प्र सु ज्येष्ठं॑ निचि॒राभ्यां॑ बृ॒हन्नमो॑ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्या॑म् । ता स॒म्राजा॑ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता । अथै॑नोः क्ष॒त्रं न कुत॑श्च॒नाधृषे॑ देव॒त्वं नू चि॑दा॒धृषे॑ ॥
प्र । सु । ज्येष्ठ॑म् । नि॒ऽचि॒राभ्या॑म् । बृ॒हत् । नमः॑ । ह॒व्यम् । म॒तिम् । भ॒र॒त॒ । मृ॒ळ॒यत्ऽभ्या॑म् । स्वादि॑ष्ठम् । मृ॒ळ॒यत्ऽभ्या॑म् । ता । स॒म्ऽराजा॑ । घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ॑सुती । य॒ज्ञेऽय॑ज्ञे । उप॑ऽस्तुता । अथ॑ । ए॒नोः॒ । क्ष॒त्रम् । न । कुतः॑ । च॒न । आ॒ऽधृषे॑ । दे॒व॒ऽत्वम् । नु । चि॒त् । आ॒ऽधृषे॑ ॥
हे ऋत्विजः मित्रावरुणाभ्यां ज्येष्ठं प्रशस्यं बृहत् महदतिप्रवृद्धं नमः नमस्कारोपलक्षितं स्तोत्रं तदुपलक्षितं हविर्लक्षणमन्नं वा प्र भरत संपादयत । नम इत्यन्ननाम, ‘नमः आयुः (नि. २. ७. २२) इति तन्नामसु पाठात् । किंच हव्यं हव्यां मतिं तत्प्रदानविषयां बुद्धिं भरत । यद्वा मतिं पूज्यं हव्यं हविर्भरत । पूर्वत्र पुरोडाशाद्यदनीयमन्नं इदानीं तु सोमाज्यादिरूपं निपेयं हविः इति विवेकः । कीदृशाभ्यां ताभ्याम् । निचिराभ्यां नितरां चिरकालाभ्यां नित्याभ्यामित्यर्थः । प्रवाहरूपेणेति भावः । किंच मृळयद्भ्यां स्तुत्या हविःस्वीकारेण स्वयं मृडित्वा यजमानमपि सुखयद्यांचि तथा स्वादिष्ठं स्वादुतरं मृळयद्भ्यां हविः सुखयद्यां क भक्षयद्याेणमित्यर्थः । कस्तयोर्विशेषः इति तत्राह । ता तौ मित्रावरुणौ सम्राजा सम्यक् राजमानौ॥ राजतेः क्विप् । ‘मो राजि समः क्वौ' इति समो मकारस्य मकारः ॥ घृतासुती । घृतमासूयते आदीयते याभ्यां तौ तादृशौ। यद्वा । घृतमुदकं वृष्टिलक्षणं प्रसूयते सर्वत्रानुज्ञायते याभ्यां तौ । एतयोः अहोरात्राभिमानिदेवत्वात् अहोरात्रद्वारा वृष्ट्युत्पादकत्वात् ‘अहोरात्रे वै मित्रावरुणावहोरात्राभ्यां खलु वै पर्जन्यो वर्षति' (तै. सं. २. १. ७. ३) इति श्रुतेर्वृष्ट्यनुज्ञाप्रदत्वं प्रसिद्धम् । किंच एतौ यज्ञेयज्ञे सर्वेष्वपि यज्ञेषु उपस्तुता सर्वैर्ऋत्विग्भिः स्तूयमानौ ।' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ अथ अपि च एनोः एनयोः ॥ संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘ ओसि च ' ( पा. सू. ७. ३. १०४ ) इति गुणाभावे । अतो गुणे: इति पररूपत्वम् ॥ क्षत्रं बलं कुतश्चन कस्मादपि च शत्रोः राक्षसादेः सकाशात् कस्मादप्युपायाद्वा न आधृषे आधर्षितुं शक्यं न भवति ॥ ‘ कृत्यार्थे तवैकेन्' इति केन्प्रत्ययः ॥ किंच तयोः देवत्वं नू चित् देवभावोऽपि न आधृषे अधर्षणायोग्यः । यद्वा । पूर्वमिव इदानीमपि । नू चिदिति निपातः पुराणनवयोः' (निरु. ४. १७ ) इति यास्केनोक्तत्वात् । आधृषे न केनाप्याधर्षणीयो भवति । एतयोर्बलं नाधृष्यं किमु तद्देवत्वमिति भावः ॥
“Offer most excellent and ample adoration, and reverential oblation, to those two deities who have existed from of old; who confer happiness (on their worshippers), and delight in most sweet (libations); for they are both imperial (sovereigns, in whose honour) oblations of butter are poured out (ghṛtamāsūyate ādīyate yābhyām tau tādṛśau; yadvā ghṛtamudakam vṛṣṭilakṣaṇam prasūyate sarvatrānujñāyate yābhyām tau), and who are glorified at every sacrifice, whence their might is not in any way to be opposed; their divinity is not to be resisted.”
