इन्द्रा॑य॒ हि द्यौरसु॑रो॒ अन॑म्न॒तेन्द्रा॑य म॒ही पृ॑थि॒वी वरी॑मभिर्द्यु॒म्नसा॑ता॒ वरी॑मभिः । इन्द्रं॒ विश्वे॑ स॒जोष॑सो दे॒वासो॑ दधिरे पु॒रः । इन्द्रा॑य॒ विश्वा॒ सव॑नानि॒ मानु॑षा रा॒तानि॑ सन्तु॒ मानु॑षा ॥
इन्द्रा॑य । हि । द्यौः । असु॑रः । अन॑म्नत । इन्द्रा॑य । म॒ही । पृ॒थि॒वी । वरी॑मऽभिः । द्यु॒म्नऽसा॑ता । वरी॑मऽभिः । इन्द्र॑म् । विश्वे॑ । स॒ऽजोष॑सः । दे॒वासः॑ । द॒धि॒रे॒ । पु॒रः । इन्द्रा॑य । विश्वा॑ । सव॑नानि । मानु॑षा । रा॒तानि॑ । स॒न्तु॒ । मानु॑षा ॥
द्यौः द्योतनशीलो द्युलोकः तन्निवासी देवसंघः वा स च असुरः निरसनशीलः शत्रूणां पुण्यकृतामेव तन्निवासात् इन्द्राय हि इन्द्रायैव अनम्नत स्वयमेव प्रह्वो भवति ॥ नमेश्छान्दसे लङि कर्मकर्तरि आत्मनेपदम् ।‘न दुहस्नुनमाम्' (पा. सू. ३. १.८९) इति यगभावः। छान्दसः शपः श्लुः। हलादिशेषाभावश्च । अनुनासिकलोपः ॥ हिशब्दः प्रसिद्ध्यर्थो वा । तथा इन्द्राय इन्द्रार्थं मही महती पृथिवी भूमिः तत्रत्यः सर्वो जनो वा अनम्नत । उभयत्र आश्रयवाचिशब्देन आश्रयी लक्ष्यते ग्रामः आगतः इतिवत् । केन साधनेन इति तदुच्यते । वरीमभिः वरणीयैः स्तोत्रैर्हविर्भिर्वा । किंच द्युम्नसाता द्युम्नसातौ अन्नस्य यशसो वा लाभे निमित्ते सति वरीमभिः वरणीयैर्हविभिर्युक्ता यजमानाः प्रह्वा भवन्ति। किंच इन्द्रम् एव विश्वे सर्वे देवासः देवाः सजोषसः समानप्रीतियुक्ता ऐकमत्यभाजः पूर्वमसुरजयार्थं पुरः दधिरे पुरतः स्थापितवन्तः इन्द्रमुखेनैवासुरान् जितवन्तः इत्यर्थः। तथा मानुषा सवनानि मनुष्याणां संबन्धीनि अभिषवयुक्तानि प्रातरादिसवनानि इन्द्राय सन्तु इन्द्रायैव भवन्तु । तथा मानुषा मनुष्याणामृत्विजां संबन्धीनि रातानि दातव्यानि पुरोडाशादीनि इन्द्राय हि इन्द्रायैव सन्तु इन्द्रं प्रीणयितुं समर्थानि भवन्त्वित्यर्थः ॥
“To Indra heaven, that excludes the wicked, verilyhas bowed; to Indra the wide-spread earth (has offered homage) with acceptable (praises); with acceptablepraises (the worshipper has propitiated Indra) for the sake of food; all the gods well plural ased have given precedence to Indra; let all the sacrifices ofmen (be appropriated) to Indra; let all the offerings of menbe (presented to him).”
To Indra Dyaus the Asura hath bowed him down, to Indra mighty Earth with wide-extending tracts, to win the light, with wide-spread tracts.
All Gods of one accord have set Indra in front preeminent.
For Indra all libations must be set apart, all man's libations set apart.
Because to Indra the lordly Heaven has ever bowed, and to Indra the great Earth has bowed with her expanses—at the winning of heavenly brilliance with her expanses—
Indra have all the gods in concert placed in front.
To Indra let all the pressings belong that stem from the sons of Manu— all the gifts that stem from the sons of Manu.
Dem Indra neigte sich der höchste Himmelsgott, dem Indra auch der grosse, weite Erdenraum, der weite, ihm, der Kraft gewann; Die Götter alle stellten ihn, den Indra, eines Sinns voran; Dem Indra seien alle Tränke zugetheilt, der Menschen Tränke zugetheilt.
Dem Indra hat sich ja der Asura Himmel, dem Indra die große Erde in ganzer Ausdehnung gebeugt, im Kampf um die Herrlichkeit in ganzer Ausdehnung. Den Indra stellten alle Götter einmütig an ihre Spitze. Dem Indra sollen alle menschlichen Somaopfer, die menschlichen Spenden gehören.
