मथी॒द्यदीं॑ वि॒ष्टो मा॑त॒रिश्वा॒ होता॑रं वि॒श्वाप्सुं॑ वि॒श्वदे॑व्यम् । नि यं द॒धुर्म॑नु॒ष्या॑सु वि॒क्षु स्व१॒॑र्ण चि॒त्रं वपु॑षे वि॒भाव॑म् ॥
मथी॑त् । यत् । ई॒म् । वि॒ष्टः । मा॒त॒रिश्वा॑ । होता॑रम् । वि॒श्वऽअ॑प्सुम् । वि॒श्वऽदे॑व्यम् । नि । यम् । द॒धुः । म॒नु॒ष्या॑सु । वि॒क्षु । स्वः॑ । न । चि॒त्रम् । वपु॑षे । वि॒भाऽव॑म् ॥
होतारं देवानामाह्वातारं विश्वाप्सुम् । अप्स्विति रूपनाम । नानारूपं पार्थिववैद्युतजाठरादिभेदेन अहवनीयादिभेदेन वा । यद्वा । कालीकराल्यादिरूपेण ज्वालानां वैरूप्याद्विश्वरूपत्वम् । विश्वदेव्यं सर्वदेवयोग्यक्रियासाधुं यदीं यम् एनमग्निं मातरिश्वा वृष्ट्यादिनिर्मात्रन्तरिक्षश्वसनो वायुः विष्टः काष्ठेष्वन्तःप्रविष्टः सन् मथीत् अमथ्नात् प्रवर्धयदित्यर्थः । ‘ मथे विलोडने'। ‘ हृयन्तक्षण° ' इति वृद्धिप्रतिषेधः ॥ पुनः स एव विशेष्यते । यम् अग्निं मनुष्यासु मत्वा कर्म कुर्वतीषु विक्षु ऋत्विग्रूपासु प्रजासु पूर्वं वपुषे यज्ञशरीरसिद्धये नि दधुः धारयन्ति यजमानाः । मनुष्यशब्दो निरुक्ते बहुधा निरुक्तः-’ मनुष्याः कस्मान्मत्वा कर्माणि सीव्यन्ति मनस्यमानेन सृष्टा मनोरपस्यं मनुषो वा ' (निरु. ३. ७ ) इति । यद्वा । पूर्वं देवा मनुष्यासु मनोरपत्यभूतासु विक्षु प्रजासु प्राणिषु वपुषे स्वरूपाय यागादिस्वरूपप्रकाशाय शरीरधारणाय वा जाठराग्निरूपेण नि दधुः स्थापितवन्तः । तत्र दृष्टान्तः । स्वर्णं स्वरणं स्वीरणं वा। आदित्यमिव चित्रं चायनीयं विभावं विविधप्रकाशवन्तं यथा प्रकाशादिसाधनाय धारयन्ति तद्वत् । स्वशब्दं यास्कः एवं निरुवाच- ' स्वरादित्यो भवति सु अरणः सु ईरणः स्वृतो रसान्त्स्वृतो भासं ज्योतिषां स्वृतो भासेति वा ' ( निरु. २. १४) इति । ईदृशं यं नि दधुस्तं मथीदिति पूर्वत्रान्वयः ॥
“The wind, penetrating (amidst the fuel), has excited (Agni), the invoker (of the gods), the multiform, the minister of all the deities, whom they have established amongst mortal worshippers for the accomplishment of sacrifice, like the wonderful and variously radiant sun.”
WHAT Matarisvan, piercing, formed by friction, Herald of all the Gods. in varied figure,
Is he whom they have set mid human houses, gay-hued as light and shining forth for beauty.
When Mâtarisvan … 1 had produced by attrition the Hotri, the … 2 who belongs to all gods, whom they have established among the human clans, shining like the sun, resplendent that (he might show his beautiful) shape.
