ऐभि॑रग्ने॒ दुवो॒ गिरो॒ विश्वे॑भि॒: सोम॑पीतये । दे॒वेभि॑र्याहि॒ यक्षि॑ च ॥
आ । ए॒भिः॒ । अ॒ग्ने॒ । दुवः॑ । गिरः॑ । विश्वे॑भिः । सोम॑ऽपीतये । दे॒वेभिः॑ । या॒हि॒ । यक्षि॑ । च॒ ॥
हे अग्ने एभिः अस्मिन् यज्ञे संभावितैः विश्वेभिः देवेभिः सर्वैर्देवैः सह सोमपीतये सोमपानोपेतयागार्थं दुवः अस्मदीयां परिचर्यां गिरः अस्मदीयाः स्तुतीश्च प्रति आ याहि आगच्छ । यक्षि च आगत्य यज च ॥ एभिः । पूर्वनिर्दिष्टानां देवानाम् इदमा परामर्शात् इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ' इति अश् अनुदात्तः । शित्त्वात् सर्वादेशः । ‘ नेदमदसोरकोः ' ( पा. सू. ७. १. ११ ) इति भिस ऐसादेशाभावः । विभक्तिरनुदात्तैव । न च ‘ उडिदम् °' इत्यादिना विभक्तेरुदात्तत्वं तत्र ‘ अन्तोदात्तात् ' ( पा. सू. ६. १. १६९) इत्यधिकारात् । दुवः । ‘ नब्विषयस्यानिसन्तस्य' (फि. सू. २६ ) इत्याद्युदात्तत्वम् । विश्वेभिः । विश्वशब्दो विशेः क्वनन्तः नित्त्वादाद्युदात्तः । ‘ बहुलं छन्दसि ' (पा. सू. ७. १. १० ) इति भिस ऐस् न भवति । ‘ बहुवचने झल्येत् ' ( पा. सू. ७. ३. १०३ ) इति एत्वम् । सोमपीतये । सोमशब्दः ‘अर्तिस्तुसु' (उ. सू. १. १३७) इत्यादिना मनन्तो नित्त्वादाद्युदात्तः । सोमस्य पीतिर्यस्मिन् यागे स सोमपीतिः । तस्मै । तादर्थ्ये चतुर्थी । देवेभिः । ‘ बहुलं छन्दसि ' इति भिस ऐसादेशाभावः । ‘ बहुवचने झल्येत् ' इति एत्वम् । यक्षि। यजेर्लोट: सिप् । बहुलं छन्दसि ' ( पा. सू. २. ४. ७३ ) इति शपो लुक् । व्रश्चादिना षत्वम् । ‘ षढोः कः सि' (पा. सू. ८. २. ४१ ) इति कत्वम् । सेर्हिरादेशश्छान्दसत्वात् न भवति । सिपः पित्त्वेनानुदात्तत्वात् धातुस्वर एव ॥
“Come, Agni, to our adoration, and to our praises, with all these gods, to drink the Soma juice; and (do you) offer sacrifice.”
To drink the Soma, Agni, come, to our service and our songs.
With all these Gods; and worship them.
With these, o Agni, hither to friendly service, to hymns—with all (of them), for soma-drinking—
with the gods, come and perform sacrifice.
Mit diesen Göttern allen komm, o Agni, her zum Somatrunk, Zu Lied und Opfer, ehre sie.
Mit all diesen Göttern komm, Agni, zu unserem Eifer, zu den Lobreden herbei; um Soma zu trinken, vollziehe die Opferweihe!
Приди, о Агни, для почетного дара (и) песен
С этими Всеми-Богами на питье сомы
И принеси жертву!
आ त्वा॒ कण्वा॑ अहूषत गृ॒णन्ति॑ विप्र ते॒ धिय॑: । दे॒वेभि॑रग्न॒ आ ग॑हि ॥
आ । त्वा॒ । कण्वाः॑ । अ॒हू॒ष॒त॒ । गृ॒णन्ति॑ । वि॒प्र॒ । ते॒ । धियः॑ । दे॒वेभिः॑ अ॒ग्ने॒ । आ । ग॒हि॒ ॥
हे विप्र मेधाविन् अग्ने कण्वाः मेधाविन ऋत्विजः त्वा यज्ञनिष्पादकं त्वाम् आ अहूषत आह्वयन्ति । तथा ते धियः त्वदीयानि कर्माणि गृणन्ति कथयन्ति । ततो हे अग्ने देवेभिः देवैः सह आ गहि आगच्छ। ‘ विप्रः' इत्यादिषु चतुर्विंशतिसंख्याकेषु मेधाविनामसु कण्वः ऋभुः' (नि. ३. १५. ७ ) इति पठितम् ॥ त्वा । त्वामौ द्वितीयायाः' (पा. सू. ८. १. २३) इति त्वादेशः सर्वानुदात्तः । कण्वाः। कण शब्दार्थः । ‘ अशिप्रुषिलटिकणिखटि' ( उ. सू. १. १४९) इत्यादिना क्वन् । नित्त्वादाद्युदात्तः । अहूषत । “ ह्वेञ् स्पर्धायां शब्दे च'। ‘ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लुङ् । ञित्त्वादात्मनेपदं झः । ‘ आत्मनेपदेष्वनतः' (पा. सू. ७. १. ५) इति अदादेशः । च्लेः सिच। एकाचः० ' ( पा. सू. ७. २. १०) इति इट्प्रतिषेधः । ‘ बहुलं छन्दसि ' इति संप्रसारणं परपूर्वत्वम् । हलः' ( पा. सू. ६. ४. २ ) इति दीर्घत्वम् ।' आदेशप्रत्यययोः ' ( पा. सू. ८. ३. ५९ ) इति षत्वम् । छान्दसत्वात् ऊकारस्य न गुणः । अडागमः। गृणन्ति ।' गॄ शब्दे'। लट् । झि । ‘ झोऽन्तः । ‘क्र्यादिभ्यः श्ना' । ‘ प्वादीनां ह्रस्वः' (पा. सू. ७. ३. ८० ) इति धातोर्ह्रस्वत्वम् ॥ ‘ श्नाभ्यस्तयोरातः ' ( पा. सू. ६. ४. ११२ ) इति आकारलोपः । ऋवर्णाच्चेति वक्तव्यम् ' ( का. ८. ४. १. १ ) इति णत्वम् । तिङः स्वर एव शिष्यते । विप्र । आमन्त्रितनिघातः । ते । अनुदात्तम्' इत्यनुवृत्तौ ‘ तेमयावेकवचनस्य ' ( पा. सू. ८. १. २२ ) इति षष्ठ्याः ते इति आदेशः । देवेभिः । छान्दस ऐसभावः । गहि ।' गम्लृ सृप्लृ गतौ ' । लोटः सिप् । ‘सेर्हयपिच्च'। कर्तरि शप्' । तस्य ‘ बहुलं छन्दसि ' इति लुक् । अनुदात्तोपदेश' ( पा. सू. ६. ४. ३७ ) इत्यादिना मकारलोपः । तस्य असिद्धवदत्रा भात् ' ( पा. सू. ६. ४. २२ ) इति असिद्धत्वात् ' अतो हेः ' ( पा. सू. ६. ४. १०५) इति हेर्लुक् न भवति ॥
“The kaṇvās (=medhāvinaḥ or sages; ṛtvija or officiating priests) invoke you, sapient Agni, and extol your deeds; come, Agni, Agni, with the gods.”
The Kanvas have invoked thee; they, O Singer, sing thee songs of praise
Agni, come hither with the Gods;
The Kaṇvas have called to you; they hymn your insightful thoughts, o inspired poet.
With the gods, o Agni, come hither.
Die Kanva's riefen dich herhei, sie singen, weiser, Lieder dir; Komm, Agni, mit den Göttern her,
Dich haben die Kanva´s herbeigerufen; sie preisen deine weisen Gedanken, du redekundiger. Komm, Agni, mit den Göttern!
Тебя призвали Канвы.
Они поют, о вдохновенный, твои молитвы.
Приди, о Агни, с богами!
इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं॒ भग॑म् । आ॒दि॒त्यान्मारु॑तं ग॒णम् ॥
इ॒न्द्र॒वा॒यू इति॑ । बृह॒स्पति॑म् । मि॒त्रा । अ॒ग्निम् । पू॒षण॑म् । भग॑म् । आ॒दि॒त्यान् । मारु॑तम् । ग॒णम् ॥
इन्द्रादिदेवान् मारुतं मरुतां वायूनां संबन्धिनं गणं च हे अग्ने यक्षि इति पदद्वयमनुवर्तते ॥ इन्द्रश्च वायुश्च इन्द्रवायू ।' देवताद्वन्द्वे च ' (पा. सू. ६. ३. २६ ) इति प्राप्तस्य आनङः ‘ उभयत्र वायोः प्रतिषेधो वक्तव्यः' (पा. सू. ६. ३. २६. १ ) इति प्रतिषेधः। ‘ देवताद्वन्द्वे च' (पा. सू. ६. २. १४१ ) इति प्राप्तस्योभयपदप्रकृतिस्वरस्य ‘नोत्तरपदेऽनुदात्तादौ ' ( पा. सू. ६. २. १४२ ) इति निषेधः । समासान्तोदात्तत्वमेव । बृहस्पतिम् । तद्बृहतोः करपत्योश्चौरदेवतयोरभिधेययोः सुट् तलोपो वक्तव्यः' (पा. म. ६. १. १५७ ) इति तलोपः सुडागमश्च । बृहच्छब्दमाद्युदात्तं केचित् वर्णयन्तीति वामनः । ‘ पा रक्षणे '। पातीति पतिः ।' पातेर्डतिः' (उ. सू. ४. ४९७ )। प्रत्ययस्वरेणाद्युदात्तः । समासे ‘ उभे वनस्पत्यादिषु युगपत् ' ( पा. सू. ६. २. १४० ) इति उभयपदप्रकृतिस्वरत्वम् । मित्रा । द्वितीयायाः ‘सुपां सुलुक् ' ( पा. सू. ७. १. ३९ ) इत्यादिना विभक्तेः आजादेशः । आदित्यान् । अदितेरपत्यानि आदित्याः । ‘दित्यदित्यादित्यपत्युत्तरपदण्ण्यः ' (पा. सू. ४. १. ८५)। प्रत्ययस्वरः । मारुतम् । मरुतां विकारः । ‘अनुदात्तादेश्च'। (पा. सू. ४. ३. १४० ) इति अञ् । ञित्वादाद्युदात्तः ॥
“Sacrifice (Agni), to Indra, Vāyu, Bṛhaspati, Mitra, Agni, Pūṣan and Bhaga, the Ādityas, and the troop of Maruts.”
