म॒हः स रा॒य एष॑ते॒ पति॒र्दन्नि॒न इ॒नस्य॒ वसु॑नः प॒द आ । उप॒ ध्रज॑न्त॒मद्र॑यो वि॒धन्नित् ॥
म॒हः । सः । रा॒यः । आ । ई॒ष॒ते॒ । पतिः॑ । दन् । इ॒नः । इ॒नस्य॑ । वसु॑नः । प॒दे । आ । उप॑ । ध्रज॑न्तम् । अद्र॑यः । वि॒धन् । इत् ॥
महः महतः पूज्यस्य रायः गवादिरूपस्य धनस्य पतिः पालकः स्वामी सः अग्निः दन् ददत् अभिमतं प्रयच्छन् ॥ ददातेः शतरि छान्दसः शपो लुक् । तस्य ‘छन्दस्युभयथा' इति आर्धधातुकत्वात् ‘आतो लोप इटि च' इति आकारलोपः ॥ आ आभिमुख्येन अस्मद्देवयजनं प्रति ईषते गच्छति । किंच इनस्य स्वामिनोऽपि इनः स्वामी सर्वस्य पतिरित्यर्थः । ईदृशोऽयं वसुनः धनस्य पदे आस्पदभूते वेदिस्थाने आ आश्रयति ॥ उपसर्गवशाद्योग्यक्रियाध्याहारः ॥ यद्वा । वसुनो निवासयोग्यस्य धनस्यापि इनः इति संबन्धः । यद्वा। वसुप्राप्तिः प्रसिद्धा । किंच उप ध्रजन्तम् उपगच्छन्तम् एनम् अभिषवार्थम् अद्रयः ग्राववन्तो यजमानाः विधन्नित् परिचरन्त्येव॥ ‘विध विधाने । तौदादिकः । लङि बहुलं छन्दसि' इति अडभावः । निघाताभावश्छान्दसः । यद्वा । पूर्वत्र तच्छब्दश्रुतेः अत्र यच्छब्दाध्याहारेण अस्य संबन्धात् अनिघातः । यद्वा । अद्रयोऽभिषवग्रावाणः स्वशब्दैः उप उपेत्य विधन्नित् पूजयन्त्येव । आह्लादं जनयन्तीत्यर्थः ॥
“Agni, the lord of great wealth, the granter (of desires) comes (to the plural ce of sacrifice); he, the lord of lords, comes to the plural ce of affluence, (the altar); the stones prepare (the libation fo rhim) as he approaches.”
HITHER he hastens to give, Lord of great riches, King of the mighty, to the place of treasure.
The pressing-stones shall serve him speeding near us.
1 Towards great wealth this lord of the house 2 advances 3, the strong one in the abode of strong wealth. Let the stones honour him as he speeds forward.
The lord of the house hastens toward great riches—the forceful one here in the footprint of the forceful good thing.
The stones just honor him as he soars near.
Er, der Besitzer grossen Schatzes, strebet zum Ort des starken Gutes hin, der starke; Ihm, der dahinschiesst, dienen recht die Steine,
Zu großem Reichtum kommt dieser Hausgebieter, der gewaltige an der Stätte gewaltigen Gutes. Den Heraneilenden bedienen die Preßsteine.
К великим богатствам устремляется этот хозяин дома,
Крепкий на месте крепкого добра.
Спешащего почтительно встречают давильные камни.
