त्रि॒मू॒र्धानं॑ स॒प्तर॑श्मिं गृणी॒षेऽनू॑नम॒ग्निं पि॒त्रोरु॒पस्थे॑ । नि॒ष॒त्तम॑स्य॒ चर॑तो ध्रु॒वस्य॒ विश्वा॑ दि॒वो रो॑च॒नाप॑प्रि॒वांस॑म् ॥
त्रि॒ऽमू॒र्धान॑म् । स॒प्तऽर॑श्मिम् । गृ॒णी॒षे॒ । अनू॑नम् । अ॒ग्निम् । पि॒त्रोः । उ॒पऽस्थे॑ । नि॒ऽस॒त्तम् । अ॒स्य॒ । चर॑तः । ध्रु॒वस्य॑ । विश्वा॑ । दि॒वः । रो॒च॒ना । आ॒प॒प्रि॒ऽवांस॑म् ॥
अनया अग्निर्यज्ञरूपेण स्तूयते । त्रिमूर्धानं सवनत्रयरूपमूर्धत्रयोपेतम् ॥ ‘ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ' इत्युत्तरपदान्तोदात्तत्वम् ॥ किंच सप्तरश्मिं नियामकसप्तच्छन्दोयुक्तम् अनूनम् अविकलं संपूर्णफलम् अग्निम् अग्निसाध्यम् अङ्गनादिगुणयुक्तं वा पित्रोरुपस्थे द्यावापृथिव्योरुत्सङ्गे निषत्तं निषण्णम् । मध्ये वर्तमानमित्यर्थः । भूमिस्थद्रव्येण द्युलोकस्थदेवताभिश्च साध्यत्वादिति यावत् । किंच ध्रुवस्य निश्चलस्य चरतः हविर्भक्षयतः अस्य अग्नेः संबन्धिनं यज्ञं दिवः द्युलोकादागतानि विश्वानि रोचनानि देवविमानानि आपप्रिवांसं सर्वतः पूरयितारं गृणीषे गृणीहि स्तुहि । यद्वा अयमग्निरेवोच्यते । त्रिमूर्धवदत्र क्षित्यन्तरिक्षद्युलोकाख्यस्थानत्रयोपेतम् । लोकत्रयव्याप्तमित्यर्थः । गार्हपत्यादिस्थानत्रयवर्तिनं वा । सप्तरश्मिं सप्तज्वालम् अनूनम् अन्यूनं पित्रोः द्यावापृथिव्योरुपस्थे उत्सङ्गे निषत्तम् ॥ ‘ नसत्तनिषत्त° ' इति निपातनात् निष्ठानत्वाभावः ॥ निषण्णम् आपप्रिवांसं सर्वतः पूरयन्तं कामानाम् उक्तलक्षणविशिष्टमग्निं गृणीषे गृणीहि स्तुहि । किंच चरतः सर्वत्र ज्वालाभिर्गच्छतो ध्रुवस्य धृतत्वात अविचलितस्य दिवो द्योतमानस्य अस्य अग्नेः विश्वा सर्वाणि रोचना रोचमानानि तेजांसि सर्वत्र व्याप्नुवन्तीति शेषः । ईदृशमग्निं स्तुहि इति अन्तरात्मनः प्रैषः ॥
“Glorify the three-headed, seven-rayed Agni, who is sibject to no diminution, seated on the lap of his parents, (heaven and earth); and gratifying all (desires); as the universal radiance of the divine (Agni), whether moving or stationary, (spreads around).”
I LAUD the seven-rayed, the triple-headed, Agni all-perfect in his Parents' bosom,
Sunk in the lap of all that moves and moves not, him who hath filled all luminous realms of heaven.
I praise Agni who has three heads and seven rays (or reins) 1, who is without flaw, sitting in the lap of his parents 2 and of whatever moves or is firm, who has filled (with his light) all the lights of Heaven.
I will hymn three-headed, seven-reined Agni, who is without deficiency, seated in the lap of his parents [=fire-churning sticks],
one (stick) that moves and one that stays firm—(Agni,) who has filled all the luminous realms of heaven.