Indra, Vayu, Brhaspati, Mitra, Agni, Pusan, Bhaga,
Adityas, and the Marut host.
Indra and Vāyu, Br̥haspati, Mitra (and Varuṇa), Agni, Pūṣan, Bhaga, the Ādityas, the Marutian flock (have the Kaṇvas called).
Indra, Vaju, Brihaspati, Mitra, Agni, Puschan, Bhaga, Aditja's und die Marutschar,
Indra und Vayu, Brihaspati, Mitra und Varuna, Agni, Pusan, Bhaga, die Adityas, die Marutschar -
Индру-Ваю, Брихаспати,
Митру (Варуну), Агни, Пушана, Бхагу,
Адитьев, толпу Марутов (приведи сюда!)
प्र वो॑ भ्रियन्त॒ इन्द॑वो मत्स॒रा मा॑दयि॒ष्णव॑: । द्र॒प्सा मध्व॑श्चमू॒षद॑: ॥
प्र । वः॒ । भ्रि॒य॒न्ते॒ । इन्द॑वः । म॒त्स॒राः । मा॒द॒यि॒ष्णवः॑ । द्र॒प्साः । मध्वः॑ । च॒मू॒ऽसदः॑ ॥
हे इन्द्रादिदेवाः वः युष्मदर्थम् इन्दवः सोमाः प्र भ्रियन्ते प्रकर्षेण संपाद्यन्ते । कीदृशाः । मत्सराः तृप्तिकराः । ‘ मत्सरः सोमो मन्दतेस्तृप्तिकर्मणः' ( निरु. २. ५) इति यास्कः । मादयिष्णवः हर्षहेतवः द्रप्साः बिन्दुरूपाः मध्वः मधुराः 'चमूषदः चमूषु चमसादिपात्रेष्व्यवस्थिताः। प्र। 'व्यवहिताश्च ( पा. सू. १. ४. ८२ ) इति व्यवहितप्रयोगः । भ्रियन्ते । भृञो यकि ‘ रिङशयग्लिङ्लक्षु' (पा. सू. ७. ४. २८) इति रिङादेशः । हृञो वा । 'हृग्रहोर्भश्छन्दसि ' ( पा. सू. ८. २. ३२. १ ) इति हकारस्य भकारः । इन्दवः ।' उन्दी क्लेदने । उन्दन्ति पात्राणीति । ‘ नित् । इत्यनुवृत्तौ ‘ उन्देरिच्चादेः ' (उ. सू. १. १२) इति उप्रत्ययः आदेः इकारश्च । नित्त्वादाद्युदात्तः। मत्सराः । ‘ मद तृप्तियोगे'। चित्' इत्यनुवृत्तौ ‘कृधूमदिभ्यः कित्' ( उ. सू. ३. ३५३ ) इति सरप्रत्ययः । ‘ तितुत्रतथसिसुसरकसेषु च ' ( पा. सू. ७. २. ९ ) इति इट्प्रतिषेधः । चित्त्वादन्तोदात्तः । मादयिष्णवः । ‘ मदी हर्षग्लेपनयोः । मदेर्ण्यन्तात् “ णेश्छन्दसि' (पा. सू. ३. २. १३७ ) इति इष्णुच् । णेरनिटि ' ( पा. सू. ६. ४. ५१ ) इति णिलोपे प्राप्ते ‘अयामन्ताल्वाय्येल्विष्णुषु । (पा. सू. ६. ४. ५५ ) इति अयादेशः । चित्त्वादन्तोदात्तः । मध्वः । मधुशब्द आद्युदात्त उक्तः । मधुशव्दस्य व्यत्ययेन पुंलिङ्गत्वम्। संज्ञापूर्वको विधिरनित्यः' इति ‘जसि च ' (पा. सू. ७. ३.१०९) इति गुणो न भवति । चमूषदः । ‘ चमु छमु जमु झमु अदने । चम्यते भक्ष्यते येषु चमसेषु ते चम्वः । ‘ कृपिचमि° ' ( उ. सू. १. ८१ ) इत्यादिना ऊः । तत्र सीदन्तीति चमूषदः । ‘ सत्सूद्विष० (पा.सू.. . ३. २. ६१) इत्यादिना क्विप् । सुषमादेः आकृतिगणत्वात् षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम्॥
“For all of you are poured out these juices, satisfying, exhilarating, sweet, falling in drops, or gathered in ladles.”
For you these juices are poured forth that gladden and exhilarate,
The meath-drops resting in the cup.
The drops are brought forward for you (all)—the invigorating,
exhilarating
droplets of honey sitting in the cups.
Euch werden Indu's dargebracht, erfreuende, berauschende, In Bechern süsse Tropfen auch.
Für euch werden die ergötzenden, berauschenden Tränke aufgetragen, die Tropfen des Honigtrankes, die in den Gefäßen sitzen.