Ведь это перед Индрой склонилось Небо-Асура,
Перед Индрой – великая Земля во (всю свою) ширь,
В борьбе за приобретение блеска – во (всю свою) ширь.
Индру все боги единодушно
Поставили впереди (себя).
Для Индры должны быть все выжимания (сомы), совершенные людьми,
Все подношения, совершенные людьми!
विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते॑ समा॒नमेकं॒ वृष॑मण्यव॒: पृथ॒क्स्व॑: सनि॒ष्यव॒: पृथ॑क् । तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि । इन्द्रं॒ न य॒ज्ञैश्चि॒तय॑न्त आ॒यव॒: स्तोमे॑भि॒रिन्द्र॑मा॒यव॑: ॥
विश्वे॑षु । हि । त्वा॒ । सव॑नेषु । तु॒ञ्जते॑ । स॒मा॒नम् । एक॑म् । वृष॑ऽमन्यवः । पृथ॑क् । स्वरिति॑ स्वः॑ । स॒नि॒ष्यवः॑ । पृथ॑क् । तम् । त्वा॒ । नाव॑म् । न । प॒र्षणि॑म् । शू॒षस्य॑ । धु॒रि । धी॒म॒हि॒ । इन्द्र॑म् । न । य॒ज्ञैः । चि॒तय॑न्तः । आ॒यवः॑ । स्तोमे॑भिः । इन्द्र॑म् । आ॒यवः॑ ॥
हे इन्द्र त्वा त्वाम् एकम् एकमेव सन्तं विश्वेषु सर्वेषु सवनेषु तद्वत्सु एकाहाहीनसत्ररूपेषु सर्वेषु सोमयागेषु यजमानाः तुञ्जते त्वरयन्ति हविरादीनि ददते । कीदृशं त्वाम् । समानं सर्वेषामेकरूपम् । कीदृशा यजमानाः । वृषमण्यवः अभिमतवर्षणाय त्वामेव मन्यमानाः पृथक् विविच्य स्वस्वयागे । किमिच्छन्तः । स्वः स्वर्ग सुखविशेषं वा सनिष्यवः संभक्तुकामाः पृथक् तुञ्जते पृथगेव त्वरयन्ति । तुञ्जतिर्दानार्थः, ‘ शिक्षति तुञ्जते '(नि. ३.२०.८) इति तन्नामसु पाठात् । तं तादृशं त्वा त्वां शूषस्य बलस्य सेनारूपस्य धुरि वहने तज्जयाय धीमहि स्थापयामः । यद्वा । शूषस्य अस्मदीयशारीरबलस्य धुरि धीमहि। शूषमिति बलनाम, ‘ शूषं सहः' (नि.२. ९. १६) इति तन्नामसु पाठात् । तत्र दृष्टान्तः । पर्षणिं नावं न पारस्य संभक्त्रीं पूरयित्रीं वा - फलस्य नावमिव। तां यथा भारवहने स्थापयन्ति ॥ ‘पार तीर कर्मसमाप्तौ'। ‘छन्दसि वनसन' (पा. सू. ३.२.२७)
इति सनेः इन्प्रत्ययः । पृषोदरादिः । पिपर्तेः औणादिकः सनिप्रत्ययो वा ॥ कीदृशा ववम् । आयवः मनुष्या यजमानाः यज्ञैः साधनैः इन्द्रं न चितयन्तः परमेश्वरमिव वां चेतयन्तः परमेश्वरबुद्ध्या भावयन्त इत्यर्थः । यद्वा नशब्दः एवकारार्थः । इन्द्रमेव त्वां जानन्तः । तथा स्तोमेभिः स्तोत्रैः इन्द्रम् इन्द्रमेव आयवः गच्छन्तो वयं धीमहि ॥ दधातेर्लिङि छान्दसः शपो लुक् ॥
“Hoping to partake of your bounties, (your worshippers) hasten severally in every rite to (adore) you, who ask one and all; each severally seeking heaven. We meditate on you, the sustainer of our strength, like a boat that bears (passengers) across (a stream); mortals, indeed, knowing Indra, propitiate him with sacrifices; mortals (propitiate him) with hymns.”
In all libations men with hero spirit urge the Universal One, each seeking several light, each fain to win the light apart.
Thee, furthering like a ship, will we set to the chariot-pole of strength,
As men who win with sacrifices Indra's thought, men who win Indra with their lauds.
Because at all pressings those of bullish fervor thrust you forward, (each of them) separately (thrusts you who are) one and the same—those
seeking to win the sun, (each) separately—
you, like a boat of deliverance, we would place at the chariot-pole of our forceful (song),
making Indra take notice (of us) with our sacrifices as the Āyus did—as the Āyus did Indra with their praises.
