक्षणस्य साधु कर्ता वनिनः वनसंबन्धिनो वृक्षान् निवृश्चति स्वोपयोगाय नितरां छिनत्ति तक्षणेन तनूकरोति तथा त्वमपि अस्मासु वक्रमाचरन्तं शत्रुं नि वृश्चसि। किंच परश्वेव नि वृश्चसि । यथा परशुना कश्चिच्छिन्नत्ति वृक्षं तथा त्वमपि उक्तैस्त्रिविधैर्बलैः नितरामस्मद्द्वेषिणं वृश्चसि ॥
“Grasping his sharp thunderbolt with both hands, Indra whetted it to hurl it (on his foes), like the water (of an imprecation); he whetted it for the destruction of Ahi. Indra, who are fully endowed with strength, with energy, with might, you cut (our enemies) to pieces, as a wood-cutter the trees of a forest; you cut them to pieces as if with a hatcheṭ”
Grasping his thunderbolt with both hands, Indra made its edge most keen, for hurling, like a carving-knife for Ahi's slaughter made it keen.
Endued with majesty and strength, O Indra, and with lordly might,
Thou crashest down the trees, as when a craftsman fells, crashest them down as with an axe.
Firmly holding the mace in his hands, Indra honed it sharp like a carving knife, for throwing—honed it for the smashing of the serpent.
Enveloping yourself with strength, with vast powers, with might, o Indra, like a carpenter a tree from the wooden one [=forest], you cut down (the serpent)—as if with an axe you cut (him) down.
In beiden Armen Indra haltend seinen Blitz macht' er ihn wie ein Messer sich zum schleudern scharf, zur Drachentödtung schärft' er ihn; Mit Kraft bekleidet und mit Macht, o Indra, und mit Herrlichkeit Zerhaust du Wolken, wie den Baum der Zimmermann, zerhaust sie wie mit scharfem Beil.
Die Keule in den Händen festhaltend schliff sie Indra, scharf wie ein Messer, zum Wurf; er schliff sie zum Töten des Drachens. Mit Kraft, mit den Stärken dich gürtend, o Indra, mit Größe haust du die Bäume um wie der Zimmermann den Baum, wie mit der Axt haust du sie um.
Крепко держа в руках ваджру, Индра
Наточил (ее) острой, как нож, для метания,
Он наточил (ее) для убийства змея.
Рядясь в могущество,
В силы, в величие, о Индра,
Как плотник – дерево, срубаешь ты нападающих (врагов),
Как топором срубаешь.
त्वं वृथा॑ न॒द्य॑ इन्द्र॒ सर्त॒वेऽच्छा॑ समु॒द्रम॑सृजो॒ रथाँ॑ इव वाजय॒तो रथाँ॑ इव । इ॒त ऊ॒तीर॑युञ्जत समा॒नमर्थ॒मक्षि॑तम् । धे॒नूरि॑व॒ मन॑वे वि॒श्वदो॑हसो॒ जना॑य वि॒श्वदो॑हसः ॥
त्वम् । वृथा॑ । न॒द्यः॑ । इ॒न्द्र॒ । सर्त॑वे । अच्छ॑ । स॒मु॒द्रम् । अ॒सृ॒जः॒ । रथा॑न्ऽइव । वा॒ज॒य॒तः । रथा॑न्ऽइव । इ॒तः । ऊ॒तीः । अ॒यु॒ञ्ज॒त॒ । स॒मा॒नम् । अर्थ॑म् । अक्षि॑तम् । धे॒नूःऽइ॑व । मन॑वे । वि॒श्वऽदो॑हसः । जना॑य । वि॒श्वऽदो॑हसः ॥
