उ॒भे पु॑नामि॒ रोद॑सी ऋ॒तेन॒ द्रुहो॑ दहामि॒ सं म॒हीर॑नि॒न्द्राः । अ॒भि॒व्लग्य॒ यत्र॑ ह॒ता अ॒मित्रा॑ वैलस्था॒नं परि॑ तृ॒ळ्हा अशे॑रन् ॥
उ॒भे । पु॒ना॒मि॒ । रोद॑सी॒ इति॑ । ऋ॒तेन॑ । द्रुहः॑ । द॒हा॒मि॒ । सम् । म॒हीः । अ॒नि॒न्द्राः । अ॒भि॒ऽव्लग्य॑ । यत्र॑ । ह॒ताः । अ॒मित्राः॑ । वै॒ल॒ऽस्था॒नम् । परि॑ । तृ॒ळ्हाः । अशे॑रन् ॥
हे इन्द्र ऋतेन त्वदुद्देश्येन यज्ञेन बलेन’ उभे रोदसी द्यावापृथिव्यौ पुनामि लोकद्वयं हिंसकानां तव अयष्टॄणां वा अपगमनेन पावयामि । किंच भूलोके अनिन्द्राः इन्द्रविरहितानाम् आश्रयभूताः महीः उर्वीः अत एव द्रुहः द्रोहिणामाधारभूतत्वात् स्वयमपि द्रोग्धीः सं दहामि संभूय एकहेलया दहामि । पुनस्ता एव विशेष्यन्ते । यत्र यासु भूमिषु अमित्राः शत्रवः अभिव्लग्य अभितो गत्वा हताः सर्वतः प्राप्ताः अस्माभिर्घातिता वा ॥ व्लगतिर्गतिकर्मा छान्दसो धातुः ॥ ते सर्वे परि तृळ्हाः हिंसिताः ॥ तृहू हिंसार्थः । ऊदित्त्वात् “ यस्य विभाषा ' इति इट्प्रतिषेधः ॥ हिंसिताः सन्तः अशेरन् शयनं प्राप्ताः ॥ शेतेर्व्यत्ययेन परस्मैपदम् ।' शीङो रुट्' (पा. सू. ७. १. ६) । शीङः सार्वधातुके गुणः ॥ वैलस्थानम् । बिलशब्दो गर्तसमानार्थः । स च गर्तः श्मशानवचनः । अतः अयमपि श्मशानवाची । अथवा बिलसंबन्धिस्थानं नागलोकः । तत्र वा अशेरन् । यद्वा । ‘ विल क्षेपे ' इति धातुः । घञर्थे कः। स्वार्थिकः अण् । तत्र शवाः क्षिप्यन्ते इति वैलस्थानं श्मशानम् ॥ तत्र त्वया हताः भूमिं श्मशानवत्कृत्वा सर्वत्र शेरते । तान् दहामीत्यर्थः॥
“By sacriice I purify both the heaven and the earth; I burn the wide (realms of earth) that are without Indra, and are (the haunts) of the wicked; wherever the enemies have congregated they have been slain; and, utterly destroyed, they sleep in a deep pit.”
WITH sacrifice I purge both earth and heaven: I burn up great she-fiends who serve not Indra,
Where throttled by thy hand the foes were slaughtered, and in the pit of death lay pierced and mangled.
Both world-halves I purify with truth; the deceits—great, but lacking Indra—I burn up entirely,
where the enemies, having attacked, lay slain, crushed all around the Place of Hostility.
Die beiden Welten reinige ich durch heiliges Werk, die grossen, dem Indra feindlichen Unholdinnen verbrenne ich, sie dahin stossend, wo die Feinde rings um die Kluft zerschmettert dalagen.
Mit der Wahrheit reinige ich beide Welthälften, verbrenne ich all die großen Lügengeister, die indralosen, da wo die Feinde eingefangen, erschlagen, zerschmettert das Leichenfeld bedeckten.
Оба мира я очищаю законом.
Я сжигаю великие силы лжи, лишенные Индры,
(Там,) где недруги были настигнуты (нами и) убиты,
Растерзанные полегли они кругом на месте бойни.
