मि॒त्रं न यं शिम्या॒ गोषु॑ ग॒व्यव॑: स्वा॒ध्यो॑ वि॒दथे॑ अ॒प्सु जीज॑नन् । अरे॑जेतां॒ रोद॑सी॒ पाज॑सा गि॒रा प्रति॑ प्रि॒यं य॑ज॒तं ज॒नुषा॒मव॑: ॥
मि॒त्रम् । न । यम् । शिम्या॑ । गोषु॑ । ग॒व्यवः॑ । सु॒ऽआ॒ध्यः॑ । वि॒दथे॑ । अ॒प्ऽसु । जीज॑नन् । अरे॑जेताम् । रोद॑सी॒ इति॑ । पाज॑सा । गि॒रा । प्रति॑ । प्रि॒यम् । य॒ज॒तम् । ज॒नुषा॑म् । अवः॑ ॥
यम् अग्निं शिम्या । कर्मनामैतत्, ‘शिमी शक्तिः' (नि. २.१.२४) इति तन्नामसूक्तत्वात् । प्रकाशवृष्ट्युत्पादनादिकर्मणा मित्रं न मित्रमिव स्थितम् । यद्वा । शिम्या इत्येतत् क्रियया सह संबध्यते । गोषु बह्वीषु निमित्तभूतासु गव्यवः गा आत्मन इच्छन्तः । अत्र यद्यपि गव्यवः इत्येवालं न गोष्विति, तथापि गव्यव इत्यत्र गोस्वामित्वं प्रतिपाद्यते। तच्चैकया द्वित्राभिरपि स्यात् । अतः स्पृहणीया बह्वय इत्यवगमयितुं गोष्विति पदम् । यथा ‘गवामसि गोपतिः' (ऋ. सं. ७, ९८.६ ), गणानां त्वा गणपतिम् ' (ऋ. सं. २.२३.१ )। तथा स्वाध्यः सुष्ठु अध्यातारः फलस्योत्पादयितारः शोभनध्वाना वा विदथे यागे अप्सु अन्तरिक्षे वैद्युतरूपेण वर्तमानम् । आप इत्यन्तरिक्षनाम, आपः पृथिवी ' (नि. १. ३.८) इति तन्नामसूक्तत्वात्। अग्नेरन्तरिक्षोत्पत्तिः यदग्ने दिविजा अस्यप्सुजा वा' (ऋ. सं. ८.४३. २८), ‘ अप्स्वग्ने सधिष्टव' (ऋ. सं. ८. ४३. ९) इत्यादिमन्त्रान्तरेषु प्रसिद्धा। प्रियं सर्वेषां प्रियतमं प्रीणयितारं वा यजतं यष्टव्यमग्निं जनुषां जन्मवतां प्राणिनाम् अवः प्रति रक्षणं निमित्तीकृत्य शिम्या मथनादिकर्मणा जीजनन् जनयन्ति यजमानाः । यद्वा । अप्सु निमित्तभूतासु जीजनन् सर्वप्राणिनामुपकाराय वृष्ट्यर्थं चेत्यर्थः । एवमुत्पन्नस्याग्नेः पाजसा बलेन गिरा भयंकरशब्देन च रोदसी द्यावापृथिव्यौ अरेजेताम् अकम्पेताम् । अग्नेः सकाशात् कम्पनम् ‘ अरेजेतां रोदसी होतृवूर्ये' (ऋ. सं. १. ३१.३ ) इत्यादिश्रुतिषु प्रसिद्धम् । न च सर्वरक्षणार्थम् उत्पादितोऽग्निः लोकद्वयस्य भीतिमजनयत् किमेतदिति वाच्यं निन्दास्तुतित्वात् । यथा लोकौ बिभीतस्तथा प्रवृद्धोऽभवत् इति स्तुतौ पर्यवसानात् । यद्यप्यत्राग्निरेव प्रतिपाद्यते मित्रस्तु परं दृष्टान्तित एव तथापि द्युस्थानस्याग्नेरेव मित्रत्वात् मन्त्रस्य मैत्रत्वमविरुद्धम् । यद्वा । मित्रं न सखायमिव स्थितं मित्रनामकं देवं यज्ञेऽन्तरिक्षे च ऋत्विजः प्रादुर्भावयन्ति । शिष्टम् एतद्विशेषेण तथैव योजनीयम् ॥
“Heaven and earth have been terrified by the strength and the noise (of him), whom pious worshippers, desirous of acquiring cattle, have genitive rated by their (sacred) acts, amidst the waters (of the firmament), at the sacrifice, as a friend for the preservation of living beings, the benefactor (of man), and entitled to adoration.”
HEAVEN and earth trembled at the might and voice of him, whom, loved and Holy One, helper of all mankind,
The wise who longed for spoil in fight for kine brought forth with power, a Friend, mid waters, at the sacrifice.
