क॒था ते॑ अग्ने शु॒चय॑न्त आ॒योर्द॑दा॒शुर्वाजे॑भिराशुषा॒णाः । उ॒भे यत्तो॒के तन॑ये॒ दधा॑ना ऋ॒तस्य॒ साम॑न्र॒णय॑न्त दे॒वाः ॥
क॒था । ते॒ । अ॒ग्ने॒ । शु॒चय॑न्तः । आ॒योः । द॒दा॒शुः । वाजे॑भिः । आ॒शु॒षा॒णाः । उ॒भे इति॑ । यत् । तो॒के इति॑ । तन॑ये । दधा॑नाः । ऋ॒तस्य॑ । साम॑न् । र॒णय॑न्त । दे॒वाः ॥
हे अग्ने ते तव संबन्धिनो रश्मयः शुचयन्तः दीप्तिं सर्वत्र चक्षाणाः प्रकटयन्तः आशुषाणाः आशु शीघ्रं संभक्तारः आशून संभक्तारो वा । वाय्वादेरपि शीघ्रं संभक्तार इत्यर्थः । यद्वा । समन्तात् शोषयितारः । यद्वा । सर्वं व्याप्नुवन्तः । अश्नोतेर्लिटः कानच् । व्यत्ययेन उप्रत्ययः सिच् च इति द्विविकरणता । आङ्पूर्वात् अन्तर्भावितण्यर्थात् शुषेः शानचि छान्दसः शपो लुक् । आशुशब्दोपपदात् सनतेः कर्मणि अण् ॥ ईदृशा रश्मयः वाजेभिः अन्नैः सहितम् आयोः आयुरायुष्यम् ॥ कर्मणि षष्ठी ॥ कथा केनोपायेन ददाशुः ददति ॥ ‘दा दाने'। छान्दसो लिट् । तमुपायमनुगृहाणेत्यर्थः । रश्मीनां वरप्रदानं कुत्र दृष्टमिति चेत् उच्यते । यत् यस्मात् उभे उक्ते अन्नायुषी तोके पुत्रे तनये अनवच्छेदेन' कुटुम्बस्य विस्तारके। यद्वा। तोके पुत्रे तनये तत्पुत्रादौ च। दधानाः धारयन्तः देवाः व्यवहर्तारो यजमानाः ऋतस्य यज्ञस्य संबन्धिनि सामन् साम्नि रथन्तरादौ रणयन्त रमन्ते रमयन्ति शब्दयन्त्येव वा । यस्मात् अन्नायुष्पुत्रादिसहिताः सोमेनेष्वात साम्नि रमन्ते तस्मात् रश्मयो ददतीत्यवगम्यते इत्यर्थः । तादृशांस्त्वदीयान् रश्मीन् मामपि अनुगृहाणेत्यर्थः ॥
“How have your shining and evaporating (rays), Agni, supported life (and supplied) food; so that, enjoying both, the devout (worshippers), possessing sons and grandsons, may repeat the hymns of the sacrifice.”
How, Agni, have the radiant ones, aspiring, endued thee with the vigour of the living,
So that on both sides fostering seed and offspring, the Gods may joy in Holy Law's fulfilment?
How, O Agni, have the resplendent ones worshipped thee, aspiring through the powers of the Âyu 1, when 2 the gods, obtaining kith and kin of both races 3 (human and divine?), rejoiced in the song of Rita (or Right) 4?
How do the blazing (flames?) of you, of Āyu, panting hard, perform ritual service with prizes of victory, o Agni,
when, establishing both progeny and posterity, the gods delight in the melody of truth?
Wie dienten dir die leuchtenden, o Agni, durch des Lebend'gen Labung dich entflammend, Als sich die Götter, Kind und Enkel schenkend, ergötzten am Gesang des Gottesdienstes?
Wie haben dir, Agni, die Söhne des Ayu inbrünstig sich beeifernd mit Ehrengaben aufgewartet, so daß die Götter sich an der rechten Sangesweise erfreuten, indem sie beiderlei Samen in die Nachkommenschaft legten?