Since with effort Mātariśvan stole him, the Hotar bringing all goods, belonging to all the gods,
whom they installed for wonder among the clans of the sons of Manu, dazzling like the sun, far-radiant,
Entfesselt rieb hervor ihn Matariçvan, den allgestalt'gen Priester aller Götter, Ihn, den sie setzten in der Menschen Häuser, der prächtig leuchtet, wie die helle Sonne.
Da ihn Matarisvan angestrengt ausgerieben hatte, den allfarbigen Hotri für alle Götter bestimmt, den sie unter die menschlichen Stämme eingesetzt haben, prächtig wie die Sonne zur Schönheit erstrahlend:
Когда деятельный Матаришван похитил этого
Хотара всех цветов, принадлежащего всем богам,
Они поместили его среди людских племен,
Яркого, как солнце, сверкающего для красоты.
द॒दा॒नमिन्न द॑दभन्त॒ मन्मा॒ग्निर्वरू॑थं॒ मम॒ तस्य॑ चाकन् । जु॒षन्त॒ विश्वा॑न्यस्य॒ कर्मोप॑स्तुतिं॒ भर॑माणस्य का॒रोः ॥
द॒दा॒नम् । इत् । न । द॒द॒भ॒न्त॒ । मन्म॑ । अ॒ग्निः । वरू॑थम् । मम॑ । तस्य॑ चा॒क॒न् । जु॒षन्त॑ । विश्वा॑नि । अ॒स्य॒ । कर्म॑ । उप॑ऽस्तुतिम् । भर॑माणस्य । का॒रोः ॥
मन्म मननीयं स्तोत्रं हविरादिकं वा ददानमित् अग्नये कुर्वाणमेव मां दम्भितारो वैरिणः न ददभन्त दम्भितुं हिंसितुं न प्रभवन्ति ॥ दम्भेः ' बहुलं छन्दसि ' इति विकरणस्य श्लुः । व्यत्ययेन अन्तादेशः ॥ मम कोऽतिशय इति उच्यते । तस्य तादृशस्य प्रदातुः मम वरूथं वरणीयं स्तोत्रा-
दिकम् अयम् अग्निः चाकन् अत्यर्थं कामयते ॥ कनतिः कान्तिकर्मा । अस्मात् यङ्गलुगन्तात् लङि छान्दसः अडभावः । बहुलादेव वा छान्दसः तुजादित्वात् अभ्यासदीर्घः । । यस्मादेवं तस्मात् न दभ्नुवन्तीत्यर्थः । न केवलमग्निरेव कामयते किंतु सर्वे देवाः कामयन्त इत्याह । उपस्तुतिं भरमाणस्य कुर्वाणस्य कारोः स्तोतुः अस्य यजमानस्य मम विश्वानि सर्वाणि हविष्प्रदानादिरूपाणि जुषन्त सर्वे देवाः । अतो न ददभन्तेत्यर्थः । ।
“Let not (my enemies) prevail against me, when presenting acceptable (oblations), for (Agni) is desirous of my so offered adoration, and all they (the gods) are gratified by the (pious) acts of me, the reciter of their praise, and the celebrator (of the sacrifice).”
They shall not harm the man who brings thee praises: such as I am, Agni my help approves me.
All acts of mine shall they accept with pleasure, laudation from the singer who presents it.
They did not deceive him 1 who had granted a hymn (to the worshipper). Agni is my protection; therewith he is satisfied. They took pleasure in all his 2 works—(in the works) of the singer who brought praise.
Just him, who gives (inspired) thoughts, they cannot damage. Agni is my armor: he delights in this.
They take pleasure in all the acts of him, the bard who produces the invitatory praise.
Den Geber täuschen nimmer seine Bitten, mein Schützer Agni hat an mir Gefallen; Hold sein die Götter allen meinen Werken und auch dem Preislied, das der Dichter darbringt.
