तं पृ॑च्छता॒ स ज॑गामा॒ स वे॑द॒ स चि॑कि॒त्वाँ ई॑यते॒ सा न्वी॑यते । तस्मि॑न्त्सन्ति प्र॒शिष॒स्तस्मि॑न्नि॒ष्टय॒: स वाज॑स्य॒ शव॑सः शु॒ष्मिण॒स्पति॑: ॥
तम् । पृ॒च्छ॒त॒ । सः । ज॒गा॒म॒ । सः । वे॒द॒ । सः । चि॒कि॒त्वान् । ई॒य॒ते॒ । सः । नु । ई॒य॒ते॒ । तस्मि॑न् । स॒न्ति॒ । प्र॒ऽशिषः॑ । तस्मि॑न् । इ॒ष्टयः॑ । सः । वाज॑स्य । शव॑सः । शु॒ष्मिणः॑ । पतिः॑ ॥
हे यजमानाः तम् अग्निं पृच्छत । यत्स्वर्गादिविषयं प्रष्टव्यमस्ति तत् । तस्यैव प्रष्टव्यत्वे अतिशयमाह । स जगाम स सर्वत्र गच्छति । अत एव स वेद स च प्रष्टव्यं जानाति । किमितरसाधारण्येन नेत्याह । स चिकित्वान् स एव चेतनावान् । स विशेषज्ञ इत्यर्थः । सः एव ईयते ज्ञेयसकाशं गच्छति । पुनर्गतिरेव विशेष्यते । सः सोऽग्निरेव नु क्षिप्रम् ईयते । यत् यजमानस्य ज्ञेयमस्ति तमर्थं ज्ञातुं शीघ्रमेव गच्छतीत्यर्थः । यद्वा । ज्ञानार्थम् ईयते सेव्यते । तथा शीघ्रमनुसेव्यते । यस्मादयमुक्तरूपः तस्मात्तमेव पृच्छतेत्यर्थः । तत्र अपेक्षिताः कामाः सन्तीत्याह । तस्मिन् अग्नौ प्रशिषः प्रशासनानि नियमनसामर्थ्यानि सन्ति । असाध्यं नियम्यापि साधयितुं शक्त इत्यर्थः । किंच तस्मिन् एवाग्नौ इष्टयः एष्टव्या भोगाः सर्वफलसाधका यागा वा सन्ति । किंच सः अग्निः वाजस्य अन्नस्य शवसः बलस्य च पतिः पालयिता दाता । किंच शुष्मिणः बलवतो राजादेरपि पतिः स्वामी । यस्मादयं महानुभावस्तस्मात्तमेव पृष्ट्वा पुरुषार्थं साधयतेति ॥
“Ask (of Agni what you desire), for he goes (everywhere), he knows (all things); possessed of intelligence, he proceeds (to ascertain what is to be done), and is had recourse to (by his worshippers); for in him is the power of restraining (unreasonable desires) in him (is the power of granting) enjoyment; he is the giver of food and of strength; the protector of the mighty.”
Ask ye of him for he is come, he knoweth it; he, full of wisdom, is implored, is now implored.
With him are admonitions and with him commands: he is the Lord of Strength, the Lord of Power and Might.
Ask ye him. He has come. He knows. He the intelligent one moves forward; He moves along (his way) (?) 1. In him all commands, all wishes dwell. He is the lord of strength, of mighty power.
Ask him: he has come; he knows. As the one who perceives, he is implored; he is now implored here.
In him are our commands, in him our wishes [/offerings]. He is the lord of the victory prize and of unbridled power.
Ihn frage aus, er ist gekommen und er weiss; zu ihm geht man, dem wissenden, ihn geht man an; Bei ihm empfängt Gebote man und Weisungen, er ist der Herr der Labung und der rüst'gen Kraft.
Ihn fraget; er ist gekommen, er weiß es. Als Kundiger wird er angegangen, nur er wird angegangen. An ihn sind die Aufforderungen, an ihn die Gesuche gerichtet. Er ist der Herr des Gewinnes, der ungestümen Kraft.
Его спрашивайте. Он движется. Он ведает.
К нему обращаются как к знатоку. Только к нему обращаются.
С ним бывают связаны указания, с ним – поиски.
Он господин добычи, буйной силы.