Ihn, der drei Köpfe hat und sieben Zügel, im Aeltern-Schooss den vollen Agni preis' ich, Der sitzt im Schooss des gehenden und festen, und der den ganzen Himmelsraum erfüllt hat.
Den Agni mit drei Köpfen und sieben Zügeln will ich preisen, den vollkommenen, der im Schoße der beiden Eltern, im Schoße dessen sitzt, was geht und steht, der alle Lichter des Himmels erfüllt hat.
Трехглавого, с семью поводьями я воспеваю –
Агни, которому ничего не не хватает, в лоне родителей
Усевшегося, (в лоне того,) что движется и неподвижно,
(Агни), заполнившего все светлые пространства неба.
उ॒क्षा म॒हाँ अ॒भि व॑वक्ष एने अ॒जर॑स्तस्थावि॒तऊ॑तिॠ॒ष्वः । उ॒र्व्याः प॒दो नि द॑धाति॒ सानौ॑ रि॒हन्त्यूधो॑ अरु॒षासो॑ अस्य ॥
उ॒क्षा । म॒हान् । अ॒भि । व॒व॒क्षे॒ । ए॒ने॒ इति॑ । अ॒जरः॑ । त॒स्थौ॒ । इ॒तःऽऊ॑तिः । ऋ॒ष्वः । उ॒र्व्याः । प॒दः । नि । द॒धा॒ति॒ । सानौ॑ । रि॒हन्ति॑ । ऊधः॑ । अ॒रु॒षासः॑ । अ॒स्य॒ ॥
उक्षा सेक्ता । फलप्रदानसमर्थः इत्यर्थः । अत एव महान् महिम्ना स्वरूपेण उद्वृत्तवृषभसदृशः अयमग्निः एने द्यावापृथिव्यौ अभि अभिक्रम्य व्याप्य ववक्षे वहति व्याप्नोतीत्यर्थः। वहतेलेंटि छान्दसः शपः श्लुः । ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः । ‘ सिब्बहुलम्' इति सिप् ॥ वृष्ट्यादिप्रदानेन हविर्वहनेन च लोकद्वयस्य वासिनः देवान् मनुष्यांश्च रक्षतीत्यर्थः । किंच अयम् अजरः जरारहितः ऋष्वः महान् पूज्यः । महन्नामैतत् ।' ऋष्वः उक्षः ' (नि. ३. ३. ३ ) इति तन्नामसु पाठात् । तथा इतऊतिः प्राप्तरक्षणः सन् तस्थौ स्थितो वर्तते । यद्वा । उक्तगुणोऽयम् इतऊतिः इत एवं गमनवान् अस्मद्देवयजनाभिमुखगमनवान् तस्थौ वर्तते । तदनन्तरम् उर्व्या विस्तृताया भूम्याः सानौ समुच्छ्रिते प्रदेशे वेदिलक्षणे पदो नि दधाति पदानि स्थापयति करोति । किंच अस्य अग्नेः अरुषासः अरुषा आरोचना: ऊधः ऊधःस्थानीयमन्तरिक्षं रिहन्ति लिहन्ति । यद्वा । अस्य ऊधः ऊधः स्थानीयं यज्ञमरुषास आरोचना: ब्रह्मवर्चसेन यजमाना रिहन्ति अभिमतस्वर्गादीनि लिहन्ति ।
“The great showerer (of benefits) has pervaded these two (worlds); undecaying and adorable, he is (ever) present, bestowing protection; he plural ces his foot on the summit of the earth, and his radiant (flames) lick the udder (of the firmament).”
As a great Steer he grew to these his Parents; sublime he stands, untouched by eld, far-reaching.
He plants his footsteps on the lofty ridges of the broad earth: his red flames lick the udder.
The big bull has grown up to them 1; the ageless one who from here (from this world) distributes his blessings, the tall has stood up erect. He puts down his feet on the surface of the wide (Earth); his red ones 2 lick the udder (the cloud?).
The great young bull has grown upon the two (sticks?). Unaging, ever young, he stands tall.
He sets his feet down upon the back of the broad (earth); his ruddy (flames) lick the udder.