Ihm, der das Lied eingegeben hat, sollen sie keinen Schaden antun. Agni ist mein Schutz. Möge er daran Gefallen haben. Alle Werke von ihm sollen sie gut aufnehmen, von dem Dichter, der das Preislied vorträgt.
Они не должны повредить (ему,) дающему поэтическое вдохновение!
Агни – моя защита. Пусть понравится ему (эта песня) !
Пусть они насладятся всеми действиями этого
Певца, приносящего восхваление!
नित्ये॑ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया॑सः । प्र सू न॑यन्त गृ॒भय॑न्त इ॒ष्टावश्वा॑सो॒ न र॒थ्यो॑ रारहा॒णाः ॥
नित्ये॑ । चि॒त् । नु । यम् । सद॑ने । ज॒गृ॒भ्रे । प्रश॑स्तिऽभिः । द॒धि॒रे । य॒ज्ञिया॑सः । प्र । सु । न॒य॒न्त॒ । गृ॒भय॑न्तः । इ॒ष्टौ । अश्वा॑सः । न । र॒थ्यः॑ । र॒र॒हा॒णाः ॥
यज्ञियासः यज्ञयोग्या यजमाना ऋत्विजो वा यं मथनेनोत्पन्नमग्निं नित्ये चित् सदने नित्ये एव गार्हपत्यलक्षणे अग्न्यासादनस्थाने नु क्षिप्रं जगृभ्रे गृह्णन्ति ॥ ग्रहेर्लिटि ' इरयो रे ' इति रेभावः । ' हृग्रहोर्भः ० ' इति भत्वम् ॥ ' नित्यं गतश्रियः ध्रियते नित्यं गार्हपत्यम्' इति सू्त्रात् गार्हपत्यो नित्यः । तदाश्रयत्वात सदनमपि नित्यमुच्यते । गृहीत्वा प्रशस्तिभिः प्रशंसाभिः स्तुतिभिः दधिरे धारयन्ति आहवनीयार्थम् । धृत्वा च इष्टौ एषणसाधने यज्ञे निमित्तभूते सति गृभयन्तः ऋत्विजः प्र सू नयन्त सुष्ठु प्रणयन्ति । तत्र दृष्टान्तः । ररहाणाः रंहसा गच्छन्तः ॥ ' रहि गतौ ' । छान्दसस्य लिटः कानच् । ' अनित्यमागमशासनम् ' इति नुमभावः । । रथ्यः रथवन्तस्तत्र नियुक्ताः ॥ ' छन्दसीवनिपौ ' इति
रथशब्दात् मत्वर्थीय ईकारः ॥ अश्वासो न अश्वा इव । ते यथा धृत्वा रथस्वामिनम् अभिमतदेशं नयन्ति तद्वत् ॥
“Him, whom the worshippers lay hold of in his perpetual abode, they detain by their praises, and the holders convey him diligently to the sacrifice, as rapid coursers, harnessed to a car, (bear the rider to his destination).”
Him in his constant seat men skilled in worship have taken and with praises have established.
As, harnessed to a chariot fleet-foot horses, at his command let bearers lead him forward.
Whom the worshipful (gods) 1 took and placed in his own seat (as priest) with their praises: him they 2 have carried forward, taking hold of him in their search, hastening like horses that draw a chariot.
Whom even now those worthy of the sacrifice have grasped in his very own seat and installed with lauds,
him they lead forth, grasping him in their quest, hastening like
chariot-horses.
Am eignen Sitze haben ihn ergriffen die andachtsvollen und mit Preis errichtet; Sie mögen nun ihn auf Geheiss erfassen und ihn wie schnelle Wagenrosse führen.
Den die Opferwürdigen nun eingefangen und mit Lobesworten an seinen rechtmäßigen Sitz gebracht haben; sie führten ihn fein zum Altar, ihn auf der Suche festnehmend, eilig wie die Wagenrosse.
Кем овладели достойные жертв (боги)
(И) со славословиями поместили на подобающее (ему) сиденье,
(Того) повели они вперед, владея (им) во время поисков,
Мчась, как кони, запряженные в колесницу.
