स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये॑ स॒हस्रे॑ण नि॒युता॑ नियुत्वते श॒तिनी॑भिर्नियुत्वते । तुभ्यं॒ हि पू॒र्वपी॑तये दे॒वा दे॒वाय॑ येमि॒रे । प्र ते॑ सु॒तासो॒ मधु॑मन्तो अस्थिर॒न्मदा॑य॒ क्रत्वे॑ अस्थिरन् ॥
स्ती॒र्णम् । ब॒र्हिः । उप॑ । नः॒ । या॒हि॒ । वी॒तये॑ । स॒हस्रे॑ण । नि॒ऽयुता॑ । नि॒यु॒त्व॒ते॒ । श॒तिनी॑भिः । नि॒यु॒त्व॒ते॒ । तुभ्य॑म् । हि । पू॒र्वऽपी॑तये । दे॒वाः । दे॒वाय॑ । ये॒मि॒रे । प्र । ते॒ । सु॒तासः॑ । मधु॑ऽमन्तः । अ॒स्थि॒र॒न् । मदा॑य । क्रत्वे॑ । अ॒स्थि॒र॒न् ॥
हे वायो नः अस्मद्यज्ञार्थं स्तीर्णम् आस्तृतं बर्हिः अभिलक्ष्य उप याहि आगच्छ। किमर्थम्। वीतये हविषां भक्षणाय। केन साधनेनेति तदुच्यते। सहस्रेण सहस्रसंख्याकेन नियुता। जातावेकवचनम् ॥ नियुत इति वायोरश्वानां नामधेयं, ' नियुतो वायोः' (नि. १. १५. १०) इति निरुक्तत्वात् । तथा शतिनीभिः शतसंख्योपेताभिः नियुद्भिः आगच्छेति शेषः । यद्वा । सहस्रेण नियुता शतिनीभिश्च नियुद्भिः नियुत्वते तद्वते देवाय हविर्दीयते इति शेषः । यद्वा । तुभ्यमित्यनेन संबन्धः । उक्तसंख्याकाभिर्नियुद्भिः तद्वते देवाय द्योतमानाय तुभ्यम् ॥ ‘ ङयि च ' ( पा. सू. ६. १. २१२) इति आद्युदात्तत्वम् ॥ पूर्वपीतये इतरदेवेभ्यः पूर्वं पानाय देवाः येमिरे यमितवन्तः । यद्वा । स्तोतारः ऋत्विजो देवाय तुभ्यं येमिरे । आहवनीयं प्रति सोमं नियमितवन्तः । अग्रं पिबा मधूनां सुतं वायो' ( ऋ. सं. ४. ४६. १ ) इत्यादिमन्त्रान्तरप्रसिद्धिद्योतनार्थो हिशब्दः । किंच एते त्वदर्थं सुतासः अभिषुताः मधुमन्तः माधुर्योपेताः सोमाः मदाय तव मोदाय अस्थिरन् तिष्ठन्ति। किंच क्रत्वे कर्मणे तत्सिद्ध्यर्थम् अस्थिरन्। ऋत्विग्भिः धृताः तिष्ठन्ति । अतः त्वं पिबेति शेषः ॥ तिष्ठतेश्छान्दसे लुङि व्यत्ययेन झस्य रन् । 'स्थाध्वोरिञ्च' इति सिचः कित्त्वं धातोः इत्वं च । 'ह्रस्वादङ्गात् ' इति सिचोलोपः ॥
“Approach our strewngrass, Vāyu, with (your) thousand steeds, to partake of the (offered) food, (prepared) for the lord of the steeds; (approach) with hundreds (to the sacrifice prepared) for thelord of the steeds; the gods holdback for you as the deity (entitled) first to drink (Soma); the sweet effused (Soma) are ready for your exhilaration; are redy for their function.”
STREWN is the sacred grass; come Vayu, to our feast, with team of thousands, come, Lord of the harnessed team, with hundreds, Lord of harnessed steeds!
The drops divine are lifted up for thee, the God, to drink them first.
The juices rich in sweets have raised them for thy joy, have raised themselves to give thee strength.
The ritual grass is strewn. Drive up to us, to pursue it, with a thousandfold team, o teamster—with hundredfold (teams), o teamster—
for the gods have conceded to you, the god, to drink first.
The pressed, honeyed (soma drinks) have been set forth for you—have been set forth for your exhilaration and for your resolve.
Der Sitz ist fertig, komme her zu unserm Mahl mit tausendfachem Vielgespann, o Rosseherr, mit hundertfachem Vielgespann; Zum ersten Trunke sind gereicht die Göttertränke dir, dem Gott; Die süssen Säfte stehen dir zum Rausch bereit, sie stehn bereit zur Kräftigung.
Das Barhis ist ausgelegt, komm zu uns zum Genuß mit dem Tausendgespann, du Niyut-Fahrer, mit den hundertfachen Gespannen, du Niyut-Fahrer, den die Götter haben dir, dem Gotte, das Recht auf den Ersttrunk zugestanden! Für dich sind die süßen Preßtränke aufgestellt, zum Rausche, nach deinen Sinnen aufgestellt.
Расстелена жертвенная солома. Приезжай к нам, чтобы вкушать,
С тысячью упряжек, о повелитель упряжек,
С сотенными (упряжками), о повелитель упряжек!
Ведь это тебе на первое питье (сомы)
Уступили (право) боги – богу.
Выжатые сладкие (соки сомы) выставлены для тебя,
Выставлены для опьянения, для силы духа.
