इन्द्र॒ सोमं॒ पिब॑ ऋ॒तुना त्वा॑ विश॒न्त्विन्द॑वः । म॒त्स॒रास॒स्तदो॑कसः ॥
इन्द्र॑ । सोम॑म् । पिब॑ । ऋ॒तुना॑ । आ । त्वा॒ । वि॒श॒न्तु॒ । इन्द॑वः । म॒त्स॒रासः॒ । तत्ऽओ॑कसः ॥
हे इन्द्र ऋतुना सह सोमं पिब । इन्दवः पीयमानाः सोमाः त्वा त्वाम् आ विशन्तु । कीदृशाः । 'मत्सरासः तृप्तिकराः तदोकसः तन्निवासाः । सर्वदा त्वदुदरस्थायिन इत्यर्थः ॥ इन्द्र । षाष्ठिकम् आमन्त्रिताद्युदात्तत्वम् । सोमम् । अर्तिस्तुसु° ' ( उ. सू. १. १३७ ) इत्यादिना मन् । नित्त्वादाद्युदात्तः । पिब ' पिबा मित्रस्य ' (ऋ. सं. १, १४, १०) इत्यत्रोक्तम् । अस्य आ त्वा विशन्तु इत्युत्तरवाक्यगताख्यातार्थेन सह समुच्चयार्थश्चशब्दो लुप्तः । अतः ‘चादिलोपे विभाषा' (पा. सू. ८. १. ६३ ) इतीयं प्रथमा तिङ्विभक्तिर्न निहन्यते । विशन्त्विति चलोपसाम्येऽपि द्वितीयत्वात् निहन्यते एव । संहितायाम् ‘ आद्गुणः' इति प्राप्तस्य गुणस्य ‘ऋत्यकः ' ( पा. सू. ६. १. १२८) इति शाकल्यमते प्रकृतिभावादभावः । इन्दवः । प्र वो भ्रियन्ते ' (ऋ. सं. १. १४. ४ ) इत्यत्रोक्तम् । मत्सरासः । तत्रैवोक्तम् ।' आज्जसेरसुक्' (पा. सू. ७. १. ५० ) इति असुक् । तदोकसः । तदेव ओकः स्थानं येषां ते तथोक्ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“Indra, drink with Ṛtu (proper duty, also person nified divinity of a season) the Soma juice; let the satisfying drops entered into you, and there abide.”
O INDRA drink the Soma juice with Rtu; let the cheering drops
Sink deep within, which settle there.
O Indra, drink the soma in your turn. Let the drops enter you,
the invigorating ones finding their home there.
Trink, Indra, Soma nach dem Brauch und nimm die Tropfen in dich auf, Die dich erfreuen, die du liebst.
Indra! Trink den Soma nach der Zeit; in dich sollen die Säfte eingehen, ergötzend, daran gewöhnt.
О Индра, пей сому в урочное время!
Пусть войдут в тебя капли (сомы),
Пьянящие, к этому привычные!
मरु॑त॒: पिब॑त ऋ॒तुना॑ पो॒त्राद्य॒ज्ञं पु॑नीतन । यू॒यं हि ष्ठा सु॑दानवः ॥
मरु॑तः । पिब॑त । ऋ॒तुना॑ । पो॒त्रात् । य॒ज्ञम् । पू॒नी॒त॒न॒ । यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ ॥
हे मरुतः ऋतुना सह पोत्रात् पोतृनामकस्य ऋत्विजः पात्रात् सोमं पिबत । ततोऽस्मदीयं यज्ञं पुनीतन शोधयत । हे सुदानवः शोभनदातारो मरुतः हि यस्मात् यूयं स्थ युष्माकं शोधयितृत्वं प्रसिद्धं तस्मात् शोधयतेत्यर्थः ॥ पिबत । अत्र तिङोऽदुपदेशात् शपः परत्वात् लसार्वधातुकानुदात्तत्वम् । धातुस्वरः । पूर्वामन्त्रितस्य अविद्यमानवत्त्वेन पदादपरत्वात् निघाताभावः । पूर्ववत् प्रकृतिभावः । पोत्रात् । पोतुः संबन्धि पात्रं पोत्रम् । तस्येदम् ' ( पा. सू. ४. ३. १२० ) इति अण् । ‘तद्धितेष्वचामादेः ' ( पा. सू. ७. २. ११७ ) इति प्राप्ता वृद्धिः सर्वे विधयश्छन्दसि विकल्प्यन्ते' (परिभा. ३५) इति न भवति । ननु एवमन्त्यस्य ऋकारस्य ‘अचो ञ्णिति' (पा. सू. ७. २. ११५) इति वृद्धिः प्राप्नोति । त्वाष्ट्रो जागत इत्यत्र हि ‘विप्रतिषेधे परं कार्यम्' ( पा. सू. १. ४. २ ) इति परया आदिवृद्ध्यान्त्योपधालक्षणा वृद्धिर्बाध्यते इत्युक्तम् । इह तु परस्या आदिवृद्धेश्छान्दसत्वेन निवृत्तत्वात् अन्त्यवृद्धिः प्राप्नोत्येवेति । एवं तर्हि अत्रापि आदिवृद्धिः औकारः क्रियताम् । तस्य तु छान्दसः ओकारो भविष्यति । पुनीतन। ‘पूञ् पवने ' । लोट् ।' लोटो लङ्वत्' ( पा. सू. ३. ४. ८५) इति लाङ्वद्भावात् तस्य ' तस्थस्थमिपाम् ' ( पा. सू. ३. ४. १०१ ) इति तादेशः। ‘क्र्यादिभ्यः श्ना । ‘ई हल्यघोः ' (पा. सू. ६. ४. ११३) इति ईकारः । ‘तप्तनप्तनथनाश्च' (पा. सू. ७. १. ४५) इति तनादेशः । ‘प्वादीनां ह्रस्वः' (पा. सू. ७. ३. ८० ) इति ह्रस्वः । प्रत्ययद्वयस्यापि ' सार्वधातुकमपित्' (पा. सू. १. २. ४ ) इति ङित्त्वात् स्वस्वपूर्वयोः इकोर्गुणाभावः । यूयम् । युष्मदः परस्य जसः ‘ङेप्रथमयोरम् ' ( पा. सू. ७. १. २८) इति अमादेशः । ‘न विभक्तौ तुस्माः ' (पा. सू. १. ३. ४ ) इति मकारस्य इत्संज्ञाप्रतिषेधः । यूयवयौ जसि' (पा. सू. ७. २. ९३ ) इति मपर्यन्तस्य यूयादेशः । शेषे लोपः । अत्र यूयादेशात् प्रागेव अन्तरङ्गत्वात् प्रातिपदिकस्यान्तोदात्तत्वम् । शेषनिघातः । ततो यूयादेशः ‘स्थानेऽन्तरतमः' (पा. सू. १. १. ५० ) इति सर्वानुदात्तः । तत्र ‘शेषे लोपः' ( पा. सू. ७. २. ९० ) अन्त्यलोप इति पक्षे पूर्वसवर्णदीर्घत्वं बाधित्वा योऽयम् ' अमि पूर्वः ' ( पा. सू. ६. १. १०७ ) इति प्रातिपदिकान्तेनोदात्तेन सह अनुदात्तस्य सुप एकादेशः सः ‘एकादेश उदात्तनोदात्तः' इत्युदात्तः । टिलोपपक्षे तु उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । स्थ । अस भुवि '। लटो मध्यमबहुवचनं थ। ‘अदिप्रभृतिभ्यः शपः' इति शपो लुक् । 'श्नसोरल्लोपः' इति अकारलोपः । व्यत्ययेन षस्वम् । ' हि च ' इति निषेधात् “ तिङ्ङतिङः' इति निघातो न भवति । संहितायाम् अन्येषामपि दृश्यते' इति दीर्घत्वम् । अत्र हे सुदानवो यूयं हि स्थ इति विवक्षितम् । सुदानवः । ‘दाभाभ्यां नुः ' ( उ. सू. ३. ३१२ )। सोः प्रादिसमासः । आमन्त्रितनिघातः । अत्र यूयमित्युद्दिश्य सुदानवः स्थ इति न विधीयते येन अनामन्त्रितत्वात् निघातो न स्यात् । किंतु सुदानव इति सिद्धवद्दातृत्वेन संबोध्य तेषु तेषु मारुतसूक्तेषु मरुतां प्रसिद्धात् प्रभावातिशयात् यूयं स्थ इति युष्मच्छब्देन प्रतिनिर्दिश्य पुनीतन इति प्रार्थने पवने तेषां हेतुत्वं हिशब्देनोच्यते ॥
“Maruts, drink with Ṛtu from the sacrificial vase; consecrate the rite, for you are bountiful.”
Drink from the Purifier's cup, Maruts, with Rtu; sanctify
The rite, for ye give precious gifts.
O Maruts, drink in your turn from the cup of the Potar. Purify the sacrifice,
for you are the ones of good drops.
Trinkt, Maruts, aus des Läutrers Kelch wie's Brauch ist, macht das Opfer hell, Denn ihr seid reichlich schenkende.
Ihr Marut, trinkt nach der Zeit aus dem Becher des Potri; machet das Opfer rein! Ihr seid ja die Gabenschönen.
О Маруты, пейте в урочное время
Из чаши потара! Очистите жертву!
Ведь вы – очень щедрые!
अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्ट॒: पिब॑ ऋ॒तुना॑ । त्वं हि र॑त्न॒धा असि॑ ॥
अ॒भि । य॒ज्ञम् । गृ॒णी॒हि॒ । नः॒ । ग्रावः॑ । नेष्ट॒रिति॑ । पिब॑ । ऋ॒तुना॑ । त्वम् । हि । र॒त्न॒ऽधा । असि॑ ॥
ग्नाशब्दः स्त्रीवाची । तथा च यास्क आह- मेना ग्ना इति स्त्रीणां मेना मानयन्त्येना ग्ना गच्छन्त्येनाः ' ( निरु. ३. २१ ) इति । ग्ना अस्य सन्तीति भावान् । नेष्टृशब्दोऽत्र त्वष्टारं देवमाह; कस्मिंश्चित् देवसत्रे नेष्टृत्वेन त्वष्टुर्वृत्तत्वात् । हे ग्नावः पत्नीयुक्त नेष्टः त्वष्टः नः अस्मदीयं यज्ञम् अभि गृणीहि अभितो देवानां समीपे स्तुहि । ऋतुना सह त्वं सोमं पिब । हि यस्मात् त्वं रत्नधाः असि रत्नानां दातासि दाता भवसि तस्मात् सोमं पातुमर्हसीत्यर्थः ॥ अभि ।' उपसर्गाश्चाभिवर्जम् ' (फि. सू. ८१ ) इति पर्युदासात् अभेः अन्तोदात्तत्वम् । गृणीहि । गॄ शब्दे ' । लोटि सिपो हिः । ‘क्र्यादिभ्यः श्ना' । हेर्ङित्त्वात् ‘ई हल्यघोः इति ईत्वम् । श्नाप्रत्ययस्य ङित्त्वाद्गुणाभावः । प्वादीनां ह्रस्वः' । तिङ्ङतिङः' इति निघातः । ग्ना अस्य सन्तीति मतुप् । व्यत्ययेन वत्वम् । संबुद्वौ ' मतुवसो रुः' इति रुत्वम् । विसर्गः । पादादित्वेन आमन्त्रितनिघाताभावात् षाष्ठिकम् आमन्त्रिताद्युदात्तत्वम् । ग्नाव इत्यस्य विशेषणतया विशेषवचनत्वात् ' नामन्त्रिते समानाधिकरणे इति निषेधाभावात् अविद्यमानवत्त्वेन उतरस्य नेष्टृशब्दस्य षाष्ठिकमाद्युदात्तत्वम् । पिब । शपः पित्त्वात् धातुस्वरः । पूर्वयोरामन्त्रितयोरविद्यमानवत्त्वेन निघाताभावः । रत्नानि दधातीति रत्नधाः । ‘क्विप् च ' इति क्विप् । धातुस्वरः । समासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । असि । सिपः पित्त्वात् धातुस्वरः । ‘तिङ्ङतिङः' इति निघातो न भवति ‘हि च ' इति प्रतिषेधात् ॥
“Neṣṭā (= Tvaṣṭā), with your spouse, commend our sacrifice to the gods; drink with Ṛtu, for you are possessed of riches.”
