त्वया॑ व॒यं म॑घव॒न्पूर्व्ये॒ धन॒ इन्द्र॑त्वोताः सासह्याम पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तः । नेदि॑ष्ठे अ॒स्मिन्नह॒न्यधि॑ वोचा॒ नु सु॑न्व॒ते । अ॒स्मिन्य॒ज्ञे वि च॑येमा॒ भरे॑ कृ॒तं वा॑ज॒यन्तो॒ भरे॑ कृ॒तम् ॥
त्वया॑ । व॒यम् । म॒घ॒ऽव॒न् । पूर्व्ये॑ । धने॑ । इन्द्र॑त्वाऽऊताः । स॒स॒ह्या॒म॒ । पृ॒त॒न्य॒तः । व॒नु॒याम॑ । व॒नु॒ष्य॒तः । नेदि॑ष्ठे । अ॒स्मिन् । अह॑नि । अधि॑ । वो॒च॒ । नु । सु॒न्व॒ते । अ॒स्मिन् । य॒ज्ञे । वि । च॒ये॒म॒ । भरे॑ । कृ॒तम् । वा॒ज॒ऽयन्तः॑ । भरे॑ । कृ॒तम् ॥
हे मघवन् । मघः सौख्यम् । तद्वन्निन्द्र त्वया साधनेन युक्ताः वयम् । अत एव इन्द्रत्वोताः अतिप्रबलेनेन्द्रेण त्वया रक्षिताः सन्तः ॥ ‘ प्रत्ययोत्तरपदयोश्च ' इति त्वादेशः । छान्दसम् आत्वम् ॥ पृतन्यतः पृतनाम् आत्मन इच्छतः प्रबलसेनायुक्तान् शत्रून् ससह्याम अभिभवेम। तथा वनुष्यतः अस्मत्प्रहाराय आगच्छतः शत्रून् वनुयाम तेषामागमनात्पूर्वमेव वयं संभजेम । किंच पूर्व्ये धने अस्मिन्यज्ञे नेदिष्ठे अत्यन्तसंनिहिते अस्मिन्नहनि अभिषवयुक्ते अद्यतने अहनि सुन्वते यजमानाय तदर्थम् अधि वोच । तं हविष्प्रदं यजमानं यज्ञं वा नु क्षिप्रमधिकं ब्रूहि ॥ लोटि व्यत्ययेन अङ् । ‘ वच उम्। किंच हे इन्द्र वयं यजमानाः भरे संग्रामे कृतं जयस्य कर्तारं त्वामुद्दिश्य तज्जयार्थं वाजयन्तः हविर्लक्षणान्नम् उपाचरन्तः वि चयेम । स्तोत्रादिकं हविरादिकं वा विचिनुयाम ॥ चिनोतेर्व्यत्ययेन शप् ॥ पुनः कीदृशं त्वाम् । भरे देवानां संग्रामे असुरजये देवानां सम्यग्भरणे वा कृतं कर्तारम् । भर इति संग्रामनाम, ‘ भरतेर्वा हरतेर्वा' (निरु. ४. २४) इति यास्कः॥
“(Possessed of) former opulence, Maghavan, (through your bounty); protected, Indra, by you, may we overcome those who are arrayed in (hostile) hoste; may we anticipate (our) assailants. (The sacrifice) of today being nigh, speak encouragingly to the presenter of the libation; may we bring together at this rite (suitable offerings and praises) to you, the victor in war; worshipping you, the victor in war.”
HELPED, Indra Maghavan, by thee in war of old, may we subdue in fight the men who strive with us, conquer the men who war with us.
This day that now is close at hand bless him who pours the Soma juice.
In this our sacrifice may we divide the spoil, showing our strength, the spoil of war.
With you, bounteous Indra, aided by you, may we overcome those who do battle over the foremost stakes—may we win against those who
seek to win.
On this, the nearest day speak on behalf of the soma-presser.
At this sacrifice may we pull out the perfect (“hand” of dice) at the
match—seeking the prize, (may we pull out) the perfect one at
the match.
Durch dich, o mächtiger, mögen wir in dem alten Kampfe, von dir, o Indra, unterstützt die Feinde besiegen, überwinden die bekämpfenden; an diesem nächsten Tage mögest du nun dem Somapresser Muth einsprechen; bei diesem Opfer mögen wir die im Kampf gemachte Beute vertheilen, wir nach Gut verlangenden die im Kampf gemachte Beute.
Mit dir, du Gabenreicher, wollen wir im Kampf um den ersten Preis, mit deinem Beistand, o Indra, die Gegner besiegen, wollen wir die Eifersüchtigen übertrumpfen. An diesem nächsten Tage entscheide doch ja zu Gunsten des Somaopfernden. Bei diesem Opfer wollen wir den höchsten Wurf im Gewinnspiel aussuchen, nach dem Siegerpreis strebend den höchsten Wurf im Gewinnspiel.
