पु॒रु त्वा॑ दा॒श्वान्वो॑चे॒ऽरिर॑ग्ने॒ तव॑ स्वि॒दा । तो॒दस्ये॑व शर॒ण आ म॒हस्य॑ ॥
पु॒रु । त्वा॒ । दा॒स्वान् । वो॒चे॒ । अ॒रिः । अ॒ग्ने॒ । तव॑ । स्वि॒त् । आ । तो॒दस्य॑ऽइव । श॒र॒णे । आ । म॒हस्य॑ ॥
हे अग्ने त्वा त्वां पुरु बहु वोचे । यद्वा । बहु दाश्वानिति संबन्धः । पुत्रं देहि वित्तं देहि इत्याद्याशासनानि ब्रवीमीत्यर्थः । किं तृष्णीं नेत्याह । यतः दाश्वान् अभिमतं हविः दत्तवानस्मि अतः वोचे । इतरसाधारण्येन ब्रुवतः कथं दातव्यमिति न मन्तव्यम् । यतोऽहं हे अग्ने तव स्वित् तवैव
“आ आभिमुख्येन अरिः अर्ता हविरादिप्रापणेन सेवकोऽहम् । तत्र दृष्टान्तः । महस्य महतः तोदस्येव शिक्षकस्य स्वामिनः शरणे अस्य गृहे यथा गर्भदासादिः आ समन्तात् नियतो वर्तते तद्वदहमपि । यस्मादेवं तस्मात् अभिमतं बहु वोचे त्वमपि तत्सर्वं देहीत्यर्थः । अत्र निरुक्तं- बहु दाश्वांस्त्वामेवाभिह्वयाम्यरिरमित्र ऋच्छतेः । ईश्वरोऽप्यरिरेतस्मादेव। यदन्यदेवत्या अग्नावाहुतयो हूयन्त इत्येतद्दृष्ट्वैवमवक्ष्यत् तोदस्येव शरण आ महस्य तुदस्येव शरणेऽधि महतः ' (निरु. ५. ७) इति ॥
“Presenting many offerings, I address you, Agni, ever coming into your presence (like a servant) in the dwelling of a mighty master.”
AGNI, thy faithful servant I call upon thee with many a gift,
As in the keeping of the great inciting God;
I thy indigent 1 worshipper say much to thee, O Agni, dwelling in thy protection as (in the protection) of a great impeller 2.
Performing much ritual service for you, I call myself a stranger (under the protection) of you, o Agni,
as if under the protection of the great goad [=sun].
Dir vielfach dienend ruf' ich dich, dir, Agni, treu, in deinem Schutz Wie in des grossen Stachlers Schutz, des Sonnengotts.
Da ich viel Spende, spreche ich zu dir, Agni, als hoher Herr, der gewiß unter deinem Schutze steht, wie unter dem eines großen Szepters.
Много почитая тебя, я зовусь
Благородным, (находясь), о Агни, у тебя самого
Под защитой, как у великого поощрителя (-солнца).
व्य॑नि॒नस्य॑ ध॒निन॑: प्रहो॒षे चि॒दर॑रुषः । क॒दा च॒न प्र॒जिग॑तो॒ अदे॑वयोः ॥
वि । अ॒नि॒नस्य॑ । ध॒निनः॑ । प्र॒ऽहो॒षे । चि॒त् । अर॑रुषः । क॒दा । च॒न । प्र॒ऽजिग॑तः । अदे॑वऽयोः ॥
पूर्वमन्त्रे स्वाभीष्टं बहु विज्ञापयामीत्युक्तम् । अन्न तु स्वविलक्षणेभ्यो दानादिरहितेभ्यो दानं न दातव्यमिति प्रार्थयते । हे अग्ने त्वां विशेषेण ब्रवीमि । उपसर्गश्रुतेः योग्यक्रियाध्याहारः । अथवा संनिहितत्वात् वोचे इत्यनुषज्यते । अस्मदर्थं यत् व्यजिज्ञपन्’ तद्विरुद्धं वोचे । वक्ष्यमाणस्वरूपस्य न दातव्यम् इति ब्रवीमि" इत्यर्थः । तेषां स्वरूपमाह । अनिनस्य अस्वामिनः त्वाम् अस्वामिनं कुर्वाणस्य तथा धनिनः समग्रधनवतः । पूर्वमेव धनवतो दानस्य निरर्थकत्वात् तन्निवार्यते । यद्वा । यागाद्यनुपयोगिधनवतः इत्यर्थः । किंच प्रहोषे प्रकर्षेण होतुम् अररुषः अददतो दक्षिणारूपेण । यद्वा । प्रहोषेऽनिनस्येति संबन्धः । प्रकर्षेण होतुमसमर्थस्येत्यर्थः । अत्र इनशब्देन तत्स्थं सामर्थ्यं लक्ष्यते । चिच्छब्दः समुच्चयार्थः । किंच कदा चन प्रजिगतः कदाचिदपि प्रकर्षेण देवान् अस्तुवतः । अत्र चन इति निपातद्वयसमुदायः । तत्र चशब्दः समुच्चये नशब्दो निषेधे । किंच अदेवयोः देवानात्मनोऽनिच्छतः । एतेषां न दातव्यमिति विवोचे इत्यर्थः । निन्दितानां स्वरूपनिरूपणेन स्वस्य अतादृशत्वात् बहु वोचे इत्येतत् युक्तमेवेत्युक्तं भवति । यद्वा । चन इति चिच्छब्दपर्यायः । उक्तप्रकारेण दुष्टस्यापि कदाचित् प्रजिगतो यदाकदाचित् त्वां स्तुवतो विवोचे । तादृशस्य दातव्यमिति विशेषेण ब्रवीमि । किमु वक्तव्यमस्मदर्थमिति भावः ॥
“(I ask you also to withhold your favour) from (those) two godless (person ns), from the rich man, who acknowledging you not as his lord, is chary of gifts at sacred rites, and from him who rarely praises (the gods).”