O Nestar, with thy Dame accept our sacrifice; with Rtu drink,
For thou art he who giveth wealth.
Welcome our sacrifice; o Neṣṭar [=Tvaṣṭar], along with the Wives (of the Gods), drink in your turn,
for you are the conferrer of treasure.
Nimm unser Opfer gnädig an, o Frauenführer, trink nach Brauch , Denn Schatzertheilend bist du ja.
Stimm unserem Opfer zu, Herr der Götterfrauen, trink du Nestri, nach der Zeit! Du bist ja der Kleinodbringer.
Воспевай нашу жертву!
О владыка божественных жен, нештар, пей в урочное время!
Ты ведь даритель сокровищ!
अग्ने॑ दे॒वाँ इ॒हा व॑ह सा॒दया॒ योनि॑षु त्रि॒षु । परि॑ भूष॒ पिब॑ ऋ॒तुना॑ ॥
अग्ने॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ । सा॒दय॑ । योनि॑षु । त्रि॒षु । परि॑ । भू॒ष॒ । पिब॑ । ऋ॒तुना॑ ॥
हे अग्ने देवान् इह अस्मिन् कर्मणि आ वह । ततः योनिषु स्थानेषु त्रिषु सवनेषु सादय देवानुपवेशय । ततस्तान् परि भूष अलंकुरु । ऋतुना सह त्वं सोमं पिब ॥ ‘अग्ने देवान् ' इत्ययं पादो गतः । योनिषु । ‘यु मिश्रणे । ' वहिश्रि° ' ( उ. सू. ४. ४९१ ) इत्यादिना निप्रत्ययः । नित्त्वादाद्युदात्तः । त्रिषु । ‘षट्त्रिचतुर्भ्यो हलादिः ' ( पा. सू. ६. १. १७९ ) इति विभक्तेरुदात्तत्वम् ।' भूष अलंकारे'। तिङ्ङतिङः' इति निघातः । पिब ऋतुना । गतौ ॥
“Agni, bring the gods hither, arrange them in three plural ces (Āhavanīya, Dakṣiṇa and Gārhapatya--three fires) decorate them; drink with Ṛtu.”
Bring the Gods, Agni; in the three appointed places set them down:
Surround them, and with Rtu drink.
O Agni, convey the gods here; make them sit in the three wombs. Attend on them; drink in your turn.
O Agni, fahr die Götter her und setz auf die drei Sitze sie, Bedien' sie, trinke nach dem Brauch.
Agni, fahre die Götter her; laß sie sich an den drei Stätten niedersetzen; warte deines Amtes, trink nach der Zeit!
О Агни, привези сюда богов!
Посади (их) в трех местах!
Охвати (алтарь)! Пей в урочное время!
ब्राह्म॑णादिन्द्र॒ राध॑स॒: पिबा॒ सोम॑मृ॒तूँरनु॑ । तवेद्धि स॒ख्यमस्तृ॑तम् ॥
ब्राह्म॑णात् । इ॒न्द्र॒ । राध॑सः । पिब॑ । सोम॑म् । ऋ॒तून् । अनु॑ । तव॑ । इत् । हि । स॒ख्यम् । अस्तृ॑तम् ॥
हे इन्द्र ब्राह्मणात् ब्राह्मणाच्छंसिसंबद्धात् राधसः धनभूतात् पात्रात् सोमं पिब । किं कृत्वा । ऋतूननु ऋतुदेवाननुसृत्य । ऋतवोऽपि पिबन्त्वित्यर्थः । हि यस्मात् तवेत् तव सख्यम् अस्तृतम् ऋतूनामविच्छिन्नं तस्मात् ऋतुभिः सह पानं युक्तम् ॥ ब्राह्मणात् । ब्रह्मशब्देनात्र ब्रह्मवर्गे द्वितीयो ब्राह्मणाच्छंसी कथ्यते । स च पुंलिङ्गे शेषनिघातेन अनुदात्तादिः । तस्य संबन्ध्युत्तष्टश्चमसः । स च तस्यैव अवयववत् नियत इत्यवयवविवक्षायाम् “ अनुदात्तादेरञ् ' ( पा. सू. ४. २. ४४ )। तेन ञित्त्वादाद्युदात्तः चमसपरोऽत्र ब्राह्मणशब्दः । राधसः । ‘सर्वधातुभ्योऽसुन्' । नित्त्वादाद्युदात्तः । पिब । पादादित्वादाद्युदात्तत्वम् । ‘द्व्यचोऽतस्तिङः' इति दीर्घत्वम् । ऋतूँरनु इत्यत्र ‘दीर्घादटि समानपादे ' इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा ' ( पा. सू. ८. ३. २ ) इति ऊकारस्य अनुनासिकत्वम् । तव । युष्मदस्मद्यां प ङसोऽश्' (पा. सू. ७. १. २७) । शित्त्वात् सर्वादेशः । ‘तवममौ ङसि' इति तवादेशः । ‘युष्मदस्मदोर्ङसि' इत्याद्युदात्तत्वम् । सख्यम् । सख्युः कर्म सख्यम् । ‘सख्युर्यः । यस्य ' इति लोपः । प्रत्ययस्वरः । अस्तृतम् । स्तृणातेः हिंसार्थस्य क्तः । नञ्समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
“Drink the Soma juice, Indra from the precious vase of the Brāhmaṇa ( = Brāhmanical wealth) after Ṛtu, for whom your friendship is uninterrupteḍ brāhmaṇād-rādhasaḥ = lit. from brāhmanical wealth; explained as a costly or wealthy vessel: dhanabhūtāt pātrāt; brāhmaṇād = brāhmaṇācchaṃsi, one of the sixteen priests employed in sacrifices, who perhaps holds some ladle or vase in which the offering is presented: tasya sambandhyucchiṣṭas camasaḥ, the relation is the ladle that has the leavings].”