स यो वृषा॑ न॒रां न रोद॑स्यो॒: श्रवो॑भि॒रस्ति॑ जी॒वपी॑तसर्गः । प्र यः स॑स्रा॒णः शि॑श्री॒त योनौ॑ ॥
सः । यः । वृषा॑ । न॒रान् । न । रोद॑स्योः । श्रवः॑ऽभिः । अस्ति॑ । जी॒वपी॑तऽसर्गः । प्र । यः । स॒स्रा॒णः । शि॒श्री॒त । योनौ॑ ॥
सः तादृशः यः अग्निः नरां न मनुष्याणामिव रोदस्योः द्यावापृथिव्योरपि वृषा सेक्ता उत्पादक इत्यर्थः । एवं सर्वोत्पादकः श्रवोभिः सर्वत्र श्रूयमाणैर्यशोभिर्युक्तः सन् अस्ति वर्तते । सर्वोत्पादकः इत्युक्तं तत्रोपपत्तिमाह। यतोऽयं जीवपीतसर्गः । जीवैर्नानाविधैः पीतः आस्वादितः सर्गः सृष्टिक्रमो यस्य स तथोक्तः ॥ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । पुनर्बहुव्रीहौ स एव स्वरः । अत्रायं सृष्टिक्रमः । अयमग्निः स्वदत्तं हविः आदित्यं प्रापय्य तद्रश्मिभिः सह वैद्युतरूपेण मेघद्वारा उदकेन प्रवर्ष्य सर्वान् प्राणिनः प्रापयति' इत्यतो वृष्ट्युत्पादनद्वारा उत्पादयिता । इदानीं साक्षादुत्पादकत्वमाह। यः अग्निः योनौ गर्भाशये सस्राणः प्रविष्टः सन् शिश्रीत निषिक्तं रेतः पारयति । नृपश्वादिदेहाकारेण परिणमयतीत्यर्थः । यद्यग्निर्न पचेत् पूरयेदेव नोत्पद्यते । तस्मादयं साक्षादेवोत्पादकः। स तादृशोऽग्निर्यशस्वी वर्तते इत्यर्थः । यद्वा। योऽग्निर्नरां न नराणां कर्मसु उत्साहयुक्तानां यजमानानामिव । ‘ नरा मनुष्या नृत्यन्ति कर्मसु' (निरु. ५. १) इति यास्कः । तेषां यथा स्वर्गाद्यभिमतवर्षकः तद्वद्रोदस्योरपि। आश्रयवाचिना शब्देन आश्रयिणो लक्ष्यन्ते । भूलोकवर्तिनां वृष्टिप्रदानेन द्युलोकवर्तिनां हविष्पापणेनेति भावः। स तादृशोऽग्निः श्रवोभिः हविर्लक्षणैः सोमाज्यादिभिः अन्नैर्निमित्तभूतैः जीवपीतसर्गो जीवविशेषैर्यजमानैः अविशेषेण सर्वैर्वा आस्वादितस्वभावः सन् अस्ति प्रकृष्टो वर्तते । अमुमग्निं हविर्भिः प्रीणयित्वा स्वाभिमतान् भोगान् भुञ्जते इत्यर्थः । किंच यः अग्निर्योनौ स्वकीयस्थाने वेदिलक्षणे सस्राणः प्रविष्टः सन् शिश्रीत स्वस्मिन् प्राप्तं पुरोडाशादिकं पचति सोऽयमग्निरस्ति महानुभावो वर्तते ॥
“He, who is, as it were, the genitive rator of men as well as of heaven and earth, of whom creation has imbibed life, abides with his glories; he it is who, entering into the womb (of being), procreates (all living creatures).”
As Steer of men so Steer of earth and heaven by glory, he whose streams all life hath drunken,
Who hasting forward rests upon the altar.
He the manly (bull) as of men so of the two worlds, whose stream is drunk by living beings 1 in consequence of his renown—he who running forward has ripened in (his mother's) womb.
He who is the bull of the two world-halves as of men by his renown, whose surge is swelled [/drunk] by living beings,
who, though running forward, would still remain fixed in his womb,
Dem starken Herrn der Männer und der Welten voll Macht, dess Ströme die Lebend'gen trinken, Der vorgeströmt nun ruhn soll auf dem Sitze.
Er, der an Ruhm der Bulle der beiden Welten wie der Männer ist, dessen Ergüsse von den lebenden getrunken werden, der hervordringend an seiner Geburtsstätte gemischt wird.