तुभ्या॒यं सोम॒: परि॑पूतो॒ अद्रि॑भिः स्पा॒र्हा वसा॑न॒: परि॒ कोश॑मर्षति शु॒क्रा वसा॑नो अर्षति । तवा॒यं भा॒ग आ॒युषु॒ सोमो॑ दे॒वेषु॑ हूयते । वह॑ वायो नि॒युतो॑ याह्यस्म॒युर्जु॑षा॒णो या॑ह्यस्म॒युः ॥
तुभ्य॑ । अ॒यम् । सोमः॑ । परि॑ऽपूतः । अद्रि॑ऽभिः । स्पा॒र्हा । वसा॑नः । परि॑ । कोश॑म् । अ॒र्ष॒ति॒ । शु॒क्रा । वसा॑नः । अ॒र्ष॒ति॒ । तव॑ । अ॒यम् । भा॒गः । आ॒युषु॑ । सोमः॑ । दे॒वेषु॑ । हू॒य॒ते॒ । वह॑ । वा॒यो॒ इति॑ । नि॒ऽयुतः॑ । या॒हि॒ । अ॒स्म॒ऽयुः । जु॒षा॒णः । या॒हि॒ । अ॒स्म॒ऽयुः ॥
हे वायो तुभ्यं तुभ्यं त्वदर्थम् ॥ ‘ सुपां सुलुक्' इति चतुर्थ्या लुक् ॥ अयं सोमः हूयमानः कोशं कोशस्थानीयं ग्रहम् अर्षति गच्छति प्राप्नोति। कीदृशः सोमः । अद्रिभिः परिपूतः अभिषवसाधनैः अपगतर्जीषत्वेन शोधितः । यद्वा। अद्रिभिरभिषुतो शापवित्रशोधनेन ग्रहणेन वा शोधितः । तथा स्पार्हा स्पृहणीयानि तेजांसि वसानः पिधानः । किंच शुक्रा निर्मलानि दीप्तानि वा तेजांसि वसानः सोमः अर्षति त्वां प्राप्नोति ॥ ऋषी गतौ' । व्यत्ययेन शप् । हे वायो आयुषु मनुष्येषु यष्टव्यत्वेन स्थितः भागः भजनीयः सोमः तव त्वदर्थं देवेषु मध्ये हूयते । सत्स्वपि इतरेषु देवेषु यतः सोमस्तव भागः अतः प्रथमं तुभ्यं हूयते इत्यर्थः । किंच हे वायो एवं तं सोमम् अस्मयुः अस्माभिः तद्वान् ॥ मत्वर्थीयो युः ॥ त्वं नियुतः वह नियुत्संज्ञकानश्वान् वाहनाय प्रापय । ततः परं याहि दिवं प्रति गच्छ। तथा कुर्वन् अस्मयुः अस्माभिर्युक्तः सन् अस्माननुगृह्णन् अस्मान् कामयमानो वा ॥ क्यचि छान्दसेऽन्त्यलोपे ' क्याच्छन्दसि ' इति उः ॥ जुषाणः प्रीयमाणः याहि गच्छ॥
“For you this Soma, purified by the stones (that bruise), and clothed with enviable (splendour), flows to its (appropriate) receptacle; clothed with brilliant (splendour), this Soma is offered as your portion amongst men and amongst gods; (having received it), harness your horses, and depart well effected towards us; gratified, and well disposed towards us, depart.”
Purified by the stones the Soma flows for thee, clothed with its lovely splendours, to the reservoir, flows clad in its refulgent light.
For thee the Soma is poured forth, thy portioned share mid Gods and men.
Drive thou thy horses, Vayu, come to us with love, come well-inclined and loving us.
For you has this soma been purified all around by the stones; clothing himself in coveted (garments) he rushes around the cask—clothing
himself in gleaming (garments) he rushes.
For you is this portion poured among the Āyus, is the soma poured among the gods.
Travel, Vāyu; drive to our teams [=poetic thoughts], seeking us—drive at your pleasure, seeking us.
Geläutert von den Steinen strömt der Soma dir in schönes Gut sich kleidend rings zur Kufe hin, in Licht sich kleidend rieselt er; Bei Menschen und bei Göttern ist der Soma dein, ergiesst sich dir; Die Rosse lenke, Vaju, komm uns holdgesinnt, komm freundlich her, uns holdgesinnt.
Für dich ist dieser Soma mit seinen Steinen geläutert; in köstliche Farben sich kleidend umfließt er die Kufe, in helle Farben sich kleidend fließt er. Als dein Anteil wird dieser bei den Ayu´s, der Soma bei den Göttern geopfert. Fahr, o Vayu, die Niyut-Rosse, komm uns geneigt, komm gern, uns geneigt!
Для тебя этот сома очищен повсюду давильными камнями.
Рядясь в завидные (одежды), он течет кругом по чану,
Рядясь в прозрачные (одежды), он течет.
Твоя доля, этот сома среди Аю
Разливается (и) среди богов.
Выезжай, о Ваю, на (своих) упряжках, приезжай (сюда), любя нас,
Радостный приезжай, любя нас!
आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ । तवा॒यं भा॒ग ऋ॒त्विय॒: सर॑श्मि॒: सूर्ये॒ सचा॑ । अ॒ध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत ॥
आ । नः॒ । नि॒युत्ऽभिः॑ । श॒तिनी॑भिः । अ॒ध्व॒रम् । स॒ह॒स्रिणी॑भिः । उप॑ । या॒हि॒ । वी॒तये॑ । वायो॒ इति॑ । ह॒व्यानि॑ । वी॒तये॑ । तव॑ । अ॒यम् । भा॒गः । ऋ॒त्वियः॑ । सऽर॑श्मिः । सूर्ये॑ । सचा॑ । अ॒ध्व॒र्युऽभिः॑ । भर॑माणाः । अ॒यं॒स॒त॒ । वायो॒ इति॑ । शु॒क्राः । अ॒यं॒स॒त॒ ॥
हे वायो त्वं नः अध्वरम् अस्मत्संबन्धिनं यज्ञं शतिनीभिः नियुद्भिः सहस्रिणीभिः च ताभिस्त्वदीयैरश्वैः नः अस्मद्यज्ञम् उप आ याहि उपागच्छ । किमर्थम् । वीतये त्वदभिमतकामाय तत्पूर्तये । आगत्य च हव्यानि वीतये सोमादिहविर्भक्षणाय । अध्वरं हव्यानि च उपलक्ष्य तेषामेव भक्षणाय शतसहस्रैरश्वैः अतिशीघ्रमागच्छेत्यर्थः । किंच अयं तव भागः भजनीयः सोमः ऋत्वियः प्राप्तकालः प्रदानावसरं प्राप्तः । ऋतुशब्देन प्रदानकालो लक्ष्यते ॥ ‘ छन्दसि घस्' (पा.सू. ५. १. १०६), 'सिति च ' (पा. सू. १. ४. १६) इति पदसंज्ञया भसंज्ञाया बाधात् ओर्गुणाभावे यण् ॥ किंच सोमः सूर्ये उदिते सति तस्य रश्मिभिः सचा सह सरश्मिः भवति समानदीप्तिर्भवति । यद्वा । तैः सहितो भवति । यतः सूर्ये उदिते सति रश्मिः भवति अतः प्राप्तकालः इत्यर्थः। किंच सोमाः अध्वर्युभिः चमसाध्वर्युभिः । तेषां दशत्वाद्बहुवचनम् । तैः भरमाणाः भ्रियमाणाः अयंसत नियता अभवन् । किंच हे वायो ते सोमाः शुक्राः अयंसत अत्यन्तदीप्ताः उद्यताः । अतः तेषां भक्षणाय अयाहीत्यर्थः ॥
“Come with hundreds and thousand of your steeds to our sacrifice to partake of (the sacrificial) food; (come), Vāyu, to partake of the oblations; this is your reasonable portion, and it is radiant along with the sun; the Soma (portions) borne by the priests are prepared; the pure Soma (portions), Vāyu, are prepared.”
Come thou with hundreds, come with thousands in thy team to this our solemn rite, to taste the sacred food, Vayu, to taste the offerings.
This is thy seasonable share, that comes co-radiant with the Sun.
Brought by attendant priests pure juice is offered up, Vayu, pure juice is offered up.
With your hundredfold teams drive here to our ceremony, with
thousandfold ones to pursue it—o Vāyu, to pursue our oblations.
Yours is this portion at its proper time, accompanying the reins [=rays] when the sun (rises).
Being carried, they have been guided by the Adhvaryus—o Vāyu, the gleaming (soma drinks) have been guided.
Mit hundertfachen Rossescharen komme her zum Opferfest, mit tausendfachen zu dem Mahl, o Vaju, zu dem Opfermahl; Hier ist der Theil der dir gebührt, der Sonne gleich an hellem Licht, Die hellen Tränke, von den Dienern dargebracht, die hellen sind dir dargereicht.
Komm mit den hundertfachen Niyut-Gespannen zu unserem Opfer, mit den tausendfachen um zu genießen, o Vayu, um die Opfergaben zu genießen!Dies ist dein zeitgemäßer Anteil, der bei aufgehender Sonne bestrahlte. Von den Adhvaryu´s aufgetragen sind sie dargereicht, sind die klaren Somatränke dargereicht, o Vayu.
К нам на обряд с сотенными упряжками,
С тысячными приезжай, чтобы вкушать,
О Ваю, жертвенные возлияния, чтобы вкушать!
Твоя доля – этот (сома), вовремя приготовленный
Обладающий лучами вместе с солнцем.
Приносимые адхварью (соки сомы) поданы,
О Ваю, прозрачные поданы.
आ वां॒ रथो॑ नि॒युत्वा॑न्वक्ष॒दव॑से॒ऽभि प्रयां॑सि॒ सुधि॑तानि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ । पिब॑तं॒ मध्वो॒ अन्ध॑सः पूर्व॒पेयं॒ हि वां॑ हि॒तम् । वाय॒वा च॒न्द्रेण॒ राध॒सा ग॑त॒मिन्द्र॑श्च॒ राध॒सा ग॑तम् ॥
आ । वा॒म् । रथः॑ । नि॒युत्वा॑न् । व॒क्ष॒त् । अव॑से । अ॒भि । प्रयां॑सि । सुऽधि॑तानि । वी॒तये॑ । वायो॒ इति॑ । ह॒व्यानि॑ । वी॒तये॑ । पिब॑तम् । मध्वः॑ । अन्ध॑सः । पू॒र्व॒ऽपेय॑म् । हि । वा॒म् । हि॒तम् । वायो॒ इति॑ । आ । च॒न्द्रेण॑ । राध॑सा । आ । ग॒त॒म् । इन्द्रः॑ । च॒ । राध॑सा । आ । ग॒त॒म् ॥
केवलं वायुं स्तुत्वा व्यासक्ततया इन्द्रवायू स्तौति । हे वायो त्वामिन्द्रं च वां युष्मान् रथः युवयोः संबन्धी रथः नियुत्वान् नियुद्भिरश्वैः तद्वान् सन्” आ वक्षत् देवयजनं प्रति युष्मानावहतु॥ वहेर्लेटि अडागमः । ‘ सिब्बहुलम् ' इति सिप् ॥ यद्यपि नियुतो वायोरेव रथस्योचिताः तथापि व्यासक्तदेवतात्वात् सहैवागमनात् इन्द्रार्थमपि वहन्ति । किमर्थम् । अवसे गमनाय रक्षणाय वा । पुनश्च किमर्थम्। प्रयांसि अन्नानि सोमलक्षणानि सुधितानि सुष्ठु गृहीतानि वीतये तेषां भक्षणाय। तथा हव्यानि वीतये इतरेषां सवनीयपुरोडाशादीनां खादनाय ॥ वेतेः क्तिन् । ‘ मन्त्रे वृष°' इत्यादिना तस्योदात्तत्वम् ॥ किंच मध्वः मधुररसस्य अन्धसः अन्नस्य सोमरूपस्य ॥ कर्मणि षष्ठी ॥ मधुरं सोमं पिबतम् । यतः पूर्वपेयम् इतरदेवेभ्यः पूर्वपानं वां युवयोः हितम् ॥ पातेः ' अचो यत्' इति यत् । ‘ ईद्यति' इति ईकारः ॥ अभिमतम् । अतः प्रथमं पिबतमित्यर्थः । यद्यपि इन्द्रादपि वायोः पूर्वपानं त्वं हि पूर्वपा असि' ( ऋ. सं. ४. ४६. १ ), ' देव दधिषे पूर्वपेयम्' (ऋ. सं. ७. ९२. १ ) इत्यादिषु सर्वत्र प्रसिद्धं तथापि इन्द्रस्य इतरदेवेभ्यः पूर्वं वायुना सह पानं च इन्द्रतुरीयार्थवादनब्राह्मणे ‘ देवा वै सोमस्य राज्ञोऽग्रपेये न समपादयन् ' ( ऐ. ब्रा. २. २५) इत्यत्र प्रतिपादितम् । किंच आगमनसमये हे वायो त्वम् इन्द्रश्च चन्द्रेण अस्मदाह्लादकेन हिरण्येन राधसा गवादिरूपेण धनेन च सह आ गतम् आगच्छतम्। राधसा रत्नेन धनेन सह आ गतम् ॥ गमेर्लोटि छान्दसः शपो लुक् । अनुदात्तोपदेश' इति अनुनासिकलोपः । लुङि च ' मन्त्रे घस' इति च्लेर्लुक् ॥
“Let the chariot drawn by the Niyuts convey you both, (Indra and Vāyu, to the sacrifice), for our preservation, and to partake of the consecrated viands; to partake, Vāyu, of the oblations; drink of the sweet beverage;for the first draught is your (joing) due. Vāyu (and Indra), come with joy-bestowing wealth; Indra (and Vāyu), come with wealth. ”
The chariot with its team of horses bring you both, to guard us and to taste the well-appointed food, Vayu, to taste the offerings!
Drink of the pleasant-flavoured juice: the first draught is assigned to you.
O Vayu, with your splendid bounty come ye both, Indra, with bounty come ye both.
The chariot with its team will convey you two here for aid, to pursue the well-placed pleasurable offerings—o Vāyu, to pursue the oblations.
Drink of the honey of the stalk, for the first drinking was established for you two.
O Vāyu, you two come here with shimmering bounty—and Indra, you two come here with bounty.
Euch fahr der vielbespannte Wagen zum Genuss, zu diesen aufgetragnen Speisen hin zum Mahl, o Vaju, zu dem Opfermahl; Trinkt beide von dem süssen Kraut; denn erster Trunk ist euch geweiht, O Vaju, Indra, kommt mit reicher Gabe her, mit reicher Gabe kommt herbei.
Euch beide soll der mit den Niyut bespannten Wagen herfahren zur Gunst, um die wohlbereiteten Labetränke zu genießen, o Vayu, um die Opfergaben zu genießen. Trinkt beide vom süßen Trank, denn euch ist der Ersttrunk bestimmt! Vayu und Indra, kommt mit blinkender Ehrengabe her, kommt mit der Ehrengabe!
Да привезет вас двоих колесница с упряжками (нам) на помощь,
Хорошо расставленные жертвенные услады чтобы вкушать,
О Ваю, жертвенные возлияния чтобы вкушать!
Испейте сладкого соку!
Ведь вам положено (право) на первое питье.
О Ваю и Индра, придите со сверкающим подарком,
С подарком придите!
आ वां॒ धियो॑ ववृत्युरध्व॒राँ उपे॒ममिन्दुं॑ मर्मृजन्त वा॒जिन॑मा॒शुमत्यं॒ न वा॒जिन॑म् । तेषां॑ पिबतमस्म॒यू आ नो॑ गन्तमि॒होत्या । इन्द्र॑वायू सु॒ताना॒मद्रि॑भिर्यु॒वं मदा॑य वाजदा यु॒वम् ॥
आ । वा॒म् । धियः॑ । व॒वृ॒त्युः॒ । अ॒ध्व॒रान् । उप॑ । इ॒मम् । इन्दु॑म् । म॒र्मृ॒ज॒न्त॒ । वा॒जिन॑म् । आ॒शुम् । अत्य॑म् । न । वा॒जिन॑म् । तेषा॑म् । पि॒ब॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू । आ । नः॒ । ग॒न्त॒म् । इ॒ह । ऊ॒त्या । इन्द्र॑वायू॒ इति॑ । सु॒ताना॑म् । अद्रि॑ऽभिः । यु॒वम् । मदा॑य । वा॒ज॒ऽदा॒ । यु॒वम् ॥
हे इन्द्रवायू वां युवां धियः कर्माणि स्तोत्रादिलक्षणानि अध्वरान् उप अस्मदीयान् यज्ञान् लक्षीकृत्य ववृत्युः अतिशयेन वर्तयन्ति प्रवर्तयन्ति । किंच युष्मदर्थं वाजिनं ग्रहणाय द्रोणकलशात् ग्रहान् प्रति गमनवन्तम् आमिक्षावन्तं वा 'इममिन्दुं पुरतो वर्तमानं सोमं मर्मृजन्त अध्वर्यवो दशापवित्रेण संमार्जयन्ति। मार्जने दृष्टान्तः । आशुम् अतिशीघ्रगामिनम् अत्यं न सततं गन्तारं वाजिनं वेजनवन्तमश्वमिव । तं यथा स्वेदाद्यपनयनेन संमार्जयन्ति तद्वत् । किंच हे इन्द्रवायू तेषाम् अध्वर्यूणां संबन्धिनः शोधितान् सोमान् पिबतं पानं कुरुतम् । तदर्थं नः अस्माकं यज्ञं प्रति इह इदानीम् ऊत्या अस्मद्रक्षणेन सह आ गन्तम् आगच्छतम् । किंच हे इन्द्रवायू अस्मयू अस्मद्यज्ञमिच्छन्तौ युवं युवाम् अद्रिभिः ग्रावभिः सुतानाम् अभिषुतानाम् ॥ पूर्ववत्कर्मणि षष्ठी ॥ तान् पिबतमिति शेषः । किमर्थम् । मदाय तृप्तये मोदाय वा। यतः युवं युवां वाजदा वाजस्यान्नस्य दातारौ अतः पिबतमित्यन्वयः ॥ ॥ २४ ॥
“The pious acts (addressed) to you have given augmented (efficacy) to our sacrifices; for you, (the priests) strain this quick-dropping Soma, as (the grooms rub down) a fleet, quick-running courser; drink of their (libations), and come hither, well disposed towards us, for our protection; do you both drink of the Soma that have been expressed by the stones, for you are both givers of food.”