BRING adoration ample and most excellent, hymn, offerings, to the watchful Twain, the bountiful, your sweetest to the bounteous Ones.
Sovrans adored with streams of oil and praised at every sacrifice.
Their high imperial might may nowhere be assailed, ne'er may their Godhead be assailed.
Present preeminent, lofty reverence to the two attentive ones; present an oblation, a thought to the two compassionate ones—the sweetest (oblation) to the two compassionate ones.
They are the two sovereign kings, whose potion is ghee, approached with praise at every sacrifice.
And so the dominion of these two is not to be challenged from
anywhere—their divinity is never to be challenged.
Den beiden, die drauf achten, bringt als bestes dar, den gnäd'gen hohe Ehrfurcht, Opfer und Gesang, das süsseste den gnädigen, Den milchgetränkten Oberherrn, die man bei jedem Opfer preist; An ihre Herrschaft kann sich niemand wagen je, noch auch an ihre Gottheit sich.
Bringet fein eure größte hohe Huldigung den beiden aufmerksamen Göttern, Opfer und Gedicht den barmherzigen dar, das süßeste den barmherzigen! Sie sind die beiden Allkönige, die sich mit Schmalz stärken, in jedem Gottesdienst angesungen. Und ihre Herrschaft ist von keiner Seite anzutasten, ihre Göttlichkeit niemals anzutasten.
Прекрасно принесите двум внимательным (богам) величайшее могучее
Поклонение: жертвенное возлияние (и) молитву, двум милосердным,
Самое сладкое – двум милосердным!
Эти два вседержителя, чей напиток – жир,
Прославлены на каждом жертвоприношении.
И на их власть ниоткуда не посягнуть,
На (их) божественную природу никогда не посягнуть.
अद॑र्शि गा॒तुरु॒रवे॒ वरी॑यसी॒ पन्था॑ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभि॑: । द्यु॒क्षं मि॒त्रस्य॒ साद॑नमर्य॒म्णो वरु॑णस्य च । अथा॑ दधाते बृ॒हदु॒क्थ्यं१॒॑ वय॑ उप॒स्तुत्यं॑ बृ॒हद्वय॑: ॥
अद॑र्शि । गा॒तुः । उ॒रवे॑ । वरी॑यसी । पन्थाः॑ । ऋ॒तस्य॑ । सम् । अ॒यं॒स्त॒ । र॒श्मिऽभिः॑ । चक्षुः॑ । भग॑स्य । र॒श्मिऽभिः॑ । द्यु॒क्षम् । मि॒त्रस्य॑ । साद॑नम् । अ॒र्य॒म्णः । वरु॑णस्य । च॒ । अथ॑ । द॒धा॒ते॒ इति॑ । बृ॒हत् । उ॒क्थ्य॑म् । वयः॑ । उ॒प॒ऽस्तुत्य॑म् । बृ॒हत् । वयः॑ ॥
गातुः गमनशीला वरीयसी उरुतरा उषाः उरवे विस्तीर्णाय यागाय गमनादिव्यापाराय अदर्शि सर्वेर्दृष्टा अभूत्। तथा ऋतस्य गमनशीलस्यादित्यस्य पन्थाः मार्गः आकाशलक्षणः रश्मिभिः समयंस्त प्रकाशैः संगतोऽभूत् । भगस्य सर्वैर्भजनीयस्य एतन्नामकस्य देवस्य रश्मिभिः चक्षुः सर्वप्राणिनां लोचनं समयंस्त संगतमभूत् । सर्वे स्वस्वद्रव्यदर्शनाय समर्था अभवन्नित्यर्थः । तदेव स्पष्टीक्रियते । मित्रस्य प्रकाशकारित्वात् सर्वजनमित्रस्य सदनं गृहमन्तरिक्षं द्युक्षं दीप्तानां निवासस्थानं रश्मिभिः समयंस्त संगतमभूत् । तथा अर्यम्णः एतन्नामकस्य देवस्य ॥ उदात्तनिवृत्तिस्वरेण विभक्तेः उदात्तत्वम् ॥ द्युक्षं सदनं रश्मिभिः समयंस्त । किंच वरुणस्य तमोनिवारकस्य एतन्नामकस्य देवस्य सदनं तथाभूत् । यद्यपि सूर्यस्य एकत्वेऽपि उपाधिभेदेन भेदात् पृथक् स्तुतिः तथा यद्यपि त्रिभिरपि प्रकाश्यमप्यन्तरिक्षमेकं तथापि प्रकाशकानां भेदात् त्रिधा स्तूयते । उदयानन्तरं कर्मानुष्ठानाय प्रकाशः अभवदित्यर्थः। अथ अतः कारणात् उदितत्वादेव उक्थ्यं स्तुत्यं बृहत् प्रभूतं वयः हविर्लक्षणमन्नं दधाते धारयतः । किंच उपस्तुत्यम् उपेत्य स्तोतव्यम् ॥ ‘एतिस्तुशासु' (पा. सू. ३. १. १०९) इत्यादिना क्यप् । बृहत् स्तोमादिना महत्स्तोत्रं वयः हविर्लक्षणमन्नं च दधाते ॥
“The most excellent dawn has been seen proceeding to the comprehensive (rite); the path of the revolving (sun) has been lighted up by (his) rays; the eyes of men (have been opened) by the rays of Bhaga; the brilliant mansion of Mitra, of Aryaman, of Varuṇa, (has been lighted up by his rays), and therefore do you two accept the commendable and copious oblation; the praise-worthy and copious oblation.”
For the broad Sun was seen a path more widely laid, the path of holy law hath been maintained with rays, the eye with Bhaga's rays of light.
Firm-set in heaven is Mitra's home, and Aryaman's and Varuna's.
Thence they give forth great vital strength which merits praise, high power of life that men shall praise.
The way has appeared—a wider one for the wide (light); its path has been firmly guided by the reins of truth—its eye by the reins of Bhaga. Heaven-dominating is the seat of Mitra and of Aryaman and Varuṇa. And so they two assume lofty vigor, worthy of hymns—lofty vigor to be approached with praise.
Dem weiten Raume zeigte weiter sich ihr Gang, mit Strahlen ist der heil'gen Ordnung Bahn geschmückt, das Himmelsaug' mit Bhaga's Strahl; Im Lichte thront des Mitra Sitz, des Arjaman und Varuna, Dort schaffen sie sich hohe preisenswerthe Kraft, gerühmte, hohe Lebenskraft.
Die weitere Bahn für das weite Licht ist sichtbar geworden, sein Weg ward durch die Zügel des Gesetzes gelenkt, das Auge durch die Zügel des Bhaga. Der himmlische Sitz des Mitra, des Aryaman und Varuna ward sichtbar und beide besitzen hohe preiswürdige Kraft, löbliche, hohe Kraft.
Показался более широкий выход для широкого (света).
Путь закона стал управляться лучами,
Глаз (солнца) – лучами Бхаги.
На небе находится сиденье Митры,
Арьямана и Варуны.
И они (оба) располагают могучей силой, достойной гимна,
Могучей силой, достойной прославления.
