आ त्वा॒ जुवो॑ रारहा॒णा अ॒भि प्रयो॒ वायो॒ वह॑न्त्वि॒ह पू॒र्वपी॑तये॒ सोम॑स्य पू॒र्वपी॑तये । ऊ॒र्ध्वा ते॒ अनु॑ सू॒नृता॒ मन॑स्तिष्ठतु जान॒ती । नि॒युत्व॑ता॒ रथे॒ना या॑हि दा॒वने॒ वायो॑ म॒खस्य॑ दा॒वने॑ ॥
आ । त्वा॒ । जुवः॑ । र॒र॒हा॒णाः । अ॒भि । प्रयः॑ । वायो॒ इति॑ । वह॑न्तु । इ॒ह । पू॒र्वऽपी॑तये । सोम॑स्य । ऊ॒र्ध्वा । ते॒ । अनु॑ । सू॒नृता॑ । मनः॑ । ति॒ष्ठ॒तु॒ । जा॒न॒ती । नि॒युत्व॑ता । रथे॑न । आ । या॒हि॒ । दा॒वने॑ । वायो॑ इति॑ । म॒खस्य॑ । दा॒वने॑ ॥
हे वायो त्वा त्वां जुवः गमनशीलाः ररहाणाः शीघ्रगामिनो बलवन्तो वा सामर्थ्यात् नियुत्संज्ञकाः अश्वाः ॥ ‘ रहि गतौ । लिटः कानच् । छान्दसोऽनुनासिकलोपः ॥ इह अस्मिन् यज्ञे प्रयः चरुपुरोडाशादि हविर्लक्षणमन्नं वहन्तु प्रापयन्तु । किमर्थम् । पूर्वपीतये° पूर्ववत्पानाय । पुनः किमर्थम् । पूर्वपीतये इतरदेवेभ्यः पुरा पानाय । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ॥ किंच हे वायो ते तव संबन्धि मनः अनु सूनृता प्रियसत्यात्मिका स्तुतिरूपा अस्मदीया वाक् तिष्ठतु आश्रित्य सर्वदा वर्ततां हर्षयत्वित्यर्थः । सूनृतेति वाङ्नाम, ‘ सूनृता ब्रह्म इति तन्नामसु उक्तत्वात् । ऊर्ध्वा उन्नता तथा जानती तव गुणान् विशेषेणावगच्छन्ती । सोमपानार्थं स्तुत्यर्थं च हे वायो मखस्य यज्ञस्य दावने दातव्याय हविषे तत्स्वीकाराय । पुनः किमर्थम् । दावने अस्मभ्यमभिमतदानाय । उभयत्र ददातेः कर्मणि भावे च क्रमेण औणादिको वनिः । छान्दसः उपधालोपः ॥ नियुत्वता रथेन नियुद्भिर्युक्तेन रथेन आ याहि आगच्छ ।
“Let your swift coursers, Vāyu, bring you quickly hither, that you may be the first to drink; the first (of the gods) to drink of the Soma. May our appraised, discriminating, and sincere (praise) be acceptable to your mind; come with your steed-yoked car for (the libation) to be presented to you; come, Vāyu, for granting (the objects of worship).”
Vayu, let fleet-foot coursers bring thee speedily to this our feast, to drink first of the juice we pour, to the first draught of Soma juice.
May our glad hymn, discerning well, uplifted, gratify thy mind.
Come with thy team-drawn car, O Vayu, to the gift, come to the sacrificer's gift.
Let the speedy ones, hastening, convey you here to the pleasurable offering, o Vāyu, to drink first—to drink first of the soma.
Let Liberality stand upright following your intention, recognizing it. On a chariot with a team drive here for giving—o Vāyu, for the giving of bounty.
Dich Vaju mögen deine schnellen Rosse hier zum ersten Trunke dir zur Freude fahren her, zum ersten Trunk des Somatranks; Das Jubellied erhebe sich zu deinem Geist, des Wegs bewusst; Auf vielbespannten Wagen komme, zu empfahn, den Helden Soma zu empfahn.