Denn dich allein, den einen, treiben hier und dort die eifervollen bei den Somaopfern an, die glanzbegier'gen alle an; Drum wie ein Schiff, das überfährt, sei an den Pfahl der Kraft gespannt, Auf Indra zielt der Mensch mit seinen Opfern hin, auf Indra mit dem Lobgesang.
Denn bei allen Somaopfern nötigen sie bulleneifrig dich, den Einen, Gemeinsamen, jeder für sich, da sie das Sonnenlicht zu gewinnen wünschen, jeder für sich. Dich, der wie ein Schiff hinüberträgt, wollen wir an die Deichsel des Kampfliedes bringen, indem wir Ayu´s ihn, wie es dem Indra zukommt, mit Opfern auszeichnen, den Indra mit Lobliedern wir Ayu´s.
Ведь при всех выжиманиях (сомы) (люди) донимают тебя
С бычьей яростью, (бога) общего (и) единственного - каждый для себя,
Желая завоевать солнце – каждый для себя.
Тебя, переправляющего (нас через опасности), как ладью (через поток),
Мы хотим поставить у дышла (нашей) громкой песни,
Словно Аю, отмечающие Индру жертвами,
Аю-Индру восхвалениями!
वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य नि॒:सृज॒: सक्ष॑न्त इन्द्र नि॒:सृज॑: । यद्ग॒व्यन्ता॒ द्वा जना॒ स्व१॒॑र्यन्ता॑ स॒मूह॑सि । आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव॑म् ॥
वि । त्वा॒ । त॒त॒स्रे॒ । मि॒थु॒नाः । अ॒व॒स्यवः॑ । व्र॒जस्य॑ । सा॒ता । गव्य॑स्य । निः॒ऽसृजः॑ । सक्ष॑न्तः । इ॒न्द्र॒ । निः॒ऽसृजः॑ । यत् । ग॒व्यन्ता॑ । द्वा । जना॑ । स्वः॑ । यन्ता॑ । स॒म्ऽऊह॑सि । आ॒विः । करि॑क्रत् । वृष॑णम् । स॒चा॒ऽभुवम् । वज्र॑म् । इ॒न्द्र॒ । स॒चा॒ऽभुव॑म् ॥
हे इन्द्र त्वा त्वामुद्दिश्य मिथुनाः पत्नीसहिता यजमानाः वि ततस्रे यज्ञं वितन्वते । यद्वा । यज्ञे पयोव्रतादिना आत्मानमुपक्षयन्ति ॥ ‘ तसु उपक्षये '। छान्दसे लिटि ‘ इरयो रे' इति रेभावः ॥ किमर्थम् । गव्यस्य व्रजस्य साता गवां संबन्धिनो यूथस्य लाभे निमित्तभूते सति । न च सर्वत्र अग्निहोत्रादिनित्यवाक्येषु कारीरीचित्रादिकाम्यवाक्येषु यस्योदयं यस्य गृहान् इत्यादिनैमित्तिकवाक्येषु पुरुषस्यैव अर्थित्वादेः सद्भावात् तस्यैवाधिकारः स्त्रियास्तु सत्यप्यर्थित्वे अध्ययनाभावेन विद्वत्ताया अभावात् अत एव सामर्थ्याभावाच्च नास्त्यधिकारः इति वाच्यम् । यद्यपि स्त्रियाः नास्ति पृथगधिकारस्तथापि पूर्वमीमांसायां षष्ठेऽधिकाराध्याये तृतीयचतुर्थाभ्यामधिकरणाभ्यां अस्त्येव स्त्रिया अधिकारः स च पत्या सहेति प्रपञ्चितत्वात् “ जायापती अग्निमादधीयाताम्' इत्याधानविधानात् स्मृतिषु च नास्ति स्त्रीणां पृथग्यज्ञो न व्रतम् ' (मनु. ५. १५५) इति पृथगधिकारस्यैव निवारितत्वात् अस्त्येव स्त्रियाः पत्या सहाधिकारः । अध्ययनाभावेऽपि वेदं पत्न्यै प्रदाय वाचयेत् ' ( आश्व. श्रौ. १. ११) इति सूत्रकारवचनात् ‘पत्न्यन्वास्ते' इत्यादिविधिषु ‘सुप्रजसस्त्वा वयम् '(तै. सं. १. १. १०. १ ) इत्यादिमन्त्रविधानात् यत्र वचनमस्ति तत्र अस्त्येव मन्त्रेऽधिकारः किं हि वचनेन कुर्यात् नास्ति वचनस्यातिभारः इति न्यायात् । तस्मात् मिथुना यज्ञं ततस्रे इत्येतत् युक्तम् । कीदृशास्ते। अवस्यवः इन्द्राय आत्मने वा तृप्तिमिच्छन्तः निःसृजः निःशेषेण हविस्त्यजन्तः सक्षन्तः ॥ सक्षतिर्गत्यर्थः । त्वां संभजमानाः । पुनस्त एव विशेष्यन्ते । निःसृजः फलप्रतिबन्धकं पापं निर्गमयन्तः । कस्तव विशेष इति तदुच्यते। यत् यस्मात् कारणात् गव्यन्ता गामात्मनः इच्छन्तौ ॥ गोशब्दात् ‘सुप आत्मनः क्यच्'। ‘वान्तो यि प्रत्यये ' इति अवादेशः स्वर्यन्ता स्वर्गं यन्तौ गन्तुमुद्युक्तौ द्वा जना द्वौ जायापतिरूपौ जनौ समूहसि संयुक्तयोः एव अभिमतं स्वर्गादिकं प्रापयसि । यद्वा । सम्यगनुष्ठितवन्तौ इत्यूहसि निश्चिनोषि । अतः पत्नीसहिता अनुतिष्ठन्तीत्यर्थः । किंच हे इन्द्र त्वं वृषण वर्षकं कामानां सचाभुवं सहैवोत्पन्नं त्वया अविनाभूतं तथा सचाभुवं शत्रुवधादिव्यापारसामर्थ्येन' सहैवोत्पन्नं वज्रम् आविष्करिक्रत् आविष्कुर्वन् प्रकटयन् वर्तसे इति शेषः ॥
