बळि॒त्था तद्वपु॑षे धायि दर्श॒तं दे॒वस्य॒ भर्ग॒: सह॑सो॒ यतो॒ जनि॑ । यदी॒मुप॒ ह्वर॑ते॒ साध॑ते म॒तिॠ॒तस्य॒ धेना॑ अनयन्त स॒स्रुत॑: ॥
बट् । इ॒त्था । तत् । वपु॑षे । धा॒यि॒ । द॒र्श॒तम् । दे॒वस्य॑ । भर्गः॑ । सह॑सः । यतः॑ । जनि॑ । यत् । ई॒म् । उप॑ । ह्वर॑ते । साध॑ते । म॒तिः । ऋ॒तस्य॑ । धेनाः॑ । अ॒न॒य॒न्त॒ । स॒ऽस्रुतः॑ ॥
देवस्य द्योतनशीलस्यादित्यस्य दर्शत सर्वदर्शनीयं तत् प्रसिद्धं भर्गः तेजः इत्था इत्थं सर्वैर्दृश्यमानप्रकारेण वपुषे शरीरव्यवहाराय दार्ढ्याय धायि धार्यते सर्वैः । बट् इत्था इत्युभे अपि सत्यनामनी, ' बट् श्रत् सत्रा इत्था ' (नि. ३. १०. १. ५) इति तन्नामसु पाठात् । जाठराग्निना भुक्तानां जरणेन शरीरधारणं प्रसिद्धम् । तत्रोपपत्तिमाह । यतः सहसः जनि । यतः कारणात् मथनकाले बलेनोत्पन्नः अतो बलाय धार्यते इत्यर्थः। यदीं यदेतत् प्रसिद्धं लोकोपकारि अग्नेस्तेजः मतिः मदीया बुद्धिः उप ह्वरते उपगच्छति उपगम्य वर्तते वा । ह्वृ कौटिल्ये'। साधते च तेनैव तेजसा साधयति स्वाभीष्टम् । किंच ऋतस्य यज्ञसाधकस्याग्नेस्तेजसा धेनाः सर्वप्राणिनां वाचः सस्रुतः समानं गच्छन्त्यः सहैव प्रवर्तमानाः ॥ स्रवतेः कर्तरि क्विप् ॥ अनयन्त नयन्ति निर्वहन्ति जगद्व्यवहारम् ॥ व्यत्ययेनात्मनेपदम् । यद्वा । ऋतस्य धेना यज्ञस्य संबन्धिन्यो मन्त्ररूपा वाचः सस्रुतो होत्रादिमुखेन सहैव प्रवर्तमाना अनयन्त नयन्ति । अग्नेः स्तोत्रं निर्वहन्ति । अग्नेस्तेजसा वा यज्ञं निर्वहन्ति । ‘ तेजोमयी वाक् ' (छा, उ. ६. ५. ४ ) इति श्रुतेः । अतः कारणात् मतिरुपह्वरते इत्यर्थः । धेनेति वाङ्नाम, धेना ग्नाः ' ( नि. १. ११. ३९ ) इति तन्नामसु पाठात् ॥।
“Verily, that visible radiance of the divine (Agni) has been so apprehended (by all, that it may be) for (the support of) the body, for which end it has been genitive rated by (bodily) strength; and that my mind may apprehend and apply (that radiance), they address the sacred prayers associated with oblations (to Agni).”
YEA, verily, the fair effulgence of the God for glory was established, since he sprang from strength.
When he inclines thereto successful is the hymn: the songs of sacrifice have brought him as they flow
Lo, that beautiful splendour of the god, when he was born of strength, has truly come to be a wondrous sight. Though he slinks away 1, the prayer goes straight to him 2. They have led forward the flowing streams of Rita.
Yes, indeed! It is just so: the luster of the god, lovely to see, has been installed for wonder, after he was born of strength.
When he zigzags up to it, our thought goes straight to success. Flowing together, the streams of truth have led (him).
Es ist fürwahr des Gottes schöne Glanzgestalt zur Zier gesetzt, seitdem er aus der Kraft entsprang; Gebet, es kommt, auch wenn es fehlgeht, doch zum Ziel, des Opfers Kühe lenkten ihre Ströme her.
Sieh da! Dieser Glanz des Gottes ist zu voller Schönheit sichtbar geworden, wenn er aus der Kraft geboren ward. Wenn es auch Umwege macht, gelangt das Gedicht doch zum Ziel. Sie leiteten die fließenden Reden der Wahrheit.
Ну вот! На удивление установился этот прекрасный на вид
Отблеск бога, когда он рожден от силы.
Даже если она идет окольными путями, молитва достигает цели.
Они направляли потоки (вселенского) закона, (чтобы те) слились.
पृ॒क्षो वपु॑: पितु॒मान्नित्य॒ आ श॑ये द्वि॒तीय॒मा स॒प्तशि॑वासु मा॒तृषु॑ । तृ॒तीय॑मस्य वृष॒भस्य॑ दो॒हसे॒ दश॑प्रमतिं जनयन्त॒ योष॑णः ॥
पृ॒क्षः । वपुः॑ । पि॒तु॒ऽमान् । नित्यः॑ । आ । श॒ये॒ । द्वि॒तीय॑म् । आ । स॒प्तऽशि॑वासु । मा॒तृषु॑ । तृ॒तीय॑म् । अ॒स्य॒ । वृ॒ष॒भस्य॑ । दो॒हसे॑ । दश॑ऽप्रमतिम् । ज॒न॒य॒न्त॒ । योष॑णः ॥
अयमग्निः पृक्षः अन्नसाधकः पाकादिना वपुः वपुष्मान् शरीराभिवृद्धिहेतुः पितुमान् हविर्लक्षणान्नयुक्तः नित्यः शाश्वतः। ईदृशः सन् प्रथमं पृथिवीस्थानः सन् आ शये आशेते । दाहपाकादि लौकिकं कर्म यज्ञादि वैदिकं कर्म च निर्वर्तयन् ध्रुवो भूमौ वर्तते इत्यर्थः । तथा सप्तशिवासु मातृषु सप्तलोकशिवकरीषु मातृस्थानीयासु हितकरीषु वृष्टिषु द्वितीयम् आ शेते । मध्यमस्थानो विद्युद्रूपो वा वर्तते । अस्य वृषभस्य वर्षितुरस्यैव वैद्युताग्नेः सहायत्वेन संबन्धिने दोहसे दोग्ध्रे आदित्यस्थोदकस्य वर्षयित्रे आदित्यरश्मये । दुहेः कर्तरि असुप्रत्ययः । तत्प्रवृत्तये तृतीयम् आशेते । द्युस्थानो वर्तते । यद्वा । अस्य वृषभस्य वर्षितुः प्रसिद्धस्यादित्यस्य संबन्धिने दोग्ध्रे रश्मये तत्प्रवृत्त्यर्थम् । आदित्यरश्मयो घर्मकाले भूमिस्थमुदकमाकृष्य सूर्यं प्रापय्य तत्र चिरकालं धृत्वा पुनरन्तरिक्षं प्राप्य मेघेषु स्थित्वा वर्षकाले प्रवर्षन्तीति प्रसिद्धम् । अतो रश्मेर्दोग्धृत्वम् । ईदृशं त्रिस्थानमग्निं महाभागं योषणः मिश्रणशीलाः सर्वा दिशः जनयन्त उत्पादयन्ति । सर्वासु दिक्षु प्रसृत इत्यर्थः । कीदृशं तम् । दशप्रमतिम् । दशसु दिक्षु प्रकृष्टमननवन्तं पूज्यत्वाय । यद्वा । मथनकाले दशभिरङ्गुलीभिरुत्पन्नं लोकत्रये दशदिक्षु च व्याप्तमित्यर्थः ॥
“First, he reposes (on the earth) as the digestive (faculty), the embodied, the accepter of food, the eternal secondly, (he dwells) among the seven auspicious mothers (of fertility); thirdly, the associated (regions) genitive rate him, delighting in the ten (quarters) of space, for the sake of milking this showerer (of rain).”