हे इन्द्र त्वं वृथा अप्रयत्नेनैव नद्यः नदीः समुद्रम् अच्छ' आभिमुख्येन सर्तवे प्राप्तुम् असृजः मेघं निर्भिद्य उत्पादितवानसि । तत्र दृष्टान्तः । रथानिव । यथा त्वं रथान् अस्मद्यागं प्रति अच्छ सर्तवे आभिमुख्येन प्राप्तुम् असृजः सृष्टवानसि तद्वत् । किंच वाजयतो रथानिव संग्राममन्नं वा इच्छन्तो राजादयः रथानिव । ते यथा संग्राम प्रतिं ओषध्यादिकं वा अतिसर्तुं रथान् सृजन्ति तद्वत् ॥ क्यजन्तात् ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् ॥ किंच इतः अस्मत्संनिधिदेशम् ॥ द्वितीयार्थे तसिल् ॥ अस्मान् प्रति ऊतीः ऊत्यः गमनवत्यो रक्षणवत्यो वा नद्यः समानमर्थं समानप्रयोजनवत् अक्षितम् उदकम् अयुञ्जत योजितवत्यः । त्वत्प्रसादादिति भावः ॥ अर्थशब्दः उदकविशेषणः सन् नपुंसकलिङ्गः ॥ अक्षितमित्युदकनाम, ‘अक्षितं बर्हिः' (नि.१.१२.७७)इति तन्नामसु पाठात् । तत्र दृष्टान्तः । मनवे मनोरर्थाय धेनूरिव धेनवो यथा विश्वदोहसः सर्वार्थं दोग्ध्र्यः अभवन् । यथा वा जनाय यस्मै कस्मै चित्समर्थाय तदर्थं विश्वदोहसः भवन्ति सर्वक्षीरप्रदा भवन्ति । यद्वा । जनाय सर्वजनार्थं सस्यादीनभिलक्ष्य नद्यः विश्वदोहसः संपूर्णदोग्ध्र्यः भवन्ति सर्वत्र प्रवहन्ति । अत्र नद्यः प्रीणनात् दोहस इत्युपचर्यते । ईदृग्जगदुपकारिवृष्टिप्रदः' इतीन्द्रस्यैव स्तुतिः ॥ ॥ १८॥
“You have without effort created the river (that are) to flow to the sea, like chariots (bearing you to sacrifices), as those (construct) chariots who are desirous of (going to) battle; (the streams) flowing hither have gathered together their water for a common purpose, like the cows that yielded all things to Manu; that yield all things to man.”
Thou, Indra, without effort hast let loose the floods to run their free course down,
like chariots, to the sea, like chariots showing forth their strength.
They, reaching hence away, have joined their strength for one eternal end,
Even as the cows who poured forth every thing for man, Yea, poured forth all things for mankind.
You, Indra, released the rivers to flow at will to the sea, like chariots— like prize-seeking chariots.
The enduring (rivers) hitched themselves up toward the same
imperishable goal,
like milk-cows yielding all milk for Manu—yielding all milk for the people.
Die Ströme liessest du mit Lust, o Indra, frei, dass sie zum Meere niederrinnen Wagen gleich, wie Wagen zu des Rennens Preis; Da legten sie sich Eile an zu ewig gleichem Ziele hin; Wie Kühe strömend alles Gut dem Menschenvolk, den Männern strömend alles Gut.
Du, Indra, ließest die Flüsse los um nach Lust zum Meere zu laufen gleich Wagen, gleich preiskämpfenden Wagen. Sie spannten ihre Hilfe auf der Stelle an, um dem gemeinsamen Ziel, dem unerschöpflichen Meere zuzueilen, ihre Fluten, die wie die Kühe dem Menschen alle Milch geben, die dem Volke alle Milch geben.
Ты выпустил реки, о Индра, чтобы они мчались
Весело к морю, как колесницы,
Как колесницы, стремящиеся к добыче.
С тех пор они запрягали (свои) подкрепления,
(Чтобы те мчались) к общей цели – неиссякающему (морю),
Как дойные коровы, отдающие все молоко человеку,
Отдающие все молоко – народу.