Как, о Агни, пылкие (потомки) Аю
Почитали тебя, возбужденные наградами,
Чтобы боги радовались музыке (вселенского) закона,
Поддерживая оба (рода) в детях и внуках?
बोधा॑ मे अ॒स्य वच॑सो यविष्ठ॒ मंहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒न्वं॑ वन्दे अग्ने ॥
बोध॑ । मे॒ । अ॒स्य । वच॑सः । य॒वि॒ष्ठ॒ । मंहि॑ष्ठस्य । प्रऽभृ॑तस्य । स्व॒धा॒ऽवः॒ । पीय॑ति । त्वः॒ । अनु॑ । त्वः॒ । गृ॒णा॒ति॒ । व॒न्दारुः॑ । ते॒ । त॒न्व॑म् । व॒न्दे॒ । अ॒ग्ने॒ ॥
हे यविष्ठ युवतम हे स्वधावः हविर्लक्षणान्नेन तद्वन्नग्ने मे मदीयस्य मंहिष्ठस्य अतिशयेन पूजनीयस्य प्रभृतस्य प्रकर्षेण संपादितस्य अस्य इदानीं क्रियमाणस्य वचसः स्तुतिरूपस्य वचनस्य ॥ कर्मणि षष्ठी ॥ उक्तलक्षणं वचः बोध बुध्यस्व स्तुतो भवेत्यर्थः । हे अग्ने लोके त्वः । अत्र यास्कः ‘त्वो नेम इत्यर्धस्य ' (निरु. ३. २०) इत्युक्त्वा एतदेवोदाजहार । एको जनः पीयति। वधकर्मैतत् । हिनस्ति । यज्ञादिना न पूजयतीत्यर्थः । त्वः एकः अनु गृणाति अनुकूलम् उच्चारयति । तयोर्मध्ये हे अग्ने वन्दारुः वन्दनशीलोऽहं ते तव तन्वं तनुं तव मूर्तिं वन्दे स्तौमि ॥
“Youthful (Agni), to whom oblations are due, appreciate this my reverential and earnest praise; one man reviles (you), another propitiates (you); I, your worshipper, glorify, your person n.”
Mark this my speech, Divine One, thou, Most Youthful! offered to thee by him who gives most freely.
One hates thee, and another sings thy praises: I thine adorer laud thy form, O Agni.
Give heed to this my proffered hymn, O youngest one, which is most rich in liberal gifts 1, O self-dependent one! The one abuses thee, the other praises thee: I thy reverer revere thy body, O Agni 2!
Take heed of this most munificent speech of mine that has been brought forward, o youngest one of independent will.
One man reviles but another sings welcome: as an extoller, I extol your body [/myself], o Agni.
Auf diese meine Rede acht' o jüngster, die sehr erfreut, o Herr, die vorgetragne; Der eine hasst dich und der andre liebt dich; ich, Agni, rühm' dich selbst, als dein Verehrer.
Achte, du Jüngster, auf diese freigebigste Rede, die von mir vorgebracht wird, du Eigenmächtiger! Der eine widerspricht, der andere zollt Beifall. Als dein Lobredner lobe ich mich selbst, o Agni.
Обрати внимание, о самый юный, на эту мою речь,
Щедрейшую, принесенную (тебе), о самосущий!
Хулит один, одобряет другой.
Твой восхвалитель, я восхваляю самого себя, о Агни.
ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् । र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥
ये । पा॒यवः॑ । मा॒म॒ते॒यम् । ते॒ । अ॒ग्ने॒ । पश्य॑न्तः । अ॒न्धम् । दुः॒ऽइ॒तात् । अर॑क्षन् । र॒रक्ष॑ । तान् । सु॒ऽकृतः॑ । वि॒श्वऽवे॑दाः । दिप्स॑न्तः । इत् । रि॒पवः॑ । न । अह॑ । दे॒भुः॒ ॥
अत्रेतिहासमाचक्षते । उचथ्यबृहस्पतिनामानौ द्वौ ऋषी आस्ताम् । तत्र उचथ्यस्य ममता नाम भार्या । सा च गर्भिणी । तां बृहस्पतिर्गृहीत्वा अरमयत् । शुक्रनिर्गमनावसरे प्राप्ते गर्भस्थं रेतः प्रवादीत् हे मुने रेतो मा त्याक्षीः पूर्वमहं वसामि रेतःसंकरं मा कार्षीः इति । एवमुक्तो बृहस्पतिः बलात् प्रतिरुद्धरेतस्कः सन् शशाप । हे गर्भ एवं यतो रेतोनिरोधमकरोः अतस्त्वं दीर्घं तमः प्राप्नुहि जात्यन्धो भवेति । एवं शप्तो ममतायां दीर्घतमा अजायत । स चोत्पन्नः तमोव्यथया अग्निमस्तौषीत् । स च स्तुत्या प्रीतः आन्ध्यं पर्यहरदिति । तदिदमत्रोच्यते । हे अग्ने ते तव संबन्धिनः ये पायवः प्रसिद्धाः पालयितारो रश्मयः मामतेयं ममतायाः पुत्रं दीर्घतमसम् अन्धं पश्यन्तः अन्धोऽयम् अतोऽस्माभिः रक्षणीयः इति अवगच्छन्तः सन्तः दुरितात् दुष्टं प्राप्ताद्दुःखत् अरक्षन तान सुकृतः सुखकर्तॄन विश्ववेदाः विश्वप्रज्ञः ररक्ष रक्षति। अस्मत्पालनायेति भावः । तैः अस्मानपि रक्षिष्यतीत्यर्थः । एवं रक्षितानस्मान् दिप्सन्तः दम्भितुमिच्छन्तः रिपवः कामादयः नाह देभुः । अहेति विनिग्रहार्थीयः । न खलु दम्भितुं शक्नुवन्ति ॥ ‘ दम्भु दम्भे । श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम्' (का. १. २. ६. १) इति लिटः कित्त्वात् “ अनिदिताम्' इति नलोपः । तस्य असिद्धत्वात् एत्वाभ्यासलोपयोरप्राप्तौ दम्भेश्चेति वक्तव्यम्' (पा. सू. ६. ४. १२०. ४ ) इति तौ विधीयेते ॥ यद्वा । सूक्तद्रष्टा दीर्घतमाः स्वयमेव आत्मानं परोक्षतया ब्रवीति ॥
“Your fostering (rays), Agni, beholding the blind son of Mamatā, relieved him of the affliction; he who knows all things protect the pious, and (their) malevolent enemies are unable to do them harm.”
Thy guardian rays, O Agni, when they saw him, preserved blind Mamateya from affliction.
Lord of all riches, he preserved the pious the foes who fain would harm them did no mischief.
Thy guardians, O Agni, who saw and saved the blind son of Mamatâ from distress 1—he the possessor of all wealth has saved them who have done good deeds 2. The impostors, trying to deceive, have not deceived.
Agni, your protectors who, watching, guarded blind Māmateya
[=Dīrghatamas] from distress,
those of good (ritual) action has the possessor [/knower] of everything [=Agni] guarded. Though wishing to damage, the cheats did no
damage at all.
Den Mamateja schützten deine Hüter, den Blinden, sehend, vor Gefahr, o Agni, Der alles weiss, beschütze hier die Frommen; auch schadensücht'ge Feinde schaden nimmer.
Deine Schutzgeister, o Agni, die selbst sehend den blinden Mamateya vor Fehltritt bewahrten, mit denen hat der Allwissende diese Frommen bewahrt. Die schadenfrohen Schelme haben wirklich nicht geschadet.
(Те) твои защитники, о Агни, (сами) зрячие,
Кто спас от беды слепого Маматею, –
(С их помощью) всеведущий (Агни) спасает таких благочестивых.
И хотят навредить мошенники, но не (могут) навредить.