Den Aeltern wuchs der grosse Stier entgegen, erhaben steht er, unauslöschlich, ewig, Die Füsse setzt er auf der Erde Rücken, des Himmels Euter lecken seine Flammen.
Der große Stier ist über diese beiden hinausgewachsen, der Alterlose hat sich hoch emporgerichtet, von hier aus helfend. Er setzt seine Füße auf den Rücken der breiten Erde. Seine roten Rosse belecken das Euter.
Великий бык вырос навстречу этим двоим;
Нестареющий, вечно юный (так) пребывает, огромный.
Ноги (свои) он ставит на спину широкой (земли).
Его алые языки пламени лижут вымя (неба).
स॒मा॒नं व॒त्सम॒भि सं॒चर॑न्ती॒ विष्व॑ग्धे॒नू वि च॑रतः सु॒मेके॑ । अ॒न॒प॒वृ॒ज्याँ अध्व॑नो॒ मिमा॑ने॒ विश्वा॒न्केताँ॒ अधि॑ म॒हो दधा॑ने ॥
स॒मा॒नम् । व॒त्सम् । अ॒भि । स॒ञ्चर॑न्ती॒ इति॑ स॒म्ऽचर॑न्ती । विष्व॑क् । धे॒नू इति॑ । वि । च॒र॒तः॒ । सु॒मेक्के॒ इति॑ सु॒ऽमेके॑ । अ॒न॒प॒ऽवृ॒ज्यान् । अध्व॑नः । मिमा॑ने॒ इति॑ । विश्वा॑न् । केता॑न् । अधि॑ । म॒हः । दधा॑ने॒ इति॑ ॥
समानम् एकमेव वत्सं वत्सस्थानीयं पुत्रवत् हर्षहेतुम् अग्निम् अभिमुखं संचरन्ती संचरन्त्यौ द्वे धेनू अग्निहितकरणेन प्रीणयित्र्यौ पत्नीयजमानलक्षणे धेनू विष्वक् वि चरतः संचरतः । स्तनपानादिसदृशेन्धनप्रक्षेपसंमार्जनादिना सम्यग्वर्धयतः इत्यर्थः । कीदृश्यौ ते सुमेके शोभनकर्माणौ शोभनमेहने वा परिचरणकुशले इत्यर्थः । किंच अनपवृज्यान् अपवर्जनीयरहितान् ॥ ‘ नञ्सुभ्याम् । इत्युत्तरपदान्तोदात्तत्वम् ॥ अध्वनः मार्गान् अग्नेः प्रान्तप्रदेशान् केशाद्यमेध्यरहितान् मिमाने संपादयित्र्यौ । किंच विश्वान्केतान् सर्वाणि प्रज्ञानानि प्रवर्धनविषयाणि महः महान्ति अधि अधिकं दधाने धारयन्त्यौ। ईदृश्यौ अध्वर्युयजमानरूपे जायापतिरूपे वा धेनू विश्वग्विचरतः ॥
“(there are) two well-disposed cows together approaching their common progeny, and fully nourishing (him); pointingout the paths that are free from all that is to be avoided, and possessing more than the great intelligence (necessary for his development).”
Coming together to their common youngling both Cows, fairshaped, spread forth in all directions,
Measuring out the paths that must be travelled, entrusting all desires to him the Mighty.
Walking towards their common calf the two well-established 1 milch-cows 2 walk about in different directions. They measure interminable paths; they have invested themselves with all great desires.
Converging upon the same calf, the two well-grounded milk-cows wander apart on their separate ways,
measuring their roads whose end can never be reached, taking upon themselves all the intentions of the great one.
Sie beide wandelnd zu demselben Kalbe die schönen Kühe gehn getrennt dann wieder, Durchmessend die noch unbetretnen Pfade, der Grösse Zeichen alle an sich nehmend.
Ihrem gemeinsamen Kalbe sich zuwendend gehen die beiden Milchkühe getrennte Wege, den richtigen Abstand einhaltend, indem sie ihre nicht endenden Wege zurücklegen, alle großen Wünsche in ihrer Hand haltend.