Drink Soma after the Rtus, from the Brahmana's bounty: undissolved,
O Indra, is thy friendship's bond.
O Indra, from the Brahman’s largesse drink the soma according to your turns,
for only your comradeship cannot be brought to ruin.
Und aus des Beters Spende trink den Soma, Indra, nach dem Brauch; Denn unbesieglich ist dein Bund.
Aus der Brahman-Spende trink, o Indra, den Soma nach den Zeiten! Deine Freundschaft ist ja nicht zu Fall zu bringen.
Из брахманского подношения, о Индра,
Пей сому в урочное время!
Ведь твоя дружба нерушима!
यु॒वं दक्षं॑ धृतव्रत॒ मित्रा॑वरुण दू॒ळभ॑म् । ऋ॒तुना॑ य॒ज्ञमा॑शाथे ॥
यु॒वम् । दक्ष॑म् । धृ॒त॒ऽव्र॒ता॒ । मित्रा॑वरुणा । दुः॒ऽदभ॑म् । ऋ॒तुना॑ । य॒ज्ञम् । आ॒शा॒थे॒ इति॑ ॥
हे धृतव्रता स्वीकृतकर्माणौ मित्रावरुणा हे मित्रनामकवरुणनामकौ देवौ युवम् उभौ युवाम् ऋतुना सहास्मदीयं यज्ञम् आशाथे व्याप्नुथः। कीदृशं यज्ञम् । दक्षं प्रवृद्धं दूळभं दुर्दहं शत्रुभिर्दग्धुं विनाशयितुमशक्यमित्यर्थः ॥ युवम् । प्रथमाद्विवचनस्य ङेप्रथमयोरम्' ( पा. सू. ७. १. २८) इति अमादेशः । ‘युवावौ द्विवचने' (पा. सू. ७. २. ९२) इति मपर्यन्तस्य युवादेशः । ‘शेषे लोपः' इति टिलोपः अन्त्यलोपो वा । अमि पूर्वत्वम् । भाषायामेव हि आत्वम् । टिलोपपक्षे उदात्तनिवृत्तिस्वरेण अम उदात्तत्वम् । अन्त्यलोपपक्षे एकादेश उदात्तः । दक्षम् । ‘दक्ष वृद्धौ' । दक्षन्त्यनेनेति करणे घञ् । एवं हि पुंलिङ्गत्वनियमः अन्यस्यानियम इति नपुंसकत्वम् । धृतव्रता मित्रावरुणा । धृतानि व्रतानि याभ्यां तौ धृतव्रतौ । मित्रश्च वरुणश्च मित्रावरुणौ । उभयत्र ‘सुपां सुलुक्' इत्यादिना विभक्तेः आकारः। मित्रशब्दस्य ‘देवताद्वन्द्वे च' इति अनङादेशः । प्रथमस्य आमन्त्रितनिघातः। द्वितीयस्य पादादित्वादाद्युदात्तत्वम् । संहितायां छान्दसं ह्रस्वत्वम् । दूळभम् । ‘दह भस्मीकरणे'। दुःखेन दह्यते इति दुर्दहम् । ‘ईषःद्दुःसुषु ' ( पा. सू. ३. ३. १२६ ) इत्यादिना दुर्युपपदे दग्धेः खल् । व्यत्ययो बहुलम्' इति उकारस्य ऊकारो रेफस्य लोपो दकारस्य डकारो हकारस्य च भकारः । ‘लिति' इति प्रत्ययात्पूर्वमुदात्तत्वम् । कृदुत्तरपदत्वेन स एव शिष्यते । आशाथे । “ अशू व्याप्तौ । ‘छन्दसि लुङ्लङलिटः' इति वर्तमाने लिट्। मध्यमद्विवचनम् आथाम् । टेः एत्वम् । अत आदेः ' ( पा. सू. ७. ४. ७० ) इत्यभ्यासस्य दीर्घः । ‘अश्नोतेश्च ' ( पा. सू. ७. ४. ७२ ) इति प्राप्तो नुडागमः अनित्यमागमशासनम् ' इति निवर्तते ॥ ॥ २८ ॥
“Mitra and Varuṇa, propitious to pious acts, be present with Ṛtu at our sacrifice, efficacious and undisturbed (by foes).”
Mitra, Varuna, ye whose ways are firm--a Power that none deceives--,
With Rtu ye have reached the rite.
You two, o Mitra and Varuṇa of steadfast commandments, have attained skill difficult to trick
and the sacrifice in your turn.
