प्र तव्य॑सीं॒ नव्य॑सीं धी॒तिम॒ग्नये॑ वा॒चो म॒तिं सह॑सः सू॒नवे॑ भरे । अ॒पां नपा॒द्यो वसु॑भिः स॒ह प्रि॒यो होता॑ पृथि॒व्यां न्यसी॑ददृ॒त्विय॑: ॥
प्र । तव्य॑सीम् । नव्य॑सीम् । धी॒तिम् । अ॒ग्नये॑ । वा॒चः । म॒तिम् । सह॑सः । सू॒नवे॑ । भ॒रे॒ । अ॒पाम् । नपा॑त् । यः । वसु॑ऽभिः । स॒ह । प्रि॒यः । होता॑ । पृ॒थि॒व्याम् । नि । असी॑दत् । ऋ॒त्वियः॑ ॥
अहम् अग्नये तव्यसीं तवीयसीम् अतिशयेन वर्धयित्रीम् ॥ तवतिर्वृद्ध्यर्थः सौत्रो धातुः । अस्मात् तृजन्तात् तुश्छन्दसि ' इति ईयसुन् । तुरिष्ठेमेयःसु ' इति तृलोपः । छान्दस ईकारलोपः॥ नव्यसीं नवतरामपूर्वां धीतिं यागलक्षणाम् उक्तगुणकं कर्म प्र भरे प्रकर्षेण करोमि । तथा उक्तलक्षणां वाचो मतिं स्तुतिरूपं कर्म भरे । कीदृशायाग्नये। सहसः बलस्य सूनवे पुत्राय । किंच यः अग्निः अपां नपात् तासां नप्ता । ‘ अद्भ्यः ओषधयः ओषधीभ्योऽग्निः' इति अग्नेर्नप्तृत्वम् । अथवा अपां न पातयिता वैद्युताग्निरूपेण प्रवर्षकत्वादिति भावः । तथा प्रियः यजमानस्य प्रीणयिता प्रियतमो वा तस्य होता होमनिष्पादकः सोऽग्निः ऋत्वियः प्राप्तकालः प्राप्तप्रदानसमयः सन् पृथिव्यां वेदिलक्षणायां वसुभिः निवासयोग्यैर्गवादिधनैः सहितः न्यसीदत् नितरां सीदति ॥
“I offer devoutly to Agni, the son of strength, an invigorating and most new sacrifice, with words of adoration; (that Agni), the grandson of the waters, who, (present) in due season, the friend and ministering priest (of the sacrificer), sits upon the altar with (many) good things.”
To Agni I present a newer mightier hymn, I bring my words and song unto the Son of Strength,
Who, Offspring of the Waters, bearing precious things sits on the earth, in season, dear Invoking Priest.
I bring forward my most powerful, entirely new (pious) thought (i. e. hymn). the prayer of my words 1 to Agni, the son of strength; he is the child of the Waters 2, the beloved one, who together with the Vasus has sat down on the Earth as a Hotri observing the appointed time (for sacrificing).
A mightier, newer hymn to Agni I present; My words and song to him, the son of strength, I bring. Who, offspring of the waters, with bright gods sat down. As regular and dear invoker, on the earth.
I present a stronger, newer insight to Agni, the thinking of my speech to the son of strength,
the Child of the Waters, who, together with the good ones [/Vasus], has sat down upon the earth as our dear Hotar at his season.
Ein kräft'ges, neues Lied bring' ich dem Agni dar, Gebet und Sprüche trag' ich vor dem Sohn der Kraft, Der Wasser Spross, der Götter Liebling stieg herab zur Erde als ein Priester, der die Bräuche kennt.
Ein noch kraftvolleres neueres Gedicht trage ich dem Agni vor, die ausgedachte Rede dem Sohn der Kraft, dem Kind der Gewässer, der zusammen mit den Vasu´s als lieber Hotri sich auf Erden niederließ, die Zeiten einhaltend.
Я приношу Агни более сильное, более новое стихотворение,
Мысль, облеченную в слова, сыну силы,
(Тому,) кто отпрыск вод, (кто) вместе с Ваю как любимый
Хотар уселся на землю, зная урочное время.