С тобою, о щедрый, в (борьбе) за первую ставку,
Поддержанные тобою, Индрой, мы хотим одолеть нападающих,.
Победить (тех,) кто хочет победить нас!
В этот ближайший день
Вступись за выжимающего (сому)!
В этой жертве мы хотим узреть счастливый бросок в состязании,
Желая награды – счастливый бросок в состязании!
स्व॒र्जे॒षे भर॑ आ॒प्रस्य॒ वक्म॑न्युष॒र्बुध॒: स्वस्मि॒न्नञ्ज॑सि क्रा॒णस्य॒ स्वस्मि॒न्नञ्ज॑सि । अह॒न्निन्द्रो॒ यथा॑ वि॒दे शी॒र्ष्णाशी॑र्ष्णोप॒वाच्य॑: । अ॒स्म॒त्रा ते॑ स॒ध्र्य॑क्सन्तु रा॒तयो॑ भ॒द्रा भ॒द्रस्य॑ रा॒तय॑: ॥
स्वः॒ऽजे॒षे । भरे॑ । आ॒प्रस्य॑ । वक्म॑नि । उ॒षः॒ऽबुधः॑ । स्वस्मि॑न् । अञ्ज॑सि । क्रा॒णस्य॑ । स्वस्मि॑न् । अञ्ज॑सि । अह॑न् । इन्द्रः॑ । यथा॑ । वि॒दे । शी॒र्ष्णाऽशी॑र्ष्णा । उ॒प॒ऽवाच्यः॑ । अ॒स्म॒ऽत्रा । ते॒ । स॒ध्र्य॑क् । स॒न्तु॒ । रा॒तयः॑ । भ॒द्राः । भ॒द्रस्य॑ । रा॒तयः॑ ॥
अयमिन्द्रः स्वर्जेषे स्वर्गगमनसाधने भरे संग्रामे । युद्धे आभिमुख्येन हतस्य स्वर्गो ‘ द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ' ( परा. ३. २५ ) इत्यादिस्मृतिषु प्रसिद्धः । आप्रस्य आपनशीलस्य शत्रुवधाय इतस्ततः व्याप्तस्य ॥ औणादिको रः ॥ शूरस्य वक्मनि मार्गभूते स्वस्मिन् स्वभूते अञ्जसि अभिव्यक्तिमति कपटादिरहिते । पुनः स एव विशेष्यते । स्वस्मिन् अञ्जसि स्वकीयेऽञ्जसि मुख्ये महति संग्रामे । यद्वा । स्वस्मिन् अञ्जसि शत्रौ स्वयमेव अप्रच्छन्नत्वेनागते सति अहन् शत्रून् हिनस्ति । कस्य संग्रामे इति तदुच्यते । आप्रस्य आपनशीलस्य आ समन्तात् इन्द्रस्य प्रीणयितुर्वा उषर्बुधः उषःकाले अनुष्ठानाय प्रबुध्यमानस्य क्राणस्य यागं कुर्वाणस्य ॥ करोतेः शतरि छान्दसः शपो लुक् ॥ अस्य यजमानस्य शत्रून् अहन् हिनस्ति । अतः कारणात् अयम् इन्द्रः शीर्ष्णाशीर्ष्णोपवाच्यः सर्वेषां शिरसा प्रणम्यः स्तुत्यः ॥ ‘ शीर्षश्छन्दसि ' ( पा. सू. ६. १. ६० ) इति उदात्तनिवृत्तिस्वरेण अन्तोदात्तत्वम् । ‘ नित्यवीप्सयोः' इति द्विर्भावः ॥ तत्र दृष्टान्तः । यथा विदे सर्वज्ञाय शिरसा प्रणतिः क्रियते स्तूयते च तथैनमित्यर्थः । यद्वा यथा विदे येन प्रकारेण हन्तव्यं शत्रुं जानासि तं तं प्रहंसि ॥ वेत्तेर्व्यत्ययेनात्मनेपदम् । पुरुषव्यत्ययः । ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः ॥ अथवा । यथा विदे यं यं विन्दसे लभसे शत्रुं तं तं मारयसि । अतः कारणात् स्तुत्यः इत्यर्थः ॥ अस्मिन् पक्षे छान्दसो विकरणस्य लुक् । पूर्ववत् तलोपः ॥ किंच हे इन्द्र ते रातयः तव संबन्धीनि धनानि दानानि अस्मत्रा अस्मास्वेव सध्र्यक् सह एकोद्योगेन सन्तु भवन्तु ॥ सहपूर्वादञ्चतेः ‘ऋत्विक्' इत्यादिना क्विन् । सहस्य सध्रिः' इति सध्र्यादेशः। अद्रिसध्र्योः अन्तोदात्तनिपातनं कृत्स्वरनिवृत्यर्थमिति स चान्तोदात्तः । उदात्तस्वरितयोर्यण: ' इति स्वरितः ॥ किंच भद्रस्य स्तुत्यस्य रातयः अस्मासु दत्तानि दानानि भद्राः अतिस्थिराणि सन्तु ॥
“In the combat which secures heaven, Indra, (treading) in the appropriate and straight path of the active (combatant), as well as in his own appropriate and straight (path), destroys (the adversary) of him who wakes at dawn and celebrates (pious rites); he therefore to be adored with the head (bowed down), as revernce is paid by prostration to a holy sage. May your treasures, (Indra), be accusative ulated upon us; may the treasures of you who are auspicious be auspicious (to us).”