“The (married) couples; anxious to satisfy you, and presenting (oblations) together, celebrate (your worship), for the sake of (obtaining) herds of catle; presenting (you), Indra (oblations); you well know that these two person ns are desirous of cattle, are desirous of heaven, and (ou abide), displaying your thunderbolt, the showerer (of benefits), your constant companion, ever, Indra, associated (with you).”
Couples desirous of thine aid are storming thee, pouring their presents forth to win a stall of kine, pouring gifts, Indra, seeking thee.
When two men seeking spoil or heaven thou bringest face to face in war,
Thou showest, Indra, then the bolt thy constant friend, the Bull that ever waits on thee.
Those seeking aid, paired in opposition, have yanked you back and forth, at the winning of the cowpen, as they set (the cows) free—being victorious (over the cowpen), as they set (them) free, o Indra—
when you shove together the two peoples who are seeking cows and going to (the winning of) the sun,
as you constantly display the bull partnered with (you)—the mace
partnered with (you), Indra.
Die hülfsbegier'gen beiderseits bestürmen dich, die opfernden um Rinderheerden zu empfahn, zu Indra strebend opferreich; Wenn du zwei Männer, die nach Glanz und Beute streben, kämpfen lässt, Dann offenbarst du, Indra, deinen starken Blitz, den Blitz, der dir zu Diensten steht.
Hilfesuchend haben dich die Paare bei der Gewinnung der eingehegten Rinderherde bestürmt, sie herauszulassen, da du die zwei auf Rinder ausziehenden Völker, die in den Kampf um die Sonne ziehen, zusammenbringst, indem du den bullenhaften Kameraden sichtbar schwingst, deinen Kameraden, die Keule, o Indra.
Пары (противников), жаждущих помощи, всегда тащили тебя каждый в свою сторону,
При завоевании загона с коровами, выпуская (коров),
Применяя силу, о Индра, выпуская (коров),
Когда ты сгоняешь вместе два народа,
Жаждущих коров, отправляющихся (завоевывать) солнце,
Ослепительно показывая мужественного товарища-
Ваджру, о Индра, (твоего) товарища.
वि॒दुष्टे॑ अ॒स्य वी॒र्य॑स्य पू॒रव॒: पुरो॒ यदि॑न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः । शास॒स्तमि॑न्द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते । म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो म॑न्दसा॒न इ॒मा अ॒पः ॥
वि॒दुः । ते॒ । अ॒स्य । वी॒र्य॑स्य । पू॒रवः॑ । पुरः॑ । यत् । इ॒न्द्र॒ । शार॑दीः । अ॒व॒ऽअति॑रः । स॒स॒हा॒नः । अ॒व॒ऽअति॑रः । शासः॑ । तम् । इ॒न्द्र॒ । मर्त्य॑म् । अय॑ज्युम् । श॒व॒सः॒ । प॒ते॒ । म॒हीम् । अ॒मु॒ष्णाः॒ । पृ॒थि॒वीम् । इ॒माः । अ॒पः । म॒न्द॒सा॒नः । इ॒माः । अ॒पः ॥