स जाय॑मानः पर॒मे व्यो॑मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने । अ॒स्य क्रत्वा॑ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा॑ शो॒चिः पृ॑थि॒वी अ॑रोचयत् ॥
सः । जाय॑मानः । प॒र॒मे । विऽओ॑मनि । आ॒विः । अ॒ग्निः । अ॒भ॒व॒त् । मा॒त॒रिश्व॑ने । अ॒स्य । क्रत्वा॑ । स॒म्ऽइ॒धा॒नस्य॑ । म॒ज्मना॑ । प्र । द्यावा॑ । शो॒चिः । पृ॒थि॒वी इति॑ । अ॒रो॒च॒य॒त् ॥
सः पूर्वोक्तः अग्निः जायमानः अरणीभ्यामुत्पद्यमानः काष्ठेषु वा प्रादुर्भूतः सन् तदानीमेव परमे उत्कृष्टे व्योमनि विविधरक्षणवति वेदिदेशे मातरिश्वने अन्तरिक्षसंचारिणे वायवे प्रथमम् आविः अभवत् प्रत्यक्षोऽभूत् ।' त्वमग्ने प्रथमो मातरिश्वन आविर्भव' ( ऋ. सं. १. ३१.३ ) इत्यादिश्रुत्यन्तरप्रसिद्धेः । वायुसंयोगात् प्रज्वलित इत्यर्थः । अथवा मातरि फलस्य निर्मातरि यज्ञे श्वसिति चेष्टते इति मातरिश्वा यजमानः । तदर्थम् । किंच समिधानस्य इन्धनैः सम्यग्वर्धमानस्य अग्नेः मज्मना । बलनामैतत् । बलवता क्रत्वा क्रतुना कर्मणा ज्वालनादिव्यापारेण शोचिः द्यावा पृथिवी द्यां च पृथिवीं च प्र अरोचयत् प्रकर्षेणादीपयत् ॥ मध्ये शोचिःशब्दश्छान्दसः ॥ मज्मना क्रत्वा समिधानस्येति वा योज्यम् । प्रबलेन समिन्धनादिव्यापारेण समिध्यमानस्येत्यर्थः ।
“As soon as born, what that (Agni) manifested to Matariśvan in the highest atmosphere, and his radiance, kindled by vigorous effort, spread through heaven and earth. ”
Soon as he sprang to birth that Agni was shown forth to Matarisvan in the highest firmament.
When he was kindled, through his power and majesty his fiery splendour made the heavens and earth to shine.
Being born in the highest heaven Agni became visible to Mâtarisvan. By the power of his mind, by his greatness when kindled, his flame filled Heaven and Earth with light.
As soon as he was in the highest heaven born, To Mātariśvan Agni manifest became; As he was kindled, by his might and majesty His brilliant light illuminated Heaven and Earth.
As he was being born in the highest distant heaven, Agni became manifest to Mātariśvan.
By the resolve and the might of him as he was kindled, his blaze
illuminated heaven and earth.
Als in dem höchsten Himmel er geboren war, ward Agni gleich dem Matariçvan offenbar; Der hat mit seiner Kraft ihn hell entflammt; da hat sein Licht den Himmel und die Erd' erhellt.
Als er im höchsten Himmel geboren wurde, da wurde Agni dem Matarisvan offenbar. Als er nach seinem Ratschluß in voller Größe entflammt wurde, erleuchtete seine Glut Himmel und Erde.
Рождаясь на высшем небе, этот
Агни стал видимым для Матаришвана.
Когда он зажегся благодаря своей силе духа, (своему) величию,
Пламя осветило небо и землю.