Dich, Vayu, sollen die schnellaufenden Rennpferde hierher zum Labetrank fahren, um zuerst zu trinken, um zuerst den Soma zu trinken. Die aufrecht stehende Großmut soll deinem Sinne willfahren, den sie kennt. Komm auf dem Niyutbespannten Wagen zum Schenken, o Vayu, zum Schenken der Gabe!
Да привезут тебя быстрые кони,
О Ваю, сюда к жертвенной усладе для первого питья,
Для первого питья сомы!
Распрямившаяся Щедрость да овладеет
Твоим духом, зная (тебя)!
Приезжай на колеснице с упряжками – для дарения,
О Ваю, для дарения дружеского расположения!
मन्द॑न्तु त्वा म॒न्दिनो॑ वाय॒विन्द॑वो॒ऽस्मत्क्रा॒णास॒: सुकृ॑ता अ॒भिद्य॑वो॒ गोभि॑: क्रा॒णा अ॒भिद्य॑वः । यद्ध॑ क्रा॒णा इ॒रध्यै॒ दक्षं॒ सच॑न्त ऊ॒तय॑: । स॒ध्री॒ची॒ना नि॒युतो॑ दा॒वने॒ धिय॒ उप॑ ब्रुवत ईं॒ धिय॑: ॥
मन्द॑न्तु । त्वा॒ । म॒न्दिनः॑ । वायो॒ इति॑ । इन्द॑वः । अ॒स्मत् । क्रा॒णासः॑ । सुऽकृ॑ताः । अ॒भिऽद्य॑वः । गोऽभिः॑ । क्रा॒णाः । अ॒भिऽद्य॑वः । यत् । ह॒ । क्रा॒णाः । इ॒रध्यै॑ । दक्ष॑म् । सच॑न्ते । ऊ॒तयः॑ । स॒ध्री॒ची॒नाः । नि॒ऽयुतः॑ । दा॒वने॑ । धियः॑ । उप॑ । ब्रु॒व॒ते॒ । ई॒म् । धियः॑ ॥
हे वायो त्वा त्वाम् अस्मत् अस्माकं संबन्धिनः इन्दवः क्लेदयितारः सोमाः मन्दन्तु मादयन्तु । व्यत्ययेन परस्मैपदम् ॥ कीदृशाः सोमाः । मन्दिनः मादयितारः क्राणासः कुर्वाणाः स्वकार्य हर्षादिकं सुकृताः अभिषवदशापवित्रशोधनग्रहणादिभिः सुष्ठु कृताः अभिद्यवः अभितो द्योतयन्तः गोभिः वाग्भिर्मन्त्ररूपाभिः क्राणाः क्रियमाणा हूयमानाः । यद्वा । गोभिः गन्तृभिः आहवनीयं प्रति आनेतृभिः क्राणा हूयमानाः ॥ करोतेः शानच् । छान्दसः शपो लुक् । तथा अभिद्यवः अभिगन्तारः । हे वायो यत् यस्मात् कारणात् । हशब्दः प्रसिद्धौ। दक्षम् अस्मद्यागदेशं प्रति गन्तुमुत्साहवन्तं समर्धयितारम् ईं त्वां नियुतः एतसंज्ञकास्तवाश्वा: दावने दानाय हविःस्वीकारनिमित्तं धियः कर्माणि उद्दिश्य सचन्ते त्वां संगच्छन्ते यागदेशं वा । किमर्थम् । इरध्यै प्रापयितुं परिचरितुं वा ॥ ‘ ईर गतौ । तुमर्थे कध्यैप्रत्ययः । ह्रस्वश्छान्दसः ॥ इरध्यतिः परिचरणकर्मा, इरध्यति विधेम' (नि. ३. ५. १) इति तन्नामसूक्तत्वात् । कीदृशास्ताः। क्राणाः स्वव्यापारं रथवाहनादिकं कुर्वाणाः । ‘ क्राणाः कुर्वाणाः ' ( निरु. ४. १९) इति यास्कः । ऊतयः रक्षणवत्यः प्रीतियुक्ता वा तथा सध्रीचीनाः त्वया सह अञ्चन्त्यो गच्छन्त्यः ॥ ‘ सहस्य सध्रिः' । ‘विभाषाञ्चेः० इति स्वार्थे खः । व्यत्ययेनान्तोदात्तः ॥ किंच धियः कर्मवन्तो बुद्धिमन्तो वा ऋत्विजो यजमाना वा उप ब्रुवते उपेत्य ब्रुवन्ति स्वाभिमतं विज्ञापयन्ति वा ॥
“May the exhilarating drops (of the libation) exhilarate you, Vāyu, being fitly prepared, doing their office, administered opportunely, rendered efficacious by (our) praises, and flowing (in due season); for which purpose, your docile and active steeds, the niyuts, attending (your presence, bring you) to the sacrificial hall to accept the offering; to the sacrifice in which the pious (priests) represent their desires.”