पु॒रूणि॑ द॒स्मो नि रि॑णाति॒ जम्भै॒राद्रो॑चते॒ वन॒ आ वि॒भावा॑ । आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरस्तु॒र्न शर्या॑मस॒नामनु॒ द्यून् ॥
पु॒रूणि॑ । द॒स्मः । नि । रि॒णा॒ति॒ । जम्भैः॑ । आत् । रो॒च॒ते॒ । वने॑ । आ । वि॒भाऽवा॑ । आत् । अ॒स्य॒ । वातः॑ । अनु॑ । वा॒ति॒ । शो॒चिः । अस्तुः॑ । न । शर्या॑म् । अ॒स॒नाम् । अनु॑ । द्यून् ॥
अत्र दावाग्निरूपेण अयं स्तूयते । दस्मः उपक्षपयिता अयमग्निः पुरूणि बहूनि वृक्षादीनि नि रिणाति नितरां हिनस्ति । । ' री गतिरेषणयोः ' । प्वादित्वात् ह्रस्वः ॥ केन साधनेनेति तदुच्यते । जम्भैः दन्तस्थानीयाभिर्ज्वालाभिः । आत् दाहानन्तरं वने वृक्षादिसमूहात्मके विभावा विविध-
प्रकाशयुक्तः सन् रोचते दीप्तो भवति । आत् अनन्तरम् अस्य शोचिः ज्वालानुकूलं वातः अग्निसखिभूतो वायुः अनु द्यून् । अन्विति वीप्सार्थे । प्रतिदिनमनुकूलं वाति । ज्वालाः आदाय गच्छति । तत्र दृष्टान्तः । अस्तुः क्षेप्तुः सकाशात् असनां गच्छन्तीं शर्यां न । शरो नाम
हिंसासाधनलोहमयम् इषुमुखं तत्प्रचुराम् । यद्वा । शरो नाम वंशावान्तरजातीयः काष्ठविशेषः । तद्विकाराम् इषुमिव । ' शर्या इषवः शरमय्यः ' (निरु. ५ .४) इति यास्कः । यद्वा । शर एव शर्या । अथवा । शरो हिंसा । तत्करोति इति शर्या इषुः । तां यथा वायुः नोदकजन्यः वेगो वा
अनुकूलं प्रेरयति तद्वत् ॥
“The destroyer, (Agni), consumes numerous (trees) by his flames, and shares with manifold radiance in the forest; the favouring wind blows (the flames) onwards day by day, like the swift arrows (śaryā iṣavaḥ śaramayyaḥ--Nirukta 5.4) of an archer.”
Wondrous, full many a thing he chews and crunches: he shines amid the wood with spreading brightness.
Upon his glowing flames the wind blows daily, driving them like the keen shaft of an archer.
The marvellous one destroys many things with his jaws. Then 1 the resplendent one shines in the forest. Then the wind blows after his flame day by day as after the arrow of an archer, after a weapon that has been shot.
The wondrous one dissolves many things with his fangs. After that, far-radiant, he shines in the wood;
after that the wind fans his flame, like an arrow, the shot of a shooter, through the days.
Gar viel zermalmt er leuchtend mit den Zähnen, und wunderbar erstrahlt er in dem Holze, Dann wehet seiner Flammenglut der Wind nach, wie dem geschossnen Pfeil des Schützen täglich.
Viele Hölzer macht der Geschickte mit den Zähnen klein. Dann leuchtet er erglänzend im Holze, dann weht der Wind hinter seiner Glut her wie hinter dem Pfeilgeschoß des Schützen, Tag für Tag;
Много (чего) удивительный перемалывает (своими) зубами.
Вот он горит в лесу, сверкающий;
Вот веет ветер вслед его пламени,
Словно вслед выстрелу лучника, стреле – день за днем.