In war which wins the light, at the free-giver's call, at due oblation of the early-rising one, oblation of the active one,
Indra slew, even as we know--whom each bowed head must reverence.
May all thy bounteous gifts be gathered up for us, yea, the good gifts of thee the Good.
At the match to win the sun, at the speech of the Propitiator, at the very anointing of the one who wakes at dawn [=Agni]—at the very
anointing of the one being prepared [=soma]—
on (that) day Indra is to be invoked by every head [=person], in the way that is known.
Toward us only let your gifts be directed—the auspicious gifts of the auspicious one.
In dem glanzverschaffenden Kampfe, bei dem Rufe des eifrigen, bei der eignen Ausschmückung des früh wachen [Agni], bei der eignen Ausschmückung des wirksamen; Indra erschlug [die Feinde] nach seiner Weise, er der von jedem Wesen anzurufen ist; bei uns mögen sein deine Gaben allesammt, des heilbringenden heilbringende Gaben.
Im Kampf, wenn es gilt das Sonnenlicht zu gewinnen, bei der Rede des Fürbitters, wenn der frühwache Agni seine Salbung bekommt, wenn der angemachte Soma seine Salbung bekommt; an dem Tage ist Indra, wie bekannt, Haupt für Haupt anzurufen. Auf uns sollen sich deine Gaben vereinigen, die glückbringenden Gaben des Glückbringenden.
В состязании за победу над солнцем, при исполнении гимна-апри,
Когда пробуждающийся на заре (Агни) получает свое помазание,
Деятельный (бог) – свое помазание
В (этот) день Индру, как известно,
Должен призывать каждый.
На нас пусть будут сосредоточены твои дары,
Приносящие счастье дары (бога,) приносящего счастье!
तत्तु प्रय॑: प्र॒त्नथा॑ ते शुशुक्व॒नं यस्मि॑न्य॒ज्ञे वार॒मकृ॑ण्वत॒ क्षय॑मृ॒तस्य॒ वार॑सि॒ क्षय॑म् । वि तद्वो॑चे॒रध॑ द्वि॒तान्तः प॑श्यन्ति र॒श्मिभि॑: । स घा॑ विदे॒ अन्विन्द्रो॑ ग॒वेष॑णो बन्धु॒क्षिद्भ्यो॑ ग॒वेष॑णः ॥
तत् । तु । प्रयः॑ । प्र॒त्नऽथा॑ । ते॒ । शु॒शु॒क्व॒नम् । यस्मि॑न् । य॒ज्ञे । वार॑म् । अकृ॑ण्वत । क्षय॑म् । ऋ॒तस्य॑ । वाः । अ॒सि॒ । क्षय॑म् । वि । तत् । वो॒चेः॒ । अध॑ । द्वि॒ता । अ॒न्तरिति॑ । प॒श्य॒न्ति॒ । र॒श्मिऽभिः॑ । सः । घ॒ । वि॒दे॒ । अनु॑ । इन्द्रः॑ । गो॒ऽएष॑णः । ब॒न्धु॒क्षित्ऽभ्यः॑ । गो॒ऽएष॑णः ॥
हे इन्द्र तत्तु खलु प्रसिद्धं प्रयः हविर्लक्षणमन्नं शुशुक्वनम् आज्यादिसंयोगेन भृशं दीप्तम् ॥ शुचेर्दीप्तिकर्मणः एतद्रूपम् ॥ ते तव स्वभूतं प्रत्नथा पूर्वम् इतःपूर्वं यथा यागकाले हविः ते तव स्वं भवति तथा अद्यतनमपि । सर्वदा त्वामेव यजन्ते" इति भावः । ‘ प्रत्नपूर्वविश्व ' इत्यादिना इवार्थे थाल् । लित्स्वरः ॥ कीदृशं तदिति उच्यते । यज्ञे यागे यस्मिन् हविषि दातव्ये सति वारं वरणीयं क्षयं स्थानं वेदिलक्षणम् अकृण्वत कुर्वन्ति ऋत्विजः । कस्तव विशेष इति चेत् उच्यते। ऋतस्य सत्यफलस्य यज्ञस्य वाः असि क्षयं निवासस्थानं संभक्तोऽसि । यद्वा । ऋतमित्युदकनाम । तस्य क्षयं स्थानं प्राप्तोऽसि । वृष्टिप्रदोऽसीत्यर्थः । अथवा । ऋतस्यादित्यस्य क्षयं स्थानं द्युलोकाख्यं वाः असि यजमानं गमयितासि । तत् तादृशं वक्ष्यमाणं कर्म वि वोचेः विब्रूहि ।