प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न त॑न्दते स्तो॒त्रम॑स्य॒ न त॑न्दते । अर्चा॑मि सुम्न॒यन्न॒हमन्त्यू॑तिं मयो॒भुव॑म् । विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ॑युयु॒वे म॒खः ॥
प्रऽप्र॑ । पू॒ष्णः । तु॒वि॒ऽजा॒तस्य॑ । श॒स्य॒ते॒ । म॒हि॒ऽत्वम् । अ॒स्य॒ । त॒वसः॑ । न । त॒न्द॒ते॒ । स्तो॒त्रम् । अ॒स्य॒ । न । त॒न्द॒ते॒ । अर्चा॑मि । सु॒म्न॒ऽयन् । अ॒हम् । अन्ति॑ऽऊतिम् । म॒यः॒ऽभुव॑म् । विश्व॑स्य । यः । मनः॑ । आ॒ऽयु॒यु॒वे । म॒खः । दे॒वः । आ॒ऽयु॒यु॒वे । म॒खः ॥
तुविजातस्य बहुयजमानार्थमुत्पन्नस्य अस्य पूष्णः पोषकस्य एतन्नामकस्य देवस्य तवसः महित्वं बलस्य महत्त्वं प्रप्र शस्यते प्रस्तूयते सर्वैः ॥ वीप्सा पादपूरणे॥ न तन्दते न हिनस्ति कश्चित्तदपि । किंच अस्य पूष्णः स्तोत्रं न तन्दते न हिनस्ति न विरमति । सर्वोऽपि जनः एनं स्तौतीत्यर्थः । जगत्पोषकत्वादिति भावः । अतः कारणात् अहं अहमपि यजमानः सुम्नयन् सुखमिच्छन् अर्चामि स्तौमि । कीदृशं तम् । अन्त्यूतिम् आसन्नरक्षणम् ॥ ‘ कादिलोपो बहुलम्' इति कलोपः ॥ स्तुत्यनन्तरमेव वरप्रदमित्यर्थः । मयोभुवं सुखस्योत्पादकं भावयितारं वा । यः पूषा मखः यज्ञवान् ॥ मत्वर्थों लुप्यते ॥ विश्वस्य सर्वस्य स्तोतुर्ऋत्विजः मनः आयुयुवे समन्तात् मिश्रयति । शीघ्रवरप्रदानात् इति भावः। किंच देवः दीप्यमानः एषः मखः मखं यज्ञम् आयुयुवे संपूर्तिपर्यन्तं मिश्रयति । यद्वा । विश्वस्य मनोमिश्रणे यजमाने किमायातमिति चेत् उच्यते । मखो यज्ञनिर्वाहकोऽयं पूषा देवो यजमानस्य मनः आयुयुवे समन्तात् मिश्रयति । सामर्थ्यात् यजमानस्य मन इति लभ्यते ॥ यौतेश्छान्दसो लिट्॥
“The greatness of the strength of the many-worshipped Pūṣan is universally lauded; no one detracts (from his praise); his praise displeases no one. Desirous of happiness, I adore him, whose protection is ever nigh; who is the source of felicity; who, when devoutly worshipped, blends with the thoughts of all (his worshippers); who, (thought) a deity, is united with the sacrifice.”
STRONG Pusan's majesty is lauded evermore, the glory of his lordly might is never faint, his song of praise is never faint.
Seeking felicity I laud him nigh to help, the source, of bliss,
Who, Vigorous one, hath drawn to him the hearts of all, drawn them, the Vigorous One, the God.
Ever further is (the greatness) of powerfully born Pūṣan proclaimed: the greatness of him, the powerful, does not flag—the praise of him does not flag.
Seeking his favor, I chant to him, whose help is nearby, who is
refreshment itself,
who, the bounteous, has bound to himself the mind of everyone—the bounteous god has bound it to himself.
Des allgewalt'gen Puschan Macht wird stets gerühmt, und nie erlahmt des starken grosse Herrlichkeit, und nie erlahmt sein Lobgesang, Ich preise Gunst begehrend ihn, der Freude bringt, mit Hülfe naht, Der als ein Held erfasst hält jedes Wesens Geist, der Gott als Held ihn an sich zieht.