Wonderful, rich in nourishment, he dwells in food; next, in the seven auspicious Mothers is his home.
Thirdly, that they might drain the treasures of the Bull, the maidens brought forth him for whom the ten provide.
The powerful one 1, rich in food, the true (friend of men) has entered the wondrous (body) 2. His second (form of existence) is in the seven kind mothers 3. The ten young females 4 have brought the third (form) of this bull forth, him the guardian, in order to milk him.
Abounding in food, he lies in his own (place) as the wondrous form of nourishment; his second (wondrous form lies) here among the
mothers, sevenfold kindly.
His third (wondrous form, that) of the bull to be milked, have the young women begotten—him of tenfold forethought.
Das Labeross wohnt bei der eigenen Gestalt, die zweite wohnt den sieben holden Müttern bei, Als dritten zeugten, um zu melken diesen Stier, als den Beschützer zehn vereinte Jungfraun ihn.
Der starke, wunderschöne, speisereiche Agni beschläft sie als rechtmäßiger Gatte. Zweitens liegt er in den Siebenholden, seinen Müttern. Drittens erzeugten zu seiner, des Bullen, Melkung ihn die jungen Frauen, der zehn Fürsorgerinnen hat.
Богатый питанием, он ложится (как) близкий на силы наполнения, (его) чудный образ.
Во второй раз (ложится он) на семиждыблагодатных, матерей (своих).
В третий раз, чтобы подоить этого быка,
Юные жены породили (его,) имеющего десять защитников.
निर्यदीं॑ बु॒ध्नान्म॑हि॒षस्य॒ वर्प॑स ईशा॒नास॒: शव॑सा॒ क्रन्त॑ सू॒रय॑: । यदी॒मनु॑ प्र॒दिवो॒ मध्व॑ आध॒वे गुहा॒ सन्तं॑ मात॒रिश्वा॑ मथा॒यति॑ ॥
निः । यत् । ई॒म् । बु॒ध्नात् । म॒हि॒षस्य॑ । वर्प॑सः । ई॒शा॒नासः॑ । शव॑सा । क्रन्त॑ । सू॒रयः॑ । यत् । ई॒म् । अनु॑ । प्र॒ऽदिवः॑ । मध्वः॑ । आ॒ऽध॒वे । गुहा॑ । सन्त॑म् । मा॒त॒रिश्वा॑ । म॒था॒यति॑ ॥
ईम् एनमग्निं यत् यस्मात् कारणात् महिषस्य । महन्नामैतत्, ‘महिषः अभ्वः ऋभुक्षा: ( नि. ३. ३. ८) इति तन्नामसु पाठात् । महतो यज्ञस्य बुध्नात् मूलात् आधानादारभ्य वर्पसः । रूपनामैतत् । रूपस्य उपक्रमोपसंहारात्मकस्य सिद्धये ईशानासः स्वकीयव्यापारसमर्थाः सूरयः मेधाविन ऋत्विजः शवसा बलेन मन्त्रादिरूपेण शारीरेण वा निः क्रन्त निष्कुर्वन्ति साधयन्ति उत्पादयन्ति काष्ठात् । यद्वा । एनमग्निं बुध्नात् आदितो मथनादारभ्य महिषस्य वर्पसो महतो रूपस्य आहुतिस्वीकारसमर्थस्य सिद्धये निष्कुर्वन्ति ॥ करोतेश्छान्दसे लुङि: मन्त्रे घस० ) इति च्लेर्लुक् । व्यत्ययेन अन्तादेशः ॥ किंच यदीम् एनमेवाग्निं प्रदिवः पुराणात् । अनादिकालमारभ्य न केवलमिदानीमेवेत्यर्थः । पूर्ववत् इदानीं मध्वः मधुनो मधुसदृशस्य आधवे आधवने प्रक्षेपे निमित्ते सति गुहा सन्तं गुहायां वेद्यां काष्ठेषु निगूढं सन्तं मातरिश्वा अन्तरिक्षे चेष्टमानो वायुः अनुक्रमेण मथायति चालयति । उद्बोधयतीत्यर्थः । यद्वा । मातरि फलस्य मातरि यागे श्वसिति चेष्टते इति मातरिश्वा यजमानो गुहा सन्तम् अरण्योर्निगूढं सन्तं प्रादुर्भावाय अनुक्रमेण मथायति मथ्नाति उत्पादयतीत्यर्थः । यस्मादेवंरूपस्तस्मात् स्तोतव्य इत्यर्थः ॥
“As powerful priests extract by force (of prayer) this Agni from his primitive seat, (for the evolution) of his mighty form; as the wind arouses him lurking in the hiding-plural ce (of the altar), for the sake of offering oblations now as of old.”
What time from out the deep, from the Steer's wondrous form, the Chiefs who had the power produced him with their strength;
When Matarisvan rubbed forth him who lay concealed, for mixture of the sweet drink, in the days of old.
When the rulers, the liberal lords brought him forth by their power out of the depth, out of the buffalo's shape 1, when from of old 2 at the purification of the sweet drink 3 Mâtarisvan produces the hidden one (i. e. Agni) by attrition—
When the patrons, showing mastery through their power, bring him forth from the depth, from the form of a buffalo,
when Mātariśvan churns him who, as from olden days, is in hiding in the mixing vessel of the honey,
Wenn aus der Tiefe, aus des Büffels Scheingestalt die starken Fürsten ihn erzeugten mit Gewalt, Und wenn vor Alters zu des Trankes Mischung ihn, der im Versteck lag, Matariçvan rieb hervor,
Als ihn die mächtigen Herren von der Tiefe , von der Gestalt des Büffels mit Kraft losmachten, sobald Matarisvan ihn ausreibt, der seit langem im Rührgefäß des Süßtranks verborgen war;
Когда из бездны, из облика быка его
С силой извлекли могучие покровители.