May the joy-giving drops, O Vayu gladden thee, effectual, well prepared, directed to the heavens, strong, blent with milk and seeking heaven;
That aids, effectual to fulfil, may wait upon our skilful power.
Associate teams come hitherward to grant our prayers: they shall address the hymns we sing.
Let the invigorating drops invigorate you, Vāyu, as they are being prepared by us, well-prepared, heaven-bound—being prepared with cows [=milk], heaven-bound.
When his help, being prepared in order to succeed, follows his skill,
our teams, our poetic thoughts are directed toward a single goal, toward giving—our poetic thoughts call upon him [=Vāyu] (for giving).
Die lust'gen Indu's mögen, Vaju, dich erfreun, die starken, die wir schön gebraut, die himmlischen, die milchgemischten himmlischen; Wenn Tränke, tüchtig deinen Sinn uns zu gewinnen, bei dir sind, Dann fordern Lieder die vereinte Rosseschar, die Speisen zu empfangen auf.
Berauschen sollen dich die berauschenden Säfte, Vayu, von uns angemacht, wohlbereitet, für die Himmlischen bestimmt, mit der Kuhmilch angemacht, für die Himmlischen bestimmt. Da ja die Hilfen, die bereit sind sich gewinnen zu lassen, seinem Willen folgend, so vereinigen sich die Gebete, daß er Angebinde schenke, so reden ihm die Gebete zu.
Да опьянят тебя, о Ваю, пьянящие соки,
Нами приготовленные, прекрасно сделанные, сверкающие,
Приготовленные с коровьим (молоком), сверкающие!
Ведь когда готовые для покорения
Поддержки следуют за (его) силой действия,
Поэтические мысли (жреца, словно) упряжки, устремленные к одной цели, чтобы он дал,
Поэтические мысли обращаются к нему.
वा॒युर्यु॑ङ्क्ते॒ रोहि॑ता वा॒युर॑रु॒णा वा॒यू रथे॑ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे । प्र बो॑धया॒ पुरं॑धिं जा॒र आ स॑स॒तीमि॑व । प्र च॑क्षय॒ रोद॑सी वासयो॒षस॒: श्रव॑से वासयो॒षस॑: ॥
वा॒युः । यु॒ङ्क्ते॒ । रोहि॑ता । वा॒युः । अ॒रु॒णा । वा॒युः । रथे॑ । अ॒जि॒रा । धु॒रि । वोळ्ह॑वे । वहि॑ष्ठा । धु॒रि । वोळ्ह॑वे । प्र । बो॒ध॒य॒ । पुर॑म्ऽधिम् । जा॒रः । आ । स॒स॒तीम्ऽइ॑व । प्र । च॒क्ष॒य॒ । रोद॑सी॒ इति॑ । वा॒स॒य॒ । उ॒षसः॒ । श्रव॑से । वा॒स॒य॒ । उ॒षसः॑ ॥
अयं वायुः रोहिता रोहितवर्णावश्वौ धुरि धारणप्रदेशे रथस्याग्रभागे यद्वा भारवहने युङ्क्ते क्वचिद्योजयति । तथा क्वचित् अरुणा अरुणवर्णौ धुरि युङ्क्ते। तथा अजिरा अजिरौ गमनशीलौ वर्णविशेषयुक्तौ कदाचिद्युङ्क्ते । यद्वा । एतदुभयत्र संबध्यते । किमर्थं युङ्क्ते इति तदाह । वोळ्हवे धुरं वोढुं भारवहनाय । किंच वहिष्ठा वहिष्ठौ अतिशयेन वोढारावश्वौ ॥ वोढृशब्दात् इष्टनि तुरिष्ठेमेयःसु' इति तृलोपः । ढत्वादिकम् असिद्धत्वान्निवर्तते । द्विवचनस्य आकारः ॥ धुरि वोळ्हवे महद्भारं वोढुं महति भारे वोढव्ये सति । पुनःपुनर्वायुग्रहणम् अश्वयोजनवचनं च अतिशीघ्रमागच्छतीति ज्ञापनार्थम् । इदानीं प्रत्यक्षेणाह । हे वायो पुरंधिं बहुप्रज्ञं सामर्थ्यात् यजमानमिति गम्यते । पुरंधिर्बहुधीः " (निरु. ६. १३) इति यास्कः । तं प्र बोधय । रथेन शीघ्रमागत्य प्रज्ञापय हविःस्वीकारायेति भावः । तत्र दृष्टान्तः । जारः पारदारिकः आ ससतीम् उपपत्यागमनध्यानेन ईषत् स्वपन्तीं पुरंधिमिव प्रकृष्टशरीरधारिणीं योषितमिव । तां यथा स्वसङ्केतेन स प्रबोधयति तद्वत् त्वमपि कर्मव्यग्रेण ईषत्स्वपन्तं यजमानं प्र बोधय । किंच तदर्थं रोदसी द्यावापृथिव्यौ प्र चक्षय प्रकर्षेण प्रख्यापय प्रकाशयेत्यर्थः । तत्प्रकाशार्थम् उषसः वासय उषःकालानपि यथावत्स्थापय प्रभातं कुर्वित्यर्थः। पुनस्तदेव प्रार्थ्यते । श्रवसे । श्रव इत्यन्ननाम । तव हवीरूपान्नस्वीकाराय उषसः वासय ॥
“Vāyu yokes to his car his two red horses; Vāyu (yokes) his purple steeds; Vāyu (yokes) his two unwearied (coursers) to his car to bear their burden; for most able are they to bear the burden. Arouse Vāyu the intelligent (sacrificer), as a gallant (awakens) his sleeping mistress; summon heaven and earth; light up the dawn; light up the dawn (to receive) your sacrificial food.”
Two red steeds Vayu yokes, Vayu two purple steeds, swift-footed, to the chariot, to the pole to draw, most able, at the pole, to draw.
Wake up intelligence, as when a lover wakes his sleeping love.
Illumine heaven and earth, make thou the Dawns to shine, for glory make the Dawns to shine.
Vāyu yokes his chestnut pair, Vāyu his ruddy pair, Vāyu the two nimble ones to the chariot, to the chariot-pole to pull—the best pullers to the chariot-pole to pull.
Awaken Plenitude, as a lover awakens her who sleeps.
Reveal the two world-halves; make the dawns shine—for fame make the dawns shine.
Die rothen schirrt sich Vaju an, die flammenden, die schnellen an den Wagen, die bestfahrenden, zum Fahren an die Deichsel sich; Erwecke Segensfülle, wie die schlafende der Buhle weckt. Erhell die Welten und die Morgen mache licht zur Herrlichkeit erleuchte sie.
Vayu schirrt die beiden roten, Vayu die rötlichen Rosse, Vayu die beiden flinken an den Wagen, daß sie im Joche ziehen, die besten Zugpferde, daß sie im Joche ziehen. Wecke die Wunscherfüllung wie der Buhle die Schlafende! Erhelle beide Welten, laß die Morgenröten aufleuchten, dir zum Ruhm laß die Morgenröten aufleuchten!
Ваю запрягает пару красных (коней), Ваю – пару рыжих,
Ваю – пару резвых в колесницу, чтоб везли за дышло,
Лучше всех возящих, чтоб везли за дышло.