ज्योति॑ष्मती॒मदि॑तिं धार॒यत्क्षि॑तिं॒ स्व॑र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा॑ दि॒वेदि॑वे । ज्योति॑ष्मत्क्ष॒त्रमा॑शाते आदि॒त्या दानु॑न॒स्पती॑ । मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या॑त॒यज्ज॑नः ॥
ज्योति॑ष्मतीम् । अदि॑तिम् । धा॒र॒यत् ऽक्षि॑तिम् । स्वः॑ऽवतीम् । आ । स॒चे॒ते॒ इति॑ । दि॒वेऽदि॑वे । जा॒गृ॒ऽवांसा॑ । दि॒वेऽदि॑वे । ज्योति॑श्मत् । क्ष॒त्रम् । आ॒शा॒ते॒ इति॑ । आ॒दि॒त्या । दानु॑नः । पती॑ । मि॒त्रः । तयोः॑ । वरु॑णः । या॒त॒यत्ऽज॑नः । अ॒र्य॒मा । या॒त॒यत्ऽज॑नः ॥
अयं यजमानः ज्योतिष्मतीम् आहवनीयाग्नेस्तेजोयुक्ताम् अदितिम् अदीनां संपूर्णलक्षणां क्षितिम् अग्नेर्निवासयोग्यां भूमिम् उत्तरवेदिलक्षणां धारयत् धारयति स्वयं कृतवानित्यर्थः। एतावती वै पृथिवी यावती वेदिः' (तै. सं २. ६, ४, १) इति श्रुतेः । तथा स्वर्वतीं यज्ञनिष्पत्तिद्वारा स्वर्गवतीं ईदृशीं ताम् आ सचेते मित्रावरूणौ संगतौ भवतः । न केवलम् एतस्मिन् एव अहनि किंतु दिवेदिवे सर्वेष्वप्यहःसु । कीदृशौ तौ । दिवेदिवे प्रतिदिनं जागृवांसा प्रबोधं कुर्वाणौ । यज्ञं गन्तुम् अनलसौ इत्यर्थः । किंच वेदिमागत्य ज्योतिष्मत् आज्यादिस्वीकारेण अतिशयेन तेजोयुक्तं क्षत्रं बलम् आशाते अश्नुवाते प्राप्नुतः ॥ अश्नोतेश्छान्दसे लिटि ‘अनित्यमागमशासनम्' इति वचनात् नुडभावः । लटि वा छान्दसः शपः श्लुः । कीदृशौ इति तावाह। आदित्या अदितेः पुत्रौ दानुनस्पती दानस्य आज्यादिप्रदानस्य स्वामिनौ अभिमतदानस्य पालयितारौ वा ॥ ‘ षष्ठ्याः पतिपुत्र' इति संहितायां सत्वम् ॥ मित्रः च वरुणः च तावुभौ देवौ । अर्यमाख्यस्तु देवः तयोः मित्रावरुणयोः यातयज्जनः । तयोरेव संबन्धादुभयोर्मध्ये स्थितो यातयज्जनः स्वस्वव्यापारनियोजितसर्वजनः। मित्रावरुणौ अहोरात्रदेवौ। अर्यमा तु तयोरेव सामर्थ्यात् सर्वप्राणिनः प्रेरयतीत्यर्थः। किंच यातयज्जनः । यातयन्ति लोकं यदीया जनाः प्रेष्याः स तादृशः । यद्वा । यात्यमाना नरके निपात्यमाना जनाः प्राणिनः अयष्टारो येन स तादृशः । कर्मसाक्षित्वात् स्वस्वकर्मानुरोधेन प्राणिनः सुकृते यातयतीत्यर्थः । तादृशः अर्यमा मित्रावरुणयोरधीनो वर्तते इति शेषः ॥
“(Your worshipper) has prepared ground (for tha altar), free from defect, radiant (with sacrificial fire), and conferring heaven; come to it together every day, you who are vigilant; every day (at sacrifices) receive invigorated energy (by coming hither), sons of Aditi, lords of munificence; of those two, Mitra is the animator of mankind, and so is Varuṇa; Aryaman (likewise) is the animator of mankind.”
With Aditi the luminous, the celestial, upholder of the people, come ye day by day, ye who watch sleepless, day by day.
Resplendent might have ye obtained, Adityas, Lords of liberal gifts.
Movers of men, mild both, are Mitra, Varuna, mover of men is Aryaman.
Light-filled, sunlit Aditi who upholds the communities do the two accompany every day—being wakeful every day.
Light-filled dominion do they acquire—the two Ādityas, lords of the drop. Of these two Mitra (is the one who by nature) sets the peoples in order, but Varuṇa (does as well)—(also) Aryaman sets the peoples in order.
Der Aditi, die glanzbegabt die Völker schützt, der himmlischen gehn sie zur Seite Tag für Tag, sie beide wachsam Tag für Tag; Glanzreiche Macht erlangten sie, Aditja's sie, die Herrn des Thaus; Von ihnen eint die Menschen Mitra, Varuna, auch Arjaman versöhnet sie.
Der lichtreiche Aditi, der völkererhaltenden, sonnigen, stehen die beiden Tag für Tag zur Seite, früh erwacht Tag für Tag. Sie haben die lichtreiche Herrschaft erlangt, die beiden Aditya´s, die Herren der Himmelsgabe. Unter ihnen ist Mitra, ist Varuna der, welcher die Menschen eint, ist Aryaman der, welcher die Menschen eint.