“अध अतः कारणात् द्वितान्तः द्वित्वोपेतयोः द्यावापृथिव्योर्मध्ये अन्तरिक्षे रश्मिभिः आदित्यकिरणैः पश्यन्ति । मेघं निर्भिद्य रश्मिद्वारा प्रवर्षणरूपं कर्म सर्वे जनाः प्रत्यक्षतः पश्यन्ति । अस्मद्दत्तं हविः आदित्यं प्रापयित्वा तद्रश्मिद्वारा वृष्टिं जनयसीत्येतत् सर्वैर्दृश्यते इत्यर्थः । इदानीं परोक्षतया स्तौति । सः घ स खलु इन्द्रः गवेषणः उदकस्यान्वेषणशीलः । तथा बन्धुक्षिद्यः्म हविष्प्रदानादिना बन्धुभावं प्राप्तवद्भ्यः यजमानेभ्यः गवेषणः गवां प्रसिद्धानाम् एषणकर्ता ॥ इषेर्बाहुलकात् कर्तरि ल्युट्। यद्वा। ‘गवेष मार्गणे । पूर्ववत् ल्युट् ॥ यजमानफलस्य मृगयितेत्यर्थः । अनु उक्तक्रमेणैव कर्ता सन् विदे विन्दते उदकप्राप्तिप्रकारं जानाति ॥
“Indra, in whatsoever rite (the priests) from of old have plural ced the brilliant (sacrificial) food for you upon the altar, in that plural ce of sacrifice you abide; do you declare what (rite), that men may thence behold the intermediate (firmament bright) with the rays (of the sun); for this, Indra, the searcher (of rain, is) the searcher after cattle, for (the benefit of) his kindred (worshippers), and knows in due course (the season of the rain).”
This food glows for thee as of old at sacrifice, wherein they made thee chooser of the place, for thou choosest the place of sacrifice.
Speak thou and make it known to us: they see within with beams of light.
Indra, indeed, is found a seeker after spoil, spoil-seeker for his own allies.
This pleasurable offering of yours is glittering as of old, when at the sacrifice they [=sacrificers] made (you), the shield, as a peaceful
dwelling for themselves—you are the shield of truth, a peaceful
dwelling.
You should announce this now yet again. They [=poets?] look within (themselves?) with the (coming of) the (sun’s) rays [=dawn].
“This Indra is certainly known as a seeker of cows—as a seeker of cows for those who dwell among their kindred.”
Das aber ist nach alter Weise deine glänzende Huld; bei welchem Opfer sie den Sitz herrlich machten, da wählst du dir des heiligen Werkes Sitz (?); das mögest du kund machen (?); sie blicken hinein mit Strahlen (?). Dieser Indra wird erkannt als der kampflustige, von den unter Stammgenossen wohnenden als der kampflustige (?).
Dies ist ja doch wie früher deine hellglänzende Labung, bei dem Opfer, bei dem sie dich zum Schirmer des Hauses machten. Du bist der Schirmer des Hauses des Gesetzes. Du mögest uns das doch noch einmal bestimmt sagen; sie sehen mit ihren Lichtstrahlen ins Innere: Indra ist ja bekannt als der Rindersucher, als der Rindersucher für die zum Bunde Gehörigen.
Это же твоя сверкающая жертвенная пища, как издревле,
На жертвоприношении, где они сделали (тебя) защитником, обителью:
(Раз) ты защитник закона – (тебя сделали) обителью.
Так пусть ты сейчас же ясно провозгласишь:
Лучами они смотрят внутрь.
Этот самый Индра известен как ищущий коров,
Для живущих в родстве (с ним) ищущий коров.