Когда его, спрятанного в течение (многих) дней
В сосуде для смешивания сладкого (сомы), похищает Матаришван,
प्र यत्पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो॑ वी॒रुधो॒ दंसु॑ रोहति । उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो अभवद्घृ॒णा शुचि॑: ॥
प्र । यत् । पि॒तुः । प॒र॒मात् । नी॒यते॑ । परि॑ । आ । पृ॒क्षुधः॑ । वी॒रुधः॑ । दम्ऽसु॑ । रो॒ह॒ति॒ । उ॒भा । यत् । अ॒स्य॒ । ज॒नुष॑म् । यत् । इन्व॑तः । आत् । इत् । यवि॑ष्ठः । अ॒भ॒व॒त् । घृ॒णा । शुचिः॑ ॥
यत् यस्मात् पितुः अन्नस्य पशुलक्षणस्य ॥ षष्ठीस्थाने प्रथमा ॥ तस्य परमात् परमत्वाद्धेतोः । उत्कृष्टत्वायेत्यर्थः। तदर्थं प्र परि नीयते प्रकर्षेण परितो नीयते पर्यग्निक्रियते इत्यर्थः । यद्वा । पितुरुत्पादकात् परमात् उत्कृष्टात् गार्हपत्यलक्षणस्याग्नेः सकाशात् आहवनीयं प्रति प्र परि नीयते प्रकर्षेण नीयते । परि अनर्थकः । किंच पृक्षुधः पशुपुरोडाशादिषु दाहमध्ये धीयमानाः । यद्वा ॥ मशब्दस्य संप्रसारणम् । क्षुध बुभुक्षायाम्' । क्विप् ॥ प्रक्षोध्याः प्रकर्षेण बुभुक्षिता भोक्तुमिष्यमाणाः । वीरुधो दंसु दन्तेषु मध्ये आ रोहति आरोहन्ति प्रविशन्तीत्यर्थः । यत् यस्मात् उभा उभौ अध्वर्युयजमानौ उभे अरणी वा अस्य अग्नेः जनुषं जन्म उत्पत्तिम् इन्वतः व्याप्नुतः स्वीकुरुत इत्यर्थः ॥ ‘ इवि व्याप्तौ ' । इदित्त्वात् नुम् ॥ आदित् अत एव कारणात् शुचिः शुद्धोऽयमग्निः घृणा यजमानेष्वनुग्रहेण । यद्वा । घृणा घृणो दीप्तिमान् ॥ मत्वर्थों लुप्यते ॥ दीप्त्या वा यविष्ठः युवतमः अभवत् संपन्नः । स्वीकारसमर्थोऽभवदित्यर्थः ॥
“As from the excellence of the nutritious (offering) be, (Agni), is brought forth and the consumable branches rise amidst (the flames); and as both (the instrumental tutor of the rite and the priest) combine for his genitive ration, therefore has he been genitive rated, pure, youthful, and radiant.”
When from the Highest Father he is brought to us, amid the plants he rises hungry, wondrously.
As both together join to expedite his birth, most youthful he is born resplendent in his light.
When he is led forward from the highest father 1, he climbs up the … 2, the plants in his (or, in their?) houses. When 3 both (Heaven and Earth or the two Aranis?) promote his birth, then the youngest one became bright by his heat 4.
When he is led forth from his highest father, he mounts the
nourishment-bringing plants in the houses,
when the two [=kindling sticks] set his birth in motion. Just after that the youngest one became blazing with heat;
Wenn er geholt wird von dem höchsten Vater her, besteigt die saft'gen Pflanzen er mit Wunderkraft, Wenn beide Aeltern sein Entstehn beschleunigen, dann ward als jüngster stets er hell durch seine Glut.
Wenn er vom höchsten Vater hergeholt wird, so steigt es in den Häusern auf die ......, auf die Pflanzen. Wenn beide seine Geburt zuwege bringen, da ward der Jüngste hellstrahlend in Glut.
Когда его уводят от высшего отца,
Чудесным образом он поднимается по растениям, богатым питанием.
Когда оба (родителя) вызывают его рождение,
Вот тогда самый юный стал пылать жаром.
आदिन्मा॒तॄरावि॑श॒द्यास्वा शुचि॒रहिं॑स्यमान उर्वि॒या वि वा॑वृधे । अनु॒ यत्पूर्वा॒ अरु॑हत्सना॒जुवो॒ नि नव्य॑सी॒ष्वव॑रासु धावते ॥
आत् । इत् । मा॒तॄः । आ । अ॒वि॒श॒त् । यासु॑ । आ । शुचिः॑ । अहिं॑स्यमानः । उ॒र्वि॒या । वि । व॒वृ॒धे॒ । अनु॑ । यत् । पूर्वा॑ । अरु॑हत् । स॒ना॒ऽजुवः॑ । नि । नव्य॑सीषु । अव॑रासु । धा॒व॒ते॒ ॥
अयमग्निः आ शुचिः दीप्तः सन् आदित् पूर्वमन्त्रे यविष्ठोऽभवदित्युक्तत्वात् तदनन्तरमेव मातॄः उत्पादयित्रीर्मातृस्थानीया दश दिशः आ अविशत् सर्वतः प्रविशति । पूर्वत्र ‘दशप्रमतिं जनयन्त योषणः' (ऋ. सं.१. १४१. २) इत्युक्तत्वात् दिशां मातृत्वम् । दिक्षु प्रकाशेन व्याप्त इत्यर्थः । मातरो विशेष्यन्ते। यासु मातृषु अहिंस्यमानः परैरपीड्यमानः उर्विया उरु अतिप्रभूतं वि ववृधे विविधं प्रवृद्धोऽभवत् तास्वाविशत् । यथा लोके कश्चित्तेजस्वी जनन्याः स्तनपानपरिपीडादिभिः सम्यक् पोषितो लोके प्रकाश्य पुनरागत्य मातरमालिङ्गति तद्वदिति भावः । कस्मिन् काले इति तत्राह । यत् यदा सनाजुवः दीर्घकालवियोगिन्यः स्थापनकाल एव प्रक्षिप्ताः अत एव पूर्वाः प्रथमभाविनीरोषधीरनुक्रमेण अरुहत् आरोहति ॥ रुहेश्छान्दसो लुङ् । ‘ कृमृदृरुहिभ्यश्छन्दसि ' इति च्लेः अङादेशः ॥ उपरि प्रज्वलति । तथा नव्यसीषु नवतरासु अत एव अवरासु अत एव पूर्वापेक्षया निकृष्टासु पश्चाद्भाविनीष्वोषधीषु नि धावते नितरां नीचैर्वा गच्छति । अन्तःप्रविशतीत्यर्थः । यदा काष्ठानाम् अधस्तादुपरिष्टाच्च प्रविश्य ज्वलति तदा दिक्षु प्रकाशितोऽभवत्' इत्यर्थः ॥ ॥ ८ ॥
“Therefore has the brilliant Agni entered the maternal (quarters of space), amidst which pure, and unharmed, he had evolved into magnitude, so that he mounted (the bushes) plural ced before him, as he had (consumed others) prior to them, and runs rapidly among the more recent and inferior branches.”