Whom [=Agni] like an ally [/Mitra] those very attentive ones, seeking cattle, begot with energy at the ceremony amid the cows and the
waters—
the two world-halves trembled by reason of his dimensions and his song, in confronting him, the dear help of (all) the races, worthy of the
sacrifice.
Den durch ihr Werk wie einen Freund die eifrigen beim Fest nach Kühen strebend zeugten in der Luft, Vor seinem Glanz und Rauschen bebt das Weltenpaar, des lieben, heil'gen, der der Wesen Schützer ist.
Den wie einen Freund die Rinderbegehrenden mit Eifer im Kampf um die Rinder, in guter Absicht unter weiser Rede im Wasser erzeugten - es erbebten beide Welten über seine Erscheinung, seine Stimme; sie kamen dem lieben, opferwürdigen Hort der Geschöpfe freundlich entgegen.
Кого, как друга, (люди,) ищущие коров (в битвах) за коров,
Доброжелательные, породили с усердием на месте жертвенной раздачи, в водах, –
Два мира сотряслись от (его) стати, от (его) голоса,
(Когда они вышли) навстречу любимому, достойному жертв, прибежищу существ.
यद्ध॒ त्यद्वां॑ पुरुमी॒ळ्हस्य॑ सो॒मिन॒: प्र मि॒त्रासो॒ न द॑धि॒रे स्वा॒भुव॑: । अध॒ क्रतुं॑ विदतं गा॒तुमर्च॑त उ॒त श्रु॑तं वृषणा प॒स्त्या॑वतः ॥
यत् । ह॒ । त्यत् । वा॒म् । पु॒रु॒ऽमी॒ळ्हस्य॑ । सो॒मिनः॑ । प्र । मि॒त्रासः॑ । न । द॒धि॒रे । सु॒ऽआ॒भुवः॑ । अध॑ । क्रतु॑म् । वि॒द॒त॒म् । गा॒तुम् । अर्च॑ते । उ॒त । श्रु॒त॒म् । वृ॒ष॒णा॒ । प॒स्त्य॑ऽवतः ॥
हे मित्रावरुणौ यत् यस्मात् कारणात् वां युवां पुरुमीळ्हस्य बहुलाभीष्टसेचनस्य सोमिनः स्वाभुवः सोमवतः स्वाभवनशीलस्य ॥ कर्मणि षष्ठी ॥ त्यत् उक्तलक्षणं कर्म प्र मित्रासो न मित्राणीव मित्रभूता ऋत्विजः प्र दधिरे प्रकर्षेण धारयन्ति । ह इति पूरणः । अध अतः कारणात् गातुं युष्मद्गमनम् अर्चते ॥ षष्य््र्थे चतुर्थी ॥ अर्चतः पूजयतो यजमानस्य क्रतुं कर्म विदतं जानीतम् ॥ विदेर्लोटि व्यत्ययेन शः ॥ उत अपि च हे वृषणा कामानां वर्षितारौ युवां पस्त्यावतः । पस्त्या इति गृहनाम, पस्त्या दुरोणे' (नि. ३. ४. ६) इति तन्नामसूक्तत्वात् । सदःप्राचीनवंशादिगृहवतो यजमानस्याह्वानं स्तोत्रं वा श्रुतं शृणुतम् ॥ छान्दसो विकरणस्य लुक् ॥ यद्वा । यद्यस्मात् सोमिनः सोमवतः पुरुमीळ्हस्यैतन्नामकस्य राज्ञो मित्रासो न मित्राणीव स्थिताः स्वाभुवः स्वाभवनशीलाः स्वस्वव्यापारसमर्था दधिरे अध अतः कारणात् तस्य अर्चते अर्चतः क्रतुं विदतमित्यादि पूर्ववत् ॥
“Since they, (the priests), like friends, have prepared for you both, (Mitra and Varuṇa a libation) of the abundantly-flowing and spontaneous Soma, therefore do you consent to come to the rite of the worshipper, and listen, showerers (of blessings), to the (prayers of the) householdeṛ ”
As these, like friends, have done this work for you, these prompt servants of Purumilha Soma-offerer,
Give mental power to him who sings the sacred song, and hearken, Strong Ones, to the master of the house.
Just now when the associates of Purumīḍha the soma-offerer, like allies [/Mitras], have brought you two forward,
now find the will and the way for the one who chants, and listen to the possessor of the dwelling place, you two bulls.
Wenn diesen Trunk des Purumidha Diener hier, des Somabringers, euch als Freunde vorgesetzt, So gebt Gesang dem Dichter und Begeisterung, und hört auf den, o Helden, der im Hause weilt.