नू इ॒त्था ते॑ पू॒र्वथा॑ च प्र॒वाच्यं॒ यदङ्गि॑रो॒भ्योऽवृ॑णो॒रप॑ व्र॒जमिन्द्र॒ शिक्ष॒न्नप॑ व्र॒जम् । ऐभ्य॑: समा॒न्या दि॒शास्मभ्यं॑ जेषि॒ योत्सि॑ च । सु॒न्वद्भ्यो॑ रन्धया॒ कं चि॑दव्र॒तं हृ॑णा॒यन्तं॑ चिदव्र॒तम् ॥
नु । इ॒त्था । ते॒ । पू॒र्वथा॑ । च॒ । प्र॒ऽवाच्य॑म् । यत् । अङ्गि॑रःऽभ्यः । अवृ॑णोः । अप॑ । व्र॒जम् । इन्द्र॑ । शिक्ष॑न् । अप॑ । व्र॒जम् । एभ्यः॑ । स॒मा॒न्या । दि॒शा । अ॒स्मभ्य॑म् । जे॒षि॒ । योत्सि॑ । च॒ । सु॒न्वत्ऽभ्यः॑ । र॒न्ध॒य॒ । कम् । चि॒त् । अ॒व्र॒तम् । हृ॒णा॒यन्त॑म् । चि॒त् । अ॒व्र॒तम् ॥
हे इन्द्र ते तव संबन्धि कर्म इत्था इत्थमुक्तप्रकारं वक्ष्यमाणरूपं वा पूर्वथा पूर्वमिव पूर्वं यथा नु क्षिप्रं प्रवाच्यं सर्वैः स्तोतव्यं तद्वत् इदानींतनमपि स्तुत्यम् ॥ नू इत्था इत्यत्र ईषाअक्षादित्वात् । प्रकृतिभावः ॥ कीदृशं तदिति तदुच्यते । यत् त्वम् अङ्गिरोभ्यः एतद्गोत्रोत्पन्नेभ्यो महर्षिभ्यः तेषामर्थाय व्रजम् अन्तरिक्षे गच्छन्तं मेघम् अप अवृणोः अपवृतवानसि मेघम् उत्पाट्य वृष्टिमुत्पादितवानसि । व्रज इति मेघनाम, ‘ व्रजः वराहः' ( नि. १. १०. ११) इति तन्नामसु पाठात् । किंच हे इन्द्र व्रजं गवां समूहम् अप अयष्टृभ्योऽपहृत्य तेभ्य एवाङ्गिरोभ्यः शिक्षन् वितरन् रक्षितवानसि । यद्वा । पणिभिरपहृतं बिले स्थितं गवां व्रजम् अपहर्तुमपावृणोः अपवृतद्वारमकारोः। किंच हे इन्द्र एभ्यः उक्तेभ्यः ऋषिभ्यः समान्या दिशा समानया रीत्या तेभ्यो यथा ददासि तद्वत् अस्मभ्यम् अपि जेषि धनं संग्रामं वा जय । तदर्थं योत्सि युध्यस्व च ॥ छान्दसो विकरणस्य लुक् । व्यत्ययेन परस्मैपदम् ॥ किंच त्वं सुन्वद्भ्यः त्वदर्थमभिषवं कुर्वद्यःलु अस्मभ्यं कं चिदव्रतं सर्वमप्ययज्वानं यागविरोधिनं रन्धय बाधय मदधीनं कुर्वित्यर्थः । न केवलमयज्वानं किंतु हृणायन्तं चिदव्रतम् ॥ चिदित्यवकुत्सिते । अस्मासु रोषं कुर्वन्तं तमेव अयष्टारं स्वयं रोषवन्तं वा । यद्वा । हृणायन्तं चित् रोषं कुर्वन्तम् अपि अव्रतम् अकर्माणं पुनर्हननासमर्थं कुर्वन् रन्धय ॥ हृणीङ् रोषे' । कण्ड्वादिः । व्यत्ययेन आकारः ॥
“Your exploits, Indra, are worthy to be glorified; now, verily, as well as in former times, when you did open the cloud for the Aṅgirasas, restoring to them their cattle--conquer for us, fight for us, as you did for them; humble in behalf of those who present libations, him who offers no worship; him who rages against us, and offers no worship.”
So now must thy great deed be lauded as of old, when for the Angirases thou openedst the stall, openedst, giving aid, the stall.
In the same manner for us here fight thou and be victorious:
To him who pours the juice give up the lawless man, the lawless who is wroth with us.
Now in the current way and in the earlier one it is to be proclaimed of you, that you opened up the enclosure for the Aṅgirases—o Indra,
doing your best, (you opened) up the enclosure.
In the same way as for them, win and fight for us.
For those who press soma, weaken anyone who follows no
commandment—who follows no commandment, even when he rages.