Двигаясь вместе к общему теленку
Две дойные коровы, твердо следуя порядку, расходятся в разные стороны,
Отмеривая нескончаемые пути,
Привлекая к себе все великие помыслы.
धीरा॑सः प॒दं क॒वयो॑ नयन्ति॒ नाना॑ हृ॒दा रक्ष॑माणा अजु॒र्यम् । सिषा॑सन्त॒: पर्य॑पश्यन्त॒ सिन्धु॑मा॒विरे॑भ्यो अभव॒त्सूर्यो॒ नॄन् ॥
धीरा॑सः । प॒दम् । क॒वयः॑ । न॒य॒न्ति॒ । नाना॑ । हृ॒दा । रक्ष॑माणाः । अ॒जु॒र्यम् । सिसा॑सन्तः । परि॑ । अ॒प॒श्य॒न्त॒ । सिन्धु॑म् । आ॒विः । ए॒भ्यः॒ । अ॒भ॒व॒त् । सूर्यः॑ । नॄन् ॥
धीरासः धीरा धीमन्तः प्रयोगज्ञा अध्वर्वादयः अजुर्यम् अजर्यम् अजीर्णम् एनमग्निं पदं स्थानं वेदिलक्षणं नयन्ति प्रापयन्ति मथनदेशात् गार्हपत्याद्वा । अथवा वक्ष्यमाणलक्षणा यजमानादयः पदमास्पदं सर्वकामानाम् आस्पदम् एनं गमयन्ति। कीदृशास्ते । कवयः क्रान्तदर्शिनो मेधाविनः अनूचाना वा । ये वा अनूचानास्ते कवयः' (ऐ. ब्रा. २. २ ) इति श्रुतेः । किंच नाना हृदा बहुप्रकारया बुद्ध्या रक्षमाणाः धारयमाणाः । किंच एवंरूपास्ते सिन्धुं स्यन्दमानं यज्ञद्वारा फलानि स्रवन्तम् अग्निं सिषासन्तः संभक्तुमिच्छन्तः। सनतेः सनि ‘ सनीवन्तर्ध°' इति विकल्पनात् इडभावः । ‘ जनसनखनाम् ' इति आत्वम् ॥ पर्यपश्यन्त परितः पश्यन्ति । शुश्रूषन्त इत्यर्थः । किंच सूर्यः सर्वस्य प्रसविता अयमग्निः एभ्यः एवं कुर्वद्यःश नॄन् नृभ्यो नेतृभ्यः आविः अभवत् तेषामनुग्रहेण प्रत्यक्षोऽभवत् ॥ नॄनित्यत्र वचनव्यत्ययः॥ नॄन् प्राणिनोऽनुग्रहीतुमिति वा योज्यम् ॥
“Experienced sages (kavayaḥ: ye vā anūcāste kavayaḥ--Aitareya Brāhmaṇa 2.2) bring the invincible (Agni), to his station (onthe altar); cherishing him in manifold (ways) in their hearts; desirous of propitiating him, they worshipthe (boon) shedding (Agni); and to those men he is manifest as the Sun.”
The prudent sages lead him to his dwelling, guarding with varied skill the Ever-Youthful.
Longing, they turned their eyes unto the River: to these the Sun of men was manifested.
Wise poets 1 follow his track 2 who in manifold ways protect the ageless one with their hearts. Wishing to acquire him they have searched the river 3. He the Sun 4 became visible to them, to the men 5.
Clever poets guide his step, guarding with their heart, in different ways, the one exempt from age.
Seeking to win him, they have surveyed the river. He has become
manifest to them as the sun toward men.
Die weisen Seher lenken seine Schritte, behüten sorgsam ihn, der nimmer alt wird, Verlangend schauten sie nach ihm, dem Strome; da zeigte ihnen sich der Männer Sonne.
Die weisen Seher folgen seiner Spur, jeder für sich den Alterlosen im Herzen bewahrend. Im Wunsch den Strom zu gewinnen schauten sie sich um. Ihnen ward offenbar die Sonne der Männer.
Мудрые поэты ведут по следу (Агни),
Каждый у себя в сердце храня нестареющего.