अ॒स्य त्वे॒षा अ॒जरा॑ अ॒स्य भा॒नव॑: सुसं॒दृश॑: सु॒प्रती॑कस्य सु॒द्युत॑: । भात्व॑क्षसो॒ अत्य॒क्तुर्न सिन्ध॑वो॒ऽग्ने रे॑जन्ते॒ अस॑सन्तो अ॒जरा॑: ॥
अ॒स्य । त्वे॒षाः । अ॒जराः॑ । अ॒स्य । भा॒नवः॑ । सु॒ऽस॒न्दृशः॑ । सु॒ऽप्रती॑कस्य । सु॒ऽद्युतः॑ । भाऽत्व॑क्षसः । अति॑ । अ॒क्तुः । न । सिन्ध॑वः । अ॒ग्नेः । रे॒ज॒न्ते॒ । अस॑सन्तः । अ॒जराः॑ ॥
अस्य स्तूयमानस्याग्नेः त्वेषाः दीप्तयः अजराः जरारहिताः अजीर्णा: अविरता इत्यर्थः ॥ ‘ नञो जरमर ' इत्यादिना उत्तरपदाद्युदात्तत्वम् ॥ तथा सुप्रतीकस्य शोभनमुखस्य अस्य अग्नेः भानवः रश्मयः । दीप्तेरुक्तत्वादत्र विस्फुलिङ्गा अवगन्तव्याः । ते च सुसंदृशः सुष्ठु सम्यक् द्रष्टारः । सर्वतो व्याप्ता इत्यर्थः । सुद्युतः सुष्ठु सर्वतो द्योतमानाः । तथा अस्य अग्नेः भात्वक्षसः । त्वक्ष इति बलनाम, ‘ त्वक्षः शर्धः ' ( नि. २. ९, ६ ) इति बलनामसु पाठात् । भासमानबलाः । अक्तुः इति सत्रिनामैतत् ,' अक्तुः ऊर्म्या' (नि. १. ७. ४ ) इति तन्नामसूक्तत्वात् । द्वितीयार्थे प्रथमा । अक्तुं जगदञ्जकं नैशं तमः अति अतिक्रम्य सिन्धवः स्यन्दमानाः सर्वत्र व्याप्नुवन्तः अससन्तः स्वव्यापारेषु अस्वपन्तोऽविरताः अत एव अजराः न रेजन्ते न कम्पन्ते । दाहपाकादिषु न चलन्ति न चाल्यन्ते वा अन्यैः । यद्वा । नशब्दो दृष्टान्तवचनः। भात्वक्षसो भा एवं त्वक्षो बलं यस्य तादृशस्यादित्यस्य सिन्धवो न रश्मय इव । ते यथा स्यन्दनशीला व्याप्तिमन्तः अक्तुरति भञ्जकं तमः अतिक्रम्य अससन्तो रेजन्ते तद्वत् भात्वक्षसोऽस्याग्नेरुक्तलक्षणा दीप्तयोऽपि सर्वत्र रेजन्ते कम्पन्ते व्याप्नुवन्तीत्यर्थः ॥
“His radiance is undecaying; the rays of him who is of plural asing aspect, are everywhere visible and bright; the intensely shining, all-pervading, unceasing, undecaying (rays) of Agni, desist not (from their functions).”
His flames that wax not old, beams fair to look upon of him whose face is lovely, shine with beauteous sheen.
The rays of Agni, him whose active force is light, through the nights glimmer sleepless, ageless, like the floods.
1 His flames are fierce; never ageing are the flames of him who is beautiful to behold, whose face is beautiful, whose splendour is beautiful. The never sleeping, never ageing (rays) of Agni whose power is light, roll forward like streams across the nights (?) 2.
His flames that grow not old, the beams of Agni's fire, Whose aspect, countenance, and sheen are beautiful. With mighty radiance undulate and shine afar, Like glistening rivers' flow: they slumber not nor age.
His are the dazzling, his the unaging radiant beams—he possessing a lovely appearance, a lovely face, a lovely flash.
The (beams) of Agni, with the energy of their radiance, are churning like rivers of the night, across (the nights), unsleeping, unaging.
Des Agni Strahlen, seine muntre Flammenschar, des funkelnden mit schönem Blick und Angesicht, Die Flammenströme flimmern, wie das Tageslicht, die lichtgewalt'gen, nimmer schlummernd, ewig jung.
Seine funkelnden alterlosen Flammen, seine Strahlen, des schönleuchtenden, schön zu schauenden von schönem Angesicht, des lichtstarken Agni, zittern die Nacht über gleich dem Farbenspiel der Flüsse, nicht schlafend, nicht alternd.