इ॒मां ते॒ वाचं॑ वसू॒यन्त॑ आ॒यवो॒ रथं॒ न धीर॒: स्वपा॑ अतक्षिषुः सु॒म्नाय॒ त्वाम॑तक्षिषुः । शु॒म्भन्तो॒ जेन्यं॑ यथा॒ वाजे॑षु विप्र वा॒जिन॑म् । अत्य॑मिव॒ शव॑से सा॒तये॒ धना॒ विश्वा॒ धना॑नि सा॒तये॑ ॥
इ॒माम् । ते॒ । वाच॑म् । व॒सु॒ऽयन्तः॑ । आ॒यवः॑ । रथ॑म् । न । धीरः॑ । सु॒ऽअपाः॑ । अ॒त॒क्षि॒षुः॒ । सु॒म्नाय॑ । त्वाम् । अ॒त॒क्षि॒षुः॒ । शु॒म्भन्तः॑ । जेन्य॑म् । यथा॑ । वाजे॑षु । वि॒प्र॒ । वा॒जिन॑म् । अत्य॑म्ऽइव । शव॑से । सा॒तये॑ । धना॑ । विश्वा॑ । धना॑नि । सा॒तये॑ ॥
हे इन्द्र ते त्वदर्थं वसूयन्तः धनमात्मन इच्छन्तः आयवः दातव्यहवीरूपान्नवन्त ऋत्विजः। आयव इति मनुष्यनाम, ‘आयवः अनवः' (नि.२.३.१७) इति तन्नामसु पाठात् । ते इमा क्रियमाणां स्तुतिरूपां वाचम् अतक्षिषुः संपादितवन्तः। स्वपाः शोभनकर्मवान् कुशली। बहुव्रीहौ ‘सोर्मनसी इत्युत्तरपदाद्युदात्तत्वम्॥ धीरः धीमान् रथं न रथमिव। तं यथा प्रयत्नेन साधु करोति तद्वत् । एवं कृत्वा त्वां सुम्नाय सुखाय अतक्षिषुः अनुकूलमुत्पादयन्ति। सुम्नमिति सुखनाम, ‘सुम्नं सुग्म्यम्' (नि. ३. ६. १६ ) इति तन्नामसु पाठात् । किंच हे विप्र मेधाविन्निन्द्र’ वाजेषु संग्रामेषु वाजिनं वेगवन्तं त्वां शुम्भन्तः गुणैर्दीपयन्तः अतक्षिषुः स्तुत्या प्रीणयन्ति । तत्र दृष्टान्तः । जेन्यं यथा । जयशीलं शूरं यथा भटाः स्तुवन्ति तद्वत् । यद्वा । जेन्यं जयशीलं वाजिनं वेगवन्तम् अश्वं वाजेषु संग्रामेषु यथा उत्साहयन्ति तद्वत् । किंच शवसे बलाय धना धनानां सातये लाभाय च स्तुम इति शेषः ॥ ‘ ऊतियूतिजूतिसाति° ' इत्यादिना क्तिन उदात्तत्वम् ॥ न केवलं धनमात्रं किंतु विश्वा धनानि सातये कृत्स्नानि प्रीणनसाधनानि गवादिधनानि ॥ षष्ठ्यर्थे द्वितीया ॥ तेषां लाभाय । तत्र दृष्टान्तः । धना धने संग्रामे शवसे वैरिजयसाधनबलाय सातये तेषामेव धनानां प्राप्तये च अत्यमिव सततगामिनमश्वमिव । तं यथा स्तुवन्ति तद्वत् ॥
“Men who are desirous of wealth have recited this your praise, as a resolute and provident man (prepares) a chariot (for a journey); they have propitiated you for their good; glorifying you, sage Indra, as impetuous in conflicts, they have praised you (as men praise) a conqueror. We praise you for (the acquisition of) strength, wealth, and every kind of affluence; as (they command) a courser (for his good qualities) in battle.”
Eager for riches, men have formed for thee this song, like as a skilful craftsman fashioneth a car, so have they wrought thee to their bliss;
Adorning thee, O Singer, like a generous steed for deeds of might,
Yea, like a steed to show his strength and win the prize, that he may bear each prize away.
This speech have the goods-seeking Āyus fashioned for you, like a clever artisan a chariot—they have fashioned you for favor,
adorning (you / the speech), you inspired poet, like a thoroughbred, prize-seeking horse at the contests for prizes,
like a steed for power, for winning riches—for winning all riches.
Die Menschen haben Gut begehrend dir dies Lied gemacht, so wie der weise Künstler Wagen baut, zur Güte dich bereit gemacht, O weiser, wie ein edles Ross beim Wagenrennen, schmückend dich; Wie einen Renner, dass er kräftig Preis erlangt, dass alle Preise er erlangt.
Diese Reden haben für dich im Wunsch nach Gut die Ayusöhne gefertigt wie der geschickte Künstler einen Wagen, dich haben sie zur Gunsterweisung bearbeitet; dich schön machend wie das Leibroß, das in den Entscheidungskämpfen siegreich ist, du Redekundiger, wie ein Rennpferd zur Kraftleistung, um Schätze zu gewinnen, um alle Schätze zu gewinnen.
Эту речь приготовили тебе потомки Аю, стремящиеся к имуществу,
Как искусный мастер – колесницу,
Приготовили тебя для проявления милости,
Украшая, как благородного
Боевого коня в битвах, о вдохновенный,
Как скакуна – для проявления силы, для захвата наград,
Для захвата всех наград.