तमित्पृ॑च्छन्ति॒ न सि॒मो वि पृ॑च्छति॒ स्वेने॑व॒ धीरो॒ मन॑सा॒ यदग्र॑भीत् । न मृ॑ष्यते प्रथ॒मं नाप॑रं॒ वचो॒ऽस्य क्रत्वा॑ सचते॒ अप्र॑दृपितः ॥
तम् । इत् । पृ॒च्छ॒न्ति॒ । न । सि॒मः । वि । पृ॒च्छ॒ति॒ । स्वेन॑ऽव । धीरः॑ । मन॑सा । यत् । अग्र॑भीत् । न । मृ॒ष्य॒ते॒ । प्र॒थ॒मम् । न । अप॑रम् । वचः॑ । अ॒स्य । क्रत्वा॑ । स॒च॒ते॒ । अप्र॑ऽदृपितः ॥
पूर्वमन्त्रेऽग्निं पृच्छतेत्युक्तम् । अत्र तु सोऽनुनयेन प्रष्टव्यः इत्याह । तमित् तमेवाग्निं पृच्छन्ति स तु नान्यं पृच्छति प्रश्नसमयेऽपि । सिमः सर्वजनः न वि पृच्छति विपरीतं न पृच्छति । पृष्टोऽपि धीरः धीमानयं स्वेनेव मनसा । इवशब्दः एवार्थे । स्वकीययैव बुद्ध्या यत् यत्कार्यम् अग्रभीत् वदामीत्यादत्ते तदेव प्रतिब्रूते न तु प्रश्नानुकूलम् । स्वतन्त्रेश्वर इत्युक्तं भवति । यद्वा । प्रष्टा धीमान् स्वेन मनसा वाचा वाच्यं विचार्य यदग्रभीत् यद्वाक्यं वक्तव्यत्वेन स्वीकुर्यात् तदेवाग्निं पृच्छति न तु बहु भाषते इत्यर्थः । परवाक्यासह्यत्वमाह । अयमग्निः प्रथमं वचः स्ववाक्यात्पूर्वभावि वचनं न मृष्यते न सहते । तथा अपरं वचः स्वोक्त्यनन्तरभावि प्रतिवचनं न मृष्यते । यस्मादयमेवंविधस्तस्मात् अप्रदृपितः अप्रदृप्तः यद्वा तेन शिक्षितोऽनुद्दण्डः सर्वो लोकः अस्य महानुभावस्याग्नेः क्रत्वा क्रतुना रक्षणादिकर्मणा सह सचते संगच्छते जीवतीत्यर्थः ॥
“They ask of Agni, but no one asks improperly; for a sensible man (replies to solicitation) as he has determined in his own mind; Agni tolerates not a speech that anticipates (his reply), nor endures a rejoinder; he who is devoid of arrogance is favoured by his protection.”
They ask of him: not all learn by their questioning what he, the Sage, hath grasped, as 'twere, with his own mind.
Forgetting not the former nor the later word, he goeth on, not careless, in his mental power.
They ask him. He himself 1 does not ask in turn what he, the wise one, has grasped by his own mind alone 2. He does not forget the first word nor another word. Unconfused he adheres to his own power of mind.
Just him do they ask, but he himself does not ask in turn, since, like a clever man, with his own mind he has grasped it.
He does not forget the first nor the later word. Undistracted, he is
accompanied by his resolve.
Sie fragen ihn; doch nicht ein jeder frägt ihm ab, was weise er erfasst hat mit dem eignen Geist; Das erste Wort vergisst er nicht, noch späteres, in eigner Weisheit geht er ungetäuscht daher.
Ihn fragen sie; er selbst erfragt nicht, was er wie ein Weiser mit eigenem Verstand erfaßt hat. Er vergißt nicht das erste, nicht das spätere Wort. Nach seinem Rat richtet sich der Besonnene.
Это его спрашивают. Сам он не расспрашивает (о том),
Что схватил, мудрый, своим собственным умом.
Он не забывает ни первого, ни последующего слова.
С его силой духа сообразуется тот, кто не безумен.