Его искрящиеся нестареющие (языки пламени), его лучи –
(У этого) прекрасного видом (бога) с прекрасным обликом, с яркой вспышкой,
Сильные (своим) блеском (лучи), трепещут, словно реки
Сквозь ночь, о Агни, недремлющие, нестареющие.
यमे॑रि॒रे भृग॑वो वि॒श्ववे॑दसं॒ नाभा॑ पृथि॒व्या भुव॑नस्य म॒ज्मना॑ । अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ॥
यम् । आ॒ऽई॒रि॒रे॒ । भृग॑वः । वि॒श्वऽवे॑दसम् । नाभा॑ । पृ॒थि॒व्याः । भुव॑नस्य । म॒ज्मना॑ । अ॒ग्निम् । तम् । गीः॒ऽभिः । हि॒नु॒हि॒ । स्वे । आ । दमे॑ । यः । एकः॑ । वस्वः॑ । वरु॑णः । न । राज॑ति ॥
विश्ववेदसं सर्वधनम् । वेद इति धननाम, ‘ वेदः वरिवा' (नि. २. १०. ४ ) इति तन्नामसु पाठात् । तादृशं यम् अग्निं भृगवः भृगुगोत्रोत्पन्नाः पापस्य भर्जकाः पृथिव्याः वेद्याः । एकदेशे कृत्स्नशब्दः । यद्वा । ‘ एतावती वै पृथिवी ' (तै. सं. २. ६. ४. ३) इत्यादिश्रुतेर्वेद्याः पृथिवीत्वम् । तस्या नाभौ उत्तरवेद्यां भुवनस्य भूतजातस्य मज्सना बलेन निमित्तेन आ आभिमुख्येन ईरिरे ईरितवन्तः स्थापितवन्तः तम् अग्निं स्वे स्वकीये दमे गृहे उत्तवेद्यां गीर्भिः स्तुतिभिः आ हिनुहि प्राप्नुहि ॥ ‘ हि गतौ वृद्धौ च ' । उतश्च प्रत्ययाच्छन्दसि वावचनम् ' इति
हेर्लुगभावः ॥ यः अग्निः एकः मुख्यः सन् एक एव वा वस्वः वसुनो गवादिधनस्य राजति ईश्वरो भवति । प्रदातुमिति शेषः । राजति इत्यैश्वर्यकर्मा, ‘क्षियति राजति' ( नि. २. २१. ४ ) इति तन्नामसु पाठात् । तत्र दृष्टान्तः। वरुणो न वारक आदित्य इव । स यथा सर्वस्य ईष्टे तद्वत् ॥
“Bring to his own abode with hymns that Agni, the possessor of all riches, whom the descendants of Bhṛgu plural ced by the strength of all beings upon the navel of the earth; for, like Varuṇa, he reigns sole (monarch) over (all) treasure.”
Send thou with hymns that Agni to his own abode, who rules, one Sovran Lord of wealth, like Varuna,
Him, All-possessor, whom the Bhrgus with their might brought to earth's central point, the centre of the world.
Him the all-wealthy, whom the Bhrigus have set to work on the navel of the earth, with the whole power of the world 1—stir up that Agni by thy prayers in his own house—(him) who alone rules over goods like Varuna.
The god, all-knowing Agni, whom the Bhṛgus brought With might to earth's navel, the centre of the world. Him stimulate with songs within his own abode, Who rules, sole sovereign, over wealth, like Varuṇa.
The all-possessor whom the Bhr̥gus have aroused upon the navel of the earth, of the living world, in his greatness—
Agni—urge him on with songs here in his own home, him who alone rules like Varuṇa over what is good.
Ihn, den allreichen, zogen einst die Bhrigu's her zum Mittelpunkt der Erde und der Welt mit Macht; Den Agni locke her mit Liedern in dein Haus, wie Varuna ist er allein der Güter Herr.
Den Allwissenden, den Bhrigu´s in den Nabel der Erde, der Welt insgesamt eingesetzt haben, den Agni sporne mit Lobreden im eigenen Hause an, der allein über alles Gut König ist wie Varuna!