Fort und fort wird die Macht des Pusan von starker Art gepriesen; seine, des Starken, Macht, erlahmt nicht, sein Lob erlahmt nicht. Ich besinge um seine Huld bittend ihn, der in der Nähe hilft, den erfreulichen; den freigebigen, der eines jeden Sinn gefesselt hat, als freigebiger Gott gefesselt hat.
Все больше и больше прославляется (величие) Пушана сильного рода.
Величие этого сильного не слабеет,
Его восхваление не слабеет.
Я воспеваю, надеясь на милость
Помогающего вблизи, благодатного,
(Того) щедрого, кто овладел мыслью каждого,
Щедрого бога, (который) овладел.
प्र हि त्वा॑ पूषन्नजि॒रं न याम॑नि॒ स्तोमे॑भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी॑परो॒ मृध॑: । हु॒वे यत्त्वा॑ मयो॒भुवं॑ दे॒वं स॒ख्याय॒ मर्त्य॑: । अ॒स्माक॑माङ्गू॒षान्द्यु॒म्निन॑स्कृधि॒ वाजे॑षु द्यु॒म्निन॑स्कृधि ॥
प्र । हि । त्वा॒ । पू॒ष॒न् । अ॒जि॒रम् । न । याम॑नि । स्तोमे॑भिः । कृ॒ण्वे । ऋ॒णवः॑ । यथा॑ । मृधः॑ । उष्ट्रः॑ । न । पी॒प॒रः॒ । मृधः॑ । हु॒वे । यत् । त्वा॒ । म॒यः॒ऽभुव॑म् । दे॒वम् । स॒ख्याय॑ । मर्त्यः॑ । अ॒स्माक॑म् । आ॒ङ्गू॒षाम् । द्यु॒म्निनः॑ । कृ॒धि॒ । वाजे॑षु । द्यु॒म्निनः॑ । कृ॒धि॒ ॥
हे पूषन् अजिरं यज्ञदेशं प्रति गमनवन्तं त्वा त्वां यामनि गमने निमित्तभूते सति स्तोमेभिः स्तोमैः प्र कृण्वे प्रकृष्टं करोमि। तत्र दृष्टान्तः । यामनि शीघ्रगमनेऽजिरं न शीघ्रगामिनमश्वमिव । स यथा प्रस्तूयते तद्वत् । किंच यथा मृधः संग्रामानुद्दिश्य ऋणवः गच्छेः तथा प्र कृण्वे । यद्वा । यथा ऋणवः अस्मद्यज्ञं प्रति गच्छेः ॥ ‘ ऋणु गतौ'। तानादिकः। लेटि अडागमः ॥ तथा त्वां कृण्वे । किंच मृधः हिंसकान् योद्धॄन् संग्रामे पीपरः पारं नयसि ॥ पारयतेर्लुङि चडि रूपम् ॥ तत्र दृष्टान्तः । उष्ट्रो न । उष्ट्रो यथा भारं वोढा पारयति तद्वत् मृधः संग्रामात् पीपरः पारं नयसि । अतः कारणात् त्वा त्वां मयोभुवं सुखस्य भावयितारं देवं देवनशीलं पूषणं मर्त्यः मरणधर्मा मनुष्योऽहं हुवे आह्वयामि । किमर्थम् । सख्याय समानख्यानाय प्रियकरणाय । एवमाहूतः सन् अस्माकमाङ्गूषान् आघोषान् स्तोमान् । आङ्गूषः स्तोम आघोषः' इति यास्कः (५.११) । द्युम्निनस्कृधि द्योतनवतः कुरु । यद्वा । स्तोमान् यशोवतोऽन्नवतो वा कृधि अस्मत्स्तुत्या प्रीतस्त्वम् एवं कुर्वित्यर्थः । किंच वाजेषु संग्रामेषु द्युम्निनः अन्नवतः कृधि अस्मद्वैरिणो जित्वा तेषामन्नं मयि कुर्वित्यर्थः ॥
“I exalt you, Pūṣan, with praises, that you may hasten (to the sacrifice), like a rapid (courser) to the battle; that you may bear us across the combat, like a camel; therefore do I, a mortal, invoke you, the divine bestower of happiness, for your friendship; and do you render our invocation productive (of benefit); render them productive (of success) in battle.”