Приносятся вам соки сомы,
Пьянящие, опьяняющие,
Капли меда, осевшие в сосудах.
ईळ॑ते॒ त्वाम॑व॒स्यव॒: कण्वा॑सो वृ॒क्तब॑र्हिषः । ह॒विष्म॑न्तो अरं॒कृत॑: ॥
ईळ॑ते । त्वाम् । अ॒व॒स्यवः॑ । कण्वा॑सः । वृ॒क्तऽब॑र्हिषः । ह॒विष्म॑न्तः । अ॒र॒म्ऽकृतः॑ ॥
हे अग्ने त्वाम् ईळते ऋत्विजः स्तुवन्ति । कीदृशाः । अवस्यवः । अवनं रक्षणं तद्धेतून् देवानिच्छन्तः । कण्वासः मेधाविनः वृक्तबर्हिषः आस्तरणार्थं छिन्नदर्भाः हविष्मन्तः हविर्युक्ताः अरंकृतः अलंकर्तारः ॥ ईळते । ‘ ईड स्तुतौ । अनुदात्तेत्त्वात् लटो झः । ‘ अदिप्रभृतिभ्यः शपः । इति शपो लुक् । झस्य अदादेशः । टेः एत्वम् । ' तास्यनुदात्तेत् ° ' (पा. सू. ६. १. १८६) इत्यादिना लसार्वधातुकस्यानुदात्तत्वात् धातुस्वर एव शिष्यते । अवस्यवः । अवन्तीत्यवा देवाः । तानतिशयेनेच्छन्ति । ‘सुप आत्मनः क्यच् । ‘ क्यचि च' (पा. सू. ७. ४. ३३) इति ईत्वं न भवति । ‘ न च्छन्दस्यपुत्रस्य' (पा. सू. ७. ४. ३५) इति निषेधात् । ‘ सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्यः' ( पा. म. ७. १. ५१. २) इति सुक् । ‘ क्याच्छन्दसि ' ( पा. सू. ३. २. १७०) इति उप्रत्ययः । अतो लोपः । प्रत्ययस्वरेणान्तोदात्तत्वम् । कण्वासः । कण शब्दार्थः । कणन्ति ध्वनन्ति स्तोत्रादिपाठेनेति कण्वा ऋत्विजः । ‘ अशिप्रुषि° ' ( उ. सू. १. १४९ ) इत्यादिना क्वन् । नित्त्वादाद्युदात्तः । ‘ आज्जसेरसुक् ' (पा. सू. ७. १. ५० ) इति असुक् । वृक्तबर्हिषः । वृक्तम् उक्तम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हविष्मन्तः । हविरेषामस्तीति हविष्मन्तः । तसौ मत्वर्थे ' (पा. सू. १. ४. १९ ) इति भत्वेन अपदत्वात् न रुत्वम् । अरंकृतः । अलंकुर्वन्तीत्यरंकृतः । ‘ क्विप् च ' इति । क्विप् । ह्रस्वस्य तुक् । 'कपिलकादीनां संज्ञाच्छन्दसोर्वा लो रत्वमापद्यते ' ( पा. म. ८. २. १८) इति लकारस्य रेफादेशः ॥
“The wise priests desirous of the protection (of the gods) having spread the sacred grass, presenting oblations, and offering ornaments, praise you.”
The sons of Kanva fain for help adore thee, having strewn the grass,
With offerings and all things prepared.
Seeking aid they solemnly invoke you, (o Agni)—the Kaṇvas with their twisted ritual grass
and their oblations, as they make fit preparations.
Es flehn zu dir voll Hülfsbegier die Kanva's, die die Streu geschmückt, Sie dienen dir mit Opferguss.
Dich rufen die Kanva´s um Gunst bittend; sie haben das Barhis herumgelegt, Spenden bringend, das Opfer rüstend.
Призывают тебя ищущие поддержки
Канвы, разложившие жертвенную солому,
Совершающие возлияния, приготовившие (жертву).
घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वह॑न्ति॒ वह्न॑यः । आ दे॒वान्त्सोम॑पीतये ॥
घृ॒तऽपृ॑ष्ठाः । मनः॒ऽयुजः॑ । ये । त्वा॒ । वह॑न्ति । वह्न॑यः । आ । दे॒वान् । सोम॑ऽपीतये ॥
हे अग्ने त्वा त्वां ये अश्वाः रथेन वहन्ति । कीदृशाः । घृतपृष्ठाः पुष्टाङ्गत्वेन दीप्तपृष्ठाः मनोयुजः मनःसंकल्पमात्रेण रथे युज्यमानाः वह्नयः वोढारः तैरश्वैः सोमपीतये सोमपानहेतुयागार्थं देवान् आ वह इति शेषः ॥ घृतपृष्ठाः । ‘ घृ क्षरणदीप्त्योः । घृतं दीप्तं पृष्ठं येषां ते घृतपृष्ठाः ॥ घृतशब्दः प्रत्ययस्वरेणान्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । मनसा युञ्जते इति मनोयुजः । ‘ ऋत्विग्दधृक् ' ( पा. सू. ३. २. ५९ ) इत्यादिना क्विन् । कृदुत्तरपदप्रकृतिस्वरत्वम् । त्वा । ‘ त्वामौ द्वितीयायाः' इत्यनुदात्तः त्वादेशः । वहन्ति । शप्तिङोरनुदात्तत्वात् धातुस्वरः । यद्वृत्तयोगात् निघाताभावः । वह्नयः । ‘ निः' ( उ. सू. ४. ४८८ ) इत्यनुवृत्तौ ‘ वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ' ( उ. सू. ४. ४९१ ) इति निप्रत्ययः । तस्य नित्त्वादाद्युदात्तत्वम् । सोमपीतये । उक्तम् । सकारे परतो नकारस्य संहितायां • नश्च' (पा. सू. ८. ३. ३०) इति धुडागमः। ‘ खरि च ' (पा. सू. ८. ४. ५५ ) इति चर्त्वम् । ‘चयो द्वितीयाः शरि पौष्करसादेः' (पा. सू. ८. ४. ४८. ३ ) इति द्वितीयस्थकारः ॥ ॥ २६ ॥
“Let the coursers who convey you, glossy-backed, and harnessed at will, bring the gods to drink the Soma juice.”