Всеведущего, которого утвердили Бхригу
На пупе земли (и) мироздания в (его) величии,
Этого Агни подгони к своему дому хвалебными песнями,
Того, кто один, как Варуна, царствует над добром!
न यो वरा॑य म॒रुता॑मिव स्व॒नः सेने॑व सृ॒ष्टा दि॒व्या यथा॒शनि॑: । अ॒ग्निर्जम्भै॑स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न्त्स वना॒ न्यृ॑ञ्जते ॥
न । यः । वरा॑य । म॒रुता॑म्ऽइव । स्व॒नः । सेना॑ऽइव । सृ॒ष्टा । दि॒व्या । यथा॑ । अ॒शनिः॑ । अ॒ग्निः । जम्भैः॑ । ति॒गि॒तैः । अ॒त्ति॒ । भर्व॑ति । न । शत्रू॑न् । सः । वना॑ । नि । ऋ॒ञ्ज॒ते॒ ॥
यः अग्निः वराय वरणाय निग्रहाय न शक्तो न भवति । तत्र दृष्टान्तत्रयमुच्यते । मरुतां स्वनः इव । स यथा अग्राह्यः तद्वत् । तथा सृष्टा वैरिक्षयार्थं प्रबलेन अतिसृष्टा सेनेव । सा यथा अन्यैः अनिरोध्या तद्वत् । तथा दिव्या दिवि भवा अशनिः यथा पतत्येव न निवार्यते तद्वत् । ईदृक् सामर्थ्यमस्तीति दर्शयति । अयम् अग्निः तिगितैः निशितैस्तीक्ष्णीभूतैः ॥ अन्त्यविकारश्छान्दसः । जम्भैः दन्तैर्दन्तस्थानीयाभिर्ज्वालाभिः अत्ति अस्मद्विरोधिनो भक्षयति । तथा भर्वति हिनस्ति ॥ ‘ भर्व हिंसायाम् ' । यास्कस्त्वाह-' भर्वतिरत्तिकर्मा ' (निरु. ९, २३ ) इति । यद्यपि अत्तिभर्वत्योः अदनमेवार्थः तथापि तदवान्तरभेदोऽवगन्तव्यः । तत्र दृष्टान्तः । योधो न संप्रहर्ता शूर इव । स यथा शत्रून् भर्वति भक्षयति तद्वत् । किंच सः अग्निः वना वनानि वृक्षदिसमूहान् न्यृञ्जते नितरां प्रसाधयति दहतीत्यर्थः । ‘ऋञ्जतिः प्रसाधनकर्मा ' इति यास्कः ॥
“Agni, who, like the roaring of the winds, like a victorious host, like the thunderbolt in heaven, is not to be arrested, devours and destroys (our foes) with sharpened teeth (bharva hiṃsāyām; bharvatirattikarmā: Nirukta 9.23), and, as a warrior (annihilates his enemies), he, (Agni), lays waste the woods.”
He whom no force can stay, even as the Maruts' roar, like to a dart sent forth, even as the bolt from heaven,
Agni with sharpened jaws chews up and eats the trees, and conquers them as when the warrior smites his foes.
He who is not to be kept back like the roar of the Maruts, like an army 1that is sent forward, like the thunderbolt of heaven—Agni eats with his sharp jaws, he chews, he throws down the forests as a warrior throws down his foes.
Who like the Maruts' roar, or like a dart discharged, Or like the heavenly bolt can never be restrained: Agni, the god, with pointed fangs consumes and chews; He, as a warrior his foes, lays low the woods.
Who is not to be hindered, like the roar of the Maruts, like an army unleashed, like a heavenly missile,
with his sharp fangs Agni eats; he devours. Like a fighter his rivals, he bears down on the trees.
Der wie der Maruts Brausen, wie der Pfeil im Flug und wie der Blitz des Himmels nicht zu hemmen ist, Er isst und kaut mit scharfem Zahn und streckt dahin des Waldes Bäume, wie der Streiter seinen Feind.