Он (тот,) кто есть бык двух миров, как и (бык) людей,
Чей поток отведало (все) живое среди проявлений славы,
Кто, струясь вперед, распространяет свет на месте своего рождения;
आ यः पुरं॒ नार्मि॑णी॒मदी॑दे॒दत्य॑: क॒विर्न॑भ॒न्यो॒३॒॑ नार्वा॑ । सूरो॒ न रु॑रु॒क्वाञ्छ॒तात्मा॑ ॥
आ । यः । पुर॑म् । नार्मि॑णीम् । अदी॑देत् । अत्यः॑ । क॒विः । न॒भ॒न्यः॑ । नार्वा॑ । सूरः॑ । न । रु॒रु॒क्वान् । श॒तऽआ॑त्मा ॥
यः अग्निः नार्मिणीं नर्मवतीं यजमानानां संबन्धिनीम् उत्तरवेदिम् । यद्वा। नृणां मनसि स्थितां यजमानानां यज्ञार्थं यां भूमिं प्रति अग्न्यागमनमनीषा विद्यते ताम् । पुरं तत्स्थानम् आ अदीदेत् दीपयति । कीदृशोऽयम् । अत्यः अपेक्षितदेशं प्रति अतनशीलः कविः क्रान्तदर्शी । तत्र दृष्टान्तः । अर्वा अरणकुशलः नभन्यो न नभस्याकाशे भवो नभस्वान् वायुरिव । किंच शतात्मा । शतं सहस्रम् इत्यपरिमितवचनः । तत्तद्यजमानगृहापेक्षया आहवनीय गार्हपत्याद्यपेक्षया वा नानारूपत्वम् । अथवा मित्रवरुणभेदेन अग्नेः मित्रादिरूपं ‘ त्वमग्ने वरुणो जायसे यत्' (ऋ. सं. ५.३.१), ‘इन्द्रं मित्रं वरुणमग्निमाहुः' (ऋ. सं. १.१६४.४६ ) इत्यादिश्रुतिषु प्रसिद्धम्। अग्नेरेव इन्द्राद्यात्मकत्वमाहुरिति द्वितीयमन्त्रस्यार्थः । तादृशोऽयं सूरो न सूर्य इव रुरुक्वान् दीप्यमानः ॥ ‘रुच दीप्तौ' । छान्दसस्य लिटः क्वसुः । अतः स तादृशोऽग्निरस्ति उत्कृष्टं वर्तते इति पूर्वत्रान्वयः ॥
“He who is wise, and goes (wheresoever he will), like the rapid ethereal (wind), has lighted up the delightful spot, (the altar), and, identical with many forms, is radiant as the sun.”
He who hath lighted up the joyous castle, wise Courser like the Steed of cloudy heaven,
Bright like the Sun, with hundredfold existence.
He who lighted up the … 1 stronghold, the racer, the sage, like a … 2 horse, shining like the sun, endowed with hundredfold life.
Who has illuminated the low-lying flatland like a stronghold—a steed, a poet, like a charger bursting forth,
shining like the sun, possessing a hundred selves [=flames?].
Er, der die unversehrte Burg bestrahlt hat, der weise Renner gleich dem Ross des Himmels, Hell, wie die Sonne hundert Leben wecket,
Der die Burg Narmini beschien, der Hengst, der Seher, wie ein Rennpferd losbrechend, wie die Sonne leuchtend, mit hundertfachem Leben.
Кто осветил крепость Нармини,
Стремительный поэт, кидающийся, словно скаковой конь,
Светящий, как солнце, имеющий сотню жизней.
अ॒भि द्वि॒जन्मा॒ त्री रो॑च॒नानि॒ विश्वा॒ रजां॑सि शुशुचा॒नो अ॑स्थात् । होता॒ यजि॑ष्ठो अ॒पां स॒धस्थ॑श ॥
अ॒भि । द्वि॒ऽजन्मा॑ । त्री । रो॒च॒नानि॑ । विश्वा॑ । रजां॑सि । शु॒शु॒चा॒नः । अ॒स्था॒त् । होता॑ । यजि॑ष्ठः । अ॒पाम् । स॒धऽस्थे॑ ॥
अयमग्निः द्विजन्मा द्वाभ्यामरणीभ्यां जायमानः । यद्वा । मथनात् प्रथमं जन्म । उत्पत्त्यनन्तरं पवमानेष्ट्यादिसंस्काररूपं द्वितीयं जन्मेव । एवं द्विजन्मत्वम् । अथवा द्यावापृथिवीभ्यामुत्पन्नत्वात् । तादृशः अग्निः त्री रोचनानि त्रीणि रोचनानि क्षित्यादिस्थानानि गार्हपत्यादीनि वा अभि शुशुचानः अभितः प्रकाशयन् । न केवलं त्रीण्येव किंतु विश्वा रजांसि सर्वाण्यपि रञ्जनात्मकानि क्षित्यादिलोकान् शुशुचानः अभितः प्रकाशयन् दीपयन् होता देवानामाह्वाता यजिष्ठः यष्टृतमः सन् अपां प्रोक्षण्याद्युदकानां सधस्थे सहस्थाने यागदेशे अस्थात् तिष्ठति ॥
“He the twice-born, illuminating the three bright (regions), and shining over all the lustrous spheres, the adorable invoker of the gods, is present at the plural ce where the waters are collected.”