Ihr treuen, Mitra-Varuna, besitzt untrüglichen Verstand, Das Opfer nahmt ihr nach dem Brauch.
Ihr beide, Mitra und Varuna, die ihr die Gebote aufrecht haltet, ihr habt unbeirrte Wirkenskraft und nach der Zeit das Opfer erlangt.
Вы двое, о Митра-Варуна, чьи заветы крепки,
Достигли непреодолимой силы действия
(И) жертвы (, получаемой) в урочное время.
द्र॒वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो अध्व॒रे । य॒ज्ञेषु॑ दे॒वमी॑ळते ॥
द्र॒वि॒णः॒ऽदाः । द्रवि॑णसः । ग्राव॑ऽहस्तासः । अ॒ध्व॒रे । य॒ज्ञेषु॑ । दे॒वम् । ई॒ळ॒ते॒ ॥
अध्वरे अग्निष्टोमे प्रकृतिरूपे यज्ञेषु विकृतिरूपेषु उक्थ्यादिषु च देवम् अग्निम् ईळते ऋत्विजः स्तुवन्ति । कीदृशा ऋत्विजः । द्रविणसः धनार्थिनः ग्रावहस्तासः अभिषवसाधनपाषाणधारिणः । कीदृशं देवम् । द्रविणोदाः धनप्रदम् । यद्वा । धनप्रदोऽग्निः सोमं पिबत्विति शेषः। तमेतं मन्त्रं यास्क एवं निर्वक्ति - द्रविणोदाः कस्माद्धनं द्रविणमुच्यते यदेनदभिद्रवन्ति बलं वा द्रविणं यदेनेनाभिद्रवन्ति तस्य दाता द्रविणोदास्तस्यैषा भवति । द्रविणोदा द्रविणसः' ( निरु. ८. १२) इत्यादि । सोऽयं यास्कोक्तो निर्वचनप्रपञ्चः तस्मिन्नेव ग्रन्थेऽवगन्तव्यः । द्रविणोदाः । ‘द्रुदक्षिभ्यामिनन् ' (उ. सू. २. २०८)। नित्त्वादाद्युदात्तो द्रविणशब्दः । तद्ददातीति द्रविणोदाः । ‘क्विप् च ' इति क्विप् । पूर्वपदस्य सकारोपजनश्छान्दसः । रुत्वोत्वे । कृदुत्तरपदप्रकृतिस्वरत्वम् । देवविशेषणत्वेन एकवाक्यतापक्षे द्वितीयायाः स्वादेशः । अथवा द्रविणमात्मन इच्छन्ति द्रविणस्यन्ति । ‘सुप आत्मनः क्यच्' । ‘सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्यः ' ( पा. म. ७. १. ५१. २ ) इति क्यचि परतः सुगागमः । द्रविणस्यतेः संपदादित्वात् । भावे क्विप् । ‘अतो लोपः' । ‘कौ लुप्तं न स्थानिवद्भवति' (पा. म. १. १.५८. २) इति तस्य स्थानिवत्त्वप्रतिषेधात् यलोपः । एवं द्रविणस्शब्दो धनेच्छावचनः । द्रविणेच्छां दस्यति यथेष्टधनप्रदानेन उपक्षपयतीत्यर्थे ' दसु उपक्षये ' इत्यस्मात् अन्तर्भावितण्यर्थात् ' क्विप् च ' इति क्विप् । एवं द्रविणोदः शब्दः सकारान्तो भवति । तथा द्रविणोदसाः प्रवादा भवन्ति' (निरु. ८. २) इति नैरुक्तो व्यवहार उपपद्यते । अतो द्रविणोदस्शब्दो भिन्नवाक्यत्वे स्वार्थे प्रथमा; एकवाक्यत्वे तु व्यत्ययेन द्वितीयार्थो भवति । द्रविणस इत्यत्रापि वाक्यभेदपक्षे द्रविणसः सोमस्य इत्यर्थे सकारोपजनश्छान्दसः । आद्युदात्तत्वं तु नियमेन स्थितम् । ऋत्विग्विशेषणत्वेन एकवाक्यत्वपक्षे तु क्यजन्तात् क्विप् । अतो लोपादि पूर्ववत् । अत्र तु पक्षे क्यचः चित्त्वेन अन्तोदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । ग्रावयुक्ता हस्ता येषां ते ग्रावहस्तासः । ‘आज्जसेरसुक्' । ग्रावशब्दो वृषादित्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अध्वरे। न विद्यते ध्वरो हिंसा यस्मिन् । नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ईळते । अनुदात्तेस्वात् आत्मनेपदम् । ‘अदिप्रभृतिभ्यः' इति शपो लुक् । झस्य अदादेशः ॥
“(The priests) desirous of wealth, holding stones in their hands, praise the divine (Agni) Draviṇodas (= Agni, donor of wealth), both in the primary (e.g. Agniṣṭoma) and subsidiary (e.g. Ukthya) sacrifices.”
The Soma-pressers, fain for wealth, praise the Wealth-giver in the rite,
In sacrifices praise the God.
As for the Wealth-Giver of wealth—those with the pressing stones in their hands in the ceremony
solemnly invoke the god at the sacrifices.
Den Reichthumgeber preisen hoch die Somapresser bei dem Fest, Bei ihrem Opferwerk den Gott.
Der Reichtumsgeber des Reichtums soll trinken; mit den Preßsteinen in der Hand berufen sie während der heiligen Handlungen zu den Opfern den Gott.
Даритель богатства (пусть пьет в урочное время)!
С давильными камнями в руках во время обряда
Они призывают бога на жертвоприношения.