Then also entered he the Mothers, and in them pure and uninjured he increased in magnitude.
As to the first he rose, the vigorous from of old, so now he runs among the younger lowest ones.
Then he entered upon the mothers 1 in whom he the bright one grew up far and wide unimpaired 2. When he has climbed up to the former (mothers) who from of old incite (him) 3, he runs down in the younger, later (or, nearer) ones.
Just after that he entered into his mothers, within whom the blazing one (stayed) without suffering harm. He grew widely in all directions,
when he mounted the previous ones [=plants] who spurred (him) on from of old. He races down into the newer, later ones.
Da ging er in die Mütter ein, in welchen er, der helle, unversehrte in die Breite wuchs; Wie er zuvor in frühre, alte Mütter stieg, so schmiegt er sich den jüngeren und spätern an.
Da ging er in seine Mütter ein, in denen der Hellstrahlende unversehrt sich weiterhin auswuchs. Wenn er in den früheren alten Pflanzen nachgewachsen ist, zieht er in die neueren, späteren ein.
Вот он вошел в матерей, в которых чистый,
Невредимый широко вырос в разные стороны.
Когда он возрос вслед за прежними, старыми (растениями),
Он бросается на более новые, последующие.
आदिद्धोता॑रं वृणते॒ दिवि॑ष्टिषु॒ भग॑मिव पपृचा॒नास॑ ऋञ्जते । दे॒वान्यत्क्रत्वा॑ म॒ज्मना॑ पुरुष्टु॒तो मर्तं॒ शंसं॑ वि॒श्वधा॒ वेति॒ धाय॑से ॥
आत् । इत् । होता॑रम् । वृ॒ण॒ते॒ । दिवि॑ष्टिषु । भग॑म्ऽइव । प॒पृ॒चा॒नासः॑ । ऋ॒ञ्ज॒ते॒ । दे॒वान् । यत् । क्रत्वा॑ । म॒ज्मना॑ । पु॒रु॒ऽस्तु॒तः । मर्त॑म् । शंस॑म् । वि॒श्वधा॑ । वेति॑ । धाय॑से ॥
होतारं होमनिष्पादकम् आह्वातारं वा देवानां ईदृशमग्निं दिविष्टिषु दिवसैषणेषु निमित्तभूतेषु वृणते संभजते । आदित् अनन्तरमेव तथा पप्रचानासः हविषा स्तुत्या च संपृचाना ऋत्विजो यजमानाः ॥ पृचेश्छान्दसस्य लिटः कानच् ॥ ऋञ्जते प्रसाधयन्ति । किमिव। भगमिव । तं यथा जनाः प्रसाधयन्ति तद्वत् । यद्वा । महान्तं राजानमिव सूर्यदीप्तिवत् पूज्यमित्यर्थः । ‘ ऋञ्जतिः प्रसाधनकर्मा' इति यास्कः । यत् यस्मात् अयमग्निः पुरुष्टुतः बहुभिर्बहुधा वा स्तूयमानः क्रत्वा क्रतुना कर्मणा यागादिरूपेण मज्मना शारीरेण बलेन च युक्तान् देवान् व्यवहर्तॄनृत्विजो यज्ञभुजो देवान् वा क्रत्वा मज्मना च योजयितुं तथा मर्तं यजमानं शंसं स्तुतिं च स्तुत्यं वा तं विश्वधा विश्वधनो यद्वा विश्वात्मकोऽयं वेति पूर्वोक्तान् कामयते । किमर्थम् । धायसे हविर्लक्षणान्नाय । तस्मात् होतारमग्निं वृणते ऋञ्जते च ॥
“Pious worshippers then adore the invoker (of the gods), for (the propitiation of) the dwellers in heaven, as (such men) adore a powerful prince, since the many-lauded, and all upholding (Agni) knows how by (holy) act and (bodily) strength to bring together the gods and their mortal worshipper for the sake of obtaining (mutual) sustenance.”
Therefore they choose him Herald at the morning rites, pressing to him as unto Bhaga, pouring gifts,
When, much-praised, by the power and will of Gods, he goes at all times to his mortal worshipper to drink.
1 Then in the strivings for the day 2 they choose him Hotri. As if to swell their good fortune they strive towards him 3, when praised by many he moves everywhere with wisdom and power to the gods and to the praise of mortals 4 for (bringing them) refreshing drink.
Just after that they choose (him as) their Hotar at the rituals of daybreak. As if gorging themselves on good fortune, they steer
straight (to him),
since he, much praised, with resolve and with might always pursues the gods and the laud (of) mortals in order to suckle them,
Dann wählen sie zum Priester bei den Festen ihn und dringen wie zum Spender hin sich sättigend, Wenn hochgerühmt er zu den Göttern geht mit Kraft und Macht, zu pflegen stets den Mann, der ihn besingt;
Da erwählten sie ihn zum Hotri bei den Opfern des Tages; sie lassen ihm den Vortritt wie die, die ihr Glück gemacht haben, dem Bhaga, da der Vielgepriesene mit Umsicht und Macht den Göttern zuredet und dem Sterblichen zuredet, allezeit Lob darzubringen.
Вот выбирают (его) хотаром для жертвоприношений на небе,
К нему направляются, как переполненные (дарами люди) - к счастью,
Так как многопрославленный (бог) силой духа, величием (приглашает) богов,
Он приглашает смертного к прославлению, чтобы (боги) были всегда удовлетворены.