Der nicht aufzuhalten ist wie das Brausen der Marut, wie eine losgelassene Heerschar, wie der himmlische Donnerkeil; Agni ißt, frißt mit scharfen Zähnen, er zwingt die Bäume, wie ein Krieger die Feinde.
Кого не остановить, как шум Марутов,
Как выпущенную стрелу, словно небесный удар грома,
(Этот) Агни ест-пожирает острыми зубами,
Как воин на врагов, он набрасывается на деревья.
कु॒विन्नो॑ अ॒ग्निरु॒चथ॑स्य॒ वीरस॒द्वसु॑ष्कु॒विद्वसु॑भि॒: काम॑मा॒वर॑त् । चो॒दः कु॒वित्तु॑तु॒ज्यात्सा॒तये॒ धिय॒: शुचि॑प्रतीकं॒ तम॒या धि॒या गृ॑णे ॥
कु॒वित् । नः॒ । अ॒ग्निः । उ॒चथ॑स्य । वीः । अस॑त् । वसुः॑ । कु॒वित् । वसु॑ऽभिः । काम॑म् । आ॒ऽवर॑त् । चो॒दः । कु॒वित् । तु॒तु॒ज्यात् । सा॒तये॑ । धियः॑ । शुचि॑ऽप्रतीकम् । तम् । अ॒या । धि॒या । गृ॒णे॒ ॥
अयम् अग्निः नः अस्माकम् उचथस्य उक्थस्य स्तोत्रस्य कुवित् बहुवारं वीः कामयिता असत् भवतु ॥ अस्तेर्लेटि अडागमः । यहा। उचथस्य एतन्नामकस्य महर्षेर्गोत्रप्रभवस्य नः इति संबन्धः । तथा वसुः वासयिता सर्वेषां वसुस्थानीयो वा वसुभिः वासयितृभिर्धनैः कामम् अत्यर्थमभिमतं वा कुवित् अतिप्रभूतम् आवरत् आवृणोतु । अभिमतप्रदानेन कामं निवर्तयत्वित्यर्थः ॥ वृणोतेर्लेटि अडागमः । छान्हसो विकरणस्य लुक् ॥ अयमग्निः चोदः अस्माकं कर्मसु प्रेरकः सन् धियः कर्माणि सातये लाभाय कुवित् बहु तुतुज्यात् त्वरयतु प्रेरयतु इत्यर्थः ॥ तुजिः प्रेरणार्थः । छान्दसः शपः श्लुः ॥ शुचिप्रतीकं शोभनावयवं शोभनज्वालं तम् अग्निम् अया धिया अनया स्तुतिरूपया प्रज्ञया गृणे उच्चारयामि स्तौमीत्यर्थः ॥
“May Agni be ever desirous of our praise; may the giver of wealth satisfy our utmost expectation with riches; may the inspirer (of our devotion) hasten our rites to fruition. I glorify him, the radiant-limbed (Agni), with this laudation.”
And will not Agni find enjoyment in our praise, will not the Vasu grant our wish with gifts of wealth?
Will not the Inspirer speed our prayers to gain their end? Him with the radiant glance I laud with this my song.
Would Agni eagerly come to our hymn? Would He the Vasu together with the Vasus fulfil our desire? Will He, the driver, stir our prayers that they may be successful? (Thus thinking) I praise Him whose face is bright, with this my prayer.
Will Agni be a glad receiver of our praise? Will he, the bright one, with bright goods grant our desire? Will he incite, inspire out thoughts to gain their ends? Him of the radiant face now with this song I laud.
Surely Agni will be the pursuer of our speech? Surely the good one with the good ones [/Vasus] will grant our desire?
Surely as a goad he would push our insights to win? I sing to him who has a blazing face with this insight.
Ob Agni wol an unserm Spruch Gefallen hat? ob unsern Durst nach Gütern wol der gute stillt? Ob fördernd unsre Bitten er zum Ziele führt? den Gott mit hellem Antlitz preiset dies mein Lied.