Разбуди Изобилие,
Как любовник – спящую!
Освети оба мира! Зажги утренние зори!
Для славы зажги утренние зори!
तुभ्य॑मु॒षास॒: शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा॑ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये॑षु र॒श्मिषु॑ । तुभ्यं॑ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू॑नि दोहते । अज॑नयो म॒रुतो॑ व॒क्षणा॑भ्यो दि॒व आ व॒क्षणा॑भ्यः ॥
तुभ्य॑म् । उ॒षसः॑ । शुच॑यः । प॒रा॒वति॑ । भ॒द्रा । वस्त्रा॑ । त॒न्व॒ते॒ । दम्ऽसु॑ । र॒श्मिषु॑ । चि॒त्रा । नव्ये॑षु । र॒श्मिषु॑ । तुभ्य॑म् । धे॒नुः । स॒बः॒ऽदुघा॑ । विश्वा॑ । वसू॑नि । दो॒ह॒ते॒ । अज॑नयः । म॒रुतः॑ । व॒क्षणा॑भ्यः । दि॒वः । आ । व॒क्षणा॑भ्यः ॥
हे वायो तुभ्यं त्वदर्थम् उषासः उषसः पूर्वोक्तरीत्या त्वया प्रकाशिताः शुचयः शुद्धा दीप्ता वा परावति अत्यन्तदूरदेशे अन्तरिक्षे दंसु दंसेषु कर्मवत्सु। यद्वा । गृहनामैतत् ॥ अन्त्यलोपश्छान्दसः ॥ गृहवत् आच्छादकेषु । रश्मिषु स्वकीयेषु तैः भद्रा भन्दनीयानि कल्याणानि वस्त्रा आच्छादनयोग्यानि वस्त्राणि तन्वते विस्तारयन्ति । यद्वा । उषसो दंसु यागगृहेषु देवयजनेषु रश्मिषु होमाय प्रदीप्ताग्निज्वालावत्सु आगताय तुभ्यं भद्रा वस्त्रा तन्वते अग्निज्वाला एव वस्त्राणि विस्तारयन्तीत्यर्थः । उषःकाले अग्नीनां प्रज्वाल्यमानत्वात् ता एव वस्त्राणीत्युपचर्यते । ननु केवलं साधारणानि वस्त्राणि नेत्याह । नव्येषु नूतनेषु स्तूयमानेषु ॥ ‘णु स्तुतौ ' । अचो यत् । ‘वान्तो यि प्रत्यये ' इति अवादेशः । यतोऽनावः' इत्याद्युदात्तत्वम् ॥ रश्मिषु चित्राणि नानावर्णयुक्तानि आश्चर्यभूतानि तन्वते । उषःकाले रश्मीनां नानावर्णत्वादिति भावः । अग्निद्वारेति पक्षे ज्वालानां कालीकरालीत्यादिरूपेण नानावर्णत्वाच्चित्रत्वम् ॥ किंच हे वायो तुभ्यं त्वदर्थं त्वद्यागार्थमेव धेनुः घृतादिना प्रीणयित्री गौः । जातानेकवचनम् । 'सबर्दुघा । सबरिति अमृतनाम । तस्य दोग्ध्री ॥ ‘ दुहः कब्धश्च ' इति कप् ॥ सती विश्वा वसूनि सर्वाणि धनानि आज्यादिरूपाणि दोहते स्वयमेव दुग्धे प्रीणयतीत्यर्थः । कर्मकर्तरि ' न दुहस्नुनमाम् ' (पा. सू. ३. १. ८९ ) इति यगभावः । छान्दसः शपो लुगभावः ॥ कस्तत्र विशेषः इति चेत् उच्यते । हे वायो दिवः दीप्तादन्तरिक्षात् मरुतः एतन्नामकान् मेघं विशीर्य वृष्ट्युत्पादकान् त्वदंशभूतान् देवान् अजनयः जनयसि उत्पादयसि । किमर्थमिति तदुच्यते । वक्षणाभ्यः प्रवहण-शीलाभ्यः अद्भ्यो वृष्टिलक्षणाभ्यः । तथा वक्षणाभ्यः । नदीनामैतत्, ‘वक्षणाः रुजानाः' ( नि. १. १३. ९) इति तन्नामसु पाठात् । तासामर्थाय ॥
“For you, the brilliant dawns, (rising) from afar, spread abroad their auspicious raiment in inviting rays; in variegated and glorious rays; for these, the cow that yields ambrosia milks all kinds of treasure; you beget the Maruts, of the firmament, for (the purpose) of showering rain; (for the purpose of replenishing) the rivers.”