न यं रि॒पवो॒ न रि॑ष॒ण्यवो॒ गर्भे॒ सन्तं॑ रेष॒णा रे॒षय॑न्ति । अ॒न्धा अ॑प॒श्या न द॑भन्नभि॒ख्या नित्या॑स ईं प्रे॒तारो॑ अरक्षन् ॥
न । यम् । रि॒पवः॑ । न । रि॒ष॒ण्यवः॑ । गर्भे॑ । सन्त॑म् । रे॒ष॒णाः । रे॒षय॑न्ति । अ॒न्धाः । अ॒प॒श्याः । न । द॒भ॒न् । अ॒भि॒ऽख्या । नित्या॑सः । ई॒म् । प्रे॒तारः॑ । अ॒र॒क्ष॒न् ॥
यम् अग्निं गर्भे गर्भवद्रक्षके अरणिमध्ये सन्तं वर्तमानं रिपवः नराः न रेषयन्ति न दुःखयन्ति । तथा रिषण्यवः अन्ये हिंसकाः । । ' दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति ' पा सू ७ ४. ३६) इति क्यचि निपात्यते । ' क्याच्छन्दसि ' इति उः ॥ न हिंसन्ति । कीदृशास्ते । रेषणाः
हिंसनस्वभावाः । यद्वा । तैः क्रियमाणा हिंसनप्रकारा न हिंसन्ति । । किंच अस्य अभिख्या अभितः ख्यातिं माहात्म्यम् अन्धाः ज्ञानशक्तिरहिता अविद्वांसः अत एव अपश्याः अद्रष्टारः । यद्वा । विद्वांसोऽप्यभावयितारः अनुपासका इत्यर्थः । ईदृग्रूपा उभयेऽपि न दभन् न दभ्नुवन्ति न हिंसन्ति । लौकिकोपकारेणापि प्रयोजकत्वादिति भावः । तर्ह्यस्य पारमार्थिकं रूपं के जानन्तीति चेत् उच्यते । नित्यासः नित्या अविचलितभक्तयः अग्निहोत्रादिनित्यकर्मरता वा । अग्न्यनुग्रहात् स्वयमपि नित्या भविष्यन्तीति भावि नित्यत्वमाश्रित्य नित्या उपचर्यन्ते । तादृशा यजमानाः प्रेतारः यज्ञादिना तमेव तर्पयितारः सन्तः ईम् एनम् अरक्षन् रक्षन्ति यज्ञादिरूपेण भजन्ते इत्यर्थः ॥ ॥ १७ ॥
“The blind (of intellect), or those who see not (physically), detract not from his glory, whom no enemies no malevolent adversaries, harm, even whilst yet in (his) embryo (condition), for his constant encouragers defend him.”
Him, whom while yet in embryo the hostile, both skilled and fain to harm, may never injure,
Men blind and sightless through his splendour hurt not: his never-failing lovers have preserved him.
Him whom no impostors, no harmful foes 1, no harm-doers may harm when he dwells in (his mother's) womb, him the blind ones bereft of sight did not damage by looking at him 2. His own friends have protected him.
Whom neither cheats nor hurtful men hurt with their hurt, though he is in the womb,
him can the blind, unable to see, not damage by casting an eye on him. His very own ones who please him have guarded him.
Den schadensücht'ge Feinde nicht beschäd'gen, noch Schäd'ger, selbst wenn er im Mutterleib ist; Nicht können Blinde ja mit Blick verletzen; die eignen Freunde haben ihn beschirmet.
Den weder die Schelme, noch die Schadenfrohen, während er im Mutterleib ist, schädigend zu Schaden bringen. Blind, unfähig zu sehen können sie ihm durch ihren Blick nichts anhaben. Ihn schützen seine eigenen Freunde.
Кому ни мошенники, ни злопыхатели,
Когда он находится в утробе, не причинят зла, злодеи, -
Слепые невидящие (люди) не повредят (его) взглядом!
Его защитили его собственные друзья.