He, doubly born, hath spread in his effulgence through the three luminous realms, through all the regions,
Best sacrificing Priest where waters gather.
He who has a twofold birth (celestial and terrestrial), the flaming one has approached the threefold light, all spaces of the atmosphere, the Hotri, the best sacrificer, in the abode of the Waters.
Possessing two births he has surmounted the three luminous realms, blazing through all the airy spaces—
the best sacrificing Hotar in the seat of the waters.
Durch drei Lichträume ist der zwiegeborne, durch alle dunklen Räume hell gedrungen, Der beste Opfrer in dem Schooss der Fluten.
Der Zweigeborene hat flammend sich über die drei Lichträume, über alle Welten erhoben, der bestopfernde Hotri am Sammelort der Gewässer.
Дваждырожденный поднялся над тремя светлыми пространствами,
Над всеми просторами, пламенея,
Хотар, жертвующий лучше всех, на месте слияния вод.
अ॒यं स होता॒ यो द्वि॒जन्मा॒ विश्वा॑ द॒धे वार्या॑णि श्रव॒स्या । मर्तो॒ यो अ॑स्मै सु॒तुको॑ द॒दाश॑ ॥
अ॒यम् । सः । होता॑ । यः । द्वि॒ऽजन्मा॑ । विश्वा॑ । द॒धे । वार्या॑णि । श्र॒व॒स्या । मर्तः॑ । यः । अ॒स्मै॒ । सु॒ऽतुकः॑ । द॒दाश॑ ॥
यो द्विजन्मा सः एव होता होमनिष्पादकः अरणीभ्यामुत्पन्नस्यैव गार्हपत्यद्वारा आहवनीयत्वात् आह्वाता वा देवानां सः अयं विश्वा विश्वानि वार्याणि वरणीयानि॥ ‘ ईडवन्दवृशंसदुहां ण्यतः' इत्याद्युदात्तत्वम् ॥ श्रवस्या श्रवस्यया । श्रवोऽन्नं हविर्लक्षणं तदिच्छया ॥ श्रवःशब्दात् क्यजन्तात् ' अ प्रत्ययात्' इति भावे अप्रत्ययः ॥ दधे धारयति । अस्मै उक्तस्वरूपाय अग्नये यः मर्तः मर्त्यः ददाश ददाति सः सुतुकः शोभनपुत्रो भवति ॥ ॥ १८ ॥
“He is the offerer of oblations, who is of twofold birth; and, through desire of (sacrificial) food, has in his keeping all good things; the man who presents offerings to him is the parent of excellent offspring.”
Priest doubly born, he through his love of glory hath in his keeping all things worth the choosing,
The man who brings him gifts hath noble offspring.
This is the Hotri having a twofold birth 1 who has bestowed all the best gifts, out of desire of glory, on the quick mortal who worships him.
Here he is, the Hotar possessing two births, who with desire for fame has granted all desirable things (to him),
the easily spurred mortal who performs ritual service for him.
Er ist der zwiegeborne Priester, welcher voll Preisbegier die Schätze alle darreicht Dem Sterblichen, der ihm geschäftig dienet.
Dieser ist der zweigeborene Hotri, der, um sich Ruhm zu erwerben, alle begehrenswerten Dinge dem Sterblichen bringt, der gutem Ansporn folgend ihm gespendet hat.
Вот этот хотар дваждырожденный, который все
Желанные предметы взял себе из стремления к славе,
(Чтобы получил их) смертный, который почтил его из лучших побуждений.