भि॒नत्पुरो॑ नव॒तिमि॑न्द्र पू॒रवे॒ दिवो॑दासाय॒ महि॑ दा॒शुषे॑ नृतो॒ वज्रे॑ण दा॒शुषे॑ नृतो । अ॒ति॒थि॒ग्वाय॒ शम्ब॑रं गि॒रेरु॒ग्रो अवा॑भरत् । म॒हो धना॑नि॒ दय॑मान॒ ओज॑सा॒ विश्वा॒ धना॒न्योज॑सा ॥
भि॒नत् । पुरः॑ । न॒व॒तिम् । इ॒न्द्र॒ । पू॒रवे॑ । दिवः॑ऽदासाय । महि॑ । दा॒शुषे॑ । नृ॒तो॒ इति॑ । वज्रे॑ण । दा॒शुषे॑ । नृ॒तो॒ इति॑ । अ॒ति॒थि॒ऽग्वाय॑ । शम्ब॑रम् । गि॒रेः । उ॒ग्रः । अव॑ । अ॒भ॒र॒त् । म॒हः । धना॑नि । दय॑मानः । ओज॑सा । विश्वा॑ । धना॒नि । ओज॑सा ॥
हे इन्द्र नृतो रणे नर्तनशील त्वं दाशुषे हविर्दत्तवते पूरवे अभिमतपूरकाय" । मनुष्यनामैतत् । महि महते दिवोदासाय एतन्नामकाय राज्ञे ॥ ‘ दिवो दासे षष्ठ्या अलुक्' ( का. ६. ३. २१.५ ) इति अलुक् ।' दिवोदासादीनां छन्दसि ' इति पूर्वपदाद्युदात्तत्वम् ॥ नवतिम् एतत्संख्याकानि पुरः शत्रूणां पुराणि भिनत् भिन्नवानसि । तथा हे नृतो गात्रविक्षेपणकुशल हस्तपादादिप्रक्षेपेण शत्रूणां हिंसक वज्रेण क्षेपणसमर्थेनायुधेन दाशुषे हविर्दत्तवते दिवोदासाय अन्यस्मै वा भिनत् । तमपि शत्रुं भिन्नवानसि । इदानीं परोक्षेणाह। अतिथिग्वाय पूजार्थमतिथिं गच्छते दिवोदासाय तदर्थम् ॥ गमेरौणादिको ड्वप्रत्ययः ॥ उग्रः उद्गूर्णबलः इन्द्रः पूर्वं पुरभेदनसमये विद्धमपि अम्रियमाणं गिरिमारूढं शम्बरम् एतन्नामानमसुरं गिरेः दुर्गमात् पर्वतादेः सकाशात् ओजसा स्वकीयेन बलेन अवाभरत् अवाङ्मुखमवकृष्य प्राणं हृतवान्। किं कुर्वन् । महः महान्ति धनानि तदीयगवाश्वादीनि दयमानः दिवोदासाय राज्ञे साधयन् ॥ ‘ दय दानगतिहिंसादानेषु'। शपः पित्त्वादनुदात्तत्वे शानचो लसार्वधातुकस्वरेण धातुस्वरः ॥ न केवलमल्पं धनं किंतु विश्वा धनानि सर्वाण्यपि तेषां मणिमुक्तादीनि ओजसा स्वकीयेन बलेन दयमानः साधयन् अवाभरत् ॥
“For Pur, the giver of offerings, for the mighty Divodāsa, you, Indra, the dancer (with delight in battle), have destroyed ninety cities; dancer (in battle), you have destroyed them with (your thunderbolt), for (the sake of) the giver of offerings. For (the sake of) Atithigva, the fierce (indra) hurled Śambara from off the mountain bestowing (uon the prince) immense treasure, (acquired) by (his) prowess; all kinds of wealth (acquired) by (his) prowess.”
For Puru thou hast shattered, Indra ninety forts, for Divodasa thy boon servant with thy bolt, O Dancer, for thy worshipper.
For Atithigva he, the Strong, brought Sambara. from the mountain down,
Distributing the mighty treasures with his strength, parting all treasures with his strength.
You, Indra, split the ninety strongholds for Pūru, for Divodāsa the greatly pious, you prancer—with your mace (you split them) for the pious, you prancer.
The strong one brought down Śambara from the mountain for Atithigva, the great one distributing riches with his strength—all riches with his strength.