Ob wohl Agni an unserem Preislied seine Lust haben wird? Ob der Gute mit den Guten unseren Wunsch gewähren wird? Ob er wohl als Ansporner uns fromme Gedanken erregen wird zum Gewinne? Ihn, der von reinem Aussehen, preise ich mit diesem Liede.
Примет ли Агни благосклонно наше песнопение?
Исполнит ли Васу вместе о (другими) Васу (наше) желание?
Будет ли стрекало погонять (наши) поэтические мысли к цели?
Его, имеющего светлый облик, я воспеваю в этой молитве.
घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धू॒र्षद॑म॒ग्निं मि॒त्रं न स॑मिधा॒न ऋ॑ञ्जते । इन्धा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑च्छु॒क्रव॑र्णा॒मुदु॑ नो यंसते॒ धिय॑म् ॥
घृ॒तऽप्र॑तीकम् । वः॒ । ऋ॒तस्य॑ । धूः॒ऽसद॑म् । अ॒ग्निम् । मि॒त्रम् । न । स॒म्ऽइ॒धा॒नः । ऋ॒ञ्ज॒ते॒ । इन्धा॑नः । अ॒क्रः । वि॒दथे॑षु । दीद्य॑त् । शु॒क्रऽव॑र्णाम् । उत् । ऊँ॒ इति॑ । नः॒ । यं॒स॒ते॒ । धिय॑म् ॥
घृतप्रतीकं घृतोपक्रमं प्रयाजादिषु आज्यैर्हूयमानत्वात् । यद्वा । प्रतीकमङ्गम् । दीप्तज्वालमित्यर्थः। किंच वः युष्मत्संबन्धिनः ऋतस्य यज्ञस्य धूर्षदं धुरि निर्वहणे सीदन्तं यज्ञनिर्वाहकम् अग्निं मित्रं न मित्रमिव 'समिधानः इध्मैर्दीपयमानः ऋञ्जते प्रसाधयति । ऋञ्जतिः प्रसाधनकर्मा । एवम् इन्धानः सम्यग्दीप्यमानः अक्रः ज्वालासमिदादिभिराक्रान्तः अन्यैः अनाक्रान्तः वा ॥ क्रमेश्छान्दसो डः ॥ विदथेषु यज्ञेषु वेदयत्सु स्तोत्रेषु निमित्तभूतेषु दीद्यत् स्वयं दीप्यमानः अस्मदीयां धियं प्रज्ञां यागादिविषयां शुक्रवर्णां शुभ्रवर्णां निर्मलां ज्योतिष्टोमादि कर्म वा उदु यंसते उद्योजयत्येव ॥ यमेर्लेटि अडागमः । सिप् ॥ उशब्दोऽवधारणे । धीरिति कर्मनाम, ‘ धीः शमी' (नि. २. १. २१) इति तन्नामसु पाठात् ॥
“The kindler (of the sacrificial fire) propitiates Agni, of glistening form; the upholder of your ceremony, like a friend; well kindled and well supplied (with fuel); blazing brightly at holy rites, he illumines our pure and pious observances.”
The kindler of the flame wins Agni as a Friend, promoter of the Law, whose face is bright with oil.
Inflamed and keen, refulgent in our gatherings, he lifts our hymn on high clad in his radiant hues.
He who has kindled him strives 1 towards Agni as towards Mitra (or, towards a friend)—(to Agni) whose face shines with ghee, the charioteer of Rita. May he who when kindled becomes a racer 2, shining at the sacrifices 3, lift up our bright-coloured prayer.
Who kindles Agni, butter-faced, that draws aloft Your sacrifice, he strives to win him as a friend. When kindled as a shining banner at our rites, May he uplift our radiant-coloured hymn of praise.
The one who has kindled him for you all stretches toward ghee-faced Agni, sitting on the chariot-pole of truth, as if toward Mitra
[/an ally].
A foal [?] while being kindled, shining at the rites, he will raise up our insight, whose color is blazing bright.
Der, Fett im Antlitz, eures Opfers Deichsel zieht, zu Agni wie zum Freunde strebt, wer ihn entflammt, Als Banner strahl' entzündet bei den Opfern er und lenk zum Himmel unser glänzendes Gebet.