May our songs bring you hither to our solemn rites: these drops of mighty vigour have they beautified, like a swift steed of mighty strength.
Drink of them well-inclined to us, come hitherward to be our help.
Drink, Indra-Vayu, of these Juices pressed with stones, Strength-givers! till they gladden you.
Our thoughts should turn you two hither to our ceremonies; they keep grooming this drop, the prizewinner—(the drop) swift like a
prizewinning steed.
Drink of these (soma drinks), seeking us; come here to us with help. O Indra and Vāyu, (drink) of them, pressed by stones, you two—(drink) to exhilaration, you two prize-givers.
᳓
Euch mögen lenken die Gebete zu dem Fest; sie haben diesen kräft'gen Indu euch geschmückt, den kräft'gen, wie ein schnelles Ross; O trinkt von ihm uns holdgesinnt, mit Hülfe kommet her zu uns; Die steingepressten Säfte, Indra, Vaju, trinkt, zum Rausche, Kraftverleiher ihr.
Euch sollen die Gebete herbringen zu den Opfern. Sie putzen diesen Saft, der den Preis gewinnt, wie ein schnelles Roß, das den Preis gewinnt. Trinkt davon, uns geneigt - kommt hierher zu uns mit Gunst - Indra und Vayu, trinkt von dem mit Steinen ausgepreßten Soma, ihr Geber des Siegerpreises, zum Rausch!
Да обратят вас поэтические мысли к обрядам!
Они осветляют этот сок, приносящий награду,
Как (чистят) быстрого коня, приносящего награду.
Пейте эти (соки), любя нас!
Приходите к нам сюда с поддержкой!
О Индра-Ваю, (испейте) выжатых камнями (соков),
Для опьянения, вы, дающие награду!
इ॒मे वां॒ सोमा॑ अ॒प्स्वा सु॒ता इ॒हाध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत । ए॒ते वा॑म॒भ्य॑सृक्षत ति॒रः प॒वित्र॑मा॒शव॑: । यु॒वा॒यवोऽति॒ रोमा॑ण्य॒व्यया॒ सोमा॑सो॒ अत्य॒व्यया॑ ॥
इ॒मे । वा॒म् । सोमाः॑ । अ॒प्ऽसु । आ । सु॒ताः । इ॒ह । अ॒ध्व॒र्युऽभिः॑ । भर॑माणाः । अ॒यं॒स॒त॒ । वायो॒ इति॑ । शु॒क्राः । अ॒यं॒स॒त॒ । ए॒ते । वा॒म् । अ॒भि । अ॒सृ॒क्ष॒त॒ । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ । यु॒वा॒ऽयवः॑ । अति॑ । रोमा॑णि । अ॒व्यया॑ । सोमा॑सः । अति॑ । अ॒व्यया॑ ॥
हे वायो वां युवयोः तव च इन्द्रस्य च स्वभूताः इमे सोमाः अप्सु अस्मदीयेषु कर्मसु ॥ ‘ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् ॥ इह अस्मिन् अभिषवस्थाने सुताः अध्वर्युभिः भरमाणाः तैर्भ्रियमाणाः गृहीता होतुं वा ह्रियमाणाः॥ कर्मणि कर्तृप्रत्ययः॥सन्तः आ अयंसत आगच्छन्त युवयोर्नियता भवन्ति । किंच त एव सोमाः शुक्राः शुभ्रा दीप्ताः अयंसत नियता भवन्ति । किंच एते आशवः व्यापकाः सोमाः वां युबां प्रीणयितुमिति शेषः । तिरः पवित्रं तिर्यग्भूतं सोमान्तर्धायकं वा ऊर्णामयं पवित्रम् अभ्यसृक्षत अभिलक्ष्य असृज्यन्त सृष्टा भवन्ति ॥ सृजेः कर्मणि लुङि ‘ लिङ्सिचावात्मनेपदेषु ' इति सिचः कित्त्वात् गुणाभावः अमागमाभावश्च ॥ किंच युवायवः युवां कामयमानाः सोमासः सोमाः अव्यया अव्ययानि अच्छिन्नानि रोमाणि पवित्रसंबन्धीनि अविरोमाणि । यद्वा । अव्यया अविमयानि ॥ मकारो लुप्यते । तादृशानि रोमाणि अति अतिक्रम्य पात्रात् गच्छन्तीति शेषः । पुनस्त एवं विशेष्यन्ते । अति अतिशयेम अव्यया व्ययरहिताः सोमासः सोमाः असृक्षतेति शेषः ॥
“These Soma, poured out in our rites, and borne by the priests, are prepared for you both; the pure Soma, Vāyu (and Indra), are prepared; these pervading (effusions) have passed through the oblique filter for you both; the Soma intended for you both, pass through the woolly fleece; the inexhaustible soma.”