Let the swift steeds who carry thee, thought-yoked and dropping holy oil,
Bring the Gods to the Soma draught.
Ghee-backed, yoked with mind are the draft-horses that draw you and the gods here to drink the soma.
Die geistgeschirrte Rosseschar, die fettbedeckt empor dich fährt, Die bring die Götter her zum Trunk.
Die schmalzrückigen, durch den bloßen Gedanken geschirrten Fahrrosse, die dich fahren, mögen die Götter zum Somatrunk herfahren.
Жирноспинные, запрягаемые мыслью
Кони, что возят тебя,
(Пусть) при (везут) богов для питья сомы!
तान्यज॑त्राँ ऋता॒वृधोऽग्ने॒ पत्नी॑वतस्कृधि । मध्व॑: सुजिह्व पायय ॥
तान् । यज॑त्रान् । ऋ॒त॒ऽवृधः॑ । अग्ने॑ । पत्नी॑ऽवतः । कृ॒धि॒ । मध्वः॑ । सु॒ऽजि॒ह्व॒ । पा॒य॒य॒ ॥
हे अग्ने तान् इन्द्रादीन् देवान् यजत्रान् यजनीयान् ऋतावृधः सत्यस्य यज्ञस्य वा वर्धकान् पत्नीवतः पत्नीयुक्तान् कृधि कुरु । हे सुजिह्व शोभनजिह्वोपेत मध्वः मधुरस्य सोमस्य भागं देवान् पायय ॥ यजत्रान् । ‘ अमिनक्षियजिबन्धिपतिभ्योऽत्रन् ' ( उ. सू. ३. ३८५) इति यजेः अत्रन् प्रत्ययः । ऋतावृधः । ‘ वृधु वृद्धौ ' । अन्तर्भावितण्यर्थात् ' क्विप् च ' ( पा. सू. ३. २. ७६ ) इति क्विप् । अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति पूर्वपदस्य दीर्घत्वम् । वृधेर्धातुस्वरः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । अग्ने । पादादित्वात् नामन्त्रितनिघातः । षाष्ठिकमाद्युदात्तत्वम् । पत्नीवतः । ‘ पत्युर्नो यज्ञसंयोगे' (पा. सू. ४. १. ३३) इति ङीप्; इकारस्य च नकारः । ता एषां सन्तीति मतुप् । छन्दसीरः ' ( पा. सू. ८. २. १५) इति वत्वम् । पतिशब्दो डतिप्रत्ययान्तत्वादाद्युदात्तः । ङीम्मतुपोरनुदात्तत्वात् स एव शिष्यते । कृधि । कृञो लोटः सिः । ‘ सेर्ह्यपिच्च ' ( पा. सू. ३. ४. ८७ ) इति हिः । ‘ बहुलं छन्दसि' इति विकरणलुक् । ' श्रुशृणुपृकृवृभ्यश्छन्दसि' ( पा. सू. ६. ४. १०२ ) इति हेर्धिरादेशः । ङित्त्वाद्गुणाभावः । मध्वः। उक्तम् । सुजिह्व । आमन्त्रितनिघातः । पायय । पा पाने '। पिबन्तं प्रयुङ्क्ते इति ' हेतुमति च ' ( पा. सू. ३. १. २६ ) इति णिच् । ‘ शाच्छासाह्वाव्यावेपां युक्' (पा. सू. ७. ३. ३७) इति युक्। पूर्वस्यामन्त्रितस्य अविद्यमानवत्वम् । अत एव अव्यवधायकत्वात् मध्व इत्यपेक्ष्य “ तिङ्तितसङः' इति निघातः ॥
“Agni, make those objects of veneration, augmenters of pious acts, (participant of the offering), together with their wives; give them, bright-tongued, to drink of the Soma juice.”
Adored, the strengtheners of Law, unite them, Agni, with their Dames:
Make them drink meath, O bright of tongue.
Those (gods) deserving the sacrifice, strong through truth—bring them here along with their wives, Agni.
Make them drink of the honey, you of good tongue.
Vereine, Agni, mit den Fraun die opferwerthen, heiligen, Schönzung'ger tränke sie mit Meth.
Die Opferwürdigen, die Wahrheitsmehrer mache beweibt, Agni; gib Ihnen, Schönzungiger, vom Süßtrank zu trinken!