यो नो॑ अग्ने॒ अर॑रिवाँ अघा॒युर॑राती॒वा म॒र्चय॑ति द्व॒येन॑ । मन्त्रो॑ गु॒रुः पुन॑रस्तु॒ सो अ॑स्मा॒ अनु॑ मृक्षीष्ट त॒न्वं॑ दुरु॒क्तैः ॥
यः । नः॒ । अ॒ग्ने॒ । अर॑रिऽवान् । अ॒घ॒ऽयुः । अ॒रा॒ति॒ऽवा । म॒र्चय॑ति । द्व॒येन॑ । मन्त्रः॑ । गु॒रुः । पुनः॑ । अ॒स्तु॒ । सः । अ॒स्मै॒ । अनु॑ । मृ॒क्षी॒ष्ट॒ । त॒न्व॑म् । दुः॒ऽउ॒क्तैः ॥
हे अग्ने नः अस्मान् युष्मद्रक्षितान् यः अघायुः मारणादिरूपपापेच्छावान् अररिवान् अदाता अस्मद्दानप्रतिबन्धकः इत्यर्थः ॥ रातेश्छान्दसस्य लिटः क्वसुः ॥ अरातीवा स्वयमदानवान् । ‘ छन्दसि वनिपमिच्छन्ति' इति मत्वर्थीयो वनिप्॥ शत्रुत्वमाचरन् यः शत्रुः द्वयेन मानसवाचिकभेदेन द्विविधेन मन्त्रेण । न ददामीति मानसो मन्त्रः । निन्दाद्यारोपेण दाननिवारणं वाचिको मन्त्रः । यद्वा । मायाहेतुकेन विरुद्धरूपेण द्विविधेन मन्त्रेण । यो विरुद्धमाचरति तन्न संकीर्तयति यच्च प्रियं बूते तन्न करोति अन्यत् करोत्यन्यद्वदतीत्येवं मन्त्रस्वरूपद्वैविध्यम् । पूर्वं मानसवाचिकभेदेन इदानीं वाचिककायिकभेदेनेति विवेकः । ईदृशेन मन्त्रेण यः शत्रुः मर्चयति भर्त्सयति विधेयीकरोति वा अस्मान् । सः मन्त्रैकदेशो मानसरूपः अस्मै पुनः गुरुः अस्तु ॥ षष्ठ्यर्थे चतुर्थी ॥ प्रयोक्तुरेव पुनः गरितास्तु । तथा दुरुक्तैः दुर्वाक्यैर्निन्दारूपैर्वाचिकैः तन्वं स्वकीयां तनुम् अनु मृक्षीष्ट अनुमार्ष्टु अनुक्रमेण लुम्पतु । यद्वा । स द्विविधो मन्त्रः अस्मै प्रयोक्तुरेव गुरुर्गरितास्तु । अन्यान्यपि अस्मन्न्यक्काराय प्रयुक्तानि निष्ठुरभाषणानि सन्ति । तैर्दुरुक्तैः सोऽरातिः स्वतनुमेवावलुम्पतु । स्वात्मानमेवावृत्य दहत्वित्यर्थः ॥
“When a wicked (man), with twofold (malignity of thought and speech), obstructing our offerings, and refraining from gifts (himself), reviles us, may his prayer be heavy on him, and involve his person n (in the consequences of) his evil words.”
The sinful man who worships not, O Agni, who, offering not, harms us with double-dealing,--
Be this in turn to him a heavy sentence may he distress himself by his revilings.
The niggard, O Agni, the harmful and malicious who injures us by falsehood: may the heavy spell recoil on him; may he injure his own body by his evil words 1.
O Agni, the ungenerous one wishing us ill and full of hostility who harms us by his duplicity,
let this heavy spell be back at him: he should bring harm upon his own body by his evil words.
Wer uns, o Agni, Schaden thut durch Falschheit, der feindgesinnte, tückisch, voller Bosheit, Auf den soll fall'n die Wucht des eignen Fluches, durch seine Schmähung mög' er selbst sich schäd'gen.