These Soma juices pressed for you in waters here, borne by attendant priests, are offered up to you: bright, Vayu, are they offered up.
Swift through the strainer have they flowed, and here are shed for both of you,
Soma-drops, fain for you, over the wether's fleece, Somas over the wether's fleece.
These soma drinks were pressed here in the waters for you two. Being carried, they have been guided by the Adhvaryus—o Vāyu, the
gleaming (soma drinks) have been guided.
They have surged toward you two, swift across the filter,
seeking you two beyond the sheep’s fleece—the soma drinks beyond the sheep’s (fleece).
᳓
Im Wasser sind die Soma's hier euch ausgepresst, gebracht von Dienern sind sie hier euch dargereicht, die hellen, Vaju, dargereicht; Euch beiden sind ergossen sie, die schnellen durch die Seihe hier; Zu euch hindringend durch der Widderwolle Sieb die Soma's durch das Widderfell.
Für euch beide sind diese Somatränke hier ins Wasser ausgepreßt. Von den Adhvaryu´s aufgetragen sind sie dargereicht, sind die klaren dir, Vayu, dargereicht. Diese sind für euch beide durch die Seihe gesprengt wie rasche Rosse, nach euch verlangend durch die Schafhaare, die Somatränke durch die Schafhaare.
Эти соки сомы выжаты здесь для вас в водах.
Приносимые адхварью (соки сомы) поданы,
О Ваю, прозрачные поданы.
Они вылиты для вас,
Быстрые, через цедилку,
Любя вас, – через овечьи шерстинки,
Соки сомы-через овечьи.
अति॑ वायो सस॒तो या॑हि॒ शश्व॑तो॒ यत्र॒ ग्रावा॒ वद॑ति॒ तत्र॑ गच्छतं गृ॒हमिन्द्र॑श्च गच्छतम् । वि सू॒नृता॒ ददृ॑शे॒ रीय॑ते घृ॒तमा पू॒र्णया॑ नि॒युता॑ याथो अध्व॒रमिन्द्र॑श्च याथो अध्व॒रम् ॥
अति॑ । वा॒यो॒ इति॑ । स॒स॒तः । या॒हि॒ । शश्व॑तः । यत्र॑ । ग्रावा॑ । वद॑ति । तत्र॑ । ग॒च्छ॒त॒म् । गृ॒हम् । इन्द्रः॑ । च॒ । ग॒च्छ॒त॒म् । वि । सू॒नृता॑ । ददृ॑शे । रीय॑ते । घृ॒तम् । आ । पू॒र्णया॑ । नि॒ऽयुता॑ । या॒थः॒ । अ॒ध्व॒रम् । इन्द्रः॑ । च॒ । या॒थः॒ । अ॒ध्व॒रम् ॥
हे वायो त्वं ससतः आलस्यादिना निद्रां कुर्वतः शश्वतः बहून् यजमानान् । शश्वदि बहुनाम, ‘शश्वत् विश्वम्' (नि. ३. १. ५) इति तन्नामसु पाठात् । अति अतिक्रम्य उपेक्ष्य अस्मद्यज्ञं याहि गच्छ। इन्द्रश्च तथा करोतु । कं देशमिति तमाह। यत्र ग्रावा वदति यस्मिन्देशे अभिषवार्थः पाषाणध्वनिः श्रूयते तत्र गच्छतं तं देशं प्रति आगच्छतम् । गृहं यज्ञगृहं गच्छतम् । पुनः स्थानमेव विशेष्यते । सूनृता प्रियतथ्यात्मिका स्तुतिरूपा वाक् यत्र वि ददृशे विशेषेण दृश्यते श्रूयते इत्यर्थः। तत्र गच्छतम् । यत्र च घृतम् अत्यन्तदीप्तमाज्यं होमार्थं गृहीतं रीयते गच्छति आहवनीयं प्रति नीयते ॥ ‘ रीङ स्रवणे '। दिवादित्वात् श्यन् ॥ तत्र गच्छतम् । गमनप्रकारः एव विशेष्यते । पूर्णया संपूर्णया पुष्टाङ्गया नियुता ॥ जातावेकवचनम् ॥ नियुज्जात्या अध्वरम् अस्मदीयं यज्ञम् आ याथः अभिमुख्येन प्रयाथः। किंच हे वायो त्वम् इन्द्रश्च युवाम् अध्वरम् अस्मदीयं यागम् आ याथः सहैवागच्छतम् । तथा अस्माभिरपि सहैव गच्छतमित्यर्थः ॥
“Pass, (Vāyu), by the many sleeping (worshippers) and go (with Indra) to the house where the stone resounds; Indra (and Vāyu), go to that dwelling; (go where) the (word of) truth is manifest; (go where) the butter flows; go both well-fed horses to the sacrifice; Indra (and Vāyu), repair to the sacrifice.”
O Vayu, pass thou over all the slumberers, and where the press-stone rings enter ye both that house, yea, Indra, go ye both within.
The joyous Maiden is beheld, the butter flows. With richly laden team come to our solemn rite, yea, Indra, come ye to the rite.
O Vāyu, drive beyond sleeper after sleeper. Where the pressing stone speaks, you two go there—(you) and Indra, go to that house.
Liberality has been sighted; the ghee is flowing. With a full team you two drive to the ceremony—(you) and Indra drive to the ceremony.