Dem Puru brachest, Indra, neunzig Burgen du, dem Divodasa, der dir eifrig huldigte, mit Blitz, o Held, dem Huldiger; Für Atithigva stürzte er mit Kraft vom Berg den Çambara; Mit Macht vertheilend allen Schatz des Ungethüms, mit Macht vertheilend seinen Schatz.
Du brachst für Puru Divodasa die neunzig Burgen, für den reichlich spendenden, du Tänzer; mit der Keule für den Spendenden, du Tänzer. Für Atithigva stieß der Gewaltige den Sambara vom Berge, die großen Schätze mit Kraft verteilend, alle Schätze mit Kraft.
Ты разбил девяносто крепостей, о Индра, для Пуру
Диводасы, щедрого почитателя, о танцор,
Ваджрой – для почитателя, о танцор.
Для Атитхигва Шамбару
Столкнул с горы, могучий,
С силой раздавая большие сокровища,
Все сокровища – с силой.
इन्द्र॑: स॒मत्सु॒ यज॑मान॒मार्यं॒ प्राव॒द्विश्वे॑षु श॒तमू॑तिरा॒जिषु॒ स्व॑र्मीळ्हेष्वा॒जिषु॑ । मन॑वे॒ शास॑दव्र॒तान्त्वचं॑ कृ॒ष्णाम॑रन्धयत् । दक्ष॒न्न विश्वं॑ ततृषा॒णमो॑षति॒ न्य॑र्शसा॒नमो॑षति ॥
इन्द्रः॑ । स॒मत्ऽसु॑ । यज॑मानम् । आर्य॑म् । प्र । आ॒व॒त् । विश्वे॑षु । श॒तम्ऽऊ॑तिः । आ॒जिषु॑ । स्वः॑ऽमीळ्हेषु । आ॒जिषु॑ । मन॑वे । शास॑त् । अ॒व्र॒तान् । त्वच॑म् । कृ॒ष्णाम् । अ॒र॒न्ध॒य॒त् । दक्ष॑म् । न । विश्व॑म् । त॒तृ॒षा॒णम् । ओ॒ष॒ति॒ । नि । अ॒र्श॒सा॒नम् । ओ॒ष॒ति॒ ॥
अयम् इन्द्रः समत्सु रणेषु प्रहारनिमित्तेषु यजमानं यष्टारम् आर्यम् अरणीयं सर्वैर्गन्तव्यं प्रावत् रक्षति । समत्सु इति संग्रामनाम ‘समत्सु समरणे' (नि. २.१७.२२ ) इति तन्नामसु पाठात् । किंच शतमूतिः स्वभक्तेष्वपरिमितरक्षणः इन्द्रः विश्वेषु । लिङ्गव्यत्ययः ॥ आजिषु सर्वेषु स्पर्धानिमित्तेषु संग्रामेषु यजमानं प्रावत्। तथा स्वर्मीळ्हेषु स्वर्गदेशेषु सुखस्य सेचयत्सु वा आजिषु महासंग्रामेषु प्रावत् स्वर्गप्रदानेन रक्षति । रणे आभिमुख्येन हतानां वीराणां स्वर्गः पराशरेण स्मर्यते-’ द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे योऽभिमुखो हतः' (परा. ३. २५) इति । अत्रेतिहासमाचक्षते । अंशुमती नाम नदी । तस्यास्तीरे कृष्णनामा असुरः वर्णतश्च कृष्णः दशसहस्रैरनुचरैरुपेतः तद्देशवर्तिनः पीडयन्नास्ते । तत्रेन्द्रः बृहस्पतिना प्रेरितः सन् मरुद्भिः सहितः कृष्णां तदीयत्वचमुत्कृत्य सानुचरमवधीत् । अयमर्थः ' अव द्रप्सो अंशुमतीमतिष्ठत्' (ऋ. सं. ८.९६. १३) इत्यादिना उपरिष्टात् वक्ष्यते । तदत्रोच्यते । अयमिन्द्रः मनवे मनुष्याय ॥ विभक्तिव्यत्ययः ॥ मनुष्याणामर्थाय । अव्रतान् । व्रतमिति कर्मनाम् । तद्रहितान् यागविद्वेषिणः शासत् शिक्षितवान् हिंसितवान् ॥ शासेर्लेटि अडागमः ॥ तथा कृष्णां त्वचं कृष्णनाम्नोऽसुरस्य कृष्णवर्णां त्वचमुत्कृत्य अरन्धयत् हिंसितवान् । ‘ रध हिंसायाम्'। ‘रधिजभोरचि' इति नुम् ॥ केन प्रकारेणेति तदुच्यते । धक्षत् भस्मीकरोति ॥ लेट्यडागसः । ‘सिब्बहुलम्' इति सिप् ॥ तथा विश्वं ततृषाणमोषति । सर्वमपि हिंसकं तदनुचरसंघं दहति । यत्किंचिदवशिष्टमिति न इत्याह । अर्शसानं हिंसारुचिं हतावशिष्टं सर्वमपि नि ओषति निःशेषेण दहति ॥
“Indra, the manifold protector (of his worship) battles, defends his Ārya worshipper in all conflicts, in conflicts that confer heaven; he punished for (the benefit of) man the neglecters of religious rites; he tore off the black skin (of the aggressor); as if burning (with flame), he consumes the malignant; he utterly consumes him who delights in cruelty.”