Da euch beiden jetzt die guten Gehilfen des somafeiernden Purumilha wie Freunde den Vorzug bei dem Opfer gegeben haben, so findet Rat und Weg für den Preisenden und erhöret, ihr Bullen, den Ruf des Hausherrn!
Ведь так как вам двоим помощники Пурумидхи,
Готовящего сому, как друзья создали преимущества,
Найдите совет, выход для воспевающего (вас)
И услышьте, о два быка, (песню) хозяина жилища!
आ वां॑ भूषन्क्षि॒तयो॒ जन्म॒ रोद॑स्योः प्र॒वाच्यं॑ वृषणा॒ दक्ष॑से म॒हे । यदी॑मृ॒ताय॒ भर॑थो॒ यदर्व॑ते॒ प्र होत्र॑या॒ शिम्या॑ वीथो अध्व॒रम् ॥
आ । वा॒म् । भू॒ष॒न् । क्षि॒तयः॑ । जन्म॑ । रोद॑स्योः । प्र॒ऽवाच्य॑म् । वृ॒ष॒णा॒ । दक्ष॑से । म॒हे । यत् । ई॒म् । ऋ॒ताय॑ । भर॑थः । यत् । अर्व॑ते । प्र । होत्र॑या । शिम्या॑ । वी॒थः॒ । अ॒ध्व॒रम् ॥
हे वृषणा कामानां वर्षितारौ हे मित्रावरुणौ वां युवयोः संबन्धि जन्म जननम् उत्पत्तिम् रोदस्योः द्यावापृथिव्योः सकाशात् । द्यावापृथिवीभ्यामेव सर्वेषामुत्पत्तेः । यद्वा । मित्र इति सर्वोपकारी अग्निरुच्यते वरुण इति तमोनिवारक आदित्यः उभयोः पृथिवीद्युस्थानत्वात् । ततः पूर्वमन्त्रे मित्रदृष्टान्तत्वेन अग्निः स्तुतः । अत इदमधिगम्यते अग्निरेव मित्र इति । तथान्यत्रापि । ‘अग्निं मित्रं न क्षितिषु प्रशंस्यम्' (ऋ. सं. २. २. ३ ), ‘मित्रं न ये सुधितं भृगवो दधुः' (ऋ. सं. ६. १५. २) इति च । प्रवाच्यं स्तुत्यं तादृग्युवयोः जन्म महे महते दक्षसे सर्वविषयबलाय क्षितयः मनुष्या यजमानाः आ भूषन् सर्वतोऽलंकुर्वन्ति श्लाघन्ते इत्यर्थः । जन्मनः प्रवाच्यत्वमाह। यदीं यस्मादेव कारणात् । अथवा। ईम् इत्यनर्थकः । मिताक्षरेष्वनर्थकाः कमीमिद्विति' इत्युक्तत्वात् । ऋताय यज्ञाय भरथः सामर्थ्यम् । यत् यस्माच्च कारणात् अर्वते युष्मान् प्राप्तवते यजमानाय च भरथोऽभिमतं फलम् । अथवा । उभयत्र कर्मणः संप्रदानत्वात् चतुर्थी। यज्ञं यजमानं च भरथ इत्यर्थः । यस्माच्च होत्रया स्तुतिरूपया वाचा शिम्या हविष्प्रदानादिकर्मणा च प्र वीथः प्रकर्षेण प्राप्नुथः । तस्मात् प्रवाच्यं जन्म भूषयन्तीत्यर्थः । होत्रा इति वाङ्नाम, ‘होत्रा गीः ' ( नि. १. ११. ३५) इति तन्नामसु पाठात् ॥
“For the sake (of obtaining) great vigour, showerers (of benefits), men glorify your birth from heaven and earth, which is to be extolled, inasmuch as you bestow (his desires) upon the worshipper (as the reward) of his sacrifice, and accept the rite (that is solemnized) with praise and oblation.”
The folk have glorified your birth from Earth and Heaven, to be extolled, ye Strong Ones, for your mighty power.
Ye, when ye bring to singer and the rite, enjoy the sacrifice performed with holy praise and strength.
The settlements attended upon (his) birth, which was worthy to be proclaimed in the two world-halves, for the sake of your great skill,
o bulls.
When you bring it [=skill] for truth, when for the steed [=Agni?], with the oblation you energetically pursue the rite.
Euch Helden beide rüsteten zu grosser Kraft der beiden Welten preisenswerthe Stämme aus; Was ihr dem Priester und was ihr dem Sänger bringt, durch frommes Werk und Ruf belebt das Opfer ihr.
Die Menschenvölker feiern euer beider Geburt, die preisenswerte, die beiden Welten zu großem Erfolg gereicht, ihr Bullen, da ihr ihn dem Gesetz und dem Rennpferd bringt. Durch die Spende und den eifrigen Dienst bekommt ihr Lust zum Opfer.