अ॒भि॒व्लग्या॑ चिदद्रिवः शी॒र्षा या॑तु॒मती॑नाम् । छि॒न्धि व॑टू॒रिणा॑ प॒दा म॒हाव॑टूरिणा प॒दा ॥
अ॒भि॒ऽव्लग्य॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । शी॒र्षा । या॒तु॒ऽमती॑नाम् । छि॒न्धि । व॒टू॒रिणा॑ । प॒दा । म॒हाऽव॑टूरिणा । प॒दा ॥
अद्रिवः वैरिणां भक्षक । यद्वा अद्रेः मेघस्य आदर्तः इन्द्र त्वं यातुमतीनां हिंसावतीनां सेनानाम् । यद्वा । यातनसाधनानि आयुधानि यातूनि तद्वतीनाम् । अथवा । यातवो रक्षांसि तद्वतीनां सेनानाम् ॥ कर्मणि षष्ठी। शत्रूणां सेनाः। शीर्षा शीर्षाणि अभिव्लग्या चित् अभितः प्राप्यैव च्छिन्धि चूर्णय। यद्वा । तासां संबन्धीनि रथादीनि च्छिन्धि । केन साधनेनेति तदुच्यते । वटूरिणा पदा वेष्टनशीलेन सर्वव्याप्तेन त्वदीयपादेन अतिविस्तृतेनेत्यर्थः । यद्वा । वटूरिणा पदा वेष्टनशीलेन हस्तिनः संबन्धिना पादेन ऐरावतपादेनेत्यर्थः । न केवलेन येन केन पादेनेत्याह । महावटूरिणा पदा महावेष्टनवता स्वीयेन ऐरावतसंबन्धिना वा पादेन च्छिन्धि चूर्णय ॥ वट वेष्टने '। ‘ खर्जिपिञ्ज्यादिभ्य ऊरोलचौ ' (उ. सू. ४. ५३० ) इति ऊरप्रत्ययः । अत इनिठनौ ' इति इनिः ॥
“Devourer (of foes) having trampled on the heads of the malignant (hosts), crush them with your wide-spreading foot; you vast wide-spreading foot.”
O thou who castest forth the stones crushing the sorceresses' heads,
Break them with thy wide-spreading foot, with thy wide-spreading mighty foot.
You also having attacked, o possessor of the stone: cut off the heads of the witches
with your foot that overcomes obstacles—with your foot that overcomes great obstacles.
Fortstossend, o Schleuderer, zerbrich die Köpfe der Hexen mit dem geharnischten, Fusse, mit dem stark geharnischten Fusse.
Die Köpfe der Zauberinnen einfangend zerspalte sie mit dem .... Fuße, du Herr des Preßsteins, mit dem groß ...... Fuße!
Настигнув же (их), о повелитель давильных камней,
Головы колдунов
Размозжи перевязанной (?) ногой,
Мощно перевязанной (?) ногой!
अवा॑सां मघवञ्जहि॒ शर्धो॑ यातु॒मती॑नाम् । वै॒ल॒स्था॒न॒के अ॑र्म॒के म॒हावै॑लस्थे अर्म॒के ॥
अव॑ । आ॒सा॒म् । म॒घ॒ऽव॒न् । ज॒हि॒ । शर्धः॑ । या॒तु॒ऽमती॑नाम् । वै॒ल॒ऽस्था॒न॒के । अ॒र्भ॒के । म॒हाऽवै॑लस्थे । अ॒र्भ॒के ॥
हे इन्द्र मघवन् धनवन् आसां यातुमतीनाम् । यातनसाधनानि आयुधानि यातूनि तद्वतीनां यातुधानवतां वा सेनानां शर्धः बलम् अव जहि चूर्णय। तथा कृत्वा च अर्मके कुत्सिते शवैः अरणीये वैलस्थानके कुत्सिते पूर्वोक्तलक्षणे श्मशाने क्षपय इति शेषः । यद्वा । वैलस्थानके बिलसंबन्धिनि कुत्सिते स्थाने अन्धकारावृते अधोलोके स्थापयेति शेषः। ननु यत्र क्वचित् क्षुद्रे न इत्याह । महावैलस्थे सर्वैर्गन्तव्ये महाश्मशाने नागलोके वा । पुनः कीदृशे । अर्मके कुत्सिते गतासुभिः अरणीये ॥
“Annihilate, Maghavan, the might of malignant (hosts), hurl them into the vile pit; and vast and vile pit.”
Do thou, O Maghavan, beat off these sorceresses' daring strength.
Cast them within the narrow pit. within the deep and narrow pit.
Bounteous one, smash down the troop of these witches
at the mudflat (called) Place of Hostility—at the mudflat (called) Place of Great Hostility.
Stosse hinab, o mächtiger, die Schar dieser Hexen in den Trümmerhaufen der Schlucht, in den Schutt der grossen Schlucht.