Indra in battles help his Aryan worshipper, he who hath hundred helps at hand in every fray, in frays that win the light of heaven.
Plaguing the lawless he gave up to Manu's seed the dusky skin;
Blazing, 'twere, he burns each covetous man away, he burns, the tyrannous away.
Indra aided the Ārya sacrificer in battles, affording a hundred forms of help in all contests—in contests whose prize is the sun.
Chastising those who follow no commandment, he made the black skin [=barbarians] subject to Manu.
As a burning (fire) scorches everything dried up, he scorches the
thirsty—scorches Arśaśāna down to the ground.
In Schlachten half dem Arier, der Opfer bringt, in allen Kämpfen Indra, schützend hundertfach, in Kämpfen um des Himmels Gut; Gottlose strafend gab er hin die schwarze Haut dem Manustamm; Wie Feuer brennt er jeden gierigen hinweg, den Schädiger brennt er hinweg.
Indra half dem opfernden Arier in den Fehden weiter, in allen Kämpfen hundert Hilfen bringend, in den Kämpfen um das Sonnenlicht. Die Unbotmäßigen züchtigend machte er dem Manu die schwarze Haut untertan. Wie brennendes Feuer alles Verdorrte versengt er den Gierigen, sengt er den Arsasana nieder.
Индра поддерживал в раздорах приносящего жертвы ария,
Он, имеющий сто поддержек, – во всех состязаниях,
В состязаниях, награда за которые – солнечный свет.
Карая для Ману тех, кто не имеет обетов,
Он подчинил (ему) черную кожу.
Как пылающий (огонь) – все (иссушенное) жаждущего (врага),
Сжигает он Аршасану.
सूर॑श्च॒क्रं प्र वृ॑हज्जा॒त ओज॑सा प्रपि॒त्वे वाच॑मरु॒णो मु॑षायतीशा॒न आ मु॑षायति । उ॒शना॒ यत्प॑रा॒वतोऽज॑गन्नू॒तये॑ कवे । सु॒म्नानि॒ विश्वा॒ मनु॑षेव तु॒र्वणि॒रहा॒ विश्वे॑व तु॒र्वणि॑: ॥
सूरः॑ । च॒क्रम् । प्र । वृ॒ह॒त् । जा॒तः । ओज॑सा । प्र । पि॒त्वे । वाच॑म् । अ॒रु॒णः । मु॒षा॒य॒ति॒ । ई॒शा॒नः । आ । मु॒षा॒य॒ति॒ । उ॒शना॑ । यत् । प॒रा॒ऽवतः॑ । अज॑गन् । ऊ॒तये॑ । क॒वे॒ । सु॒म्नानि॑ । विश्वा॑ । मनु॑षाऽइव । तु॒र्वणिः । अहा॑ । विश्वा॑ऽइव । तु॒र्वणिः॑ ॥
अत्रापि इतिहासमाचक्षते । केचन असुराः पूर्वमिन्द्रवज्रेण वधो मा भूत् इति ब्रह्मणो वरं लब्ध्वा इन्द्रमगणयित्वा उद्वृत्ताः आसन् । तान् हन्तुम् इन्द्रः सूर्यरथस्य चक्रमादाय अवधीदिति । तदिदमुच्यते । अयमिन्द्रः सूरः सूर्यस्य ॥ षष्ठ्यर्थे प्रथमा । चक्रं रथस्य चक्रमादाय ओजसा शारीरेण बलेन जातः समृद्धः सन् प्र वृहत् प्रक्षिप्तवान् ॥ ‘वृहू उद्यमने ' । तौदादिकः ॥ किंच अरुणः अरुणवर्णः अत्यन्ततेजोयुक्तः सन् यद्वा गमनशीलः सन् प्रपित्वे तेषां समीपे तत्समीपमागत्य वाचं वागुपलक्षितं प्राणं मुषायति मुमोष मुष्णाति वा । प्रपित्वे इत्यासन्ननाम । यद्वा । वाचं तेषां प्रहारध्वनिं मुषायति । तेषु हतेषु ध्वनिः स्वयमेव विश्रान्तः भवति अवधीदित्यर्थः । अथवा । इन्द्र एव द्युस्थानः सन् आदित्यात्मना स्तूयते । सूरः सूर्यः जातः उदितः सन् ओजसा स्वकीयेन तेजसा युक्तः चक्रं प्र वृहत् तमोनिवारणार्थमसुरजयाय वा चक्रोपलक्षितं रथं प्रकर्षेण उद्यतं करोति । ततः पूर्वम् अरुणः तद्रथयन्ता प्रपित्वे मन्देहाद्यसुराणां प्रपित्वे समीपे वाचं तेषां ‘जहि भिन्धि' इत्यादिध्वनिं मुषायति मुष्णाति ॥ मुषेरुत्तरस्य श्नोऽहावपि ‘ छन्दसि शायजपि ' इति शायजादेशः ॥ तदनन्तरं सूर्यः ईशानः सर्वाणि तमांसि असुरान् वा निराकर्तुं समर्थः सन् आ मुषायति समन्तात् मुष्णाति । अथ प्रत्यक्षकृतः । हे कवे क्रान्तदर्शिन् यत् यस्त्वम् उशना उशनस एतन्नाम्नो महर्षेः ऊतये रक्षणाय परावतः दूरात् स्वर्गस्थानात् अजगन् गतवानसि प्राप्तवानसि ॥ गमेः सिपि छान्दसः शपः श्लुः । हल्ङ्यांदिलोपे ' मो नो धातोः' (पा. सू. ८. २. ६४ ), इति नत्वम् ॥ यद्वा। उशना उशनसा युक्तः सन् अजगन् आगच्छ । आगत्य च विश्वा विश्वानि सुम्नानि सुखसाधनानि धनानि आदाय अस्माकं तुर्वणिः तूर्णवनिः क्षिप्रं संभक्ता भव इति शेषः। 'तुर्वणिस्तूर्णवनिः' (निरु. ३. १४ ) इति निरुक्तम् । तत्र दृष्टान्तः । मनुषेव मनुष्येणेव । यथा त्वोतेन परिवृढाय देशान्तरादभिमतं धनमानीयते तद्वत् । यद्वा मनुषेव मनुष्याणामिव । इतरेषामृत्विजां विश्वा सुम्नानि सर्वाणि धनान्यादाय तुर्वणिः भवसि । तद्वदस्माकमपि । न केवलमेकस्मिन्नेव यागदिने किंतु अहा विश्वेव विश्वान्यपि अहानि सर्वेष्वपि अहःसु तुर्वणिः भव । यद्वा । तुर्वणिस्त्वम् अहा विश्वेव विश्वान्यहानि अतिदीर्घमायुष्यं यथा ददासि तथा सुम्नान्यपि उभयमपि देहीत्यर्थः ॥
“Endowed with augmented vigour, he hurled (aginst the foes) the wheel (of the chariot) of the sun; and, ruddy of hue, deprived them of existence; he, the sovereign lord, deprived them of existence. As you, sage Indra, come from afar to the succour of Uśanā, so do you come quickly, bearing all good things (to us) every day.”
Waxed strong in might at dawn he tore the Sun's wheel off. Bright red, he steals away their speech, the Lord of Power, their speech he steals away from them,
As thou with eager speed, O Sage, hast come from far away to help,
As winning for thine own all happiness of men, winning all happiness each day.
Just born, he tore off the wheel of the sun with his strength—(as?) at the ritual meal the ruddy one [=Agni?/Sun?] steals speech—showing mastery he steals it—
when you, o sage poet, had come from afar (to the house of) Uśanā
for help,
passing across all appeals for favor as if with Manu—as if passing
across all the days.
Geboren kaum trieb kräftig er der Sonne Rad, bei Tages Anbruch nimmt er flammend sich das Lied, er reisst es an sich mit Gewalt; Als willig du von Ferne her zu Hülfe eiltest, weiser du, Erringend wie durch Menschen alles Herrliche, erringend allen Tagesglanz.