Wenn, Agni, uns ein übelwollender Knauser, ein mißgünstiger durch Doppelzüngigkeit Abbruch tut, auf den soll das Wort als schwerer Fluch zurückfallen. Er soll sich hernach selbst durch seine bösen Reden Abbruch tun.
(Тот) злоумышленник, кто нам не дарит, о Агни,
Полный злобы ранит (своей) двойственностью –
Да падет тяжело на него это заклинание, (вернувшись) назад!
Да уязвит он себя (своими) дурными словами!
उ॒त वा॒ यः स॑हस्य प्रवि॒द्वान्मर्तो॒ मर्तं॑ म॒र्चय॑ति द्व॒येन॑ । अत॑: पाहि स्तवमान स्तु॒वन्त॒मग्ने॒ माकि॑र्नो दुरि॒ताय॑ धायीः ॥
उ॒त । वा॒ । यः । स॒ह॒स्य॒ । प्र॒ऽवि॒द्वान् । मर्तः॑ । मर्त॑म् । म॒र्चय॑ति । द्व॒येन॑ । अतः॑ । पा॒हि॒ । स्त॒व॒मा॒न॒ । स्तु॒वन्त॑म् । अग्ने॑ । माकिः॑ । नः॒ । दुः॒ऽइ॒ताय॑ । धा॒यीः॒ ॥
पूर्वमन्त्रे द्विविधकुटिलमन्त्रेण कर्तारं तन्मन्त्रणं प्राप्नोतु मा अस्मान् इत्युक्तम् । अत्र तु तन्मन्त्रणात् पाहि इत्यग्निः प्रार्थ्यते । उत वा हे सहस्य । सह इति बलनाम। तत्र भवाग्ने यः मर्त्यः मरणधर्मा मनुष्यः प्रविद्वान् मायामन्त्रणं प्रकर्षेण जानन् द्वयेन पूर्वोक्तरीत्या द्विविधमन्त्रेण मर्तं मनुष्यं मर्चयति विधेयीकरोति भर्त्सयति वा अतः तादृशात् भर्त्सनात् तत्कर्तुः सकाशाद्वा हे स्तवमान स्तूयमान अग्ने स्तुवन्तं स्तुतिं कुर्वन्तं मां पाहि रक्ष । किंच नः अस्मान् दुरिताय तत्कृताय दुर्मन्त्रणप्रयुक्तदुःखाय समर्थं माकिः धायीः मा स्थापय । दुरितभाजनं मा कार्षीः इत्यर्थः ॥ ‘ धि धारणे'। व्यत्ययेन इट् । सिचि वृद्धिः । ‘ न माङ्योगे' इति अडभावः ॥ ॥ १६ ॥
“When, Son of Strength, a man skilful (in deception) assails another man with a doubly (malignant prayer), do you, Agni, duly propitiated, protect him who worships you (from its effects); consign us not to misfortune.”
Yea, when a mortal knowingly, O Victor, injures with double tongue a fellow-mortal,
From him, praised Agni! save thou him that lauds thee: bring us not into trouble and affliction.
And, O strong one, whatever mortal knowingly injures another mortal by falsehood: from such a one, O praised Agni, protect him who praises thee. Agni! Do not deliver us to distress.
Or, o strong one, the mortal who with premeditation harms a mortal by his duplicity,
from him protect your praiser, o you who are praised. Agni, no one
should give us over to distress.
Und vor dem Mann, der wissentlich, o starker, beschäd'gen will den Sterblichen durch Falschheit, Vor dem beschirm den Sänger, o gepriesner; lass nimmer, Agni, uns in Noth gerathen.
Oder welcher Sterbliche, du Gewaltiger, mit Vorwissen einem anderen Sterblichen durch Doppelzüngigkeit Abbruch tut, vor dem schütze, du Gepriesener, den Preisenden! O Agni, nicht sollst du uns dem Mißerfolg aussetzen!
Или же (тот) смертный, кто, зная наперед, о сильный,
Язвит смертного (своей) двойственностью, –
О прославляемый, защити от него прославляющего!
О Агни, никогда не подставь нас беде!