Пусть празднуют народы ваше рожденье, о два быка,
Достойное провозглашения среди двух миров на великую пользу,
Потому что обряду вы приносите (награду), потому что - коню (на скачках).
Благодаря жертвенному возлиянию (и) труду вы продвигаете вперед жертвоприношение.
प्र सा क्षि॒तिर॑सुर॒ या महि॑ प्रि॒य ऋता॑वानावृ॒तमा घो॑षथो बृ॒हत् । यु॒वं दि॒वो बृ॑ह॒तो दक्ष॑मा॒भुवं॒ गां न धु॒र्युप॑ युञ्जाथे अ॒पः ॥
प्र । सा । क्षि॒तिः । अ॒सु॒र॒ । या । महि॑ । प्रि॒या । ऋत॑ऽवानौ । ऋ॒तम् । आ । घो॒ष॒थः॒ । बृ॒हत् । यु॒वम् । दि॒वः । बृ॒ह॒तः॒ । दक्ष॑म् । आ॒ऽभुव॑म् । गाम् । न । धु॒रि । उप॑ । यु॒ञ्जा॒थे॒ इति॑ । अ॒पः ॥
हे असुरा असुरौ बलवन्तौ मित्रावरुणौ युवयोः या क्षितिः देवयजनरूपा महि महदत्यधिकं प्रिया प्रियतरा प्रीणयित्री वा सा क्षितिः प्र प्रकर्षेण संपादिता । उपसर्गश्रुतेः योग्यक्रियाध्याहारः। तामासीदतमिति शेषः । यागभूमिर्देवानां प्रियेति प्रसिद्धम् । आसाद्य च हे ऋतावानौ ऋतवन्तौ युवां बृहत् प्रवृद्धम् ऋतम् अस्मदीयं यज्ञम् आ घोषथः अवैकल्येन संपादितः इति स्तुतमित्यर्थः । यतः युवं युवां बृहतः महतः दिवः द्युलोकस्य धुरि दक्षं तर्पणवहने समर्थम् । अथवा बृहतो दिवो महतो द्युलोकस्थदेवान् दक्षं प्रीणयितुमिति शेषः । यद्वा । कर्मणि षष्ठी । दिवो द्योतनात्मकं बृहतः प्रभूतं दक्षम् अभिमतसाधनसमर्थम् । आभुवं सर्वतो भवनशीलम् अपः कर्म सोमयागरूपम् उप युञ्जाथे सेवेथे तत्रत्यं हविः स्वीकुरुथ इत्यर्थः । उपयोगे दृष्टान्तः । धुरि शारीरबलस्य निर्वाहे तदर्थं गां न धेनुमिव । तां यथोपयुञ्जते तद्वत् । यद्वा । विकारे प्रकृतिशब्दः । क्षीरादिकमिव । तस्मात् ऋतम् आघोषथः॥
“Powerful divinities, most acceptable to you both is that spot, (where you are worshipped); accepters of sacrifice, proclaim the great ceremony (as duly performed); for you two connect the efficacious and comprehensive rise with the vast heaven, like a cow with a burden.”
The people prospers, Asuras! whom ye dearly love: ye, Righteous Ones, proclaim aloud the Holy Law.
That efficacious power that comes from lofty heaven, ye bind unto the work, as to the pole an ox.
It is the settlement greatly dear (to you) that (gets) ahead, o lord(s)—o truthful ones, you two loudly sound your lofty truth—
You (hitch up) your skill from lofty heaven (to be) ready at hand; you hitch up the waters like an ox to a yoke-pole.
Der Stamm gedeiht, der sehr beliebt euch beiden ist; ihr heil'gen Götter kündet laut das heil'ge Recht; Ihr schirrt des hohen Himmels hülfereiche Kraft und Arbeit an, wie man ans Joch die Rinder schirrt.
Das Volk hat den Vorzug, das euch, ihr Asura´s, sehr lieb ist. Ihr Gesetzestreuen verkündet das hohe Gesetz. Ihr spannet des hohen Himmels hilfsbereite Kraft, ihr spannet die Wasser an wie das Rind an das Joch.
Тот народ (идет) впереди, о два Асуры, кто (вам) очень дорог.
О два бога, связанных с законом, вы провозглашаете высокий закон.
Вы запрягаете силу действия, имеющуюся у высокого неба,
Работу, (связанную с обрядом), словно быка – в дышло.