Jetzt fürwahr, wie früher auch, ist diese deine That zu preisen, dass du, o Indra, den Angiras den Stall eröffnetest, hülfreich den Stall eröffnetest; in gleicher Weise wie mit ihnen siege und kämpfe auch mit uns; den Somapressern überliefere jeden Gottlosen, jeden zornentbrannten Gottlosen.
Jetzt ebenso wie auch früher ist diese Tat von dir zu verkünden, daß du für die Angiras´ die eingehegte Herde aufgedeckt hast, um ihnen nützlich zu sein die eingehegte Herde aufgedeckt hast, o Indra. In gleicher Weise wie für diese mögest du auch für uns siegen und kämpfen. Gib den Somapressenden jeden Unbotmäßigen in die Gewalt, den Unbotmäßige, wenn er noch so grimmig ist!
И вот сейчас, как прежде, надо провозгласить (то) твое (деяние),
Что ты открыл загон для Ангирасов,
О Индра, желая одарить, от(крыл) загон.
Тем же путем, что для них,
Для нас побеждай и сражайся!
Отдавай во власть выжимающим (сому) любого не имеющего обетов,
Каким бы гневным ни был не имеющий обетов!
सं यज्जना॒न्क्रतु॑भि॒: शूर॑ ई॒क्षय॒द्धने॑ हि॒ते त॑रुषन्त श्रव॒स्यव॒: प्र य॑क्षन्त श्रव॒स्यव॑: । तस्मा॒ आयु॑: प्र॒जाव॒दिद्बाधे॑ अर्च॒न्त्योज॑सा । इन्द्र॑ ओ॒क्यं॑ दिधिषन्त धी॒तयो॑ दे॒वाँ अच्छा॒ न धी॒तय॑: ॥
सम् । यत् । जना॑न् । क्रतु॑ऽभिः । शूरः॑ । ई॒क्षय॑त् । धने॑ । हि॒ते । त॒रु॒ष॒न्त॒ । श्र॒व॒स्यवः॑ । प्र । य॒क्ष॒न्त॒ । श्र॒व॒स्यवः॑ । तस्मै॑ । आयुः॑ । प्र॒जाऽव॑त् । इत् । बाधे॑ । अ॒र्च॒न्ति॒ । ओज॑सा । इन्द्र॑ । ओ॒क्य॑म् । दि॒धि॒ष॒न्त॒ । धी॒तयः॑ । दे॒वान् । अच्छ॑ । न । धी॒तयः॑ ॥
यत् यः इन्द्रः शूरः विक्रान्तः सन् जनान् सर्वान् प्राणिनः क्रतुभिः प्रज्ञाभिः सम् ईक्षयत् सम्यगीक्षयति तत्तद्विषयान् । अन्तर्यामिरूपेण सर्वेषां बुद्धिषु स्थित्वा तैर्विषयानुल्लेखयतीत्यर्थः । यद्वा । क्रतुभिः कर्मभिः सुकृतदुष्कृतरूपैर्निमित्तभूतैस्तत्तत्फलैर्योजयति । एवं प्रेरयति सति श्रवस्यवः अन्नमिच्छन्तो यजमानाः धने गवादिरूपे हिते अभिमते सति । यद्वा । हिते धने अभिप्रेते सति । तरुषन्त हिंसन्ति शत्रून् ॥ तरुष्यतिर्वधकर्मा। छान्दसे लुङि व्यत्ययेन च्लेः अङ् । तरतेर्वा लङि उकारसिप्शपः त्रयो विकरणाः ॥ तरन्तीत्यर्थः । अतः कारणात् श्रवस्यवः अन्नं हविर्लक्षणम् इन्द्राय आरमने वा इच्छन्तः सन्तः प्र यक्षन्त प्रकर्षेण यजन्ते ॥ छान्दसे लुङि व्यत्ययेन क्सः ॥ किंच तस्मै इत् तस्मै प्रसिद्धायेन्द्रायैव आयुः हविर्लक्षणमन्नं प्रजावत् पुत्रादिसहितं भवति । तैः सहितैर्दीयते इत्यर्थः । किंच यजमानाः ओजसा स्वकीयेन बलेन युक्ताः बाधे शत्रूणां बाधने निमितभूते सति बाधितुं वा ॥ ‘कृत्यार्थे तवैकेन्केन्यत्वनः' इति केन्प्रत्ययः ॥ अर्चन्ति' पूजयन्ति । यद्वा । तस्मै इत् यजमानायैव बाधे बले निमित्तभूते सति। बाध इति बलनाम, ‘बाधः तविषी' (नि. २. ९. ८) इति तन्नामसु पाठात् । प्रजावत् पुत्राद्युपेतम् आयुः अन्नं लब्धुम् ओजसा बलेन युक्ताः अर्चन्ति इन्द्रं पूजयन्ति ऋत्विजः इति शेषः । किंच धीतयः कर्मवन्तो यजमानाः इन्द्रे इन्द्रसमीपे । 'गङ्गायां घोषः' इतिवत् तत्सामीप्यं लक्ष्यते । इन्द्रलोके इत्यर्थः । तत्र ओक्यम् ओको निवासस्थानम् ॥ स्वार्थे यत् ॥ दिधिषन्त धारयन्ति ॥ ‘धिष शब्दे' । अत्र धारणार्थः। जौहोत्यादिकः । व्यत्ययेन अन्तादेशः ॥ ते एव पुनर्विशेष्यन्ते । धीतयः स्वर्गसाधनकर्मवन्तः सन्तः देवाँ अच्छा न देवान् आभिमुख्येन प्राप्तुमिव ओक्यं दिधिषन्तेत्यन्वयः ॥