Eurem Agni, dem Schmalzgesicht, der auf der Deichsel des rechten Werkes sitzt, läßt der Anzündende den Vortritt wie einem verbündeten Freund. Entflammt bei den Opfern leuchtend möge er wie ein Elefant unser lichtfarbenes Gedicht emporheben.
К вашему Агни с ликом, (обмазанным) жиром, сидящему на дышле закона,
(Жрец,) зажигающий (его,) направляется как к другу.
Зажженный, сверкающий на местах жертвенных раздач, (этот) боевой конь (?)
Пусть понесет вверх нашу светлоокрашенную поэтическую мысль!
अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने शि॒वेभि॑र्नः पा॒युभि॑: पाहि श॒ग्मैः । अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भि॒: परि॑ पाहि नो॒ जाः ॥
अप्र॑ऽयुच्छन् । अप्र॑युच्छत्ऽभिः । अ॒ग्ने॒ । शि॒वेभिः॑ । नः॒ । पा॒युऽभिः॑ । पा॒हि॒ । श॒ग्मैः । अद॑ब्धेभिः । अदृ॑पितेभिः । इ॒ष्टे॒ । अनि॑मिषत्ऽभिः । परि॑ । पा॒हि॒ । नः॒ । जाः ॥
हे अग्ने अप्रयुच्छन् अस्मासु अप्रमाद्यन् ॥'युच्छ प्रमादे' । अविच्छिन्नप्रवृत्तिः सन् 'अप्रयुच्छद्भिः अप्रमाद्यद्भिः अनवधानरहितैः शिवेभिः मन्त्रकल्याणैः शग्मैः सुखकरैः पायुभिः रक्षणप्रकारैः न: अस्मान् पाहि रक्ष। किंच हे इष्टे सर्वैः एषणीयाग्ने जाः जायमानोऽस्माभिर्दीप्यमानः सन् अदब्धेभिः अहिंसितैः अदृपितेभिः केनचिदप्यपरिभूतैः ॥ ‘ दृप दृम्फ उत्क्लेशे '। तौदादिकः ॥ अनिमिषद्भिः निमेषरहितैः अनलस्वभावैः ईदृशैः लक्षणै: नः अस्मान् परि परितः पाहि पालय । यद्वा । उपर्युपरि जायन्ते इति जाः । नो जाः अस्मत्संबन्धिनीः पुत्रपौत्रादिरूपाः प्रजाः परि पाहि परितो रक्ष । न केवलमस्मान् किंतु अस्मत्पुत्रपौत्रादीनपि रक्ष ॥ ॥ १२ ॥
“Agni, never heedless (of us), guard us with never heedless, auspicious, and joy-bestowing cares; do you, who are desired (by all), protect us, and those born of us, with unobstructed unovercome, and never slumbering (vigilance).”
Keep us incessantly with guards that cease not, Agni, with guards auspicious, very mighty.
With guards that never slumber, never heedless, never beguiled. O Helper, keep our children.
1 Preserve us, O Agni, never failing with thy never-failing, kind and mighty guardians; protect our people all around with those undeceived, undismayed, never slumbering (guardians), O thou our wish 2!
Incessantly with guards unceasing, Agni, That are auspicious and strong, protect us. With guards that slumber not, unfailing, watchful, Preserve, O helper, all our children safely.
Staying close, o Agni, protect us with your kindly, able protectors that stay close.
With your undeceivable, undistracted, unwinking (protectors), o object of our quest, protect our kindred all around.
Behüte uns mit holden starken Hütern, mit unabläss'gen, Agni, unablässig, Mit unbethörten, Herr, und unverwirrten, die nimmer schlummern, schütze unsre Kinder.
Schirme uns, o Agni, unablässig mit deinen unablässigen, freundlichen, wirksamen Schirmern; mit den betörten, nie zerstreuten, lieben, die die Augen nie schließen, beschirme unsere Kinder!
О Агни, неустанный, с неустанными,
Милостивыми, доблестными защитниками защити нас!
С не допускающими обмана, нерассеянными, желанными,
Не смыкающими глаз (защитниками) защити со всех сторон наше потомство!