Этим достойным жертвы, умножающим космический закон,
О Агни, дай в спутницы жен,
Напои (их) о прекрасноязыкий, медом!
ये यज॑त्रा॒ य ईड्या॒स्ते ते॑ पिबन्तु जि॒ह्वया॑ । मधो॑रग्ने॒ वष॑ट्कृति ॥
ये । यज॑त्राः । ये । ईड्याः॑ । ते । ते॒ । पि॒ब॒न्तु॒ । जि॒ह्वया॑ । मधोः॑ । अ॒ग्ने॒ । वष॑ट्ऽकृति ॥
ये देवाः यजत्राः यष्टव्याः तथा ये देवाः ईड्याः स्तुत्याः ते सर्वेऽपि वषट्कृति वषट्कारकाले वषट्कारयुक्ते यागे वा हे अग्ने ते त्वदीयया जिह्वया मधोः मधुरस्य सोमस्य भागं पिबन्तु । यजत्राः । गतम् । ईड्याः । ‘ ईड स्तुतौ ।' ऋहलोर्ण्यत् । तित्स्वरिते प्राप्ते ईडवन्दवृशंसदुहां ण्यतः (पा. सू. ६. १. २१४ ) इत्याद्युदात्तत्वम् । द्वितीयस्य तेशब्दस्य युष्मदादेशस्य सर्वानुदात्तत्वम् । मधोः । उप्रत्ययस्य नित्वादाद्युदात्तत्वमुक्तम् । अग्ने । आमन्त्रितनिघातः । वषट्कृति । करोतेः संपदादिभ्यो भावे क्विप् । वषट् इत्यस्य करणं यस्मिन् यागे इति बहुव्रीहिः। वषट् इत्यस्य निपातत्वदाद्युदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“Let those objects of veneration and of praise, drink with your tongue, of the Soma juice, at the moment of libation.”
Let them, O Agni, who deserve worship and praise drink with thy tongue
The meath in solemn sacrifice.
Those who deserve the sacrifice, who are to be invoked, let them drink with your tongue
of the honey, when the vaṣaṭ-call is made, o Agni.
Die opferwerth, die preisenswerth, lass trinken sie durch deinen Mund vom Meth, o Agni, bei dem Werk.
Die Opferwürdigen, die Anzurufenden, die sollen mit deiner Zunge von dem Süßtrank unter Vasatruf trinken, o Agni.
Кто достоин жертв, кого призываем,
Все они (твоим) языком пусть напьются
Меду, о Агни, под возглас Вашат!
आकीं॒ सूर्य॑स्य रोच॒नाद्विश्वा॑न्दे॒वाँ उ॑ष॒र्बुध॑: । विप्रो॒ होते॒ह व॑क्षति ॥
आकी॑म् । सूर्य॑स्य । रो॒च॒नात् । विश्वा॑न् । दे॒वान् । उ॒षः॒ऽबुधः॑ । विप्रः॑ । होता॑ । इ॒ह । व॒क्ष॒ति॒ ॥
विप्रः मेधावी होता होमनिष्पादकोऽग्निः उषर्बुधः उषःकाले योगगमनाय प्रबुध्यमानान् विश्वान् देवान सूर्यस्य संबन्धिनः रोचनात् स्वर्गलोकात् इह कर्मणि आकीं वक्षति आवहतु॥ आकीम् । निपात आद्युदात्तः । सूर्यस्य । सूर्यशब्दो ‘ राजसूयसूर्य° ' ( पा. सू. ३. १. ११४ ) इत्यादिना क्यप्प्रत्ययान्तो निपातितः । क्यपः पित्त्वात् धातुस्वरेणाद्युदात्तः । रोचनात् रोचमानात् । “ रुच दीप्तौ ' । ‘अनुदात्तेतश्च हलादेः' (पा. सू. ३. २. १४९ ) इति कर्तरि युच् । चितः' इत्यन्तोदात्तत्वम् । विश्वान् । विशेः क्वनन्तो नित्त्वादाद्युदात्तः । उपर्बुधः। उषर्बुध्यन्ते इत्युषर्बुधः। ‘क्विप् च' (पा. सू. ३. २. ७६ ) इति क्विप् । धातुस्वरेण उकार उदात्तः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । विप्रः । ‘ऋज़ेन्द्र ' ( उ. सू. २. १८६ ) इत्यादिना रन् । नित्वादाद्युदात्तः । होता । ह्वयतेस्ताच्छील्ये तृन् । ‘बहुलं छन्दसि ' इति संप्रसारणम् । परपूर्वत्वम् । गुणः । नित्त्वादाद्युदात्तः । इह । ‘ इदमो हः ' ( पा. सू. ५. ३. ११ ) इति हप्रत्ययः । इदम इश् ' ( पा. सू. ५. ३. ३) इति इश् । शित्त्वात् सर्वादेशः । प्रत्ययस्वरः । वक्षति। वहेः प्रार्थनायां लिङर्थे लेट् । तस्य तिप्। कर्तरि शप् । शपि परतः ‘ सिब्बहुलं लेटि' ( पा. सू. ३. १. ३४) इति सिप् । ढत्वकत्वषत्वानि। ‘तिङ्ङतिङः' इति निघातः ॥
“Let the wise invoker (of the gods) bring hither from the shining (sphere) of the sun, all the divinities awaking with the dawn.”