O Vaju schreite über alle Schlafenden, wo tönt der Pressstein, dahin kommet in das Haus, dahin, o Indra, Vaju, kommt; Wo lieblich scheint der Morgen und die Butter fliesst, zum Opfer kommt mit reichgefülltem Wagenzug, zum Opfer Indra, Vaju ihr.
An allen Schläfern geh vorüber, Vayu! Wo der Stein ertönt, dorthin kommt, du und Indra, kommt ins Haus! Die Großmut ließ sich sehen, das Schmalz fließt. Ihr fahret mit vollzähligem Gespann zum Opfer; du und Indra, ihr fahret zum Opfer.
О Ваю, несись надо всеми спящими!
Где говорит давильный камень, туда отправляйтесь,
О Индра, в дом отправляйтесь!
Щедрость явила себя взорам, струится жир.
С полной упряжкой вы едете на обряд,
О Индра, вы едете на обряд.
अत्राह॒ तद्व॑हेथे॒ मध्व॒ आहु॑तिं॒ यम॑श्व॒त्थमु॑प॒तिष्ठ॑न्त जा॒यवो॒ऽस्मे ते स॑न्तु जा॒यव॑: । सा॒कं गाव॒: सुव॑ते॒ पच्य॑ते॒ यवो॒ न ते॑ वाय॒ उप॑ दस्यन्ति धे॒नवो॒ नाप॑ दस्यन्ति धे॒नव॑: ॥
अत्र॑ । अह॑ । तत् । व॒हे॒थे॒ इति॑ । मध्वः॑ । आऽहु॑तिम् । यम् । अ॒श्व॒त्थम् । उ॒प॒ऽतिष्ठ॑न्त । जा॒यवः॑ । अ॒स्मे इति॑ । ते । स॒न्तु॒ । जा॒यवः॑ । सा॒कम् । गावः॑ । सुव॑ते । पच्य॑ते । यवः॑ । न । ते॒ । वा॒यो॒ इति॑ । उप॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ । न । अप॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ ॥
हे इन्द्रवायू अत्र अह अस्मिन्नेव यज्ञे ॥ अहेति विनिग्रहार्थीयः ॥ मध्वः मधुरस्य मधुसदृशस्य वा तत् तस्य आहुतिं प्रदेयद्रव्यं वहेथे धारयतम् । यं सोमम् अश्वत्थं पर्वतादिव्याप्तिप्रदेशे स्थितं जायवः जेतारो यजमानाः उपतिष्ठन्त उपेत्य तिष्ठन्ति क्रयाद्यर्थम् । किंच अस्मे अस्माकं संबन्धिनः जायवः जेतारः कर्मनिर्वहितारः ते ऋत्विजः सन्तु समर्था भवन्तु यज्ञं निर्वहन्त्वित्यर्थः । यद्वा । ते प्रसिद्धाः प्रयोगकुशला जायवो जेतारः ऋत्विजः अस्मे सन्तु नान्यस्य । अत्र वहेथे इत्युक्तम् । कोऽत्र विशेष इति तत्राह । हे इन्द्रवायू अस्मिन् यज्ञे गावः धेनवः साकं सहैव सुवते युष्मदर्थमेव क्षीरमुत्पादयन्ति दोग्ध्र्यो भवन्तीत्यर्थः । यद्वा । गावः साकं सहैव सुवते अपत्यमुत्पादयन्ति त्वद्दोहनार्थम् ॥ आदादिकः । ङित्त्वात् ‘ तास्यनुदात्तेत्' इति लसार्वधातुकानुदात्तत्वे धातुस्वरः ॥ किंच यवः । जातावेकवचनम् । उपलक्षणमेतत् । यवादिभिः पुरोडाशादिकं पच्यते इत्यर्थः । किंच हे वायो इन्द्र च यतो गावः एवं सुवते अतः ते त्वदर्थाः धेनवः न उप दस्यन्ति नोपक्षीणा भवन्ति रोगादिना कृशा न भवन्ति । न केवलमनुपक्षीणाः किंतु धेनवः युष्मत्प्रीणयित्र्यः गावः नाप दस्यन्ति चौराद्युपहारैः उपक्षीणा नष्टा न भवन्ति ॥
“Then, accept the libations of the sweet Soma at the sacrifice in which the triumphant priests stand round the rock-born (plural nt); may they ever be victorious for us; (for you) together the cows distil (their milk); the (offering of) barley is dressed; and never for you, (Vāyu), will the cows grow meagre. never will the kine be carried off (by thieves).”
Ride hither to the offering of the pleasant juice, the holy Fig-tree which victorious priests surround: victorious be they still for us.
At once the cows yield milk, the barley-meal is dressed. For thee,
O Vayu, never shall the cows grow thin, never for thee shall they be dry.
Just now you two travel to the poured offering of honey. The victorious ones [=soma drinks? Maruts?] that approach the fig tree—let these be victorious for us.
All at once the cows give birth and the grain ripens; the milk-cows do not give out for you, o Vāyu—the milk-cows do not give up.
Ihr fahrt ja hin zu dieses Opfertranks Erguss zum Feigenholz, in dem die Tränke kräftig stehn; bei uns auch seien kräftig sie; Die Küh' gebären und die Gerste reift zugleich; nie geht, o Vaju, dir die Milch der Kühe aus, die Milch versieget nimmer dir.
Zu diesem fahret ihr nun, zu der Opferung des Süßtranks. Die unter den Asvattha-Baum als Sieger traten, die Sieger sollen bei uns sein. Mit einem Male gebären die Kühe, reift das Korn. Nicht versiegen deine Milchkühe, o Vayu, nicht versiegen deine Milchkühe.
Теперь же сюда вы едете к возлиянию сладкого (сока).
Перед каким деревом ашваттха находятся победные (соки сомы), –
Да будут эти (соки) для нас победными!
Все вместе телятся коровы, созревает зерно.