Светоносную Адити, содержащую (людские) поселения,
Состоящую из солнца, они двое сопровождают день за днем,
(Рано) пробудившись – день за днем.
Они достигли светоносной власти,
Двое Адитьев, повелителей дара.
Митра из них двоих, Варуна объединяет людей,
Арьяман объединяет людей.
अ॒यं मि॒त्राय॒ वरु॑णाय॒ शंत॑म॒: सोमो॑ भूत्वव॒पाने॒ष्वाभ॑गो दे॒वो दे॒वेष्वाभ॑गः । तं दे॒वासो॑ जुषेरत॒ विश्वे॑ अ॒द्य स॒जोष॑सः । तथा॑ राजाना करथो॒ यदीम॑ह॒ ऋता॑वाना॒ यदीम॑हे ॥
अ॒यम् । मि॒त्राय॑ । वरु॑णाय॑ । शम्ऽत॑मः । सोमः॑ । भू॒तु॒ । अ॒व॒ऽपाने॑षु । आऽभ॑गः । दे॒वः । दे॒वेषु॑ । आऽभ॑गः । तम् । दे॒वासः॑ । जु॒षे॒र॒त॒ । विश्वे॑ । अ॒द्य । स॒ऽजोष॑सः । तथा॑ । रा॒जा॒ना॒ । क॒र॒थः॒ । यत् । ईम॑हे । ऋत॑ऽवाना । यत् । ईम॑हे ॥
अयम् अस्माभिर्हूयमानः सोमः मित्राय वरुणाय च शंतमः पीयमानः सन् सुखतमः भूतु भवतु ॥ छान्दसः शपो लुक् । ‘ भूसुवोस्तिङि' इति गुणाभावः ॥ अवपानेषु अवाङ्मुखचमसपानेषु विषयेषु आ सर्वतः भगः भजनीयः ताभ्याम् । किंच देवः दीप्यमानः देवेषु मित्रावरुणानुचरेषु इतरदेवेषु तैः आभगः आभजनीयः । यद्वा । देवेषु स्तोतृषु यजमानेषु मध्ये देवो दीप्यमानः । तथा आभगस्तैरेव आ सर्वतो भजनीयः । किंच तं सोमं विश्वे सर्वे देवासः देवाः अद्य अस्मिन्नहनि जुषेरत सेवन्ते ॥ छान्दसो झस्य रन्नादेशाभावः। ‘ बहुलं छन्दसि ' इति रुडागमः ॥ कीदृशास्ते । सजोषसः समानप्रीतियुक्ताः । तथा राजाना राजमाना मित्रावरुणौ युवां करथः कुरुतं सेवेथे इत्यर्थः। व्यत्ययेन शप्॥ यत् यस्मात् कारणात् यत् ईमहे यत् प्राप्नुमः तत् देवान् याचामहे ॥ ‘ ईङ् गतौ'। दैवादिकः । छान्दसो विकरणस्य लुक् ॥ तस्मात् जुषेरत । तथा ऋतावाना ऋतवन्तौ सत्यवन्तौ यज्ञवन्तौ वा मित्रावरुणौ ईमहे अभिमतफलं तयोः पानं वा याचामहे ॥
“May this Soma be gratifying to Mitra and Varuṇa, to be enjoyed by them as they drink of it inclining downwards; a divine (beverage), fit to be enjoyed by the gods; may all the gods, well plural ased, today accept it; therefore, royal (deities), do as we request; you, who are ever truthful, do as we request.”
This Soma be most sweet to Mitra, Varuna: he in the drinking-feasts, shall have a share thereof, sharing, a God, among the Gods.
May all the Gods of one accord accept it joyfully to-day.
Therefore do ye, O Kings, accomplish what we ask, ye Righteous Ones, whate'er we ask.
Let the one here, this soma, be most wealful for Mitra and Varuṇa, the one who gives shares in the drinking places—the god who gives shares to the gods.
Him should the gods enjoy, all of them today in joint enjoyment.
O kings, you shall do just as we beg—you truthful ones, as we beg.
Der Soma hier, der heilsam ist dem Varuna, und Mitra nehme Theil an ihrem Trinkgelag, mit Göttern nehme Theil der Gott; Die Götter alle mögen sich vereint an diesem heut erfreun; So mögt ihr's thun, o Könige, wie wir's erflehn, o heilige, wie wir's erflehn.