द्र॒वि॒णो॒दा द॑दातु नो॒ वसू॑नि॒ यानि॑ शृण्वि॒रे । दे॒वेषु॒ ता व॑नामहे ॥
द्र॒वि॒णः॒ऽदाः । द॒दा॒तु॒ । नः॒ । वसू॑नि । यानि॑ । शृ॒ण्वि॒रे । दे॒वेषु॑ । ता । व॒ना॒म॒हे॒ ॥
द्रविणोदाः देवः नः अस्मभ्यं वसूनि धनानि ददातु यानि धनानि शृण्विरे हविरुपयुक्तत्वेन श्रूयन्ते । ता तानि च सर्वाणि धनानि देवेषु निमित्तभूतेषु वनामहे संभजामः । धनैर्देवान् यष्टुं तानि स्वीकुर्म इत्यर्थः ॥ द्रविणोदाः । गतम् । वसूनि । शृस्वृस्निहि° ' ( उ. सू. १, १० ) इत्यादिना उप्रत्ययः । ‘नित्' इत्यनुवृत्तेः आद्युदात्तः । श्रृण्विरे । ‘श्रु श्रवणे'। ‘छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट् । झ इरेच् ( पा. सू. ३. ४. ८१ )। ‘छन्दस्युभयथा ' इति सार्वधातुकत्वे व्यत्ययेन श्नुः, तत्संनियोगेन शृभावश्च । उवङि प्राप्ते “ हुश्नुवोः सार्वधातुके' ( पा. सू. ६. ४. ८७ ) इति यणादेशः । ‘चितः' इत्यन्तोदात्तत्वम् । यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । ता । ‘शेश्छन्दसि बहुलम् ' इति शेर्लोपः । ‘नलोपः प्रातिपदिकान्तस्य ' ( पा. सू. ८. २. ७ ) इति नलोपः । वनामहे । ‘वन पण संभक्तौ ' । व्यत्ययेनात्मनेपदम् ॥
“May Draviṇodas give us riches that may be heard of; we ask them for the gods.”
May the Wealth-giver grant to us riches that shall be far renowned.
These things we gain, among the Gods.
Let the Wealth-Giver give us goods that are famed.
We shall win these for ourselves among the gods.
Der Reichthumgeber gebe uns die Güter, welche weit berühmt, Wir bringen sie den Göttern dar.
Der Reichtumgeber soll uns Schätze geben, die berühmt werden. Diese erwirken wir von den Göttern.
Даритель богатства пусть дарует нам
Блага, которые славятся!
Их мы добиваемся для себя у богов.
द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत । ने॒ष्ट्रादृ॒तुभि॑रिष्यत ॥
द्र॒वि॒णः॒ऽदाः । पि॒पी॒ष॒ति॒ । जु॒होत॑ । प्र । च॒ । ति॒ष्ठ॒त॒ । ने॒ष्ट्रात् । ऋ॒तुऽभिः॑ । इ॒ष्य॒त॒ ॥
द्रविणोदः देवः ऋतुभिः सह नेष्ट्रात् नेष्टृसंबन्धिपात्रात् पिपीषति सोमं पातुमिच्छति । ततो हे ऋत्विजः इष्यत होमस्थाने गच्छत। गत्वा च जुहोत होमं कुरुत। हुत्वा प्र तिष्ठत च होमस्थानात् स्थानान्तरं प्रति प्रस्थानमपि कुरुत ॥ द्रविणोदाः । गतम् । पिपीषति । ‘पा पाने ' । पातुमिच्छतीति सन् । छान्दस ईकारः। ‘तिङ्ङतिङः' इति निघातः । जुहोत । लोण्मध्यमबहुवचनम् । तस्य लङ्वद्भावात् तादेशः । तस्य ‘तप्तनप्तनथनाश्च ' इति तबादेशः । तस्य पित्त्वाद्गुणः । ‘अभ्यस्तानामादिः ' इत्यनुवृत्तौ ‘अनुदात्ते च ' ( पा. सू. ६. १. १९०) इत्याद्युदात्तत्वे प्राप्ते भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति' (पा. सू. ६. १. १९२ ) इति ओकार उदात्तः । तिष्ठत । ‘ष्ठा गतिनिवृत्तौ । लोण्मध्यमबहुवचनस्य थस्य लङ्वद्भावात् तादेशः । शपि ' पाघ्राध्मा ०' इत्यादिना तिष्ठादेशः । ‘समवप्रविभ्यः स्थः' ( पा. सू. १. ३. २२) इत्यात्मनेपदं न भवति; तत्रानुवृत्तस्य निर्दिष्टग्रहणस्य आनन्तर्यार्थत्वात् अत्र चशब्देन व्यवधानात् । ‘ते प्राग्धातोः' (पा. सू. १. ४. ८०) इत्युपसर्ग वेन प्राक्प्रयोक्तव्यस्यापि प्रशब्दस्य ‘व्यवहिताश्च ' ( पा. सू. १. ४. ८२.) इति छन्दसि व्यवहितप्रयोगः । अत्र चशब्दो जुहोत इति पूर्वेण सह समुच्चयार्थः, न पुनः इष्यत इत्युत्तरेण । तेन अप्रथमत्वात् ‘चवायोगे प्रथमा' (पा. सू. ८. १. ५९ ) इति निषेधाभावात् ‘तिङ्ङतिङः' इति निघातः। नेष्ट्रात् ।' पोत्राद्यज्ञं पुनीतन' ( ऋ. सं. १. १५. २ ) इत्यत्र पोत्रशब्दे यदुक्तं तदत्र द्रष्टव्यम् । इष्यत । इष गतौ । लोण्मध्यमबहुवचनम् ॥
“Draviṇodas desires to drink with the Ṛtu from the cup of Neṣṭā (= tvaṣṭā or one of 16 officiating priests); hasten, (priest, to the hall of offering); present the oblation, and depart.”