Away, from the Sun's realm of light, the wise invoking Priest shall bring
All Gods awaking with the dawn.
The inspired poet, the Hotar, will convey all the gods awakening at dawn hither from the luminous realm of the sun.
Der weise Priester fahre her vom Raume, wo die Sonne glänzt, Die früh erwachten Götter all.
Von der Lichtwelt der Sonne möge der redekundige Hotri alle frühwachen Götter hierher fahren.
Из светлого пространства солнца
Всех рано пробуждающихся богов
Пусть привезет сюда вдохновенный хотар!
विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑ । पिबा॑ मि॒त्रस्य॒ धाम॑भिः ॥
विश्वे॑भिः । सो॒म्यम् । मधु॑ । अग्ने॑ । इन्द्रे॑ण । वा॒युना॑ । पिब॑ । मि॒त्रस्य॑ । धाम॑ऽभिः ॥
हे अग्ने त्वं विश्वेभिः सर्वैः पूषभगादिभिर्देवैः इन्द्रेण वायुना मित्रस्य संबन्धिभिः धामभिः तेजोभिमूर्तिविशेषरूपैश्च सह सोम्यं सोमसंबन्धि मधु मधुरं भागं पिब ॥ विश्वेभिः । ‘ बहुलं छन्दसि ' ( पा. सू. ७. १. १०) इति भिस ऐसादेशाभावः । सोम्यम् । सोममर्हति यः' (पा.सू. ४. ४. १३७ ) इत्यनुवृत्तौ ‘मये च ' ( पा. सू. ४. ४. १३८ ) इति यप्रत्ययः सोमस्य विकार इत्यर्थे । यस्येति च ' ( पा. सू. ६. ४. १४८ ) इति अकारलोपः । प्रत्ययस्वरः । मधु । ‘फलि. पाटिनमिमनि° ' ( उ. सू. १. १८) इत्यादिना उप्रत्ययः । ‘ नित्' इत्यनुवृत्तेः नित्त्वादाद्युदात्तः । वायुना । ‘ कृवापाजि° ' ( उ. सू. १. १ ) इत्यादिना उण् । ‘आतो युक् चिण्कृतोः ' (पा. सू. ७. ३. ३३ ) इति युक् । प्रत्ययस्वरः । पिब । ‘पा पाने'। लोटः सेर्हिरादेशः । शपि ‘पाघ्रा ' (पा.सू. ७. ३. ७८ ) इत्यादिना पिबादेशः । अतो हेः ' ( पा. सू. ६. ४. १०५ ) इति हेर्लुक् । शपः पित्त्वात् धातुस्वरः। पादादित्वात् न निघातः । द्व्यचोऽतस्तिङः ' (पा. सू. ६. ३. १३५) इति संहितायां दीर्घः । धामभिः । धाञ् । ‘ आतो मनिन् ' (पा. सू. ३. २. ७४) इति मनिन् । नित्स्वरः ॥
“With all the gods, with Indra, Vāyu and the glories (rays) of Mitra (= various forms of Mitra), drink, Agni the sweet Soma juice.”
With all the Gods, with Indra, with Vayu, and Mitra's splendours, drink,
Agni, the pleasant Soma juice.
With all (the gods), o Agni, with Indra and with Vāyu, drink the somian honey
according to the ordinances of alliance.
Den süssen Soma, Agni, trink mit allen Göttern, mit dem Wind, Mit Indra und des Mitra Schar.
Mit allen Verkörperungen des Mitra der Freundschaft, mit Indra, Vayu trink, Agni, den somischen Honigtrank!
Со всеми (богами) мед сомы
О Агни, с Индрой, с Ваю,
Пей по установлениям Митры!
त्वं होता॒ मनु॑र्हि॒तोऽग्ने॑ य॒ज्ञेषु॑ सीदसि । सेमं नो॑ अध्व॒रं य॑ज ॥
त्वम् । होता॑ । मनुः॑ऽहितः । अग्ने॑ । य॒ज्ञेषु॑ । सी॒द॒सि॒ । सः । इ॒मम् । नः॒ । अ॒ध्व॒रम् । य॒ज॒ ॥
हे अग्ने मनुर्हितः मनुषा होत्रादिरूपेण मनुष्येण हितः संपादितः होता होमनिष्पादको यः त्वं यज्ञेषु सीदसि तिष्ठसि सः त्वं नः अस्मदीयम् इमम् अध्वरं यज्ञं यज निष्पादय ॥ मनुर्हितः । मन्यते इति मनुः । निच्च ' ( उ. सू. २. २७४ ) इत्यनुवृत्तौ ‘ बहुलमन्यत्रापि ' ( उ. सू, २. २७८) उस् । नित्त्वादाद्युदात्तः । हितः । धाञो धातोः ‘ निष्ठा ' इति क्तप्रत्ययः । ‘ दधातेर्हिः' (पा. सू. ७. ४. ४२ ) इति हिरादेशः । मनुषा हितो मनुर्हितः । ‘ कर्तृकरणे कृता बहुलम् ' (पा.सू. २. १. ३२) इति समासः । कृत्स्वरापवादेन तृतीया कर्मणि ' ( पा. सू. ६. २. ४८) इति पूर्वपदप्रकृतिस्वरत्वम् । सीदसि । ‘षद्लृ विशरणगत्यवसादनेषु '। लटः सिप् । शपि • पाघ्राध्मा° ' ( पा. सू. ७. ३. ७८ ) इत्यादिना सीदादेशः । निघातः । सेममित्यत्र संहितायां ' सोऽचि लोपे चेत्पादपूरणम् ' ( पा. सू. ६. १. १३४ ) इति सोर्लोपे गुणः । अध्वरम् । न विद्यते ध्वरो हिंसा यस्मिन् सोऽध्वरः । नञ्सुभ्याम् ' ( पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वम् । ‘नो अध्वरम्' इत्यत्र संहितायाम् “ एङः पदान्तादति ' ( पा. सू. ६. १. १०९ ) इति पूर्वरूपं प्राप्तं ' प्रकृत्यान्तःपादमव्यपरे' (पा. सू. ६. १. ११५) इति प्रकृतिभावात् निवर्तते ।
“Your, Agni appointed by man as the invoker (of the gods) are present at sacrifices; do you present this our oblation.”