For thee the radiant Dawns in the far-distant sky broaden their lovely garments forth in wondrous beams, bright-coloured in their new-born beams.
For thee the nectar-yielding Cow pours all rich treasures forth as milk.
The Marut host hast thou engendered from the womb, the Maruts from the womb of heaven.
For you do the gleaming dawns stretch their auspicious garments in the distance, into the houses at the rays (of the sun)—their brilliant (garments) at the new rays.
For you will the milk-cow, milking her juice, milk out all good things. You begat the Maruts from the belly—from the belly of heaven.
Die hellen Morgen breiten in der Ferne dir in Wunderstrahlen schöne bunte Kleider aus, in ihrem neuen Strahlenschein; Die Kuh, die Nektar milchende, sie strömt dir alle Güter zu; Und aus des Himmels Mutterleibe zeugtest du die Maruts, aus des Himmels Leib.
Für dich breiten die reinen Morgenröten in der Ferne ihre schönen Gewänder ..... in ihren Strahlen aus, die bunten Gewänder in den neuen Strahlen. Für dich soll die Kuh Sabardugha alle Güter milchen. Du erzeugtest die Marut aus den Eutern, aus den Eutern des Himmels.
Для тебя чистые утренние зори вдалеке
Ткут счастливые одежды из чудесных лучей,
Яркие – из новых лучей.
Для тебя дойная корова, вечно доящаяся,
Доится всеми благами.
Ты породил Марутов из грудей,
Из грудей неба.
तुभ्यं॑ शु॒क्रास॒: शुच॑यस्तुर॒ण्यवो॒ मदे॑षू॒ग्रा इ॑षणन्त भु॒र्वण्य॒पामि॑षन्त भु॒र्वणि॑ । त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये॑ । त्वं विश्व॑स्मा॒द्भुव॑नात्पासि॒ धर्म॑णासु॒र्या॑त्पासि॒ धर्म॑णा ॥
तु॒भ्य॑म् । शु॒क्रास॑ । शुच॑यः । तु॒र॒ण्यवः॑ । मदे॑षु । उ॒ग्राः । इ॒ष॒ण॒न्त॒ । भु॒र्वणि॑ । अ॒पाम् । इ॒ष॒न्त॒ । भु॒र्वणि॑ । त्वाम् । त्सा॒री । दस॑मानः । भग॑म् । ई॒ट्टे॒ । त॒क्व॒ऽवीये॑ । त्वम् । विश्व॑स्मात् । भुव॑नात् । पा॒सि॒ । धर्म॑णा । अ॒सु॒र्या॑त् । पा॒सि॒ । धर्म॑णा ॥
हे वायो तुभ्यं त्वदर्थं शुक्रासः दीप्ताः शुचयः शुद्धाः । सोमस्य पातारोऽत्यन्तं शुद्धा भवन्ति । किमु वक्तव्यं तेषां शुद्धत्वे। तुरण्यवः त्वरणयुक्ताः त्वां प्राप्तुं उग्राः उद्गूर्णतेजसः सोमाः मदेषु तव मदेषु निमित्तभूतेषु भुर्वणि भरणवति यागे इषणन्त आहवनीयं प्रति गच्छन्ति इच्छन्ति वा ॥ व्यत्ययेन आत्मनेपदम् । शश्नमौ द्वौ विकरणौ ॥ किंच अपां भुर्वणि मेघे इषन्त उदकमिच्छन्ति उत्पादयितुम् । अग्नौ हूयमानस्य आहुतेरादित्यद्वारा वृष्ट्युत्पादकत्वात् । यद्वा । यजमानाः त्वामुद्दिश्य आजुह्वाना अपां वर्षणम् इषन्त इच्छन्ति। किंच हे वायो भगं भजनीयं त्वां त्सारी त्सरणवान् अत्यन्तभीतः दसमानः उपक्षीणो यज्ञविघातकैः पयोव्रतादिनियमैर्वा यजमानः तक्ववीये तस्कराणां यज्ञविघातिनाम् अन्यत्र गमनाय ईट्टे स्तौति ॥ ‘ ईड स्तुतौ '। अदादित्वात् शपो लुक् ॥ यतः त्वं विश्वस्माद्भुवनात् सर्वस्माल्लोकात् भूतजाताद्वा लोकत्रयसंबन्धिनो भयात् धर्मणा अस्मदीयहविषां धारणेन पासि पालयसि । किंच असुर्यात् असुरसंबन्धिनो भयात् विशेषेण पासि धर्मणा अस्मद्धारणेन पोषणेन वा युक्तः सन् । यत एवं करोषि अतः स्तौमीत्यर्थः ॥
“For you, the bright, pure, quick-flowing (Soma), potent for exhilaration, are eager for the (fire of) oblation; are eager for the cloud (showering) waters. The timid and anxious (worshipper) praises you, who are auspicious, for (driving away) thieves; for you defend (us) from all beings, (as the reward) of our righteousness; you protect us from the fear of evil spirits, (as the reward) of our righteousness.”
For thee the pure bright quickly-flowing Soma-drops, strong in their heightening power, hasten to mix themselves, hasten to the water to be mixed.
To thee the weary coward prays for luck that he may speed away.
Thou by thy law protectest us from every world, yea, from the world of highest Gods.
For you do the glittering, gleaming, rapid, strong ones [=soma drinks / horses] set themselves aquiver at the revels—(like waves) of the waters they set themselves aquiver.
You does the stealthy (hunter), as he wearies, reverently invoke for good fortune in his swooping pursuit.
You drink before every creature by statute—you drink because of your lordship by statute.
Es regen dir die hellen, reinen, eilenden die starken bei dem Somatrunk den Strudel auf, den Strudel der Gewässer auf; Der schleichende, verschmachtende, er fleht dich emsig an um Heil; Nach deiner Art beschirmst vor jedem Wesen du, beschirmest vor der Geisterwelt.
Für dich regen sich die klaren, reinen, eilenden, in berauschender Wirkung starken Somasäfte im Gewoge, regen sich im Gewoge des Wassers. Dich ruft der hungrige Jäger um Glück auf der Jagd an. Du schützest, wie es dir zukommt, vor aller Welt; du schützest vor der Asuramacht, wie es dir zukommt.
Для тебя прозрачные чистые быстрые (соки сомы),
(Грозные) при опьянениях, устремляются в волнении,
Среди вод устремляются в волнении.
Тебя измученный охотник
Призывает на удачу в преследовании дичи.
Ты охраняешь от любого существа по (своему) расположению,
Ты охраняешь от мира асуров по (своему) расположению.