Schlage, o Gabenreicher, das Heer jener Zauberinnen nieder, auf dem Leichenfeld, auf dem Trümmerhaufen, auf dem großen Leichenfeld, auf dem Trümmerhaufen!
Разнеси, о щедрый,
Толпу этих колдуний
На месте бойни, на свалке,
На огромном месте бойни, на свалке!
यासां॑ ति॒स्रः प॑ञ्चा॒शतो॑ऽभिव्ल॒ङ्गैर॒पाव॑पः । तत्सु ते॑ मनायति त॒कत्सु ते॑ मनायति ॥
यासा॑म् । ति॒स्रः । प॒ञ्चा॒शतः॑ । अ॒भि॒ऽव्ल॒ङ्गैः । अ॒प॒ऽअव॑पः । तत् । सु । ते॒ । म॒ना॒य॒ति॒ । त॒कत् । सु । ते॒ । म॒ना॒य॒ति॒ ॥
हे इन्द्र यासां पूर्वमन्त्रोक्तलक्षणानां सेनानां तिस्रः पञ्चाशतः त्रिगुणितपञ्चाशत्संख्यां सार्धशतम् अभिव्लङ्गैः अभिगमनैः ॥ व्लङ्गतिर्गतिकर्मेत्युक्तम् । अभिगम्य अपावपः नाशितवानसि । हे इन्द्र तत् तादृशं सेनावधादिरूपं कर्म सु" मनायति सुष्ठु संभावयतीत्यर्थः। किंच हे इन्द्र ते तव अध्यर्धशतशत्रुसेनाजयरूपं महदपि तकत् इति सु मनायति अत्यल्पमिदमिति सुष्ठु मन्यते ॥
“That you have destroyed, by your assaults, thirce fifty of such (hosts), is a deed that well becomes you, although thought by you of little moment.”
Of whom thou hast ere now destroyed thrice-fifty with thy fierce attacks.
That deed they count a glorious deed, though small to thee, a glorious deed.
When you scattered afar thrice fifty of them with your attacks,
this (deed?) of yours displays your zeal—this little (deed?) of yours
displays your zeal.
Von denen du dreiundfunfzig durch Fortstossen hinwegrafftest; das dünkte dir gut, ja das dünkte dir gut.
Von denen du dreimal fünfzig mit Schlingen abfingst, das merkt er sich fein von dir, das Stückchen merkt er sich fein von dir.
(Та толпа,) из кого трижды пятьдесят
Ты уничтожил (своими) нападениями,
Хорошо понимает это твое (деяние),
Уже это-то твое (деяние) хорошо понимает.
पि॒शङ्ग॑भृष्टिमम्भृ॒णं पि॒शाचि॑मिन्द्र॒ सं मृ॑ण । सर्वं॒ रक्षो॒ नि ब॑र्हय ॥
पि॒शङ्ग॑ऽभृष्टिम् । अ॒म्भृ॒णम् । पि॒शाचि॑म् । इ॒न्द्र॒ । सम् । मृ॒ण॒ । सर्व॑म् । रक्षः॑ । नि । ब॒र्ह॒य॒ ॥
हे इन्द्र पिशङ्गभृष्टिम् ईषद्रक्तवर्णम् अम्भृणम् अतिभयंकरं शब्दायमानम् ॥ ‘ भ्रण शब्दे । यङ्लुगन्तात् पचाद्यचि छान्दसो भलोपश्च॥ यद्वा । महान्तम् अतिप्रवृद्धमित्यर्थः । अम्भृण इति महन्नाम, अम्भृणः माहिनः' (नि. ३. ३. १६ ) इति तत्र पाठात् । उक्तविधिं पिशाचिं पिशाचविशेषं जरामित्येके। सं मृण सम्यग्हिंसय । न केवलं तमेकं किंतु सर्वं रक्षः रक्षणनिमित्तभूतं राक्षसादिकं नि बर्हय निषूदय ॥ बृह हिंसायाम् । चौरादिकः ॥ नामय। वधकर्मैतत्। ‘ नितोशयति निबर्हयति' (नि. २. १९. ३०) इति तत्रोक्तत्वात् ॥
दशरात्रस्य षष्ठेऽहनि प्रउगशस्त्रे ऐन्द्रतृचस्य ‘अवर्मह इन्द्र' इत्यादिके प्रथमाद्वितीये । षष्ठस्य' इति खण्डे सूत्रितम्- अवर्मह इन्द्र वृषन्निन्द्र' ( आश्व. श्रौ. ८. १ ) इति ॥
“Destroy, Indra, the tawny-coloured, fearfully-roaring, piśāci; annihilate all the rākṣasas.”