Thee, then, O Pusan, like a swift one on his way, I urge with lauds that thou mayst make the foemen flee, drive, camel-like, our foes afar.
As I, a man, call thee, a God, giver of bliss, to be my Friend,
So make our loudly-chanted praises glorious, in battles make them glorious.
So, Pūṣan, with praises I put you forward, like a nimble (horse) on its course, so that you will get the negligent ones on the move—like a
camel you will carry (us) beyond the negligent ones.
When I, a mortal, call upon you, a god, who are refreshment itself, for fellowship—
make our songs brilliant—make them brilliant when prizes (are at stake).
Denn dich, o Puschan, wie den schnellen Wanderer, bewege ich durch Loblied, dass du schlägst den Feind, dem Büffel gleich den Feind verjagst; Wenn ich, der Sterbliche, dich Gott der Freude bringt, zum Bündniss ruf', So lasse unsre Lobgesänge kräftig sein, in Schlachten lass sie kräftig sein.
Denn ich treibe dich, Pusan, mit Lobesworten wie einen Renner auf der Fahrt voran, auf daß du die Verächter auf den Trab bringst. Wie ein Kamel sollst du die Verächter fortschaffen. Wenn ich dich, den erfreulichen Gott als Sterblicher zum Freundesdienst aufrufe, so mache unsere Lieder zündend, mache sie in den Entscheidungskämpfen zündend!
Ведь я подгоняю тебя вперед, о Пушан, восхвалениями,
Как скакуна – в движении, чтобы ты рассеял враждебные замыслы.
Как верблюд (-груз), переправь (нас через) враждебные замыслы!
Когда я зову тебя, благодатного
Бога, (я,) смертный, для дружбы,
Сделай наши похвалы блистательными,
Для получения наград сделай (их) блистательными!
यस्य॑ ते पूषन्त्स॒ख्ये वि॑प॒न्यव॒: क्रत्वा॑ चि॒त्सन्तोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा॑ बुभुज्रि॒रे । तामनु॑ त्वा॒ नवी॑यसीं नि॒युतं॑ रा॒य ई॑महे । अहे॑ळमान उरुशंस॒ सरी॑ भव॒ वाजे॑वाजे॒ सरी॑ भव ॥
यस्य॑ । ते॒ । पू॒ष॒न् । स॒ख्ये । वि॒प॒न्यवः॑ । क्रत्वा॑ । चि॒त् । सन्तः॑ । अव॑सा । बु॒भु॒ज्रि॒रे । इति॑ । क्रत्वा॑ । बु॒भु॒ज्रि॒रे । ताम् । अनु॑ । त्वा॒ । नवी॑यसीम् । नि॒ऽयुत॑म् । रा॒यः । ई॒म॒हे॒ । अहे॑ळमानः । उ॒रु॒ऽशं॒स॒ । सरी॑ । भ॒व॒ । वाजे॑ऽवाजे । सरी॑ । भ॒व॒ ॥
हे पूषन् देव यस्य ते रक्षकत्वेन प्रसिद्धस्य तव सख्ये सखित्वे हितकरणे सति क्रत्वा चित क्रतुना प्रकृष्टेन कर्मणैव ॥ ‘ जसादिषु च्छन्दसि वावचनम्' इति नाभावाभावः ॥ सन्तः भवन्तं प्रीणयितारः सन्तः विपन्यवः विशेषेण स्तोत्रशीलाः । यद्वा । मेधाविनामैतत् । मेधाविनः यजमानाः अवसा त्वत्कृतेन रक्षणेन रक्षिताः सन्तः बुभुज्रिरे भुञ्जते भोगान् । इति एवमेव सर्वदा क्रत्वा कर्मणा बुभुज्रिरे भुञ्जते सर्वे पाल्यन्ते इति वा ॥ भुजेश्छन्दसि लिटि ‘बहुलं छन्दसि इति रुट्॥ तां तादृशीं नवीयसीं नवतरां स्तुत्यां वा रक्षाम् अनु अनुसृत्य रक्षाया अनन्तरं त्वां नियुतं रायः एतत्संख्याकान् धनानि ईमहे याचामहे । किंच हे उरुशंस बहुधा स्तुत्य त्वम् अहेळमानः अक्रुध्यन् अस्मासु सुमनाः सन् सरी भव अस्माभिर्गन्तव्यो भव ॥ सर्तेः औणादिकः इनिप्रत्ययः । आद्युदात्तत्वम् ॥ किंच त्वं वाजेवाजे सर्वेष्वपि संग्रामेषु सरी भव गमनशीलो भव पुरतो गन्ता भवेत्यर्थः ॥
“Through your friendship, Pūṣan, they who are diligent in your praise and assiduous in your worship enjoy (abundance), through your protection; by (assiduous) worship they enjoy (abundance); as consequent upon your recent favour, we solicit infinite riches. Free from anger, and entitled to ample praise, be ever accessible to us; be our leader in every encounter.”