वि यदस्था॑द्यज॒तो वात॑चोदितो ह्वा॒रो न वक्वा॑ ज॒रणा॒ अना॑कृतः । तस्य॒ पत्म॑न्द॒क्षुष॑: कृ॒ष्णजं॑हस॒: शुचि॑जन्मनो॒ रज॒ आ व्य॑ध्वनः ॥
वि । यत् । अस्था॑त् । य॒ज॒तः । वात॑ऽचोदितः । ह्वा॒रः । न । वक्वा॑ । ज॒रणाः॑ । अना॑कृतः । तस्य॑ । पत्म॑न् । द॒क्षुषः॑ । कृ॒ष्णऽजं॑हसः । शुचि॑ऽजन्मनः । रजः॑ । आ । विऽअ॑ध्वनः ॥
यत् यदा अयमग्निः वातचोदितः वायुना प्रेरितः ॥ तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम्॥ यजतः सर्वैः यष्टव्यः यष्टुं योग्यः सन् वि अस्थात् वितिष्ठते सर्वतो व्याप्तो भवति । तत्र दृष्टान्तः । अनाकृतः अनिवारितोऽप्रतिहतप्रसरः वक्वा बहुवक्ता ॥ वचेः ‘अन्येभ्योऽपि दृश्यन्ते' इति वनिप् । दृशिग्रहणात् कुत्वम् ॥ ह्वारो न कुटिल इव विदूषणकादिरिव' । ह्वरतेर्ण्यन्तात् पचाद्यच् ॥ स यथा जरणाः स्तुतीर्वितिष्ठते विविधं कुर्वन् वर्तते तद्वदयमप्यनाकृतः अप्रतिबद्धप्रसरो व्यवस्थितः । तदा तस्य अग्नेः पत्मन् पतने मार्गे यज्ञरूपे रजः रञ्जनात्मको लोकः आ अस्थात् आतिष्ठति सर्वतः आश्रयति अग्नौ बहुधा यजतीत्यर्थः । कीदृशस्य तस्य । धक्षुषः दहतः ॥ दहेर्लिटः क्वसुः ॥ कृष्णजंहसः कृष्णमार्गस्य ॥ पुनःपुनर्गम्यते इति जंहा मार्गः । हन्तेर्यङ्लुगन्तात् कर्मणि असुन् । कुत्वाभावश्छान्दसः ॥ शुचिजन्मनः मन्त्रसहितारण्योरुत्पन्नत्वात् व्यध्वनः विविधज्वालस्य अनियतमार्गस्य ।
“Since the adorable (Agni), impelled by the wind, spreads in various directions, like an insincere and unrestrained chatterer, (who utters indiscriminate) praises, therefore the world is assiduous in the worship of him, the consumer of all, whose way is dark, who is pure of birth and follows various paths.”
What time the Holy One, wind-urged, hath risen up, serpent-like winding through the dry grass unrestrained,
Dust lies upon the way of him who burneth all, black-winged and pure of birth who follows sundry paths.
When he has scattered himself, the worshipful one, driven by the wind, like … 1, with the sound (which he produces) (?), he whom it is not possible to drive to a place (like cattle): on the flight of the burning one who speeds on his black way, whose birth is bright, who strays everywhere to the atmosphere … 2.
When he, worthy of the sacrifice, has spread out, driven by the
wind, wriggling through the old (plants?) like a twisting (snake),
unconfined
in his flight—(the flight) of this burning one of black plumage and
blazing birth, whose road spreads through the airy realm.
Wenn windbewegt der heil'ge sich erhoben hat, sich windend, zischend wie die Schlange, ungehemmt Auf seinem Gange, wenn er schwarzgeflügelt flammt, wenn der im Licht geborne durch die Lüfte dringt.
Wenn sich der Anbetungswürdige, vom Winde angefacht, wie ein Vogel flatternd ohne Antrieb über die dürren Hölzer ausgebreitet hat, bei des brennenden, schwarzbeschwingten, reingeborenen, wegelosen Flug in die Luft;
Когда достойный жертв, погоняемый ветром, распространился
(Никем) не принуждаемый на старые (дрова), трепеща, как птица,
В полете этого пылающего чернокрылого (бога),
Чисторожденного, пересекающего без дорог пространство (- удивительная красота).
रथो॒ न या॒तः शिक्व॑भिः कृ॒तो द्यामङ्गे॑भिररु॒षेभि॑रीयते । आद॑स्य॒ ते कृ॒ष्णासो॑ दक्षि सू॒रय॒: शूर॑स्येव त्वे॒षथा॑दीषते॒ वय॑: ॥
रथः॑ । न । या॒तः । शिक्व॑ऽभिः । कृ॒तः । द्याम् । अङ्गे॑भिः । अ॒रु॒षेभिः॑ । ई॒य॒ते॒ । आत् । अ॒स्य॒ । ते । कृ॒ष्णासः॑ । ध॒क्षि॒ । सू॒रयः॑ । शूर॑स्यऽइव । त्वे॒षथा॑त् । ई॒ष॒ते॒ । वयः॑ ॥
अयमग्निः शिक्वभिः रज्जुभिः कृतः बद्धः रथो न रथ इव । स यथा स्वीयैश्चक्रादिभिः अङगैः ईयते तद्वत् यातः स्थापितः सन् अरुषेभिः गमनशीलैः अङ्गेभिः ज्वालादिरूपैः अवयवैः द्याम् अन्तरिक्षम् आज्येन हृष्टः सन् ईयते गच्छति ॥ ‘ईङ् गतौ ॥ आत् प्रवृद्ध्यनन्तरम् अस्य अग्नेः ते सूरयः सरणयो मार्गाः कृष्णासः कृष्णवर्णा भवन्ति । यत एवं भवन्ति तदर्थं दक्षि दहति काष्ठान् ॥ पुरुषव्यत्ययः । छान्दसः शपो लुक् ॥ किंच ज्वलितस्याग्नेः त्वेषथात् दीप्तात् तेजसः सकाशात् वयः गमनवन्तः पक्षिमृगादयः ईषते गच्छन्ति ॥ ईष गत्यादौ । ‘ बहुलं छन्दसि ' इति शपो लुक्॥ पलायन्ते । तत्र दृष्टान्तः । शूरस्य त्वेषथात् वय इव । कस्यचित् विक्रान्तस्य दीप्तात्तेजसः सकाशात् भीत्या पलायमाना इव । एवमन्तरिक्षं स्पृशन् सर्वतो दहतीति सर्वदा दावाग्निरूपेण स्तूयते ॥
“Like a chariot drawn by ropes, Agni, set in movement by his own revolving members (his flames), proceeds to the heavens; the paths he traverses are blackened by smoke, as he consumes (the fuel), and (beasts and) birds fly from his radiance as (enemies fly from the prowess) of a hero.”
Like a swift chariot made by men who know their art, he with his red limbs lifts himself aloft to heaven.
Thy worshippers become by burning black of hue: their strength flies as before a hero's violence.
Like a chariot that goes forward, he goes to Heaven with his ruddy limbs, adorned with his locks of flames 1. Then his black (clouds of smoke), O burning one (?), the liberal ones (?) (appear) 2. The birds flee as before the fierceness of a hero 3.
Like a driving-chariot made by dexterous (men), he speeds toward heaven with ruddy limbs.
After that these black (plumes) of his, the patrons of the burning one, retreat from his turbulent flaring, as (from that) of a champion, like birds (from that) *of the sun.
Gleich schnellem Wagen, den kunstfertige gebaut, steigt er mit Flammengliedern zu dem Himmel auf; Dann zeigen schwarz sich deine Bahnen, Flammender; die Vögel fliehen vor des Helden Ungestüm.
Da eilt er wie der fahrende Wagen, der von Gelernten gemacht ist, mit den rötlichen Gliedern gen Himmel. Dann fliehen diese schwarzen ......., vor seiner furchtbaren Erscheinung flieht das Geflügel wie vor der eines tapferen Mannes.