Dieser Soma soll Mitra und Varuna am meisten zusagen, der der Genosse bei den Gelagen, der Gott der Genosse der Götter ist. An ihm sollen sich alle Götter heute einträchtig erfreuen. Tut so, ihr beiden Könige, worum wir bitten, ihr Wahrhaftige, worum wir bitten.
Да будет этот сома самым благодатным
Для Митры, для Варуны, (он,) участник попоек,
Бог, (их) участник среди богов.
Да насладятся им все
Боги сегодня единодушно!
Сделайте, о два царя, так, как мы просим,
О благочестивые, как мы просим!
यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो॑ऽन॒र्वाणं॒ तं परि॑ पातो॒ अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः । तम॑र्य॒माभि र॑क्षत्यृजू॒यन्त॒मनु॑ व्र॒तम् । उ॒क्थैर्य ए॑नोः परि॒भूष॑ति व्र॒तं स्तोमै॑रा॒भूष॑ति व्र॒तम् ॥
यः । मि॒त्राय॑ । वरु॑णाय । अवि॑धत् । जनः॑ । अ॒न॒र्वाण॑म् । तम् । परि॑ । पा॒तः॒ । अंह॑सः । दा॒श्वांस॑म् । मर्त॑म् । अंह॑सः । तम् । अ॒र्य॒मा । अ॒भि । र॒क्ष॒ति॒ । ऋ॒जु॒ऽयन्त॑म् । अनु॑ । व्र॒तम् । उ॒क्थैः । यः । ए॒नोः॒ । प॒रि॒ऽभूष॑ति । व्र॒तम् । स्तोमैः॑ । आ॒ऽभूष॑ति । व्र॒तम् ॥
यः जनः यजमानः मित्राय वरुणाय च ॥ कर्मणः संप्रदानत्वाच्चतुर्थी । मित्रं वरुणं च अविधत् परिचरति तं जनं युष्मत्परिचारकम् अनर्वाणम् अद्वेषिणम् । ‘भ्रातृव्यो वा अर्वा ' (तै. सं. ६. ३. ८. ४ )इति श्रुतेः । अनल्पं वा अनन्यसेविनं परि पातः परितो रक्षताम्। कस्मादिति तदुच्यते । अंहसः न्यूनातिरेकजनितात् पापात् । न केवलं सामान्यं जनम् अपि तु दाश्वांसं हविर्दत्तवन्तं मर्तं मरणधर्माणम् अंहसः सर्वस्मादपि पापात् । न केवलं भवन्तावेव अपि तु अर्यमा सर्वेषां नियन्ता देव: ऋजूयन्तं देवेष्वार्जवमाचरन्तं यजमानम् अनु व्रतं तदीयं कर्मानुलक्ष्य
“अभि रक्षति अभितो रक्षति । कोऽस्य जनस्य विशेषः इति तत्राह । यः यजमानः उक्थैः शस्त्रैः एनोः एनयोर्मित्रावरुणयोः व्रतं कर्म परिभूषति परिगृह्णाति तथा यजमानो युष्मदीयं व्रतं कर्म स्तोमैः स्तोत्रैर्गानयुक्तमन्त्रसाध्यैः आभूषति सर्वतोऽलंकरोति ॥ ‘ भूष अलंकारे । भौवादिकः ॥ तम् अभिरक्षति इत्यन्वयः ॥
“Whatever individual offers adoration to Mitra and Varuṇa, do you preserve him entirely unharmed from sin; (preserve) from sin the mortal who presents you (with oblations); may Aryaman protect him who is sincere in his devotion, who offers worship addressed to both (Mitra and Varuṇa) with prayers; who offers worship with praises.”
Whoso, with worship serves Mitra and Varuna, him guard ye carefully, uninjured, from distress, guard from distress the liberal man.
Aryaman guards him well who acts uprightly following his law,
Who beautifies their service with his lauds, who makes it beautiful with songs of praise.
The person who has done honor to Mitra and Varuṇa, that unassailable one do you two protect all around from difficult straits—the pious
mortal from difficult straits.
Him Aryaman guards, him who aims straight following his commandment, him who with hymns tends to the commandment of these two—with praises tends to their commandment.
Den Mann, der Varuna und Mitra dienend ehrt, den schützen sie, dass nimmer ihn Gefahr bedrängt, den frommen Menschen vor Gefahr, Und den beschirmet Arjaman, der rechtlich lebt nach dem Gesetz, Der das Gesetz der beiden mit Gesängen schmückt mit Sprüchen preiset ihr Gesetz.