हे इन्द्र ते वीर्यस्य तव संबन्धिनः अस्य वीर्यस्य ॥ कर्मणि षष्ठी ॥ वक्ष्यमाणमेतद्वीर्यं विदुः । ये पूरवः मनुष्या यजमानास्तव महत्त्वं जानानाः त्वामेव यजन्ति ते विदुः । यद्वा । अस्य वीर्यस्य माहात्म्यम् इति शेषः ॥ विदुष्टे इत्यत्र ‘युष्मत्तत्ततक्षुषु° ' इति विसर्जनीयस्य सत्वम् ॥ वीर्यमेव विशेष्यते । हे इन्द्र. यत् यस्मात् कारणात् शारदीः संवत्सरसंबन्धिनीः संवत्सरपर्यन्तं प्राकारपरिखादिभिर्दृढीकृताः पुरः शत्रूणां पुरीः अवातिरः अनाशयः ॥ अवपूर्वस्तिरतिर्नाशनार्थः ॥ किं कुर्वन् । 'ससहानः तत्रत्यानभिभवन् धनाद्यपहारेण पीडयन् ॥ सहतेर्यङ्लुगन्तात् ताच्छीलिकः चानश् ।
“अवातिरः । किंच हे इन्द्र तं मर्त्यं मरणधर्माणम् अयज्युम् अयष्टारं यज्ञविघातिनं राक्षसादि शासः निगृहीतवानसि। हे शवसस्पते बलस्य पालकेन्द्र त्वं 'महीं महतीं पृथिवीम् इमाः अपः च समुद्रनद्यात्मकान्युदकानि च अमुष्णाः बलात् अपहृतवानसि । असुरैरन्यैर्वा यज्ञविद्वेषिभिः आक्रान्तां भूमिं तत्संबन्धिनीरपश्च तेषां पुराणि भित्त्वा अपहृतवानसीत्यर्थः । किं दुःखेन । नेत्याह । मन्दसानः हृष्यन्नेव इमाः अपः इमानि अप्कार्याणि व्रीह्याद्यन्नानि अमुष्णाः लब्धवानसि ॥
“The ancients have have known of that your prowess, by which, Indra, you destroy the perennial cities (of the asuras); you have destroyed them, humiliating (their defenders). You have chastised, Lord of Strength, the mortal who offers not sacrifice; you have rescued this spacious earth and these waters; exulting, (you have recovered) these waters.”
This thine heroic power men of old time have known, wherewith thou breakest down, Indra, autumnal forts, breakest them down with conquering might.
Thou hast chastised, O Indra, Lord of Strength, the man who worships not,
And made thine own this great earth and these water-floods; with joyous heart these water-floods.
The Pūrus know of this manly deed of yours, o Indra, that you brought down the autumnal strongholds—being victorious you brought
them down.
You will chastise the mortal without sacrifice, o Indra, lord of strength. You stole the great earth (from him) and these waters—being
exhilarated, (you stole) these waters.
Die Menschen sahen diese deine Heldenkraft, als Indra du des Regens Burgen niederschlugst, mit Kraft bezwingend niederschlugst; Du straftest, Indra, Herr der Kraft, den Menschen, der nicht Opfer bringt; Dem grossen Erdraum raubtest diese Wasser du, die Wasser raubtest du voll Lust.
Die Puru´s kennen diese Heldentat von dir, da du, Indra, die herbstliche Burgen niederwarfst, als Bezwinger niederwarfst. Du, Indra, sollst den opferkargen Sterblichen züchtigen, du Herr der Stärke. Du stahlst ihm die große Erde, diese Gewässer, du somatrunken diese Gewässer.
Пуру знают это твое героическое деяние,
Что ты, о Индра, разбил осенние крепости,
Разбил, играя силой.
Ты проучил, о Индра, того смертного,
Не приносящего жертв, о господин силы.
Ты отнял (у него) огромную землю, эти воды,
Опьяняясь (сомой), – эти воды.
आदित्ते॑ अ॒स्य वी॒र्य॑स्य चर्किर॒न्मदे॑षु वृषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो यदावि॑थ । च॒कर्थ॑ का॒रमे॑भ्य॒: पृत॑नासु॒ प्रव॑न्तवे । ते अ॒न्याम॑न्यां न॒द्यं॑ सनिष्णत श्रव॒स्यन्त॑: सनिष्णत ॥
आत् । इत् । ते॒ । अ॒स्य । वी॒र्य॑स्य । च॒र्कि॒र॒न् । मदे॑षु । वृ॒ष॒न् । उ॒शिजः॑ । यत् । आवि॑थ । स॒खि॒ऽय॒तः । यत् । आवि॑थ । च॒कर्थ॑ । का॒रम् । ए॒भ्यः॒ । पृत॑नासु । प्रऽव॑न्तवे । ते । अ॒न्याम्ऽअ॑न्याम् । न॒द्य॑म् । स॒नि॒ष्ण॒त॒ । श्र॒व॒स्यन्तः॑ । स॒नि॒ष्ण॒त॒ ॥