He with the Rtu fain would drink, Wealth-giver, from the Nestar's bowl.
Haste, give your offering, and depart.
The Wealth-Giver desires to drink: pour and set it forth;
send it from the Neṣṭar’s cup by turns.
Der Reichthumgeber heischet Trank, geht vor und opfert nach dem Brauch, Ergiesst ihn aus des Führers Kelch.
Der Reichtumgeber will trinken; opfert und tretet vor, lasset den Soma nach den Zeiten aus dem Becher des Potri!
Даритель богатства хочет пить.
Приносите жертву (и) выходите вперед.
Из чаши нештара выливайте (сому) в урочное время
यत्त्वा॑ तु॒रीय॑मृ॒तुभि॒र्द्रवि॑णोदो॒ यजा॑महे । अध॑ स्मा नो द॒दिर्भ॑व ॥
यत् । त्वा॒ । तु॒रीय॑म् । ऋ॒तुऽभिः॑ । द्रवि॑णःऽदः । यजा॑महे । अध॑ । स्म॒ । नः॒ । द॒दिः । भ॒व॒ ॥
हे द्रविणोदः देव यत् यस्मात् कारणात् ऋतुभिः सह त्वां यजामहे । अध इत्ययं निपातस्तच्छब्दार्थः । तस्मात् कारणात् नः अस्मभ्यं ददिः धनस्य दाता भव स्म अवश्यं भव । तुरीयं चतुर्णां पूरणम् ॥ तुरीयम् ।' चतुरश्छयतावाद्यक्षरलोपश्च' ( पा. सू. ५. २. ५१. १ ) इति छप्रत्ययः । तस्य प्रत्ययस्वरेणोदात्तात् प्रागेव ‘आयनेयी' ( पा. सू. ७. १. २ ) इत्यादिना ईयादेशः । ‘आयनादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थम् ' ( पा. सू. ७. १. २. १ ) इति वचनात् कृते आदेशे प्रत्ययस्वरेण इकार उदात्तः । द्रविणोदः । उक्तम् । पादादित्वात् आमन्त्रिताद्युदात्तत्वम् । यजामहे । अत्र शपः पित्त्वेन तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव । पूर्वस्य आमन्त्रितस्य अविद्यमानत्त्वात् यद्वृत्तयोगाद्वा न निघातः । व्यवहितयोगेऽपि स निषेध इत्युक्तम् । अध । छान्दसो धकारः । स्म । चादिरनुदात्तः । संहितायां निपातस्य च ' (पा. सू. ६. ३. १३६ ) इति दीर्घः । ददिः । ‘डुदाञ् दाने । आदृगमहनजनः किकिनौ लिट् च ' ( पा. सू. ३. २. १७१ ) इति किप्रत्ययः । लिड्वद्भावात् द्विर्वचनादि। ‘आतो लोप इटि च ' ( पा. सू. ६. ४. ६४ ) इति आकारलोपः । प्रत्ययस्वरः ॥
“Since Draviṇodas, we adore you for the fourth time (i.e. in four ṛks) along with the Ṛtu; therefore be a benefactor unto us.”
As we this fourth time, Wealth-giver, honour thee with the Rtus, be
A Giver bountiful to us.
When we sacrifice to you, o Wealth-Giver, the fourth time by turns, then become a giver to us.
Weil, Reichthumgeber, wir nach Brauch zum vierten male ehren dich, So sei ein reicher Geber uns.
Wenn wir dir zum vierten Male nach den Zeiten opfern, du Reichtumgeber, so sei uns ein Schenker!
Когда тебя в четвертый раз почитают
В положенное время, о даритель богатства,
Стань тут же нашим дарителем!
अश्वि॑ना॒ पिब॑तं॒ मधु॒ दीद्य॑ग्नी शुचिव्रता । ऋ॒तुना॑ यज्ञवाहसा ॥
अश्वि॑ना । पिब॑तम् । मधु॑ । दीद्य॑ग्नी॒ इति॒ दीदि॑ऽअग्नी । शु॒चि॒ऽव्र॒ता॒ । ऋ॒तुना॑ । य॒ज्ञ॒ऽवा॒ह॒सा॒ ॥
हे अश्विनौ मधु माधुर्योपेतं सोमं पिबतम् । कीदृशौ । दीद्यग्नी द्योतमानाहवनीयाद्यग्नियुक्तौ शुचिव्रता शुद्धकर्माणौ ऋतुना ऋतुदेवतया सह यज्ञवाहसा यज्ञस्य निर्वाहकौ ॥ अश्विना । संबोधनद्विवचनस्य ‘सुपां सुलुक् ' इति आकारः । आमन्त्रिताद्युदात्तः । पिबतम् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । मधु ।' फलिपाटि° ' ( उ. सू. १. १८) इत्यादिना उप्रत्ययः । नित्' इत्यनुवृत्तेः नित्त्वादाद्युदात्तः । दीद्यग्नी ।' दिवु क्रीडादौ । ‘अन्येभ्योऽपि दृश्यन्ते ' ( पा. सू. ३. २. ७५ ) इति विच् । वेरपृक्तलोपात् वलि लोपो बलीयानिति प्रथमवकारस्य लोपः ( पा. सू. ६. १. ६६-६७ )। प्रथमं प्रत्ययलोपे हि ‘वर्णाश्रयविधौ प्रत्ययलक्षणं नास्ति' ( परिभा. २१ ) इति निषेधात् वलि लोपो न स्यात् । छान्दसं द्विर्वचनम् । तुजादित्वात् अभ्यासस्य दीर्घत्वम् । यङ्लुगन्ताद्वा संज्ञापूर्वको विधिरनित्यः' (परिभा. ९३. १.) इत्यभ्यासस्य गुणाभावः। दीदिरग्निर्ययोस्तौ दीद्यग्नी । आमन्त्रिताद्युदात्तत्वम् । पादादित्वात् न निघातः । शुचिव्रता। शुचि व्रतं ययोस्तौ । ‘सुपां सुलुक् ' इति आकारः । दीद्यग्निशब्दस्य सामान्यवचनत्वेन ' नामन्त्रिते॰ ' इति अविद्यमानवत्त्वप्रतिषेधात् आष्टमिकनिघातत्वम् । पूर्वस्य पराङ्गवद्भावाद्वा ऐकस्वर्यम् । यज्ञवाहसा । ‘वह प्रापणे '। यज्ञं वहतः इति यज्ञवाहसौ ।' बहिहाधाञ्भ्यश्छन्दसि ' ( उ. सू. ४. ६६० ) इति असुन्। तत्र हि ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' ( उ. सू. ४. ६६६) इति वचनात् सोपपदानामपि भवति इत्युक्तम् । णित्' इत्यनुवृत्तेः उपधावृद्धिः । ‘सुपां सुलुक्' ' इत्यादिना विभक्तेः आकारः । आमन्त्रितनिघातः । असामर्थ्यात् पूर्वस्य न पराङ्गवद्भावः ॥
“Aśvins, performers of pious acts, bright with sacrificial fires, acceptors, with the Ṛtus, of the sacrifice drink the sweet draught.”