त्वं नो॑ वायवेषा॒मपू॑र्व्य॒: सोमा॑नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां॑ पी॒तिम॑र्हसि । उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी॑णाम् । विश्वा॒ इत्ते॑ धे॒नवो॑ दुह्र आ॒शिरं॑ घृ॒तं दु॑ह्रत आ॒शिर॑म् ॥
त्वम् । नः॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । अपू॑र्व्यः । सोमा॑नाम् । प्र॒थ॒मः । पी॒तिम् । अ॒र्ह॒सि॒ । सु॒ताना॑म् । पी॒तिम् । अ॒र्ह॒सि॒ । उ॒तो इति॑ । वि॒हुत्म॑तीनाम् । वि॒शाम् । व॒व॒र्जुषी॑णाम् । विश्वाः॑ । इत् । ते॒ । धे॒नवः॑ । दु॒ह्रे॒ । आ॒ऽशिर॑म् । घृ॒तम् । दु॒ह्र॒ते॒ । आ॒ऽशिर॑म् ॥
हे वायो त्वम् अपूर्व्यः । न विद्यते पूर्वं यस्मात् तत्पानमपूर्वम् । तदर्हतीत्यपूर्व्यः । तादृशः अत एव प्रथमः इतरदेवेभ्यः पूर्वभूतः सन् सोमानां पीतिं पानम् अर्हसि प्राप्नोषि। सुतानाम् अभिषवकृतानां सोमानां पीतिं पानम् अर्हसि । यत्र यत्र अभिषवोऽस्ति तत्र सर्वत्र नियमेन पिबसीत्यर्थः । पूर्वं प्राथम्याभिप्रायेण इदानीं तु सर्वत्र सोमवति यागे अस्य पानमस्तीति ज्ञापयितुं पृथगभिधानम् । न केवलं सोमपानमात्रम् उतो अपि तु विहुत्मतीनां विशेषेण होमवतीनामाह्वानवतीनां वा ॥ जुहोतेः संपदादिलक्षणो भावे क्विप् । ततो मतुब्ङीपौ ॥ ववर्जुषीणाम् अनभिमतपापं वर्जयन्तीनाम् ॥ वर्जयतेर्लिटः क्वसुङीप्संप्रसारणत्वानि ॥ विशाम् ऋत्विग्यजमानरूपाणां प्रजानां संबन्धि हविः स्वीकरोषीति शेषः । यद्वा । तेषां यष्टॄणां विश्वाः इत् धेनवः सर्वा अपि गावः ते त्वदर्थम् आशिरम् आश्रयणद्रव्यं क्षीरं दुहे दुहन्ति स्वयमेव ॥ कर्मकर्तरि ‘ न दुहस्नुनमाम्° इति यगभावः । ‘ लोपस्त आत्मनेपदेषु' इति तलोपः । ‘ बहुलं छन्दसि ' इति रुट् ॥ तथा आशिरं घृतम् उपस्तरणाभिघारणाद्याश्रयणाय योग्यं करणं द्रव्यं दुह्रते ॥ ॥ २३ ॥
“You, Vāyu, who are preceded by none, are entitled to drink first of these our Soma libations; you are entitled to drink of the effused, moreover, (of all) oblations and sin-offerings of men; for you, their cattle yield milk; (for you) they yield butter.”
Thou, Vayu, who hast none before thee, first of all hast right to drink these offerings of Soma juice, hast right to drink the juice out-poured,
Yea, poured by all invoking tribes who free themselves from taint of sin,
For thee all cows are milked to yield the Soma-milk, to yield the butter and the milk.
You, Vāyu, with no one ahead, have first right to the drinking of these soma drinks of ours—you have the right to the drinking of these
pressings.
And of the clans with their vying oblations who have twisted (you
toward them)—
all their milk-cows have milked out the milk-mixture for you—have milked out the ghee and the milk-mixture.
Vor allen andern dir zuerst gebührt der Trunk, o Vaju, dieser unsrer Somatränke hier der Säfte Trunk gebühret dir, Der opferreichen Stämme Trank, die dir die Streu bereiteten; Dir strömen alle Kühe fettes Milchgemisch, sie strömen dir das Milchgemisch.
Du, Vayu, hast als allererster das Anrecht auf den Trunk dieser Somatränke von uns, hast das Anrecht auf den Trunk der ausgepreßten. Und wenn die um die Wette opfernden Stämme dich in Beschlag genommen haben, so geben alle Milchkühe für dich ihre Mischmilch her, geben ihren Schmalz, ihre Mischmilch her.
Ты, о Ваю, первым, не имеющим предшественников,
Заслуживаешь питья этих наших соков сомы,
Ты заслуживаешь питья выжатых (соков).
А также у зовущих (тебя) наперебой
Племен, старающихся (тебя) привлечь,
Все до одной коровы доятся для тебя молоком для обряда,
Жиром доятся, молоком для обряда.