Не истощаются, о Ваю, твои дойные коровы,
Не истощаются дойные коровы!
इ॒मे ये ते॒ सु वा॑यो बा॒ह्वो॑जसो॒ऽन्तर्न॒दी ते॑ प॒तय॑न्त्यु॒क्षणो॒ महि॒ व्राध॑न्त उ॒क्षण॑: । धन्व॑ञ्चि॒द्ये अ॑ना॒शवो॑ जी॒राश्चि॒दगि॑रौकसः । सूर्य॑स्येव र॒श्मयो॑ दुर्नि॒यन्त॑वो॒ हस्त॑योर्दुर्नि॒यन्त॑वः ॥
इ॒मे । ये । ते॒ । सु । वा॒यो॒ इति॑ । बा॒हुऽओ॑जसः । अ॒न्तः । न॒दी इति॑ । ते॒ । प॒तय॑न्ति । उ॒क्षणः॑ । महि॑ । व्राध॑न्तः । उ॒क्षणः॑ । धन्व॑न् । चि॒त् । ये । अ॒ना॒शवः॑ । जी॒राः । चि॒त् । अगि॑राऽओकसः । सूर्य॑स्यऽइव । र॒श्मयः॑ । दुः॒ऽनि॒यन्त॑वः । हस्त॑योः । दुः॒ऽनि॒यन्त॑वः ॥
हे सु वायो शोभनफलप्रद वायुदेव ते तव स्वभूताः इमे पुरतो दृश्यमानाः ये अश्वाः सन्ति ते नदी नदने द्यावापृथिव्यौ अन्तः तयोरन्तराले तं त्वां पतयन्ति पातयन्ति गमयन्ति । यद्वा । ते तव संबन्धिनोऽश्वाः पतयन्ति पतन्ति यज्ञदेशं गच्छन्ति ॥ ‘पत गतौ ' । चौरादिरदन्तः ॥ कीदृशास्ते । बाह्रोजसः बाहुषु प्रकृष्टबलवन्तः । उपलक्षणमेतत् । सर्वाङ्गबला इत्यर्थः । किंच उक्षणः सेक्तारः। युवान इत्यर्थः । महि महदतिप्रभूतं व्राधन्तः वर्धमानाः तथा उक्षणः उक्षाणः तत्सदृशाः इत्यर्थः ॥‘वा षपूर्वस्य निगमे ' इति दीर्घाभावः ॥ किंच धन्वन् चित् धन्वनि उदकनिर्गमनापादानभूतेऽन्तरिक्षेऽपि निरालम्बे अनाशवः नाशरहिता अव्याप्ता वा । आकाशे विलम्बमकुर्वाणा इत्यर्थः । अत एव" जीराश्चित् । चिच्छब्दः पूजायाम् । अत्यन्तं क्षिप्रगतयः । यद्वा । अनाशवः इत्यनेन सह समुच्चयार्थश्चिच्छब्दः । आकाशमार्गेऽक्षीणाः शीघ्रगतयश्चेत्यर्थः । किंच अगिरौकसः । गिरा ओकः स्थानं येषां नास्ति ते तादृशाः । भर्त्सनादिना स्थितिमलभमाना इत्यर्थः ॥ छान्दसः तृतीयाया अलुक् ॥ तदेव स्पष्टयति । सूर्यस्य रश्मयः इव दुर्नियन्तवः दुःखेन नियन्तव्याः । ते यथा क्षणेन दश दिशो व्याप्नुवन्ति बहवश्व तद्वदेतेऽपीत्यर्थः । पूर्वं गिरा अनिर्ग्राह्यत्वमुक्तम् । इदानीं हस्तेनापि अनिर्ग्राह्यत्वमाह । हस्तयोः दुर्नियन्तवः उभाभ्यामपि हस्ताभ्यां दुःखेन नियन्तव्याः देवयजनगमनाय शीघ्रगामिन इत्यर्थः ॥ ॥ २५ ॥
“These your horses, excellent Vāyu, strong of limb, youthful and full of vigour, bear you through the space between heaven and earth; growing (are they) in bulk, and strong as oxen; they are not lost in the firmament, but hold on their speed, unretarded by reviling; difficult are they to be arrested as the beams of the sun; difficult are they to be arrested by force.”
These Bulls of thine, O Vayu with the arm of strength, who swiftly fly within the current of thy stream, the Bulls increasing in their might,
Horseless, yet even through the waste swift-moving, whom no shout can stay,
Hard to be checked are they, like sunbeams, in their course. hard to be checked by both the hands.
Here, o Vāyu, are those oxen of yours [=soma drinks? Maruts?],
arm-strong, which fly in the river—the oxen that are greatly arrogant— that are not swift though on dry land, yet are nimble in the mountains though their home is not there,
like the reins [=rays] of the sun difficult to hold back—difficult for the hands to hold back.
Die Helden stark an Armen, die du, Vaju, hast, die zwischen beiden Weltenströmen fliegen hin, die Helden gross und stark an Kraft, Die ohne Rosse eilen doch in schneller Fahrt und ohne Rast, Sie sind unhemmbar wie der Sonne Strahlen stets, man hemmt sie mit den Händen nicht.
Diese sind fein deine beinstarken Stiere, o Vayu, die im Flusse fliegen, die mächtig sich reckenden Stiere, die auch im Steppenlande nicht schnell, und doch im Gebirge gar flink sind, obwohl im Gebirge nicht zu Hause, die schwer zu regieren sind wie die Zügel der Sonne, in den Händen schwer zu regieren.
Те твои, что с очень сильными передними ногами,
Они в реке летают, быки,
Мощно растущие быки,
Что даже на равнине не скоры,
Хотя быстры (в горах, притом что) в горах не дома,
Словно лучи солнца трудно управляемые,
Руками трудно управляемые.