तमिद्ग॑च्छन्ति जु॒ह्व१॒॑स्तमर्व॑ती॒र्विश्वा॒न्येक॑: शृणव॒द्वचां॑सि मे । पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोति॒: शिशु॒राद॑त्त॒ सं रभ॑: ॥
तम् । इत् । ग॒च्छ॒न्ति॒ । जु॒ह्वः॑ । तम् । अर्व॑तीः । विश्वा॑नि । एकः॑ । शृ॒ण॒व॒त् । वचां॑सि । मे॒ । पु॒रु॒ऽप्रै॒षः । ततु॑रिः । य॒ज्ञ॒ऽसाध॑नः । अच्छि॑द्रऽऊतिः । शिशुः॑ । आ । अ॒द॒त्त॒ । सम् । रभः॑ ॥
जुह्वः अस्मदीया जुहूपभृदादयः तमित् तमेवोद्दिश्य आज्यपूर्णाः सत्यः गच्छन्ति प्रीणयितुम् । यद्वा । हूयन्ते इति जुह्वः आहुतयः सोमादिरूपाः । अथवा जुह्वादिषु स्थितानि आज्यानि अपि आश्रयाश्रयिणोः अभेदेन जुह्वः इत्युच्यन्ते ' मञ्चाः क्रोशन्ति' इतिवत् । ता अपि तमेव गच्छन्ति अस्य सर्वदेवतात्मकत्वात् । अत्रैव इतरदेवतार्थमपि हूयमानं च इति भावः। किंच अर्वतीः प्राप्तिमत्यः स्तुतयः तम् इत् तमैवाग्निं गच्छन्ति सर्वदेवतात्मकत्वादेव । सः एव एकः अयमग्निः विश्वानि मे मदीयानि वचांसि स्तोत्ररूपाणि शृणवत् शृणोति । अग्नेः सर्वदेवतात्मकत्वं तैत्तिरीया आहुः-’ ते देवा बिभ्यतोऽग्निं प्राविशन् तस्मादाहुरग्निः सर्वा देवताः' (तै. सं. ६. २. २. ६ ) इति । तथा अत्रैव पुरस्तादाम्नास्यते- त्वमग्ने वरुणो जायसे यत्त्वं मित्रः ' ( ऋ. सं. ५. ३. १ ) इत्यादि । कोऽस्य विशेषः इत्युच्यते । पुरुप्रैषः बहुप्रैषभाक् । यद्वा । बहुप्रेषणः । सर्वस्याज्ञापयितेत्यर्थः । ततुरिः तारयिता । तरतेः अन्तर्भावितण्यर्थात् “ आदृगमहनः० ' इति किन्प्रत्ययः । ‘ बहुलं छन्दसि' इति उत्वम् ॥ यज्ञसाधनः यज्ञसाधकः अग्न्यधीनत्वाद्यज्ञस्य । अच्छिद्रोतिः अविच्छिन्नरक्षणः शिशुः शिशुवत्प्रियकारी शोचयिता वा शत्रूणाम् । एवंभूतोऽग्निः सं रभः यज्ञादिसंरम्भवान् सन् आदत्त आदत्ते हविरादिकं स्वीकरोति ॥
“To him the (sacrificial) ladles are directed; to him (our) praises are addressed; he alone hears all my prayers; be is the instrumental gator of many, the transporter (across the world), the instrumental ument of sacrifice, the unintermitting preserver (of mankind), and (genitive le as) an infant; provided with the preparations (of sacrifice), he accepts libations.”
To him these ladles go, to him these racing mares: he only will give ear to all the words I speak.
All-speeding, victor, perfecter of sacrifice, the Babe with flawless help hath mustered vigorous might.
To him go the sacrificial ladles, to him go the racers 1. He alone may hear all my words. He who pronounces many praishas 2, the conqueror, the accomplisher of sacrifices whose blessings are flawless, the young child has assumed vigour.
Just to him go the offering ladles; to him the mares [=streams of ghee?]. He alone will hear all my words.
Enjoining many ritual commands, triumphant, bringing the sacrifice to success, offering uninterrupted help, (though) a child, he has taken on his ferocity entirely.
Ihm eilen zu die Löffel, ihm die Stuten zu, und er allein soll Zeuge meiner Worte sein; Der viele antreibt, rasch das Opfer führt zum Ziel, der Jüngling, stark an Hülfe, übte rasche That.
Zu ihnen kommen die Opferlöffel, zu ihm die Rennstuten. Er allein soll alle meine Worte hören. Viele Anweisungen gebend, ein die Schwierigkeiten überwindender Opferausrichter, lückenlosen Schutz gewährend, hat er schon als Kind ganz seine Gewalttätigkeiten angenommen.