“Inasmuch as the hero (indra), rightly judges men by their deeds, therefore do the (pious), sacrificing (to him) for sustenance, become enabled, by the wealth that has been attained, to overcome (their foes); desirous of food, they diligently worship (him); the (sacrificial) food offered to him in the source of progeny (to the worshipper), and (men) worship him, that by their own strength they may overcome (their foes); pious sacrificers enjoy residence in the heaven of Indra; pious sacrificers are, as it were, in the presence of the gods.”
When with wise plan the Hero leads the people forth, they conquer in the ordered battle, seeking fame, press, eager, onward seeking fame.
To him in time of need they sing for life with offspring and with strength.
Their hymns with Indra find a welcome place of rest: the hymns go forward to the Gods.
When the champion makes the peoples see in accord with his
conceptions, seeking fame they will surpass when the prize is set—
seeking fame they will distinguish themselves.
To him they chant, for him to thrust (to them) with his strength a (full) lifetime along with offspring.
In Indra do our thoughts desire to establish their home—our thoughts (going) as if to the gods.
Wenn der Held durch seine Geisteskräfte die Menschen erleuchtet, dann kämpfen bei ausgesetztem Preise siegreich die schatzbegierigen, dann dringen vor die schatzbegierigen; ihm singen sie mit Kraft, um kinderreiches Alter stürmend zu erlangen; in ihm suchen die Gebete ihre Heimatsstätte, wie zu den Göttern hin die Gebete.
Wenn der Held die Augen aller Leute nebst ihren Gedanken auf sich zieht, dann suchen sich bei ausgesetztem Kampfpreis die Ehrgeizigen zu überbieten, zeichnen sich die Ehrgeizigen aus. Ihm preisen sie nach Kräften ein langes kinderreiches Leben an, um ihn zu bestürmen. Die frommen Gedanken möchten sich bei Indra eine Heimstätte bereiten; wie sich´s zu den Göttern ziemt, gehen die frommen Gedanken zu ihm.
Когда герой (своими) силами духа притягивает к себе взоры людей.
Они пытаются привлечь (его), когда установлена ставка, стремясь к славе,
Бросаются вперед, стремясь к славе.
Они поют ему хвалу, (чтобы получить) долгий срок жизни, сопровождаемый потомством,
Чтобы он с силой нажал.
У Индры стремятся создать себе дом поэтические мысли,
(Направляясь) к богам – поэтические мысли.