Ordained by Manu as our Priest, thou sittest, Agni, at each rite:
Hallow thou this our sacrifice.
As the Hotar installed by Manu, Agni, you sit at the sacrifices.
So perform this rite for us now.
Vom Manus, Agni, eingesetzt als Priester weilst bei Opfern du, Drum weihe dieses Opfer uns.
Von Manu als Hotri eingesetzt nimmst du, Agni, bei den Opfern Platz; weihe du dies Opfer für uns!
Ты как хотар, поставленный Манусом,
О Агни, сидишь на жертвоприношениях.
Почти этот наш обряд!
यु॒क्ष्वा ह्यरु॑षी॒ रथे॑ ह॒रितो॑ देव रो॒हित॑: । ताभि॑र्दे॒वाँ इ॒हा व॑ह ॥
यु॒क्ष्व । हि । अरु॑षीः । रथे॑ । ह॒रितः॑ । दे॒व॒ । रो॒हितः॑ । ताभिः॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ ॥
हे देव अग्ने रोहितः रोहिच्छब्दाभिधेयास्त्वदीया वडवाः रथे युक्ष्व योजय। हिशब्दः पादपूरणार्थः । कीदृशीः । अरुषीः गतिमतीः हरितः हर्तुं रथारूढान् पुरुषान् नेतुं समर्थाः। ताभिः वडवाभिः इह अस्मिन् कर्मणि देवान् आ वह ॥ युक्ष्व ।' युजिर् योगे'। लोट् । स्वरितेत्त्वादात्मनेपदम् ।' थासः से'। 'सवाभ्यां वामौ'। 'रुधादिभ्यः श्नम्। तस्य बाहुलकात् लुक् । कुत्वषत्वे । प्रत्ययस्वरेणान्तोदात्तः । संहितायां ' द्व्यचोऽतस्तिङः ' ( पा. सू. ६. ३. १३५) इति दीर्घः । अरुषीः । ‘ऋ गतौ । रन्ति (?) गच्छन्तीत्यरुष्यो वडवाः। ‘ ऋहनिभ्यामुषन्' (उ. सू. ४. ५१३)। धातोर्गुणो रपरत्वम् । नित्त्वादाद्युदात्तोऽरुषशब्दः । तस्मात् स्त्रियां छान्दसो ङीप् । शसि ‘ प्रथमयोः पूर्वसवर्णः ' ( पा. सू. ६. १. १०२) इति दीर्घः । रथे। रमेः औणादिकः क्थन्प्रत्ययः । नित्त्वादाद्युदात्तः । हरितः । ‘ हृसृरुहियुषिभ्य इतिः ' ( उ. सू. १. ९७ ) इति हरतेः इतिप्रत्ययः । इकारः प्रत्ययस्वरेणोदात्तः । रोहितः । रुहेरपि तेनैव सूत्रेण इतिः । इकारः प्रत्ययस्वरेणोदात्तः । ताभिः। ‘सावेकाचः°' (पा.सू. ६. १. १६८ ) इति विभक्तेः प्राप्तमुदात्तत्वं • साववर्ण ' (पा. सू. ६. १. १८२) इति निषिध्यते । देवान् इत्यत्र पूर्ववत् रुत्वानुनासिकौ ॥ ॥ २७ ॥
“Yoke, divine Agni, your fleet and powerful mares, Rohits (tābhiḥ vaḍavābhiḥ = mares; rohit= red) to your chariott and by them hither bring the gods.”
Harness the Red Mares to thy car, the Bays, O God, the flaming ones:
With those bring hitherward the Gods.
O god, yoke the ruddy (mares) to your chariot, the fallow bays, the chestnuts.
Then with them convey the gods hither.
Schirr an den Wagen dir, o Gott, die rothen Flammenrosse an, Mit denen fahr die Götter her.
So schirr denn, o Gott, deine rötlichen, falben, roten Stuten an den Wagen; mit diesen fahre die Götter hierher!
Запрягай же в колесницу рыжих,
Буланых, о бог, красных кобылиц!
Привози сюда на них богов!