Thou who ne'er movest thee to aid the indolent, the godless man,
Him who though wealthy never brings an offering.
Away even from the libation of a rich man who is feeble, who is a niggard, who never comes forward and does not care for the gods.
(I go) away (from the protection) of the rich man who lacks force, who gives nothing even when oblations are made,
who, not seeking the gods, is never forthcoming.
Nie hat er Lust am Opferwerk des Geizigen, auch wenn er reich, Der ohne Kraft und dessen Wandel gottlos ist.
Anders bei dem Begüterten, der keinen Herrn hat, dem Knauser, der sich niemals anschickt auch nur zu opfern, dem Götterfeind.
Отдельно (я держусь) от некрепкого, (хоть и) богатого,
Скупого даже при жертвенном возлиянии,
Безбожника, который никогда не продвинется вперед.
स च॒न्द्रो वि॑प्र॒ मर्त्यो॑ म॒हो व्राध॑न्तमो दि॒वि । प्रप्रेत्ते॑ अग्ने व॒नुष॑: स्याम ॥
सः । च॒न्द्रः । वि॒प्र॒ । मर्त्यः॑ । म॒हः । व्राध॑न्ऽतमः । दि॒वि । प्रऽप्र॑ । इत् । ते॒ । अ॒ग्ने॒ । व॒नुषः॑ । स्याम ॥
हे अग्ने विप्र मेधाविन् यः मर्त्यः त्वां यजते सः मर्त्यो यजमानः दिवि द्युलोके चन्द्रः सर्वेषाम् आह्लादकश्चन्द्रसदृशो भवति । यद्वा । चन्द्र एव भवति । यजमानानां चन्द्रत्वप्राप्तिं छन्दोगा आमनन्ति- पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा' (छा. उ. ५. १०. ४) इति । ‘ सोमलोके विभूतिमनुभूय' (प्र. उ. ५.४) इति च । तथा मुण्डकेऽपि द्युलोकप्राप्तिराम्नायते–' एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । तं नयन्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः' इति, “ एष वः पुण्यः सुकृतो ब्रह्मलोकः' (मु. उ. १. २. ५-६ ) इति च । पुनः स एव विशेष्यते। महः महतोऽपि व्राधन्तमः प्रवृद्धतमः । इतरदेवानामपि श्रेष्ठ इत्यर्थः। अतः अग्ने' ते तव प्रप्रेत् प्रकर्षेणैव वनुषः संभक्तारः स्याम । यद्वा । प्रीणयित्वा प्रप्रेत् स्याम । प्रकृष्टा एव भवेम ॥ ॥ १९ ॥
“Sage Agni, the mortal (who propitiates you) becomes a moon in heaven, the most eminent of the great (deities); may we, therefore, ever be in an especial manner your worshippers.”
Splendid, O Singer, is that man, mightiest of the great in heaven.
Agni, may we be foremost, we thy worshippers.
The mortal (who worships thee?), O priest, is brilliant, great, most powerful in heaven. May we, O Agni, addicted to thee, be always foremost.
O inspired one, (I) a mortal (call myself) the luminous one, great, the proudest in heaven.
Zealous for you, o Agni, might we become more and more preeminent.
Der Mensch, o weiser, ist voll Glanz, ist gross, im Himmel riesenstark, Der dich verehrt, wir wollen dir die treusten sein.
Der Sterbliche ist glänzend, o Redegewaltiger, groß, der Höchste im Himmel. Wir möchten als deine eifrigen Verehrer allen voran sein, Agni.
(А) этот смертный, о вдохновенный (Агни), блистателен,
Велик, могущественнее всех на небе.
Да будем мы, твои приверженцы, только впереди!