म॒ही अत्र॑ महि॒ना वार॑मृण्वथोऽरे॒णव॒स्तुज॒ आ सद्म॑न्धे॒नव॑: । स्वर॑न्ति॒ ता उ॑प॒रता॑ति॒ सूर्य॒मा नि॒म्रुच॑ उ॒षस॑स्तक्व॒वीरि॑व ॥
म॒ही । अत्र॑ । म॒हि॒ना । वार॑म् । ऋ॒ण्व॒थः॒ । अ॒रे॒णवः॑ । तुजः॑ । आ । सद्म॑न् । धे॒नवः॑ । स्वर॑न्ति । ताः । उ॒प॒रऽता॑ति । सूर्य॑म् । आ । नि॒ऽम्रुचः॑ । उ॒षसः॑ । त॒क्व॒वीःऽइ॑व ॥
हे मित्रावरुणौ युवां मही महत्याम् ॥ सप्तम्येकवचने पूर्वसवर्णदीर्घः । ‘ईदूतौ च सप्तम्यर्थे । (पा. सू. १. १. १९) इति प्रगृह्यता ॥ अत्र अस्यां पृथिव्यां महिना महत्त्वेन या धेनूः वारं वरणीयं प्रदेशम् ऋण्वथः गमयथः । अन्तर्भावितण्यर्थोऽयम् । गमनादिव्यवहारस्य तयोरधीनत्वात् द्यावापृथिव्योः अभिमानिदेवत्वाच्च मित्रावरुणयोः । ता एताः धेनवः गावः सायंकाले युष्मन्महत्त्वेन अरेणवः अनवद्याः तस्कराद्यनपहारेण अनष्टा वा तुजः क्षीराणां प्रदात्र्यः ॥ तुजतिः दानकर्मा ॥ सद्मन सद्मनि गोष्ठे आ आश्रिता आगच्छन्ति वा ॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः॥ ताः एवंकारिता धेनवः उपरताति उपरतातौ ॥ सप्तम्या लुक् । मेघानां विस्तारवति अन्तरिक्षे मेघाच्छन्ने सति सूर्यं सर्वस्य प्रसवितारं सुवीर्यं शोभनसामर्थ्यं वा । ‘सुवीर्यो मर्या यथा गोपायत इति तत्सूर्यस्य सूर्यत्वम् (तै. ब्रा. २. २. १०) इति श्रुत्यन्तरात् । आदित्यमभिलक्ष्य स्वरन्ति शब्दयन्ति सुखसंचाराय ॥ ‘ स्वृ शब्दोपतापयोः '। भौवादिकः ॥ कस्मिन् काले इति तदुच्यते । निम्रुचः उषसः । सर्वेष्वपि सायंकालेषु उषःकालेषु च । तत्र दृष्टान्तः । तक्ववीरिव । तक्वा स्तेनः । तस्य वेता गन्ता मनुष्यः । स यथा क्रोशति तद्वत् । एवं निरुद्धानां गवां सुखचारः युष्मदायत्तः इति तयोः स्तुतिः ॥ ॥ २० ॥
“You bring (the cattle) to their acceptable (pasture) upon earth, whence the milk-yielding cows, protected by your power, return unharmed to their stalls; they cry to the sun (in heaven) above, both at evening and at dawn, as one (cries aloud) who detects a thief.”
On this great earth ye send your treasure down with might: unstained by dust, the crowding kine are in the stalls.
Here in the neighbourhood they cry unto the Sun at morning and at evening, like swift birds of prey.
(Like) the two great (world-halves) in their greatness you two propel the desirable reward here. The milk-cows, pushing and shoving (though) not raising dust, are at the (ritual) seat.
They cry out to the sun at its zenith (and) up to its setting (and) through the dawns, like a bird (screeching) in swooping pursuit.
Auf diese Erde sendet Gut in Fülle ihr; staublose, tücht'ge Kühe stehen in dem Stall; Das Sonnenlicht umrauschen in der Nähe sie vom Morgen bis zum Abend schnellen Falken gleich.
Hier auf Erden erfüllet ihr durch eure Macht den Wunsch: Staublose, ungeduldige Milchkühe sind in eurem Wohnsitz. Diese brüllen hinter der Sonne her bis zum Abend, bis zum Morgen wie der Verfolger eines Räubers.
Здесь, на земле, (своим) величием вы исполняете желание (людей):
Лишенные пыли, нетерпеливые дойные коровы (находятся) в сиденьи (закона).
Они шумят, когда солнце в зените,
На закате, на заре, словно преследователь воров.