К нему направляются жертвенные ложки, к нему – скачущие кобылицы.
Он один услышит все мои слова.
Отдающий много приказов, преодолевающий (препятствия), приводящий жертву к цели,
Тот, чья помощь без изъяна, (еще) ребенком он усвоил насилие.
उ॒प॒स्थायं॑ चरति॒ यत्स॒मार॑त स॒द्यो जा॒तस्त॑त्सार॒ युज्ये॑भिः । अ॒भि श्वा॒न्तं मृ॑शते ना॒न्द्ये॑ मु॒दे यदीं॒ गच्छ॑न्त्युश॒तीर॑पिष्ठि॒तम् ॥
उ॒प॒ऽस्थाय॑म् । च॒र॒ति॒ । यत् । स॒म्ऽआर॑त । स॒द्यः । जा॒तः । त॒त्सा॒र॒ । युज्ये॑भिः । अ॒भि । श्वा॒न्तम् । मृ॒श॒ते॒ । ना॒न्द्ये॑ । मु॒दे । यत् । ई॒म् । गच्छ॑न्ति । उ॒श॒तीः । अ॒पि॒ऽस्थि॒तम् ॥
यत् यदा अध्वर्युः उपस्थायं चरति उपस्थायोपस्थाय अनुतिष्ठति उत्पत्त्यनुकूलव्यापारं करोति । कदेत्याह । यत् समारत समागच्छत मथनेन आविरभवत् ॥ ‘ समो गम्यृच्छि ' इति अर्तेः आत्मनेपदम् ॥ सद्यः तदानीमेव जातः उत्पन्नः सन् युज्येभिः योक्तुं संबद्धुं समर्थैः फलैः मिश्रयितुमर्हैस्तेजोभिर्वा युक्तः सन् तत्सार अरण्योर्गूढः सन् चचार । यद्वा । युज्येभिरश्वैर्जातमात्रः एव सर्वत्र संचचार ॥ ‘ त्सर च्छद्मगतौ ' । लिटि णलि रूपम् ॥ एवं प्रवृद्धोऽयं श्वान्तं श्रान्तं शान्तं वा यजमानं 'नान्द्ये नन्दनीये कर्मणि निमित्तभूते सति मुदे तस्य संतोषाय अभि मृशते अभिमर्शनं करोति । फलप्रदानेनेति भावः । यथा लोके गुर्वादिः श्रान्तं शिष्यादिकं स्पृशति तद्वत् । कदेति चेत् उच्यते । यत् यदा अपिष्ठितं व्याप्य वर्तमानम् ईम् एनमग्निम् उशतीः कामयमाना आज्यधाराः स्तुतयो वा गच्छन्ति प्राप्नुवन्ति तदा अभि मृशते ॥
“When (the priest) proceeds to effect his development, he is (at once) manifested; and as soon as engendered, is associated with his objects; he provides for the gratification (of his worshipper), plural cidly engaged in the agreeable (rite), when the (oblations) that desire (his acceptance) reach him present (at the sacrifice).”
Whate'er he meets he grasps and then runs farther on, and straightway, newly born, creeps forward with his kin.
He stirs the wearied man to pleasure and great joy what time the longing gifts approach him as he comes.
When he has come together 1 (with his companions 2), he goes to greet them 3. As soon as born he steals upon (his prey) together with his companions. He strokes the … 4 to give him delight and joy, when the loving ones 5 approach him who stands on them 6.
He proceeds in a reverential approach (to them) when they [=flames?] have raised themselves up together. Just born, he has crept together
with the conjoined ones.
He touches the swelling one for joy and delight, when the willing females [=streams of ghee?] go to him standing right there.
Er eilt zum Sitz, sobald er nur bereitet ist, und kaum geboren schleicht mit den Genossen er; Den lieben Schooss berührt zur Wonne er und Lust, wenn zu dem nahnden kommen die begehrlichen.
Er kommt näher heran, wenn sie sich zusammengeschlossen haben. Eben geboren ist er alsogleich mit den Angehörigen herangeschlichen. Sie berührt den schwellenden zur Lust, zur Freude, wenn sie verlangend zu dem Erwartenden kommen.
Он приближается, когда они соединились.