Thou, Pusan, in whose friendship they who sing forth praise enjoy advantage, even in wisdom, through thy grace, in wisdom even they are advanced.
So, after this most recent course, we come to thee with prayers for wealth.
Not stirred to anger, O Wide-Ruler, come to us, come thou to us in every fight.
Pūṣan, since in fellowship with you your admirers who have just this purpose have benefitted by your aid—have benefitted with such a
purpose (as ours)—
in accordance with this we implore you for a newer team of wealth.
O you who are not wrathful, who are widely proclaimed, be a
contender—whenever a prize (is at stake), be a contender.
O Puschan, dich, in dessen Bund die preisenden auch wenn sie stark sind, deiner Hülfe sich erfreun, so deiner Kraft sich auch erfreun, Dich gehen wir um Reichthum an bei deinem neusten Wagenzug; Komm eilend her, nicht zürnend, weitgebietender, in jeder Schlacht komm eilend her.
Dich, Pusan, dessen Gunst in deiner Freundschaft die Lobredner genossen haben, die es recht aus Überzeugung sind, in solcher Überzeugung genossen haben - dich bitten wir nach dieser noch um eine neue Zuwendung von Reichtum. Sei du, dessen Worte weithin reichen, ohne Groll, sei ein ......, in jedem Entscheidungskampf sei ein .....
О Пушан, (тот,) благодаря чьей дружбе восхвалители
- А они таковы по силе духа – наслаждались твоей помощью,
Да, по силе духа – наслаждались,
Тебя мы просим
О новом дарении богатства.
Негневливый, с широкой славой, будь (готов) примчаться (к нам на помощь),
Ради каждой награды будь (готов) примчаться (к нам на помощь)!
अ॒स्या ऊ॒ षु ण॒ उप॑ सा॒तये॑ भु॒वोऽहे॑ळमानो ररि॒वाँ अ॑जाश्व श्रवस्य॒ताम॑जाश्व । ओ षु त्वा॑ ववृतीमहि॒ स्तोमे॑भिर्दस्म सा॒धुभि॑: । न॒हि त्वा॑ पूषन्नति॒मन्य॑ आघृणे॒ न ते॑ स॒ख्यम॑पह्नु॒वे ॥
अ॒स्याः । ऊँ॒ इति॑ । सु । नः॒ । उप॑ । सा॒तये॑ । भु॒वः॒ । अहे॑ळमानः । र॒रि॒ऽवान् । अ॒ज॒ऽअ॒श्व॒ । श्र॒व॒स्य॒ताम् । अ॒ज॒ऽअ॒श्व॒ । ओ इति॑ । सु । त्वा॒ । व॒वृ॒ती॒म॒हि॒ । स्तोमे॑ऽभिः । द॒स्म॒ । सा॒धुऽभिः॑ । न॒हि । त्वा॒ । पू॒ष॒न् । अ॒ति॒ऽमन्ये॑ । आ॒घृ॒णे॒ । न । ते॒ । स॒ख्यम् । अ॒प॒ऽह्नु॒वे ॥
हे अजाश्व पूषन् । ‘ अजाश्वेति पूषणमाह ' (निरु. ४. २५) इति यास्कः । नः अस्माकम् अस्याः अस्यै ॥ चतुर्थ्यर्थे षष्ठी ॥ सातये लाभाय अहेळमानः अक्रुध्यन् अनादरमकुर्वन् ररिवान् दाता च सन् सु सुष्ठु उप भुवः समीपस्थो भव ॥ रातेश्छान्दसस्य लिटः क्वसुः । पदसंज्ञाया अभावेऽपि पपिवांसं तस्थिवांसमित्यादौ छान्दसोऽवग्रहो दृश्यते । ऊ इति पादपूरणः ॥ किंच श्रवस्यताम् अन्नमिच्छतामस्माकं हे अजाश्व अजा एवाश्वस्थानीया यस्य तादृश त्वम् । पूषनामेदम् । ररिवांश्च सन् उप भुवः । ‘ अजाः पूष्णः' (नि. १. १५, ५) इति यास्कः । ओ इति निपातद्वयसमुदायात्मक एको निपातः । हे दस्म शत्रूणामुपक्षपयितः पूषन् त्वा त्वाम् ओ षु ववृतीमहि सर्वत एव सुतरां वर्तयेमहि ॥ वृतेः अन्तर्भावितण्यर्थात् लिङि ‘बहुलं छन्दसि' इति शपः श्लुः ॥ यज्ञान्तरगमनात निवर्तयामः इत्यर्थः । केन साधनेनेति तदुच्यते । साधुभिः स्तोमेभिः त्वां प्रीणयितुं समर्थैः स्तोत्रैः । किंच हे पूषन् आघृणे सर्वतो वृष्टेः क्षारयितः । यद्वा । आघृणे हविषामाहर्तः स्वीकर्तः त्वां नहि अतिमन्ये अवमति नैव करोमि। न केवलमनतिक्रममात्रं किंतु ते सख्यं तव सखित्वं हितकर्तृत्वं नहि अपह्नुवे नैवापयामि न त्यजामि सर्वतः प्रख्यापयामि इत्यर्थः ॥ ॥ ३ ॥
“Free from anger, and liberal of gifts, be nigh to us, Ajāśva, for the acceptance of this our (offering); be nigh to those, Ajāśva, who solicit food; we have recourse to you, destroyer of enemies, with pious hymns. I never cease, Pūṣan, accepter of offerings, to think of you; I never disregard your friendship.”
Not stirred to anger, come, Free-giver, nigh to us, to take this gift of ours, thou who hast goats for steeds, Goat-borne! their gift who long for fame.
So, Wonder-Worker! may we turn thee hither with effectual lauds.
I slight thee not, O Pusan, thou Resplendent One: thy friendship may not be despised.
Will you come near to us, for the winning of this (“team” of wealth), you who have goats for horses, who are not wrathful but bestowing—you who have goats for horses, (for the benefit) of those who seek fame?
We would turn you hither with praises that achieve their goal,
wondrous one,
for I do not disdain you, glowing Pūṣan, nor do I spurn your fellowship.
Dies zu empfangen sei uns schnell mit Hülfe nah, nicht zürnend, spendend, o der du mit Ziegen fährst, den schatzbegier'gen spendend du; O, dass wir, wunderbarer, dich herwendeten durch gutes Lob; Denn nicht verschmäh' ich, glutenreicher Puschan dich, noch schlag' ich deine Freundschaft aus.
Sei uns fein behilflich zum Gewinn von dieser Zuwendung, ohne Groll, gern gewährend, du Böckefahrer, uns, die wir nach Auszeichnungen verlangen, du Böckefahrer. Wir wollen dich fein herlenken mit gelungenen Lobliedern, du Meister. Denn ich erachte dich nicht zu gering, o ......, noch verleugne ich deine Freundschaft.
Будь при нас, чтобы легко добыть это (богатство),
Негневливый, дарящий, о тот, у кого козлы – кони,
(При нас,) жаждущих славы, о тот, у кого козлы – кони!
Мы хотим легко обратить тебя сюда
Восхвалениями, идущими к цели, о чудесный!
Ведь я не пренебрегаю тобой, о Пушан жгучий,
Не отклоняю твоей дружбы.