Словно двинувшаяся колесница, созданная умелыми мастерами,
Движется он к небу со своими красными членами.
Вот эти его черные (клубы дыма), – гори! – направляющиеся к небу.
Как от неистовства героя (в бою, от него) шарахаются птицы.
त्वया॒ ह्य॑ग्ने॒ वरु॑णो धृ॒तव्र॑तो मि॒त्रः शा॑श॒द्रे अ॑र्य॒मा सु॒दान॑वः । यत्सी॒मनु॒ क्रतु॑ना वि॒श्वथा॑ वि॒भुर॒रान्न ने॒मिः प॑रि॒भूरजा॑यथाः ॥
त्वया॑ । हि । अ॒ग्ने॒ । वरु॑णः । धृ॒तऽव्र॑तः । मि॒त्रः । शा॒श॒द्रे । अ॒र्य॒मा । सु॒ऽदान॑वः । यत् । सी॒म् । अनु॑ । क्रतु॑ना । वि॒श्वऽथा॑ । वि॒ऽभुः । अ॒रान् । न । ने॒मिः । प॒रि॒ऽभूः । अजा॑यथाः ॥
हे अग्ने त्वया खलु वरुणः रात्र्यभिमानी देवः धृतव्रतः स्वीकृतवर्षणादिकर्मा भवति । तथा मित्रः अहरभिमानी देवः शाशद्रे शातयति तमः ॥ शद्लृ शातने' । छान्दसो लिट् । बहुलं छन्दसि ' इति रुट् । तुजादित्वात् अभ्यासदीर्घः । तथा अर्यमा उभयोर्मध्यवर्ती देवः सुदानवः शोभनदानो भवति ॥ व्यत्ययेन बहुवचनम् । यद्वा । एते वरुणादयः सुदानवः शोभनदानाः स्वस्वकार्यकर्तारस्त्वया हि शाशद्रे तीक्ष्णीक्रियन्ते । हिशब्दो मन्त्रान्तरप्रसिद्धिद्योतनार्थः । ‘ त्वमग्ने वरुणो जायसे (ऋ. सं. ५, ३. १ ) इति हि मन्त्रान्तरम् ॥ शदेः कर्मणि छान्दसो लिट् । ‘इरयो रे' इति रेभावः । ‘ हि च ' इति निघाताभावः । वरुणादीनामग्न्यायत्तत्वे उपपत्तिमाह । यत् यस्मात् कारणात् हे अग्ने सीं सर्वतः क्रतुना कर्मणा विश्वथा विश्व इव विश्वात्मक इव विभुः मित्रार्यमात्मना सर्वव्यापी परिभूः स्वतेजसा सर्वतः परिभाविता सन् अनुक्रमेण अजायथाः जायसे प्रादुर्भवसि । तत्र दृष्टान्तः । अरान् रथस्य शङ्कून् नेमिः न बाह्यवलय इव । स यथा व्याप्य तिष्ठति तद्वदयमग्निर्वरुणादीन् व्याप्य तिष्ठति ॥
“By you, Agni; Varuṇa, observant of his duties and Mitra and Aryaman, bountiful divinities, are animated, so that yo have been born comprehending them all universally in all (their) functions, and encompassing (them all) as the circumference (encompasses) the spokes (of a wheel).”
By thee, O Agni, Varuna who guards the Law, Mitra and Aryaman, the Bounteous, are made strong;
For, as the felly holds the spokes, thou with thy might pervading hast been born encompassing them round.
Through thee indeed, O Agni, Varuna whose laws are firm, Mitra and Aryaman, the givers of good rain, are glorious, when thou the mighty one hast been born, everywhere encompassing with wisdom (all beings), as the felly encompasses the spokes of a wheel.
By means of you, o Agni, have those rich in drops [/gifts] become exultant—Varuṇa whose commandments are upheld, Mitra, and
Aryaman—
since, following them, you were born extending everywhere by your resolve, encompassing (everything) like a felly its spokes.
Dein rühmt sich ja der pflichtgetreue Varuna, o Agni, und die reichen Mitra, Arjaman; Da kräftig du erstandest, sie mit deiner Kraft umfassend, ganz wie Speichen mit des Rades Kranz.
Denn durch dich, Agni, haben Varuna, der Gesetzeshüter, Mitra und Aryaman, die Gabenschönen, Selbstvertrauen bekommen, sobald du geboren wardst, durch Umsicht allem gewachsen, wie der Radkranz die Speichen alles umschließend.
Ведь это благодаря тебе, о Агни, Варуна, чей обет крепок,
Митра, Арьяман с прекрасными дарами набрались силы,
Когда ты родился, распространяясь всячески силой духа,
Охватывая (вселенную), как обод-спицы (колеса).
त्वम॑ग्ने शशमा॒नाय॑ सुन्व॒ते रत्नं॑ यविष्ठ दे॒वता॑तिमिन्वसि । तं त्वा॒ नु नव्यं॑ सहसो युवन्व॒यं भगं॒ न का॒रे म॑हिरत्न धीमहि ॥
त्वम् । अ॒ग्ने॒ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते । रत्न॑म् । य॒वि॒ष्ठ॒ । दे॒वता॑तिम् । इ॒न्व॒सि॒ । त्वम् । त्वा॒ । नु । नव्य॑म् । स॒ह॒सः॒ । यु॒व॒न् । व॒यम् । भग॑म् । न । का॒रे । म॒हि॒ऽर॒त्न॒ । धी॒म॒हि॒ ॥
हे अग्ने यविष्ठ युवतम त्वं शशमानाय त्वां स्तुवते । शशमान: शंसमानः '( निरु, ६.८ ) इति यास्कः । सुन्वते त्वदर्थमभिषवं कुर्वते यजमानाय तद्यागार्थं रत्नं रमणीयं हविः देवताति देवेषु तायमानं विस्तार्यमाणम् इन्वसि व्याप्नोषि । अस्मत्प्रत्तं हविः देवान् प्रापयसीत्यर्थः । इन्वतिः व्याप्तिकर्मा, ‘इन्वति ननक्ष' (नि. २. १८. १ ) इति तन्नामसु पाठात् । हे सहसो युवन् । युवशब्देनोत्पत्तिर्लक्ष्यते । मथनकाले बलेनोत्पन्न बलस्य मिश्रयितर्वा। यद्वा । सहसस्पुत्र युवन् नित्यतरुण महिरत्न अस्मत्प्रदेयमहद्रमणीयधन नव्यं नवतरं स्तुत्यं वा तं तादृशं हविर्भुजं त्वा त्वां वयं यजमानाः कारे शब्दे स्तोत्रलक्षणे नु क्षिप्रं धीमहि स्थापयामः । हविष्प्रदानसमये क्षिप्रमेव स्तुम इत्यर्थः । तत्र दृष्टान्तः । भगं न आदित्यमिव । यद्वा । महान्तं राजानमिव । तं यथा स्तुवन्ति तद्वत् ॥
“Most youthful Agni, for the good of him who praises you and offers you libations, you make the precious (offering) acceptable to the gods; new-born of strength we glorify you who are to be lauded; to whom rich offerings (are to be presented); (we glorify you) in (our) hymn as (men eulogize) a powerful prince.”