Welcher Mann es dem Mitra und Varuna recht gemacht hat, den schützen sie unangefochten vor Not, den opferspendenden Sterblichen vor Not. Wer recht wandelt nach dem Gebot, den behütet Aryaman, wer mit Lobliedern des Dienstes beider wartet, mit Preisliedern ihres Dienstes wartet.
(Тот) человек, кто служил Митре (и) Варуне, –
(Сделав его) неуязвимым, они охраняют его со всех сторон от узости,
Почитающего смертного – от узости.
Того (человека) защищает Арьяман,
Идущего прямо в соответствии с обетом,
Кто гимнами всячески содействует обету,
Восхвалениями содействует обету.
नमो॑ दि॒वे बृ॑ह॒ते रोद॑सीभ्यां मि॒त्राय॑ वोचं॒ वरु॑णाय मी॒ळ्हुषे॑ सुमृळी॒काय॑ मी॒ळ्हुषे॑ । इन्द्र॑म॒ग्निमुप॑ स्तुहि द्यु॒क्षम॑र्य॒मणं॒ भग॑म् । ज्योग्जीव॑न्तः प्र॒जया॑ सचेमहि॒ सोम॑स्यो॒ती स॑चेमहि ॥
नमः॑ । दि॒वे । बृ॒ह॒ते । रोद॑सीभ्याम् । मि॒त्राय॑ । वोच॑म् । वरु॑णाय । मी॒ळ्हुषे॑ । सु॒ऽमृ॒ळी॒काय॑ । मी॒ळ्हुषे॑ । इन्द्र॑म् । अ॒ग्निम् । उप॑ । स्तु॒हि॒ । द्यु॒क्षम् । अ॒र्य॒मण॑म् । भग॑म् । ज्योक् । जीव॑न्तः । प्र॒ऽजया॑ । स॒चे॒म॒हि॒ । सोम॑स्य । ऊ॒ती । स॒चे॒म॒हि॒ ॥
दिवे द्योतमानाय सूर्याय नमः वोचं नमस्कारोपलक्षितं स्तोत्रं वोचं ब्रवीमि स्तौमीत्यर्थः । कीदृशाय तस्मै । बृहते महते ॥ ‘ बृहन्महतोरुपसंख्यानम्' इति विभक्तिरुदाता ॥ स्तुत्याय । तथा रोदसीभ्यां द्यावापृथिवीभ्यां तदभिमानिदेवाभ्यां नमो वोचम् । तथा मित्राय सर्वजनहिताय अहरभिमानिदेवाय नमः वोचम् । तथा वरुणाय आवरकाय रात्र्यभिमानिदेवाय । तथा मीळ्हुषे अभिमतफलस्य सेक्त्रे रुद्राय । कीदृशाय तस्मै । सुमृळीकाय शोभनसुखयित्रे । पुनः स एव विशेष्यते । मीळ्हुषे सुमृळीकाय इति द्वे प्रत्येकविशेषणभूते । इदानीं यजमानः ऋत्विजं स्वात्मानं वा प्रति ब्रवीति । हे होतः हे आत्मन् वा इन्द्रम् अग्निं द्युक्षं दीप्तिमन्तम् अर्यमणं भगं च उप उपेत्य बुद्ध्या प्राप्य स्तुहि स्तुतिं कुरु । युष्मदनुग्रहात् ज्योक् चिरकालं जीवन्तः जीवनोपेता वयं प्रजया पुत्रभृत्यादिना सचेमहि संगता भूयास्म । किंच सोमस्य इन्दोः ऊती ऊत्या सचेमहि तमपि स्तुत्वा तत्कारितेन रक्षणेन सहिता भूयास्मेत्यर्थः ॥
“I proclaim veneration to the mighty Sun, to heaven and earth, to Mitra, to the benevolent Varuṇa, to the conferer of happiness, the showerer of benefits. Praise Indra, Agni, the brilliant Aryaman, and Bhaga, so that enjoying long life, we may be blessed with progeny; we may be happy through the protecting virtues of the Soma.”
Worship will I profess to lofty Dyaus, to Heaven and Earth, to Mitra and to bounteous Varuna, the Bounteous, the Compassionate.
Praise Indra, praise thou Agni, praise Bhaga and heavenly Aryaman.
Long may we live and have attendant progeny, have progeny with Soma's help.
Reverence I proclaim to lofty heaven, to the two world-halves, to Mitra and to Varuṇa who gives rewards—to the very compassionate one
who gives rewards.