Стремясь овладеть (им), они осмотрели реку со всех сторон-
(И вот) им явилось солнце, (осветив) мужей.
दि॒दृ॒क्षेण्य॒: परि॒ काष्ठा॑सु॒ जेन्य॑ ई॒ळेन्यो॑ म॒हो अर्भा॑य जी॒वसे॑ । पु॒रु॒त्रा यदभ॑व॒त्सूरहै॑भ्यो॒ गर्भे॑भ्यो म॒घवा॑ वि॒श्वद॑र्शतः ॥
दि॒दृ॒क्षेण्यः॑ । परि॑ । काष्ठा॑सु । जेन्यः॑ । ई॒ळेन्यः॑ । म॒हः । अर्भा॑य । जी॒वसे॑ । पु॒रु॒ऽत्रा । यत् । अभ॑वत् । सूः । अह॑ । ए॒भ्यः॒ । गर्भे॑भ्यः । म॒घऽवा॑ । वि॒श्वऽद॑र्शतः ॥
अयमग्निः काष्ठासु परस्परं क्रान्त्वा वर्तमानासु दशसु दिक्षु दिदृक्षेण्यः। अनुग्रहयुक्त्या दर्शनयुक्तः भवति । यद्वा । द्रष्टुमेष्टव्यो दर्शनेच्छाविषयभूतः ॥ दृशेः सनन्तात् कृत्यार्थे तवैकेन्केन्य० इति केन्यप्रत्ययः । अत एव जेन्यः सर्वत्र प्रादुर्भवनशीलो भवति जयशीलो वा । किंच प्रदानसमये ईळेन्यः स्तुत्यो भवति । किमर्थमेवम् । महः महतो देवादेः अर्भाय अर्भकस्याल्पस्य यजमानादेर्वा जीवसे जीवनाय । हविर्वहनेन धनप्रदानेन इति विवेकः । तत्रोपपत्तिमाह । यत् अह यस्मात् खलु पुरुत्रा बहुषु देशेषु ॥ ‘ देवमनुष्य°' इत्यादिना त्राप्रत्ययः ॥ मघवा हविर्लक्षणान्नवान् विश्वदर्शतः सर्वविषयद्रष्टव्यवानयमग्निः एभ्यो गर्भेभ्यः ॥ षष्ठ्यर्थे चतुर्थी ॥ एषामृत्विजां गर्भवच्छिशुवदत्यन्तरक्षणीयानां सूः अभवत् प्रसविता उत्पादयिता अभवत् भवति । तस्मात् नाना हृदा रक्षमाणाः कवयः पदं नयन्तीति पूर्वत्र संबन्धः ॥ ॥ १५ ॥
“He is willing to be seen in the (ten) regions (of space); the victorious, the adorable, the source of life to great and small; inasmuch as in many plural ces the opulent (possessor of sacrificial food), who is visible to all, is the parent of that (pious) progeny.”
Born noble in the regions, aim of all mens' eyes to be implored for life by great and small alike,
Far as the Wealthy One hath spread himself abroad, he is the Sire all-visible of this progeny.
He is worthy to be looked for, round about in his race-courses, the noble who is to be magnified 1, the great one 2, in order that the small may live, as he, the all-visible liberal lord, has become a progenitor for those germs in many places.
Desirable to be seen, a thoroughbred around the racecourse; greatly to be invoked for the small one to live,
since in many places he has become the birth-giver to these embryos— he, the generous one for all to see.
Der sehenswerthe, edle in der Lüfte Bahn, der preisenswerth für gross und klein zum Leben ist; Denn er, ein Licht, allsichtbar, ist ja weit und breit Erzeuger für die Kinder hier, der mächtige.
Der gern gesehene, rings in den Schranken heimische, der für groß und klein anzurufen ist zum Leben, da der allen sichtbare Gabenreiche ja für diese Kinder vielerorts die Mutter ward.
(Тот,) кого (все) хотят видеть, чувствующий себя дома в оградах вокруг (него),
Достойный призывов великого и малого – для жизни,
Потому что во многих местах он был (словно) мать
Для новорожденных, щедрый, видимый для всех.