O Indra, crush and bray to bits the fearful fiery-weaponed fiend:
Strike every demon to the ground.
Pulverize the tawny-spiked, ballsy Piśāci entirely, Indra.
Tear down every demon.304 I.134
Den mit feurigen Spitzen besetzten nebelhaften Piçātschi, o Indra, vernichte, das ganze Gespenstergeschlecht strecke nieder.
Den rotzackigen, ungeheuerlichen Pisaci zermalme, Indra, jeden Dunkelgeist strecke nieder!
О Индра, раздави пишачи
С красноватыми зубцами, очень страшного (?)!
Повергни ниц любого ракшаса!
अ॒वर्म॒ह इ॑न्द्र दादृ॒हि श्रु॒धी न॑: शु॒शोच॒ हि द्यौः क्षा न भी॒षाँ अ॑द्रिवो घृ॒णान्न भी॒षाँ अ॑द्रिवः । शु॒ष्मिन्त॑मो॒ हि शु॒ष्मिभि॑र्व॒धैरु॒ग्रेभि॒रीय॑से । अपू॑रुषघ्नो अप्रतीत शूर॒ सत्व॑भिस्त्रिस॒प्तैः शू॑र॒ सत्व॑भिः ॥
अ॒वः । म॒हः । इ॒न्द्र॒ । द॒दृ॒हि । श्रु॒धि । नः॒ । शु॒शोच॑ । हि । द्यौः । क्षाः । न । भी॒षा । अ॒द्रि॒ऽवः॒ । घृ॒णात् । न । भी॒षा । अ॒द्रि॒ऽवः॒ । शु॒ष्मिन्ऽत॑मः । हि । शु॒ष्मिऽभिः॑ । व॒धैः । उ॒ग्रेभिः॑ । ईय॑से । अपु॑रुषऽघ्नः । अ॒प्र॒ति॒ऽइ॒त॒ । शू॒र॒ । सत्व॑ऽभिः । त्रि॒ऽस॒प्तैः । शू॒र॒ । सत्व॑ऽभिः ॥
हे इन्द्र महः महतो मेघस्य ॥ कर्मणि षष्ठी ॥ महान्तं जलधारिणं मेघं महान्तं वृत्रं वा अवः अवस्तात् अवाङ्मुखम् ॥ ‘पूर्वाधरा' इत्यादिना असिप्रत्ययोऽवादेशश्च । ‘अम्नरूधरवरित्युभयथा छन्दसि ' ( पा. सू. ८. २. ७० ) इति रेफः ॥ ददृहि विदारय । किंच नः अस्मद्वाक्यं श्रुधि शृणु । हे अद्रिवः । अद्रिर्मेघः । तद्वन्निन्द्र हि यस्मात् कारणात् द्यौः द्युलोको देवानामाश्रयभूतः शुशोच शोचति । वृष्ट्यभावेन हविराद्यभावादिति भावः । तत्र दृष्टान्तः। क्षाः न । क्षेति भूनाम । क्षायन्ति निवसन्त्यस्यामिति क्षाः । क्षै जै षै क्षये '। अधिकरणे क्विप् ॥ क्षाः न सर्वनिवासाश्रयभूमिरिव । सा यथा भीषा वृष्ट्यभावात् सस्यादिशोषभीत्या शोचति तद्वत् । लोकद्वयमपि वृष्ट्यभावेन शोचतीत्यर्थः। असुरपक्षं लोकद्वयमावृत्य प्रवर्धमानं धर्तुम् असहमाने द्यावापृथिव्यौ शोचतः इत्यर्थः। तस्माच्छ्रुधीति पूर्वत्रान्वयः। भीतौ दृष्टान्तः । हे अद्रिवः शत्रूणां भक्षक । यद्वा । अद्रिर्वज्रः तेन तद्वन् । हे इन्द्र घृणात् भीषा न दीप्तात् अग्नेर्मूर्त्यन्तरात् त्वष्टुर्भीत्येव । त्वष्टुर्भीत्या पूर्वं यथा द्यावापृथिव्यौ शोचतः तद्वत्। अत्रेतिहासमाहुः। पूर्वं जगति महान्धकारेण आवृते सति देवा विचिन्त्य अग्निं प्रार्थितवन्तः । स च त्वष्टृरूपेण द्यावापृथिवीभ्यां सकाशात् तमो व्युदस्यन् उदपद्यत । तं दृष्ट्वा द्यावापृथिव्यौ बिभ्यतुरिति । स च ‘उभे त्वष्टुर्बिभ्यतुः' (ऋ. सं. १. ९५. ५) इत्यादिश्रुतितोऽवगन्तव्यः । यद्वा । घृणः केवलोऽग्निः । तस्माद्यथा बिभीतस्तद्वत् । सा च भीतिः ‘अरेजेतां रोदसी' ( ऋ. सं. १. ३१. ३ ) इत्यादिश्रुतितोऽवगन्तव्या । तादृशभीतिं वृष्टिप्रदानेन परिहरेत्यर्थः । हे इन्द्र त्वं शुष्मिभिः बलैः शुष्मिन्तमो हि अतिशयेन बलवान् खलु । अतः कारणात् उग्रेभिः उद्गूर्णैरतिक्रूरैः वधैः तदुपायैः सहितः त्वम् ईयसे शत्रून् मेघान् वा गच्छसि ॥ ‘ ईङ् गतौ'। देवादिकत्वात् श्यन् ॥ यद्वा । शुष्मिभिर्वधैरिति संबन्धः । हे शूर विक्रान्त सत्वभिः अप्रतीत अवसन्नैः रक्षःप्रभृतिभिः अप्रतिगत युद्धे शत्रुभिः अनाक्रान्त । यद्वा । सत्वभिः प्राणिभिः असंस्कृतमनस्कैः अनधिगत । अपुरुषघ्नः पौरुषोपेतानां यजनसमर्थानाम् अहननः त्वम् । त्रिसप्तैः सत्वभिः त्रिभिः सप्तभिर्वा सत्वभिः अनुचरैरुपेतः सन् ईयसे इत्यन्वयः ॥