हे इन्द्र आत् अत एव हेतोः ते वीर्यस्य तव संबन्धिने वीर्याय तदभिवृद्धये चर्किरन् पुनः पुनः सोमं विकिरन्ति । किरतेर्यङ्लुगन्तात् व्यत्ययेन शः ॥ सर्वेषु सवनेषु वितरन्ति यजमानाः । अत इत्युक्तं कुत इत्याह । मदेषु वृषन् सोमजनितमदेषु सत्सु हे कामानां वर्षितः उशिजः त्वां कामयमानान् यजमानान् यत् यतः कारणात् आविथ रक्षसि । किंच सखीयतः तव सखित्वमात्मन इच्छतोऽस्मान् यत् यस्मात् आविथ तर्पयसि अभिमतेन प्रीणयसि अतश्चर्किरन् । किंच हे इन्द्र एभ्यः यजमानेभ्यः कारं शब्दं सिंहनादलक्षणं चकर्थ करोषि ॥ करोतेः कर्मणि घञ् । ‘कर्षात्वतः इत्यन्तोदात्तत्वम् ॥ कुत्रेति तदुच्यते । पृतनासु संग्रामेषु । किमर्थम् । प्रवन्तवे प्रकर्षेण वनितुं संभक्तुम् । युद्धाय हि धीराः संभजन्ते ॥ वनतेस्तुमर्थे तवेन्प्रत्ययः । ‘ तादौ च° ' इति गतेः प्रकृतिस्वरत्वम् ॥ किंच ते तव संग्रामवासिनः त्वयि अन्यामन्याम् अन्यांश्चान्यांश्च अन्यमन्यं प्रति ॥ कर्मव्यतिहारे सर्वनाम्नो द्विर्वचनम् ॥ नद्यं नदिं सन्तोषं समृद्धिम् ॥ ‘टुनदि समृद्धौ । पूर्वरूपत्वं बाधित्वा छान्दसो यणादेशः ॥ सनिष्णत संभजन्ते ॥ सनेलेंटि' सिब्बहुलम्' इति सिप् । इट् । व्यत्ययेन पुनः श्नाप्रत्ययः । ‘ आत्मनेपदेष्वनतः' इत्यदादेशे ‘श्नाभ्यस्तयोरातः' इत्याकारलोपः । छान्दसः टेः एत्वाभावः ॥ तथा श्रवस्यन्तः अन्नमिच्छन्तो जयाल्लब्धमन्नं काङ्क्षन्तः सनिष्णत संभजन्ते ॥
“Thenceforth have your worshippers scattered (libations) for the augmentation of your vigour; that in your exhilaration, showerer, (of benefits), you may defend those who are solicitous (of your favour); that you may defend those who are desirous of (your) friendship; for them you have uttered a shout to encourage them in combats; from you they obtain many and many an enjoyment; anxious for food, they obtain it (from you).”
And they have bruited far this hero-might when thou, O Strong One, in thy joy helpest thy suppliants, who sought to win thee for their Friend.
Their battle-cry thou madest sound victorious in the shocks of war.
One stream after another have they gained from thee, eager for glory have they gained.
Since then they have constantly celebrated this manly deed of yours at the revels: that, o bull, you aided the fire-priests—that you aided those acting as comrades.
You made “Game,” for them to prevail in battles.
They kept winning one river after another—seeking fame they kept winning.
Da rühmten sie auch diese deine Heldenkraft, als du im Rausch, o starker, halfst den heischenden, als den befreundeten du halfst; Du schafftest ihnen hohen Ruhm und liesst in Schlachten siegen sie; Von dir erlangten immer neue Segensflut, die schatzbegier'gen Segensflut.
Und erst recht rühmen sie im Somarausch diese Heldentat von dir, du Bulle, daß du den Usij beigestanden hast, daß du denen beigestanden hast, die sich als Freunde bewährten. Du halfst ihnen in den Kämpfen den Sieg gewinnen. Sie haben einen Strom nach dem anderen gewonnen, auf Ruhm ausgehend gewonnen.
С тех пор славят этот твой героический подвиг,
Что ты, о бык во время опьянений, помог Ушиджам,
Что ты помог водящим дружбу (с тобой).
Ты сотворил для них решающее деяние,
Чтобы они побеждали в битвах.
Они завоевали реки одну за другой,
Ища славы, завоевали.