Agni, to him who toils and pours libations, thou, Most Youthful! sendest wealth and all the host of Gods.
Thee, therefore, even as Bhaga, will we set anew, young Child of Strength, most wealthy! in our battle-song.
Thou, O Agni, youngest (god), furtherest treasures and (the friendship of) the gods for him who performs worship, who presses Soma. May we thus establish thee the young one, O young (son) of strength, possessor of great treasures, like the winner in a race 1.
You, o Agni, impel treasure and the conclave of the gods to the man who labors and presses soma, o youngest one.
Might we now acquire [/install] you anew, o young (son) of strength, like good fortune [/Bhaga] at the decisive moment, o you who have
great treasure.
Du führst, o Agni, dem, der eifrig Soma presst, o jüngster, Reichthum und die Götterschar herbei; Drum wollen wir aufs neue nun, o Sohn der Kraft, o Schätzereicher, dir als Spender Preislied weihn.
Du, Agni, bringst dem dienstfertigen Somapresser das Kleinod, du Jüngster die Götterschaft. Aufs neue wollen wir dich, du junger Sohn der Kraft, zu eigen haben wie den Bhaga das Glück im Kampfspiel, der du das große Kleinod hast.
Ты, о Агни, старающемуся (при обряде), выжимающему (сому),
Приносишь сокровище, о самый юный, – службу богам.
И вот мы снова, о юный (сын) силы,
Хотим принять тебя, о обладатель великого сокровища, как удачу – в решающей схватке.
अ॒स्मे र॒यिं न स्वर्थं॒ दमू॑नसं॒ भगं॒ दक्षं॒ न प॑पृचासि धर्ण॒सिम् । र॒श्मीँरि॑व॒ यो यम॑ति॒ जन्म॑नी उ॒भे दे॒वानां॒ शंस॑मृ॒त आ च॑ सु॒क्रतु॑: ॥
अ॒स्मे इति॑ । र॒यिम् । न । सु॒ऽअर्थ॑म् । दमू॑नसम् । भग॑न् । दक्ष॑म् । न । प॒पृ॒चा॒सि॒ । ध॒र्ण॒सिम् । र॒श्मीन्ऽइ॑व । यः । यम॑ति । जन्म॑नी॒ इति॑ । उ॒भे इति॑ । दे॒वाना॑म् । शंस॑म् । ऋ॒ते । आ । च॒ । सु॒ऽक्रतुः॑ ॥
हे अग्ने त्वम् अस्मे अस्मासु स्वर्थं सुष्ठु अरणीयं दमूनसं दमनीयम् उपार्ज्यम् ॥ दमेरूनसिः' (उ. सू. ४. २३५ ) इति ऊनसिप्रत्ययः ॥ रयिं न पपृचासि धनं यथा संपृणक्षि । तथा भगं सर्वैर्भजनीयं दक्षं न उत्साहवन्तं प्रबुद्धं वा धर्णसिं विद्यादिधारणकुशलं पुत्रं यथा पप्रचासि संपृणक्षि उभयमपि ददासीत्यर्थः । पृची संपर्के'। लेटि आडागमः। ‘बहुलं छन्दसि ' इति विकरणस्य श्लुः ॥ इदानीं परोक्षेणाह । यः अग्निः रश्मीँरिव स्वकीयान् रश्मीन् यथा यमति नियमयति विस्तारयति तद्वत् सः उभे जन्मनी जननाधारभूतौ उभौ लोकौ इहलोकपरलोकौ यमति नियच्छति । तथा सुक्रतुः शोभनकर्मा अयम् ऋते अस्मदीययज्ञे देवानां देवसंबन्धिनं शंसं स्तवं च आ यमति आयच्छति सर्वदा ददाति । यद्वा । पूर्वार्धे पपृचासीत्यपि परोक्षत्वाय प्रथमपुरुषतया योज्यम् ॥
“In like manner as you confer upon us riches, (so you bestow upon us) a well-disposed, docile, and energetic (son); the receptacle (of learning and other merits), one who is the performer of holy rites, Agni, who regulates as it were his own rays, (and the condition) both (his) births, (or heaven and earth), he regulates at (our) sacrifice the adoration of the gods.”
Vouchsafe us riches turned to worthy ends, good luck abiding in the house, and strong capacity,
Wealth that directs both worlds as they were guiding-reins, and, very Wise, the Gods' assent in sacrifice.
Make good fortune 1 swell for us like well-employed wealth belonging to the house, and like firm ability 2—(fortune) which can hold both races 3 like reins: and being full-of good-will in (the sphere of) Rita, (fill our) praise of the gods (with rich reward).
For us you will engorge good fortune [/Bhaga] like household wealth meant for a good purpose, like enduring skill,
([good fortune/] Bhaga) who will hold fast both races [=gods and men], like reins, (and also) the laud of gods, and (who himself), of good
resolve, (is held fast) in truth.
Uns schenke Schatz des Hauses, der uns Nutzen bringt, und schenk uns Glück und Tüchtigkeit, die dauernd bleibt, Der Götter du und Menschen wie zwei Zügel lenkst, und wohlgesinnt der Götter Preis beim heil'gen Werk.
Uns gib einen Hausgebieter, der Nutzen stiftet wie Reichtum! Mach Bhaga unser Glück voll, daß es dauerhaft sei wie Daksa, die Tatkraft - einen Hausgebieter, der die beiden Geschlechter wie die Zügel lenken soll, der das Lob der Götter lenkt und im rechten Werke wohlberaten ist.
Да захочешь ты щедро одарить нас как богатством,
Прочным домашним счастьем, ведущим к благой цели, как силой действия,
(Ты,) кто, словно вожжами, правит обоими родами,
(Правит) хвалой богов, очень мудрый в отношении закона.