“Hurl headlong, Indra, the vast (cloud); hear our supplications; verily the heaven is in sorrow like the earth, through fear, wielder of the thunderbolt, (of famine), as (formerly through fear of) Tvaṣṭā; most powerful withmighty energies, you assail, Indra, (the clouds) with terrible blows; and, doing no injury to man (you march) invincible, hero, by (your) enemies attended, hero, by three or by seven followers.”
Tear down the mighty ones. O Indra, hear thou us. For heaven hath glowed like earth in fear, O Thunder-armed, as dreading fierce heat, Thunder-armed!
Most Mighty mid the Mighty Ones thou speedest with strong bolts of death,
Not slaying men, unconquered Hero with the brave, O Hero, with the thrice-seven brave.
Dash the great ones downward, Indra; listen to us. For heaven has blazed like the earth with fear, o possessor of the stone—as if with fear of
(the sun’s) heat, o possessor of the stone.
As the most tempestuous one, you speed with your tempestuous,
powerful weapons of death,
smashing those who are not men, o unopposable champion, along with your warriors—o champion, along with your thrice seven warriors.
Stosse herab die grossen, o Indra, erhöre uns; es brennt gleichsam vor Furcht der Himmel und die Erde, o Schleuderer, vor Furcht wie vor Sonnenglut; denn du, der kräftigste an Kräften, eilst mit den grossen Mordwaffen; nicht Männer tödtend, o unwiderstehlicher, mit den Tapferen, o Held, mit den dreimal sieben Tapferen.
Schmettere die Großen hinab, Indra; erhöre uns! Denn es glüht der Himmel aus Furcht wie die Erde, o Herr des Preßsteins, aus Furcht wie die Erde von der Sonneglut, o Herr des Preßsteins. Denn als Wuchtigster ziehst du mit den wuchtigen, gewaltigen Waffen aus, nicht menschenmordend, du unwiderstehlicher Held, mit deinen Kriegsmannen, mit den dreimal sieben Kriegsmannen, du Held.
Взорви, о Индра, великих (демонов, чтоб они рухнули) вниз!
Услышь нас!
Ведь пылало небо, как земля, от страха, о повелитель давильных камней,
Как от (солнечного) зноя, от страха, о повелитель давильных камней!
Ведь самый неистовый, ты движешься
С неистовым, грозным смертельным оружием (герой),
Не убивая людей, о не знающий соперников, с воинами
Числом трижды семь, о герой, с воинами.