उ॒तो नो॑ अ॒स्या उ॒षसो॑ जु॒षेत॒ ह्य१॒॑र्कस्य॑ बोधि ह॒विषो॒ हवी॑मभि॒: स्व॑र्षाता॒ हवी॑मभिः । यदि॑न्द्र॒ हन्त॑वे॒ मृधो॒ वृषा॑ वज्रि॒ञ्चिके॑तसि । आ मे॑ अ॒स्य वे॒धसो॒ नवी॑यसो॒ मन्म॑ श्रुधि॒ नवी॑यसः ॥
उ॒तो इति॑ । नः॒ । अ॒स्याः । उ॒षसः॑ । जु॒षेत॑ । हि । अ॒र्कस्य॑ । बो॒धि॒ । ह॒विषः॑ । हवी॑मऽभिः । स्वः॑ऽसाता । हवी॑मऽभिः । यत् । इ॒न्द्र॒ । हन्त॑वे । मृधः॑ । वृषा॑ । व॒ज्रि॒न् । चिके॑तसि । आ । मे॒ । अ॒स्य । वे॒धसः॑ । नवी॑यसः । मन्म॑ । श्रु॒धि॒ । नवी॑यसः ॥
अयमिन्द्रः नः अस्माकं संबन्धिनीम् अस्याः उषसः । कर्मणि षष्ठी ॥ एतामुषसं सुत्याहःसंबन्धिनमुषःकालम् उतो जुषेत अपि नाम सेवेत । उषस्येव अस्माकमयमिन्द्रो यज्ञं गच्छेदित्यर्थः । हिः पूरणार्थः । गत्वा च अर्कस्य हविषः ॥ पूर्ववत्कर्मणि षष्ठी ॥ अर्चनसाधनं हविः हवीमभिः हवनप्रकारविशेषैः दत्तं हविः उतो बोधि अपि नाम जानीहि । किंच स्वर्षाता स्वर्गस्यान्यस्य सुखविशेषस्य वा संभजनस्थाने यज्ञे हवीमभिः आह्वानैः आहूतो भवेति शेषः । अस्माभिराहूतः सन् उषस्येवागत्य हविः स्वीकरोषीत्यर्थः । कस्मादिदमुच्यते । यत् यस्मात् कारणात् हे वज्रिन् वज्रयुक्त इन्द्र मृधः हिंसकाञ्छत्रून् हन्तवे हन्तुं वृषा वर्षिता सन् कामानां चिकेतसि अवबुध्यसे ॥ ‘कित ज्ञाने'। जौहोत्यादिकः । लेट्यडागमः । ‘ नाभ्यस्तस्याचि पिति° ' इत्यत्र ‘छन्दसि बहुलम्' इति वचनात् लघूपधगुणप्रतिषेधाभावः। ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । तस्मात् ब्रूमः । हे इन्द्र मे मम मन्म मननीयं स्तोत्रम् आ श्रुधि सर्वतः शृणु । कीदृशस्य मे । वेधसः मेधाविनः नवीयसः नवतरस्य । दीक्षितसंस्कारैः संस्कृतत्वात् नवीयस्त्वम् । पुनर्विशेष्यते । नवीयसः अतिशयेन नवनवतः असाधारणस्तुतिमतः । अत्र यजमानविशेषणैः तत्कर्तृकं स्तोत्रमेव विशिष्टं भवति ।
“Will (Indra) be present at this our morning rite; be appraised, (Indra), of the oblation offered with (due) observances; offered with (due) observances for the sake of (obtaining) heaven; and since, wielder of the thunderbolt, showerer (of benefits), you know how to destroy the malevolent, do you, therefore, listen to the acceptable (praise) of me, intelligent, though a novice; (hear it from me) a novice.”
Also this morn may he be well inclined to us, mark at our call our offerings and our song of praise, our call that we may win the light.
As thou, O Indra Thunder-armed, wilt, as the Strong One, slay the foe,
Listen thou to the prayer of me a later sage, hear thou a later sage's prayer.
And now take note of this dawn—for one should enjoy it—of our chant, of our oblation along with our invocations—at the winning of the
sun, along with our invocations.
When, o Indra, possessor of the mace, as bull you will have in view to smash the negligent ones,
(listen) to me, this newer ritual adept—listen to the thought of (me), the newer one.
Er möge hold uns sein an diesem Morgen auch; durch unsre Rufe acht' auf Lied und Opfer er, durch unsern Ruf beim hohen Fest; Wenn Indra du als Held dich zeigst, den Feind zu schlagen blitzbewehrt, So höre hier des neuesten Verehrers Lied, so höre hier mein neustes Lied.
Denn er mag auch an diesem Morgen an uns seine Freude haben. Werde auf das Preislied, auf das Opfer durch die Anrufungen aufmerksam, bei dem Kampf um die Sonne durch die Anrufungen! Wenn du, der Bulle, o Keulenträger Indra, die Verdächtigen zu erschlagen beabsichtigst, so höre auf mich, diesen neuesten Meister, auf die Dichtungen des neuesten.
Так пусть же он обрадуется нам и на этой утренней заре!
Заметь (нашу) песню, жертвенные возлияния с призывами,
При завоевании солнца – с призывами!
Когда ты собираешься, о Индра, убивать
Врагов, как бык, о громовержец,
Услышь меня, самого нового устроителя (обряда),
Молитву самого нового!