यु॒वं तमि॑न्द्रापर्वता पुरो॒युधा॒ यो न॑: पृत॒न्यादप॒ तंत॒मिद्ध॑तं॒ वज्रे॑ण॒ तंत॒मिद्ध॑तम् । दू॒रे च॒त्ताय॑ च्छन्त्स॒द्गह॑नं॒ यदिन॑क्षत् । अ॒स्माकं॒ शत्रू॒न्परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षीष्ट वि॒श्वत॑: ॥
यु॒वम् । तम् । इ॒न्द्रा॒प॒र्व॒ता॒ । पु॒रः॒ऽयुधा॑ । यः । नः॒ । पृ॒त॒न्यात् । अप॑ । तम्ऽत॑म् । इत् । ह॒त॒म् । वज्रे॑ण । तम्ऽत॑म् । इत् । ह॒त॒म् । दू॒रे । च॒त्ताय॑ । छ॒न्त्स॒त् । गह॑नम् । यत् । इन॑क्षत् । अ॒स्माक॑म् । शत्रू॑न् । परि॑ । शू॒र॒ । वि॒श्वतः॑ । द॒र्मा । द॒र्षी॒ष्ट॒ । वि॒श्वतः॑ ॥
हे इन्द्रापर्वता। इन्द्रः प्रसिद्धः । पर्वतः पर्ववान्मेघः । तदभिमानी देवः । तौ युवं युवां पुरोयुधा संग्रामे पुरतो योद्धारौ नः अस्माकं यः शत्रुः पृतन्यात् अस्मान् हन्तुं पृतनामात्मन इच्छति तंतमित् सर्वमपि शत्रुम् अप हतं नाशयतम् ॥ हन्तेर्लोटि ‘ अनुदात्तोपदेश' इत्यनुनासिकलोपः ॥ केन साधनेनेति तदुच्यते । तंतमित् सर्वमपि शत्रुं हन्तुं वज्रेण साधनेन प्राप्नुतम् । ईदृक् सामर्थ्यमस्तीति दर्शयति । यत् यो वज्रः । लिङ्गव्यत्ययः ॥ दूरे चत्ताय अत्यन्तदूरदेशे गताय ॥ चातयतेर्वा नाशकर्मणः ॥ नष्टाय अदर्शनमापन्नायेत्यर्थः ॥' ग्रसितस्कभित०' इत्यादौ निपातनात् इडभावः ॥ तादृशं शत्रुं छंत्सत् छन्दयति कामयते हन्तुम् । छन्दतेः कान्तिकर्मणः इदं रूपम् ॥ किंच गहनं दुरवगाहं स्थानम् अतिकठिनं हृदयं शत्रुसमीपं वा इनक्षत् व्याप्नोति ॥ ‘नक्ष गतौ'। छान्दसः इकारोपजनः । इनक्षतिर्वा प्रकृत्यन्तरम् ॥ इदानीम् इन्द्र एव स्तूयते । हे शूर शौर्योपेतेन्द्र अस्माकं विरोधिनः शत्रून् विश्वतः विश्वान् ॥ सार्वविभक्तिकस्तसिल् ॥ परि परितः विश्वतः विश्वैः उपायैः दर्षीष्ट दारयसि । किंच दर्मा शत्रूणां दारकः ॥ दारयतेः ‘अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । णिलोपे उदात्तनिवृत्तिस्वरेण मनिन उदात्तत्वम् । ह्रस्वश्छान्दसः । यद्वा । 'दॄ भये' । घटादित्वात् ‘ मितां ह्रस्वः' इति ह्रस्वत्वम् ॥ तव पूर्वोक्तो वज्रः विश्वतः सर्वान् शत्रून् सर्वैरुपायैर्वा दर्षीष्ट दारयति । यद्वा । दर्मा शत्रूणां दारकः इन्द्रः दर्षीष्ट कार्स्न्ये न दारयति शत्रून् ॥ ॥ २१ ॥
“Indra and Parvata, who are foremost in battles, slay every one who is arrayed against us; slay every such (adversary) with the thunderbolt--(the shaft that) bent upon his destruction pursues him, however far, or to whatever hiding plural ce he may have fled. You, hero, (tear) our enemies entirely to pieces; the tearer (of foes, the thunderbolt), rends them entirely asunder.”
Indra and Parvata, our champions in the fight, drive ye away each man who fain would war with us, drive him far from us with the bolt.
Welcome to him concealed afar shall he the lair that he hath found.
So may the Render rend our foes on every side, rend them, O Hero, everywhere.
You two, Indra and “Mountain” [=mace], who fight in the front— whoever would give battle to us, smash that very one away—with a
mace smash that very one. (Under these circumstances, even) an abyss will be pleasing to (that one,) who has fled into the distance—an abyss he will seek to reach.
O champion, (surround) our rivals all around on all sides—let the
splitter split (them) on all sides.
Ihr beide, o Indra und Parvata, möge als Vorkämpfer, jeden, welcher uns befeindet, hinwegschlagen, mit dem Blitze jeden solchen schlagen; der versteckte möge froh sein, dass er den Schlupfwinkel erreicht hat; unsere Feinde, o Held, durchbrich von allen Seiten, als Durchbrecher von allen Seiten.
Indra und Parvata, schlaget ihr beide als Vorkämpfer jeden weg, der uns anfeinden sollte, mit der Keule erschlaget jeden! Dem in der Ferne Geflohenen soll sie wie der Schlupfwinkel erscheinen, den er zu erreichen strebt. Unsere Feinde soll er, o Held, vollständig, soll der Zersprenger vollständig zersprengen.
О Индра и Парвата, сражающиеся впереди,
Каждого, кто на нас нападает, убейте,
Ваджрой каждого убейте!
Пусть каждому, далеко убежавшему,
Она покажется укрытием, которого он хочет достигнуть.
Наших врагов, о герой, кругом, со всех сторон,
Взорви как взрыватель – со всех сторон!