व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी॑णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो॑ दे॒वाना॒मव॒ द्विष॑: । सु॒न्वा॒न इत्सि॑षासति स॒हस्रा॑ वा॒ज्यवृ॑तः । सु॒न्वा॒नायेन्द्रो॑ ददात्या॒भुवं॑ र॒यिं द॑दात्या॒भुव॑म् ॥
व॒नोति॑ । हि । सु॒न्वन् । क्षय॑म् । परी॑णसः । सु॒न्वा॒नः । हि । स्म॒ । यज॑ति । अव॑ । द्विषः॑ । दे॒वाना॑म् । अव॑ । द्विषः॑ । सु॒न्वा॒नः । इत् । सि॒सा॒स॒ति॒ । स॒हस्रा॑ । वा॒जी । अवृ॑तः । सु॒न्वा॒नाय॑ । इन्द्रः॑ । द॒दा॒ति॒ । आ॒ऽभुव॑म् । र॒यिम् । द॒दा॒ति॒ । आ॒ऽभुव॑म् ॥
हे इन्द्र सुन्वन् त्वामुद्दिश्य अभिषवं कुर्वन् यजमानः क्षयं सर्वेर्वस्तव्यं गन्तव्यं वा गृहं वनोति हि त्वत्प्रसादात् संभजते । हिः प्रसिद्ध्यर्थः । किंच सुन्वानो हि सोमयागं कुर्वाणः एव परीणसः परितो नद्धान् संबद्धान् द्विषः द्वेष्टॄन् अव यजति नाशयति । न केवलं यागद्वेषिणः देवानां द्विषः अपि अव यजति । किंच सुन्वान इत् अभिषवोपलक्षितं यागं कुर्वाणो हे इन्द्र त्वत्प्रसादात् वाजी वाजवान् अन्नवान् अवृतः परैरनाक्रान्तः सन् 'सहस्रा सहस्राण्यपरिमितानि गवादिधनानि 'सिषासति साधयितुं संभक्तुं वा इच्छति ॥ सनेः सनि सनीवन्तर्ध' इति विकल्पनात् इडभावे ‘ जनसनखन' इति आत्वम् ॥ केनेदं लभ्यते इति तत्राह । सुन्वानाय इन्द्रमुद्दिश्य सोमयागं कुर्वाणाय यजमानाय वा अयम् इन्द्रः आभुवं समन्ताद्भवनशीलं तथा आभुवं पुनर्भवनशीलम् अतिसमृद्धं रयिं गवादिरूपं धनं ददाति प्रयच्छति । तस्मात् सुन्वानः सिषासतीत्यर्थः ॥ ॥ २२ ॥ ॥ १९ ॥
“Offering libations, (the worshipper) obtains a (safe) asylum; offering libations, he destroys his prostrate foes; (he destroys) the enemies of the gods; abounding with food, and unsubdued (by adversaries), he hopes to attain, when offering libations, infinite (riches), for Indra grants to him who offers libations whatever there is (that he desires); he grants (him) accusative ulated wealth.”
The pourer of libations gains the home of wealth, pouring his gift conciliates hostilities, yea, the hostilities of Gods.
Pouring, he strives, unchecked and strong, to win him riches thousandfold.
Indra gives lasting wealth to him who pours forth gifts, yea, wealth he gives that long shall last.
For the one who presses soma wins the dwelling place of profusion; for by pressing, he dashes hatreds down through sacrifice—(dashes) down hatreds toward the gods.
Just by pressing, he desires to win thousands, as an unobstructable
competitor.
To the presser Indra gives what is ready to hand—he gives the wealth that is ready to hand.
Denn der Somapresser erlangt leicht den Sitz des Reichthums; der Somapresser schafft durch Opfer hinweg seine Feinde, hinweg der Götter Feinde; der Somapresser erbeutet tausendfaches als ungehemmter Kämpfer; dem Somapresser gibt Indra tüchtiges, gibt ihm tüchtiges Gut.
Denn der Somapresser gewinnt ein Haus des Überflusses, denn der Somapresser wendet die Feindschaft ab, die Feindschaft der Götter ab. Der Pressende sucht Tausende zu erringen als ungehemmter Sieger. Dem Pressenden gibt Indra einen hilfsbereiten Schatz an Söhnen.
Ведь выжимающий (сому) добывает (себе) место поселения, (полное) изобилия,
Ведь выжимающий (сому) жертвой отвращает врагов,
От(вращает) (тех, кто) враги богам.
Да, выжимающий (сому) хочет (овладеть)
Тысячами, (он) неудержимый победитель.
Для выжимающего (сому) Индра дает наличное
Богатство, дает наличное.