आ वा॑मृ॒ताय॑ के॒शिनी॑रनूषत॒ मित्र॒ यत्र॒ वरु॑ण गा॒तुमर्च॑थः । अव॒ त्मना॑ सृ॒जतं॒ पिन्व॑तं॒ धियो॑ यु॒वं विप्र॑स्य॒ मन्म॑नामिरज्यथः ॥
आ । वा॒म् । ऋ॒ताय॑ । के॒शिनीः॑ । अ॒नू॒ष॒त॒ । मित्र॑ । यत्र॑ । वरु॑ण । गा॒तुम् । अर्च॑थः । अव॑ । त्मना॑ । सृ॒जत॑म् । पिन्व॑तम् । धियः॑ । यु॒वम् । विप्र॑स्य । मन्म॑नाम् । इ॒र॒ज्य॒थः॒ ॥
हे मित्रावरुणौ केशिनीः केशवत्योऽग्नेर्ज्वाला: वां युवाम् ऋताय यज्ञार्थम् आ अनूषत । हविःसमर्पणेनाभिपूजयन्तीत्यर्थः । कुत्रेति तदुच्यते । हे मित्र हे वरुण युवामुभौ यत्र यागे गातुं गमनं देवयजनदेशं वा । गातुरिति पृथिवीनाम, गातुः पूषा ' (नि. १. १. २०) इत्युक्तत्वात् ॥ अर्चथः पूजयथः स्वीकुरुथ इत्यर्थः । आगत्य च त्मना आत्मनैव अव सृजतं वृष्टिम् अवाङ्मुखं विसृजतम् । तथा कृत्वा धियः अस्मदीयानि कर्माणि पिन्वतं वर्धयतम् इत्यर्थः । एवं कृत्वा विप्रस्य मेधाविनः यजमानस्य मन्मनां मननवतीनां स्तुतीनां युवं युवाम् इरज्यथः ईश्वरौ स्वामिनौ भवथः । इरज्यतिरैश्वर्यकर्मा, “ इरज्यति पत्यते ' ( नि. २. २१. १ ) इति तन्नामसु उक्तत्वात् ॥
“The tresses of Agni minister, Mitra and Varuṇa, to your sacrifice, when you honour (with your presence) the sacrificial chamber; send down of your own accord (the rain), and prosper our offerings, for you have command over the praise of the pious men.”
The flames with curling tresses serve your sacrifice, whereto ye sing the song, Mitra and Varuna.
Send down of your free will, prosper our holy songs: ye are sole Masters of the singer's hymn of praise.
The long-haired females [=flames] have bellowed to you for truth, where [=ritual seat] you are chanting the way, o Mitra, o Varuṇa.
Send (them) surging down by yourselves; swell our insights: you two have control over the thoughts of the inspired poet.
Zu eurem Opfer haben, Mitra-Varuna, gerauscht die lock'gen Flammen, wo eur Lied ertönt; Gesänge giesset selbst herab und segnet sie; ihr gebt die Richtung dem Gebet des Preisenden.
Die Langhaarigen schrieen eurem Gesetz zu, während ihr, Mitra und Varuna, den Weg vorsinget. Entbindet selbst, befruchtet die Gedanken! Ihr leitet das Dichten des Redekundigen.
Волосатые (жены) криками приветствовали закон,
Когда вы, о Митра, о Варуна, воспеваете путь (жертвы к богам).
Сами выпустите на волю, сделайте набухшими поэтические мысли!
Вы двое управляете мыслями вдохновенного.
यो वां॑ य॒ज्ञैः श॑शमा॒नो ह॒ दाश॑ति क॒विर्होता॒ यज॑ति मन्म॒साध॑नः । उपाह॒ तं गच्छ॑थो वी॒थो अ॑ध्व॒रमच्छा॒ गिर॑: सुम॒तिं ग॑न्तमस्म॒यू ॥
यः । वा॒म् । य॒ज्ञैः । श॒श॒मा॒नः । ह॒ । दाश॑ति । क॒विः । होता॑ । यज॑ति । म॒न्म॒ऽसाध॑नः । उप॑ । अह॑ । तम् । गच्छ॑थः । वी॒थः । अ॒ध्व॒रम् । अच्छ॑ । गिरः॑ । सु॒ऽम॒तिम् । ग॒न्त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥
यः ह यः खलु यजमानः वां युवामुद्दिश्य युवाभ्यां वा यज्ञैः यागैर्निमित्तभूतैः शशमानः शंसमानः दाशति हविरादिकं स्वस्वत्वं निवर्त्य युष्मत्स्वत्वापादनं करोति । य एव कविः अनूचानः ‘ येऽनूचानास्ते कवयः' (ऐ. ब्रा. २.२) इति श्रुतेः । अथवा कविर्मेधावी होता सम्यग्होमनिष्पादको यजमानः मन्मसाधनः मननीयद्रव्यदक्षिणादिसाधनोपेतः सन् यजति सोमयागादिकं करोति । तम् एव यजमानं °सुमतिं शोभनप्रज्ञम् उप उपलक्ष्य गच्छथः प्राप्नुथः खलु। अध्वरं तदीयं यज्ञं वीथः कामयेथे। किंच अस्मयू अस्मान् कामयमानौ युवां गिरः स्तुतीः अच्छ अभिलक्ष्य गन्तं गच्छतम् । तादृशं मां प्राप्य स्तुतीः स्वीकुरुतमित्यर्थः । अत्र यद्यपि तम् इति सामान्यनिर्देशः प्रतिभाति तथापि अस्मयू इत्युक्तत्वात् दीर्घतमाः स्वात्मानमेव परोक्षतया उक्तवानिति गम्यते । यद्वा । यो दाशति यश्च यजते तमुपेत्य तदीयं यज्ञं कामयेथे । अतोऽस्मयू युवां सुमतिं मां मदीया गिरः स्तुती: अच्छ अभिलक्ष्य गच्छतम् ॥
“Come to the devout (worshipper), who, glorifying you, and providing (all that is) acceptable, presents you with oblations; (to him), the sage, the invoker, who offers you worship; accept his sacrifice; favourably disposed towards us, (accept) our praises.”