Drink ye the meath, O Asvins bright with flames, whose acts are pure, who with
Rtus accept the sacrifice.
O Aśvins, you who have luminous fire and blazing commandments, drink the honey in your turn, you whose vehicle is the sacrifice.
O Ritter, trinkt den süssen Trank, ihr hellentflammten, reingesinnt, Und nehmt das Opfer nach dem Brauch.
Ihr Asvin von lauterem Wandel, denen das Feuer leuchtet, trinkt nach der Zeit den Süßtrank, durch das Opfer angezogen!
О Ашвины, пейте мед,
(Вы,) кому светит огонь, чистые обетом,
Принимающие почитание в урочное время!
गार्ह॑पत्येन सन्त्य ऋ॒तुना॑ यज्ञ॒नीर॑सि । दे॒वान्दे॑वय॒ते य॑ज ॥
गार्ह॑पत्येन । स॒न्त्य॒ । ऋ॒तुना॑ । य॒ज्ञ॒ऽनीः । अ॒सि॒ । दे॒वान् । दे॒व॒य॒ते । य॒ज॒ ॥
हे सन्त्य फलप्रदाग्निदेव गार्हपत्येन गृहपतिसंबन्धिना रूपेण युक्तः सन् ऋतुना ऋतुदेवेन सह यज्ञनीः यज्ञस्य निर्वाहकः असि । तस्मात् त्वं देवयते देवविषयकामनायुक्ताय यजमानाय देवान् यज ॥ गार्हपत्येन । 'गृहपतिना संयुक्ते ञ्यः' (पा. सू. ४. ४. ९०)। 'यस्य' इति लोपः । ञित्त्वात् आदिवृद्धिः आद्युदात्तत्वं च । गृहपतित्वमित्यर्थे ' पत्यन्तपुरोहितादिभ्यः' (पा. सू. ५. १. १२८ ) इति यकि तु अन्तोदात्तत्वं स्यात् । सन्त्य सनने भव । ‘षणु दाने '। ' क्तिच्क्तौ च ' इति क्तिच् । न क्तिचि दीर्घश्च' ( पा. सू. ६. ४. ३९ ) इति दीर्घनलोपाभावः । ‘भवे छन्दसि' (पा. सू. ४ ४. ११० ) इति यत्; ‘तत्र साधुः ' ( पा. सू. ४. ४. ९८ ) इति वा । निघातः । यज्ञं नयतीति यज्ञनीः ।' सत्सूद्विष° ' इत्यादिना क्विप् । कृदुत्तरपदप्रकृतिस्वरः । देवयते । देवानात्मन इच्छतीति देवयन् । तस्मै । ‘क्यचि च ' इति ईत्वं न भवति ' न च्छन्दस्यपुत्रस्य ' इति निषेधात्। 'अश्वाघस्य' ( पा. सू. ७. ४. ३७) इति आत्वविधानात् ईत्वनिषेधे प्राप्तस्य दीर्घस्याप्येष निषेध इत्युक्तम् । ‘शतुरनुमो नद्यजादी ' इति विभक्तेरुदात्तत्वम् । अत्र क्यचश्चित्वादन्तोदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण उभयोः क्यचा सह एकादेशे ‘ एकादेश उदात्तेनोदात्तः' इत्युदात्तः । तस्मादन्तोदात्तत्वात् परस्या विभक्तेः ‘शतुरनुमो नद्यजादी' इत्युदात्तत्वम् ॥ ॥ २९॥
“Giver of rewards (Agni = santya, from san, to give), being identified with the household fire, and partaker with Ṛtu of the sacrifice, worship the gods on behalf of their adorer.”
With Rtu, through the house-fire, thou, kind Giver, guidest sacrifice:
Worship the Gods for the pious man.
Through your lordship in the house, o companion, you are leader of the sacrifice in your turn.
Sacrifice to the gods for the one who seeks the gods.
Du guter bist als Hausherr ja der Opferführer nach dem Brauch, Die Götter ehr dem Frommen du.
In der Würde des Hausherren bist du Wahrhafter nach der Zeit der Opferleiter. Opfere den Göttern für den Gottergebenen
Как огонь домохозяина, о истинный,
Ты бываешь предводителем жертвоприношения в урочное время.
Принеси жертву богам для почитателя богов!