उ॒त न॑: सु॒द्योत्मा॑ जी॒राश्वो॒ होता॑ म॒न्द्रः शृ॑णवच्च॒न्द्रर॑थः । स नो॑ नेष॒न्नेष॑तमै॒रमू॑रो॒ऽग्निर्वा॒मं सु॑वि॒तं वस्यो॒ अच्छ॑ ॥
उ॒त । नः॒ । सु॒ऽद्योत्मा॑ । जी॒रअ॑श्वः । होता॑ । म॒न्द्रः । शृ॒ण॒व॒त् । च॒न्द्रऽर॑थः । सः । नः॒ । ने॒ष॒त् । नेष॑ऽतमैः । अमू॑रः । अ॒ग्निः । वा॒मम् । सु॒ऽवि॒तम् । वस्यः॑ । अच्छ॑ ॥
उतशब्दोऽप्यर्थः । स च संभावनायाम् । सोऽग्निः नः अस्मदीयमाह्वानम् उत शृणवत् । अपि नाम शृणुयात् । यद्वा । नः अस्मान् श्रावयेत् देवेषु मध्ये प्रख्यापयेत् ॥ शृणोतेर्लेटि अडागमः॥ कीदृशोऽयम् । सुद्योत्मा सुद्योतमानः ॥ ‘ द्युत दीप्तौ । अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । जीराश्वः शीघ्रगमनाश्वः होता देवानामाह्वाता मन्द्रः मदनशीलः चन्द्ररथः सुवर्णमयरथोपेतः । किंच अयम् अमूरः अमूढबलः वस्यः वसनीयः सः प्रसिद्धः अग्निः नेषतमैः अत्यर्थं नेतृभिः कर्मभिः स्तोत्रैर्वा नः अस्मान् उत नेषत् अपि नाम नयेत् । यज्ञस्य पारं प्रापयेत् ॥ नयतेलेंटि अडागमः । ‘ सिब्बहुलम् ' इति सिप्॥ किमर्थम् । वामं वननीयं सुवितं सुष्ठु प्राप्यं सर्वैः काङ्क्षणीयं स्वर्गम् अच्छ आभिमुख्येन प्राप्तुं नेषत् ॥
“May he who is one with light, who has fleet horses, the invoker (of the gods), full of joy, and borne in a golden chariot, listen to us; may that irresistible, yet plural cable Agni, conduct us, by the most efficacious (means), to that desirable and accessible (heaven).”
May he, the Priest resplendent, joyful, hear us, he with the radiant car and rapid horses.
May Agni, ever wise, with best directions to bliss and highest happiness conduct us.
And may the brilliant, joyful Hotri with quick horses, with a shining chariot hear us. May he, the wise Agni, lead us on the best leading (paths) to happy welfare and to bliss.
And the bright-flashing, delighting Hotar with his lively horses and gleaming chariot will hear us.
Without error Agni will lead us with the best leading to desirable safe passage, to a better state.
Der strahlende erfreunde Priester hör' uns, dess Rosse schnell sind und dess Wagen leuchtet; Der weise Agni führ mit bester Führung zu schönem Glücke und zu höchstem Gut uns.
Und es soll uns erhören der schönleuchtende mit den raschen Rossen, der wohlredende Hotri auf schimmerndem Wagen, Er führe uns mit den besten Führern, der nie irrende Agni zum Guten, zum Wohlergehen, zum Glück.
Пусть услышит нас хотар с прекрасным блеском,
С быстрыми конями, благозвучный обладатель яркой колесницы!
Пусть поведет нас с лучшими вождями безошибочный
Агни к благу, к счастливой жизни, к добру!
अस्ता॑व्य॒ग्निः शिमी॑वद्भिर॒र्कैः साम्रा॑ज्याय प्रत॒रं दधा॑नः । अ॒मी च॒ ये म॒घवा॑नो व॒यं च॒ मिहं॒ न सूरो॒ अति॒ निष्ट॑तन्युः ॥
अस्ता॑वि । अ॒ग्निः । शिमी॑वत्ऽभिः । अ॒र्कैः । साम्रा॑ज्याय । प्रऽत॒रम् । दधा॑नः । अ॒मी । च॒ । ये । म॒घवा॑नः । व॒यम् । च॒ । मिह॑म् । न । सूरः॑ । अति॑ । निः । त॒न्युः॒ ॥
अयम् अग्निः शिमीवद्भिः हविष्प्रदानादिकर्मवद्भिः अर्कैः अर्चनसाधनैर्मन्त्रैः अस्तावि स्तुतोऽस्माभिर्यजमानैः । शिमीति कर्मनाम, ‘ शिमी शक्तिः ' ( नि. २. १. २४ ) इति तन्नामसु पाठात् । कीदृशोऽयम् । साम्राज्याय साम्राज्यस्येति कर्मणि षष्ठीस्थाने चतुर्थी । सम्यक् राजमानत्वं प्रतरं प्रकृष्टतरमत्यर्थं दधानः ॥' अमु च च्छन्दसि ' इति अमुप्रत्ययः ॥ किंच इममग्निम् अमी च पुरोवर्तमाना ऋत्विजः पुत्रादयो वा ये वयं च पूर्वं स्तोतृत्वेन प्रसिद्धा वयमपि अति अत्यर्थं निष्टतन्युः शब्दयन्तु ॥ निष्पूर्वः स्तनतिः शब्दकर्मा ॥ इतः परमपि अस्मत्पुत्रपौत्रादयो वयं च अग्निं स्तुम इत्यर्थः । तत्र दृष्टान्तः । मिहं न सूरः । मिहं मेहनशीलं मेघं यथा सूरः सूर्यो वृष्ट्यर्थं शब्दयति तद्वत् ॥ लिङि छान्दसो विकरणस्य श्लुः । ‘ अभिनिसः स्तनः शब्दसंज्ञायाम् (पा. सू. ८. ३. ८६ ) इति षत्वम् ॥ ॥ ९ ॥
“Agni, possessing eminent (fitness) for supreme sovereignty, has been glorified by us, with holy rites (śimī śaktiḥ: Nirukta 2.1.24), and with hymns. Let all who are presen1, as well as we ourselves, enriched (by his favour), shout aloud (the praise of Agni), as (loudly as) the sun (causes) the rain-cloud (to thunder).”
With hymns of might hath Agni now been lauded, advanced to height of universal kingship.
Now may these wealthy chiefs and we together spread forth as spreads the Sun above the rain-clouds.
Agni has been praised with powerful 1 songs, he who has been brought forward furthermore for sovereignty. May both those our liberal lords and we ourselves spread out 2 (our power over all foes) as the sun (spreads out its light and by it destroys) the mist.
Agni has been praised with our energetic chants [/with his ardent flames], while being installed further forward for sovereign rule.
Both those who are our bounteous (patrons) and we (ourselves) would extend outward, as the sun (extends) beyond the mist.
Gelobt ist Agni mit gewalt'gen Liedern, der ferner auch zu höchster Macht gesetzt ist; Die Opferherrn und wir auch mögen strahlen, gleichwie die Sonne durch die Nebel dringet.
Gepriesen ward Agni mit inbrünstigen Lobliedern, der zur Oberherrschaft für und für eingesetzt wird. Jene freigebigen Gönner und wir wollen durchdringen wie die Sonne durch den Nebel.
Прославлен Агни истовыми песнями,
Посаженный впредь на безраздельное царство.
Те, что щедрые покровители, и мы (сами)
Да (пройдем мы сквозь опасности,) как солнце пробивается сквозь туман!