Whoso with sacrifices toiling brings you gifts, and worships, sage and priest, fulfilling your desire,--
To him do ye draw nigh and taste his sacrifice. Come well-inclined to us unto our songs and prayer.
(The man) who as he labors piously serves you with sacrifices, the poet and Hotar who performs the sacrifice, bringing his thoughts to
success—
it’s him that you come near; you pursue his rite. Seeking us, come here to our songs and our good thinking.
Wer euch durch Opfer eifrig wirkend huldiget, als weiser Priester euch verehrt, Gebete spricht, Zu dem erscheint ihr und geniesst den Opfertrank; kommt holdgesinnt zu unserm Liede und Gebet.
Wer euch mit Opfer dient und spendet, als weiser Hotri opfert und das Gedicht richtig durchführt, den suchet ihr auf und bekommt Lust zu seinem Opfer. Kommet zu unserer Lobrede, zu der Huldigung uns zugetan!
Кто вас двоих, стараясь, почитает жертвами,
Приносит жертвы как поэт, хотар, приводящий молитву к цели,
Того вы посещаете (и) вкушаете (его) приношение!
Преданные нам, придите на наши песни, на (нашу) благочистивую молитву!
यु॒वां य॒ज्ञैः प्र॑थ॒मा गोभि॑रञ्जत॒ ऋता॑वाना॒ मन॑सो॒ न प्रयु॑क्तिषु । भर॑न्ति वां॒ मन्म॑ना सं॒यता॒ गिरोऽदृ॑प्यता॒ मन॑सा रे॒वदा॑शाथे ॥
यु॒वाम् । य॒ज्ञैः । प्र॒थ॒मा । गोभिः॑ । अ॒ञ्ज॒ते॒ । ऋत॑ऽवाना । मन॑सः । न । प्रऽयु॑क्तिषु । भर॑न्ति । वा॒म् । मन्म॑ना । स॒म्ऽयता॑ । गिरः॑ । अदृ॑प्यता । मन॑सा । रे॒वत् । आ॒शा॒थे॒ इति॑ ॥
हे ऋतावाना यज्ञवन्तौ वृष्दट्युकवन्तौ वा मित्रावरुणौ युवां प्रथमा प्रथमौ यज्ञैः यजनसाधनैः गोभिः गोविकारैः पयआदिभिः अञ्जते व्यञ्जयन्ति यजमानाः । देवभागं यागेषु क्षीरादिभिः यजन्ते इत्यर्थः । यद्वा । गोभिः अञ्जते स्तुवन्ति तत्र दृष्टान्तः । प्रयुक्तिषु प्रयोगेषु मनसो न ॥ कर्मणि षष्ठी ॥ मन इव । तद्यथा प्रथमं व्यञ्जयन्ति मुख्यं कुर्वन्ति तत्पूर्वकत्वात् सर्वव्यवहारस्य । किंच वां युवां मन्मना मननवता संयता युवामेव सम्यग्गच्छता चित्तेन गिरः स्तुतीः भरन्ति संपादयन्ति । यस्मादेवं तस्मात् अदृप्यता अनभिभववता मनसा प्रकृष्टेन चेतसा युक्तौ सन्तौ रेवत् धनवत् कर्म अस्मदीयम् आशाथे अश्नुवाथे व्याप्नुथः ददाथे इत्यर्थः । अश्नोतेर्लिटि ‘ अनित्यभागमशासनम्' इति वचनात् इडभावः ॥
“Accepter of sacrifices, you are the first whom (worshippers) propitiate with offerings, the produce of the cow; like (the application) of the mind (in the first instrumental nce) to the results (of the senses); hymns (prompted) by thoughts wholly intent upon you, celebrate (your praise); do you, with humble minds, bestow upon us wealth.”
With sacrifices and with milk they deck you first, ye Righteous Ones, as if through stirrings of the mind.
To you they bring their hymns with their collected thought, while ye with earnest soul come to us gloriously.