Er riß das Rad der Sonne ab, der mit Kraft geborene. Vor der Essenszeit stiehlt er als Aruna die Stimme, stiehlt er, der es vermag, als du aus der Ferne zu Usanas um Beistand gekommen warst, o Seher; alle Gnaden wie für Manu überbietend, wie die Sonne alle Tage überbietend.
Он сорвал колесо солнца, рожденный силой,
При разбеге он, алый, похищает голос (у демона),
Как владыка похищает,
Когда Ушанас издалека
Отправился на помощь, о поэт,
Превосходя все благодения, словно для Мануса,
Превосходя все дни, словно (солнце).
स नो॒ नव्ये॑भिर्वृषकर्मन्नु॒क्थैः पुरां॑ दर्तः पा॒युभि॑: पाहि श॒ग्मैः । दि॒वो॒दा॒सेभि॑रिन्द्र॒ स्तवा॑नो वावृधी॒था अहो॑भिरिव॒ द्यौः ॥
सः । नः॒ । नव्ये॑भिः । वृ॒ष॒ऽक॒र्म॒न् । उ॒क्थैः । पुरा॑म् । द॒र्त॒रिति॑ दर्तः । पा॒युऽभिः॑ । पा॒हि॒ । श॒ग्मैः । दि॒वः॒ऽदा॒सेभिः॑ । इ॒न्द्र॒ । स्तवा॑नः । व॒वृ॒धी॒थाः । अहो॑भिःऽइव । द्यौः ॥
हे इन्द्र वृषकर्मन् अभिमतवर्षणव्यापारवन् पुरां दर्तः असुरपुराणां दारयितः ॥ ‘सुबामन्त्रिते°' इति षष्ठ्याः पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य पादादित्वात् अष्टमिकमाद्युदात्तत्वम् ॥ सः तादृशो महानुभावस्त्वं नः अस्मत्संबन्धिभिः नव्येभिः नूतनैः उक्थैः इदानीं प्रतिपादितप्रकारैः स्तोत्रैस्तुष्टः सन् पायुभिः पालनप्रकारैः शग्मैः सुखैश्च ऐहिकामुष्मिकरूपैः । पाहि पालय । किंच हे इन्द्र दिवोदासेमिः दिवोदासगोत्रोत्पन्नैः ॥ अर्शआदित्वात् अच् ॥ अस्माभिः परुच्छेपैः । यद्वा । पूजार्थं बहुवचनम् । स्तवानः स्तूयमानः । कर्मणि कर्तृप्रत्ययः ॥ ववृधीथाः प्रवृद्धो भव ॥ वृधेर्लिङि छान्दसः शपः श्लुः ॥ किमिव । अहोभिरिव द्यौः । द्योतनशीलः आदित्यः अहोभिः प्रसिद्धैर्यथा प्रवृद्धो भवति तथा अस्मत्स्तुत्या अत्यन्तं प्रवृद्धो भवेत्यर्थः ॥ ॥ १९ ॥
“Showerer of benefits, destroyer of cities, propitiated by our new songs, reward us with gratifying blessings; glorified, Indra, by the descendants of Divodāsa, increse (in power), like the sun in (revolving) days.”
Lauded with our new hymns, O vigorous in deed, save us with strengthening help, thou Shatterer of the Forts!
Thou, Indra, praised by Divodasa's clansmen, as heaven grows great with days, shalt wax in glory.
Because of our new hymns, you splitter of strongholds whose deeds are bullish, protect us along with your capable protectors.
O Indra, being praised by the Divodāsas, you should grow strong, like heaven through the days.
Durch neuen Spruch bewogen schütz uns, mächt'ger, mit starken Hütern du, o Burgzerstörer, Gepriesen, Indra, von den Divodasa's bist du erquickt durch Strahlen wie der Himmel.
So Schütz uns mit deinen wirksamen Schutzgeistern, mit neuen Liedern gepriesen, du Brecher der Burgen, an Taten ein Stier; von den Divodasa´s gepriesen, mögest du, Indra, zunehmen wie der Himmel durch die Tage.
Защити нас, (пришедших) с новыми песнями, о ты, чьи деяния мужественны,
О проламыватель крепостей, (своими) могучими защитниками!
О Индра, восхваляемый потомками Диводасы,
Расти, как небо, – сто дней!