Едва родившись, он уже подполз со (своими) родичами.
Она ласкает его набухающего – на радость (и) восторг,
Когда, жаждая (его), они идут к нему, преграждающему (им) путь.
स ईं॑ मृ॒गो अप्यो॑ वन॒र्गुरुप॑ त्व॒च्यु॑प॒मस्यां॒ नि धा॑यि । व्य॑ब्रवीद्व॒युना॒ मर्त्ये॑भ्यो॒ऽग्निर्वि॒द्वाँ ऋ॑त॒चिद्धि स॒त्यः ॥
सः । ई॒म् । मृ॒गः । अप्यः॑ । व॒न॒र्गुः । उप॑ । त्व॒चि । उ॒प॒ऽमस्या॒म् । नि । धा॒यि॒ । वि । अ॒ब्र॒वी॒त् । व॒युना॑ । मर्त्ये॑भ्यः । अ॒ग्निः । वि॒द्वान् । ऋ॒त॒ऽचित् । हि । स॒त्यः ॥
स ईं स एवाग्निः उपमस्याम् उपमायामुपमास्पदायां त्वचि ओषध्यादिभिराच्छादितायाँ वेद्याम् उप नि धायि उपस्थाप्यते उत्तरत्रोपभोगाय । कीदृशः सः। मृगः मार्जयिता अन्वेषणशीलो वा । ‘मृगो मार्ष्टेर्गतिकर्मणः' (निरु. १.२०) इति यास्कः । अप्यः आप्यो गन्तव्यः । अपः कर्म तत्र साधुर्वा। वनर्गुः वनगामी ॥ ऋच्छतेर्गमेः च इदं रूपम् । यद्वा । गमेरेव । उपपदस्य रुडागमश्छान्दसः ॥ एवंभूतः अग्निः मर्त्येभ्यः मरणधर्मभ्यो यजमानादिरूपेभ्यः वयुनानि प्रज्ञानानि अनुष्ठेयज्ञानानि व्यब्रवीत् विशेषेण ब्रवीति उपदिशति । वयुनमिति प्रज्ञानाम, ‘ वयुनम् अभिख्या ' (नि. ३. ९. १०) इति तन्नामसु पाठात् । ईदृक् सामर्थ्यमस्तीति दर्शयति । अयम् अग्निर्विद्वान् सर्वज्ञः ऋतचित् यज्ञस्योदकस्य वा चेतिता ज्ञाता सत्यः । सत् क्रियमाणं कर्म । तत्र साधुः । सत्सु भवो वा । सत् फलं तदर्हतीति वा । सम्यक्फलप्रद इत्यर्थः । यस्मादयमुक्तसामर्थ्योपेतः तस्मात् प्रज्ञोपदेशो युक्तः । हिशब्दः प्रसिद्धौ ॥ ॥ १४ ॥
“He, the searcher, the accessible, the dweller in woods, has been plural ced (amidst the fuel), as in the similitude of (an enveloping) skin; the wise Agni, the appreciater of sacrifice, the veracious, has declared to mortals (the knowledge of) their religious duties.”
He is a wild thing of the flood and forest: he hath been laid upon the highest surface.
He hath declared the lore of works to mortals, Agni the Wise, for he knows Law, the Truthful.
He, the animal living in the water and walking in the forest 1, has been placed on the highest skin 2 (sky?). He has proclaimed his rules to the mortals: for Agni, the knowing one, is intent upon Rita (Right) and is true.
This wild beast of the waters that roams in the woods has been installed upon the uppermost skin.
He has declared the (ritual) patterns to mortals—the knowing Agni. For he is the perceiver of truth who is really present (here).
Ein Wild ist er des Wassers und des Waldes, man legt ihn auf der Erde obre Fläche; Kunstreiche Werke lehrte er die Menschen; denn Agni kennt die heil'gen Bräuche alle.
Er, das Wassertier, der Waldgänger, wurde auf die oberste Haut der Erde niedergesetzt. - Er hat den Sterblichen die rechten Wege verkündet, denn Agni, der Wissende, ist der wahre Kenner des Rechten.
Этот зверь водяной, (зверь,) бродящий в лесу,
Обосновался на высшей шкуре (земли).
Он провозгласил смертным вехи (обряда),
Агни, ведун, постигший (вселенский) закон, истинный (бог).