They anoint you first with sacrifices and with cows. O truthful ones, as if at the yoking of mind
they bring you songs along with uninterrupted thought. With
undistracted mind you have attained rich (vigor).
Durch Opfer und durch Tränke schmücken euch zuerst die frommgesinnten, wie getrieben durch den Geist; Sie bringen euch mit stetem Sinnen Lieder dar, und reichlich kommt achtsamen Geistes ihr herbei.
Euch salben sie zuerst mit Opfern, mit den Gaben der Kuh, ihr Gesetzestreuen, wie auf eigenen Antrieb des Herzens. Sie bringen euch Lieder dar gesammelten Geistes. Mit besonnenem Sinn habt ihr reiche Kraft erlangt!
Они натирают вас двоих первыми – жертвами, дарами от коровы,
(Вас,) владеющих законом, словно для приведения в действие молитвы.
Они (приносят) вам двоим песни, (рожденные) сосредоточенной мыслью.
Благодаря неодолимому духу вы достигли огромной (силы).
रे॒वद्वयो॑ दधाथे रे॒वदा॑शाथे॒ नरा॑ मा॒याभि॑रि॒तऊ॑ति॒ माहि॑नम् । न वां॒ द्यावोऽह॑भि॒र्नोत सिन्ध॑वो॒ न दे॑व॒त्वं प॒णयो॒ नान॑शुर्म॒घम् ॥
रे॒वत् । वयः॑ । द॒धा॒थे॒ । रे॒वत् । आ॒शा॒थे॒ इति॑ । नरा॑ । मा॒याभिः॑ । इ॒तःऽऊ॑ति । माहि॑नम् । न । वा॒म् । द्यावः॑ । अह॑ऽभिः । न । उ॒त । सिन्ध॑वः । न । दे॒व॒ऽत्वम् । प॒णयः॑ । न । आ॒न॒शुः॒ । म॒घम् ॥
हे मित्रावरुणौ युवां रेवत् धनवत् वयः अन्नं दधाथे उभयं च धारयथः । यस्मादेवं तस्मात् रेवत् धनवत्। सहदृष्टत्वात् वयः इति गम्यते । धनविशिष्टमन्नं हे नरा नेतारौ युवाम् आशाथे अश्नुवाथे अस्मभ्यं ददाथे इत्यर्थः। कीदृशम्। मायाभिः युवयोः प्रज्ञाभिः इतऊति इतोऽस्मदभिमुखं गमनवत् इतो रक्षणवद्वा माहिनम् । महन्नामैतत् । अतिमहत्। ईदृशोर्युवयोः एतादृशं सामर्थ्यं कुत इस्यत आह। वां युवयोः देवत्वम् अहभिः अहोभिः रात्रिभिः । अत्र अहःशब्देन रात्रिरभिधीयते द्योशब्देन अहःपृथगभिधानात् । ताभिः सहिताः द्यावः दिवसाः न आनशुः न प्राप्नुवन्ति। अहश्च रात्रिश्चोभे न तरतः ‘ इत्यर्थः । उत अपि च सिन्धवः स्यन्दनशीला नद्यः न चैव आनशुः तथा युवयोः देवत्वं पणयः असुरा अपि न आनशुः । मघं धनं च न आनशिरे । लोकत्रये युवयोः पराभवितारो न केऽपि सन्तीत्यर्थः ॥ ॥ २१ ॥
“You distribute food, accompanied by riches; you bestow upon us, leaders (of sacrifice), wealth, ample, and defended by your wise provisions; the days with the nights have not attained your divinity; neither have the rivers, nor have the asuras, and they have not obtained (your) wealth.”
Rich strength of life is yours: ye, Heroes, have obtained through your surpassing powers rich far-extending might.
Not the past days conjoined with nights, not rivers, not the Panis have attained your Godhead and your wealth.
You have acquired rich vigor; you have attained it—rich, great, and enduring—with your magic arts. Through the days neither the heavens nor the rivers have attained your divinity, nor the Paṇis your bounty.
Ihr gebet und empfanget reichlich frische Kraft, durch Zaubermacht, o Männer, stete Herrlichkeit, Nicht haben Himmel, Tage, noch die Ströme, noch Dämonen eure Gottheit euren Reichthum je erreicht.
Ihr besitzet reiche Kraft, ihr habt reiche Kraft erlangt, ihr Herren, durch eure Zauberkräfte, sofort helfende, gewaltige. Nicht konnten die Tage mit den Tageszeiten, noch die Ströme es eurer Gottheit gleichtun, noch die Pani´s eurem Reichtum.
Вы владеете огромной силой, вы достигли огромной (силы),
О два мужа, с помощью способностей к чудесным превращениям - вечно юной, возбуждающей (силы).
Ни дни со светлыми половинами, ни реки
Не достигли вашей божественности, ни Пани – (вашего) богатства.