त्वं तमि॑न्द्र वावृधा॒नो अ॑स्म॒युर॑मित्र॒यन्तं॑ तुविजात॒ मर्त्यं॒ वज्रे॑ण शूर॒ मर्त्य॑म् । ज॒हि यो नो॑ अघा॒यति॑ शृणु॒ष्व सु॒श्रव॑स्तमः । रि॒ष्टं न याम॒न्नप॑ भूतु दुर्म॒तिर्विश्वाप॑ भूतु दुर्म॒तिः ॥
त्वम् । तम् । इ॒न्द्र॒ । व॒वृ॒धा॒नः । अ॒स्म॒ऽयुः । अ॒मि॒त्र॒ऽयन्त॑म् । तु॒वि॒ऽजा॒त॒ । मर्त्य॑म् । वज्रे॑ण । शू॒र॒ । मर्त्य॑म् । ज॒हि । यः । नः॒ । अ॒घ॒ऽयति॑ । शृ॒णु॒ष्व । सु॒श्रवः॑ऽतमः । रि॒ष्टम् । न । याम॑न् । अप॑ । भू॒तु॒ । दुः॒ऽम॒तिः । विश्वा॑ । अप॑ । भू॒तु॒ । दुः॒ऽम॒तिः ॥
हे इन्द्र तुविजात अस्मत्स्तुत्या बहुभावमापन्न शूर विक्रान्त त्वं ववृधानः अत्यर्थं वर्धमानः अस्मयुः अस्मान् त्वद्भक्तान् कामयमानस्त्वम् अमित्रयन्तम् अस्मासु शत्रुत्वमाचरन्तं मर्त्यं मरणस्वभावं तं मर्त्यं वज्रेण जहि ॥ ‘ हन्तेर्जः' इति जादेशः । तस्य ‘असिद्धवदत्रा भात् ' इत्यसिद्धत्वात् हेर्लुगभावः ॥ तमित्युक्तं कमित्याह । यः मर्त्यः नः अस्माकम् अघायति अघं पापं दुःखं वा इच्छति तं जहि ॥ ‘ अश्वाघस्यात्' इति आत्वम् ॥ किंच सुश्रवस्तमः अतिशयेन शोभनश्रवणः त्वं शृणुष्व श्रावय अस्मद्वाक्यम् । कीदृशं तदिति तदुच्यते । हे इन्द्र त्वत्प्रसादात् दुर्मतिः अस्मज्जिघांसाविषया दुष्टा बुद्धिः अप भूतु अपगता भवतु ॥ छान्दसः शपो लुक् ॥ ‘ भूसुवोस्तिङि' इति गुणप्रतिषेधः ॥ न केवलं हिंसारूपा अपि तु विश्वा सर्वापि क्रोधपरिवादादिरूपा अप भूतु । तत्र दृष्टान्तः । यामन् यामनि अध्वनि रिष्टं न । अध्वनः श्रमेण हिंसितं परिश्रान्तं यथा दुर्मतिश्चौरादिविषया बाधते तद्वत् अस्मान् बाधमाना दुर्मतिः अपगच्छतु । यद्वा । यामनि मार्गे यज्ञादिरूपे रिष्टम् असुरकृतहिंसादिरूपं विघ्नं परिहरसि तद्वत् ॥ ॥ २० ॥
“Indra, endowed with many (excellences), do you, who are exalted (by our praises), and are well disposed towards us, (slay) the man who is unfriendly to us; (slay) swuch a man, hero, with your thunderbolt; kill him who sins against us; ever most prompt to hear, hear (us); let every ill-intent (towards us, such as alarms) a wearied (traveller) on the road, be counteracted; let every ill-intent be counteracted.”
O Indra, waxen strong and well-inclined to us, thou very mighty, slay the man that is our foe, slay the man, Hero! with thy bolt.
Slay thou the man who injures us: hear thou, as readiest, to hear.
Far be malignity, like mischief on the march, afar be all malignity.
You, powerfully born Indra, grown strong, being kindly toward
us: (smash) the mortal who acts the foe—that mortal, o champion,
with your mace—
smash (him and) whoever wishes us ill. Listen to (us), as the one who listens best.
Let malevolence stay away, like an accident on a journey—let all
malevolence stay away.
O Indra, nun erquickt und für uns holdgestimmt, o mächtiger, erschlag' den feindgesinnten Mann, mit deinem Blitz, o Held, den Mann, Den tödte, der uns Böses sinnt, o höre, hochberühmtester; Fern sei uns Missgunst, wie Beschäd'gung auf der Fahrt, fern möge jede Missgunst sein.
Gestärkt und uns gewogen erschlag den feindseligen Sterblichen, o Indra von starker Art, mit der Keule, du Held, den Sterblichen! Erschlag den, der uns Übles sinnt, erhöre uns als bester Erhörer! Wie ein Unfall auf der Fahrt, so soll die Mißgunst ausbleiben, jede Mißgunst soll ausbleiben!
Ты, о Индра, подкрепившись (и) любя нас,
(Убей,) о мощнорожденный, того смертного, что недружелюбен,
Ваджрой, о герой, – смертного!
Убей (того,) кто замышляет зло против нас!
Слушай (нас) как самый лучший слушатель!
Как поломка в пути, пусть будет далеко (от нас) злая мысль,
Любая злая мысль пусть будет далеко!