Approach Indra and Agni, heaven-dominating Aryaman and Bhaga with praise.
Living for a long time may we be accompanied by progeny—may we be accompanied by the aid of Soma.
Den hohen Himmel und das Weltenpaar will ich anbeten, Mitra und den gnäd'gen Varuna, den huldbegabten gnädigen; Den Indra, Agni preise hoch, Bhaga den lichten Arjaman; Uns werde langes Leben, Kinderschar zu Theil, durch Soma's Hülfe uns zu Theil.
Eine Huldigung habe ich dem hohen Himmel, beiden Welten, dem Mitra, dem belohnenden Varuna, ausgesprochen, dem barmherzigen, belohnenden. Lobsinge dem Indra, dem Agni, dem himmlischen Aryaman, dem Bhaga! Lange lebend möchten wir der Nachkommenschaft teilhaft sein, möchten wir der Gunst des Soma teilhaft sein.
Поклонение высокому небу, двум мирам,
Митре я провозглашаю, Варуне щедрому,
Очень милосердному, щедрому.
Индру, Агни прославляй,
Находящегося на небе Арьямана, Бхагу!
Живя долго, да будем мы обладать потомством,
Да будем мы обладать поддержкой сомы!
ऊ॒ती दे॒वानां॑ व॒यमिन्द्र॑वन्तो मंसी॒महि॒ स्वय॑शसो म॒रुद्भि॑: । अ॒ग्निर्मि॒त्रो वरु॑ण॒: शर्म॑ यंस॒न्तद॑श्याम म॒घवा॑नो व॒यं च॑ ॥
ऊ॒ती । दे॒वाना॑म् । व॒यम् । इन्द्र॑ऽवन्तः । मं॒सी॒महि॑ । स्वऽय॑शसः । म॒रुत्ऽभिः॑ । अ॒ग्निः । मि॒त्रः । वरु॑णः । शर्म॑ । यंस॑न् । तत् । अ॒श्या॒म॒ । म॒घऽवा॑नः । व॒यम् । च॒ ॥
इन्द्रवन्तः प्रीतेनेन्द्रेण तद्वन्तः वयं देवानां देवान् ॥ कर्मणि षष्ठी ॥ उती ऊत्या तर्पणेन हविरादिना मंसीमहि मन्येमहि । कीदृशा वयम् । स्वयशसः स्वायत्तकीर्तयः मरुद्भिः स्तुत्या हृद्यैर्मरुद्देवैरनुगृहीताः । यद्वा । देवानाम् ऊत्या रक्षणेन रक्षिता मंसीमहि ज्ञातारो भवेम सामर्थ्यात् तेषामेव महत्त्वस्य । किंच अग्निमित्रवरुणाः देवाः शर्म यंसन् अस्माकं सुखं प्रायच्छन् तं तं वरम् । मघवानः वयं च तैर्दत्तान्नवन्तः सन्तः तत् सुखम् अश्याम व्याप्नुयाम ॥ अश्नोतेराशिषि लिङि ‘ छन्दस्युभयथा ' इति सार्वधातुकत्वात् सलोपः ॥ ॥ २६ ॥
“Worshiping Indra, and favoured by the Maruts, may we rely upon the protection of the gods; and may we, affluent (through their bounty), enjoy the felicity which Agni, Mitra, and Varuṇa are bestowing (upon us).”
With the Gods' help, with Indra still beside us, may we be held self-splendid with the Maruts.
May Agni, Mitra, Varuna give us shelter this may we gain, we and our wealthy princes.
With the aid of the gods, with Indra on our side along with the Maruts, might we consider ourselves self-glorious.
Agni, Mitra, Varuṇa will extend shelter; may we attain it—we and the bounteous ones.
Durch der Götter Hülfe, mit Indra vereint, durch die Maruts mögen wir selbstherrlich erscheinen; Agni, Mitra, Varuna mögen uns Schutz reichen, das mögen wir und die Opferherrn erlangen.
Durch die Gunst der Götter, mit Indra auf unserer Seite, mit den Marut möchten wir uns selbstherrlich dünken. Agni, Mitra, Varuna sollen uns Schutz gewähren. Das mögen die Gönner und wir erreichen.
Благодаря поддержке богов пусть считаемся мы
Любимцами Индры, обладающими собственной славой, вместе с Марутами!
Агни, Митра, Варуна пусть даруют нам защиту!
Пусть достигнем этого мы и наши щедрые покровители!